श्रीशारीरकमीमांसाभाष्ये अन्तरधिकरणम् ॥३॥
अधिकरणार्थः
अक्ष्याधारपुरुषत्वं परमात्मन एव, न जीवादेः
उपकोसलविद्या छा.उ.4-10
४५. अन्तर उपपत्तेः ॥ १-२-१३ ॥
विषयवाक्यप्रदर्शनम्
इदमामनन्ति च्छन्दोगाः य एषोऽक्षिणि पुरुषो दृश्यते। एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म (छा.४.१५.१) इति ॥
संशयस्वरूपम्
तत्र सन्देहः – किमयमक्ष्याधारतया निर्दिश्यमानः पुरुषः प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठाता निर्दिश्यमानः पुरुषः प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठाता देवताविशेषः, उत जीवात्मा, अथ परमात्मा इति ॥
सयुक्तिकः पूर्वपक्षः
किं युक्तम्? प्रतिबिम्बात्मेति। कुतः? प्रसिद्धवन्निर्देशात्; दृश्यते इत्यपरोक्षाभिधानाच्च। जीवात्मा वा, तस्यापि हि चक्षुषि विशेषेण सन्निधानात्प्रसिद्धिरुपपद्यते? उन्मीलितं हि चक्षुरुद्वीक्ष्य जीवात्मनश्शरीरे स्थितिगती निश्चिन्वन्ति। रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः (बृ.७.५.१) इति श्रुतिप्रसिद्ध्या चक्षुःप्रतिष्ठो देवताविशेषो वा; एष्वेव प्रसिद्धवन्निर्देशोपपत्तेरेषामन्यतमः –
सिद्धान्तः
इति प्राप्ते प्रचक्ष्महे – अन्तर उपपत्तेः – अक्ष्यन्तरः परमात्मा। कुतः? एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति एतं संयद्वाम इत्याचक्षते। एतं हि सर्वाणि वामान्यभिसंयन्ति एष उ एव वामनिः। एष हि सर्वाणि वामानि नयति। एष उ एव भामनिः। एष हि सर्वेषु लोकेषु भाति (छां.४.१५.३) इत्येषां गुणानां परमात्मन्येवोपपत्तेः ॥१३॥
परमात्मनः चक्षुष्यवस्थानं श्रुतिसिद्धम्
४६. स्थानादिव्यपदेशाच्च ॥ १-२-१४॥
चक्षुषि स्थितिनियमनादयः परमात्मन एव यश्चक्षुषि तिष्ठन् (बृ.५-७-१८) इत्येवमादौ व्यपदिश्यन्ते । अतश्च य एषोऽक्षणि पुरुषः (छा.४-१५-१) इति स एव प्रतीयते। अतः प्रसिद्धवन्निर्देशश्च परमात्मन्युपपद्यते। तत एव दृश्यते इति साक्षात्कारव्यपदेशोऽपि योगिभिर्दृश्यमानत्वादुपपपद्यते॥१४॥
प्रकरणप्रतिपादितं निरवधिकानन्दत्वं परमात्मन एव
४७. सुखविविशष्टाभिधानादेव च ॥ १-२-१५ ॥
इतश्चाक्ष्याधारः पुरुषोत्तमः कं ब्रह्म खं ब्रह्म (छा.४.१०.५) इति प्रकृतस्य सुखविशिष्टस्य ब्रह्मणः उपासनस्थानविधानार्थं संयद्वामत्वादिगुणविधानार्थं च य एषोऽक्षिणि पुरुषः (छा.४-१५-१) इत्यभिधानात्। एवकारो नैरपेक्ष्यं हेतोर्द्योतयति।
प्रकरणविच्छेदप्रदर्शनेन परमात्मपरत्वाभावशङ्का
नन्वग्निविद्याव्यवधानात् कं ब्रह्म (छा.४.१०.५) इति प्रकृतं ब्रह्म नेह सन्निधत्ते। तथा हि अग्नयः, प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इति ब्रह्मविद्यामुपदिश्य अथ हैनं गार्हापत्योऽनुशशास (छा.४.११.१) इत्यारभ्याग्नीनामुपासनमुपदिदिशुः। न चाग्निविद्या ब्रह्मविद्याङ्गमिति शक्यं वक्तुम्; ब्रह्मविद्याफलानन्तर्गत-तद्विरोधिसर्वायुः प्राप्तिसन्तत्यविच्छेदादिफलश्रवणात् ॥
प्रकरमविच्छेदसमर्थनेन परमात्मपरत्वनिर्णयः
उच्यते – प्राणो ब्रह्म (छा.४.१०.५) एतदमृतमभयमेतद् ब्रह्म (छां.४.१५.३) इत्युभयत्र ब्रह्मसंशब्दनात्। आचार्यस्तु ते गतिं वक्ता (छा.४.१४.१) इत्यग्निवचनाच्च गत्युपदेशात्पूर्वं ब्रह्मविद्याया असमाप्तेस्तन्मध्यगताग्निविद्या ब्रह्मविद्याङ्गमिति निश्चीयते, अथ हैनं गार्हापत्योऽनुशशास (छा.४.११.१) इति ब्रह्मविद्याधिकृतस्यैवाग्निविद्योपदेशाच्च। किञ्च व्याधिभिः प्रतिपूर्णोऽस्मि (छा.४.१०.३) इति ब्रह्मप्राप्तिव्यतिरिक्तनानाविधकामोपहतिपूर्वक-गर्भजन्मजरा-मरणादिभवभयोपतप्ताय उपकोसलाय एषा सोम्य तेऽस्मद्विद्याऽऽत्मविद्या च (छां.४.१४.१) इति समुच्चित्योपदेशान्मोक्षैकफलात्मविद्याङ्गत्वमग्निविद्यायाः प्रतीयते। एवं चाङ्गत्वेऽवगते सति फलानुकीर्तनमर्थवाद इति गम्यते ॥
अर्थवादोक्तफलस्य मोक्षाऽविरोधिता
न चात्र मोक्षविरोधिफलं किञ्चिच्छ्रूयते, अपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्ते उप वयन्तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च (छां.४.१३.२) इत्यमीषां फलानां मोक्षाधिकृतस्यानुगुणत्वात्। अपहते पापकृत्याम् – ब्रह्मप्राप्तिविरोधि पापं कर्मापहन्ति। लोकी भवति – तद्विरोधिनि पापे निरस्ते ब्रह्मलोकं प्राप्नोति। सर्वमायुरेति – व्याध्यादिभिरनुपहतो यावद्ब्रह्मप्राप्ति जीवति। नास्यावरपुरुषाः क्षीयन्ते – अस्य शिष्यप्रशिष्यादयः पुत्रपौत्रादयोऽपि ब्रह्मविद एव भवन्ति। नास्याब्रह्मवित्कुले भवति (मु.३.२.९) इति च श्रुत्यन्तरे ब्रह्मविद्याफलत्वेन श्रूयते। उप वयन्तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च – वयम् अग्नयस्तमेनमुपभुञ्जामः – यावद्ब्रह्मप्राप्ति विघ्नेभ्यः परिपालयाम इति।
उक्तार्थनिगमनम्
अतोऽग्निविद्याया ब्रह्मविद्याङ्गत्वेन तत्सिन्नधानाविरोधात्सुखविशिष्टं प्रकृतमेव ब्रह्मोपासनस्थानविधानार्थं गुणविधानार्थं चोच्यते।
ब्रह्मणः पुनरवक्तव्यत्वाक्षेपः
ननु आचार्यस्तु ते गतिं वक्ता (छा.४.५.१) इति गतिमात्रपरिशेषणादाचार्येण गतिरेवोपदेश्येति गम्यते; तत्कथं स्थानगुणविध्यर्थतोच्यते ।
पूर्वोक्तशङ्कापरिहारः
तदभिधीयते आचार्यस्तु ते गतिं वक्ता (छा.४.५.१) इत्यस्यायमभिप्रायः – ब्रह्मविद्यामनुपदिश्य प्रोषुषि गुरौ तदलाभादनाश्वासं उपकोसलमुज्जीवयितुं स्वपरिचरणप्रीता गार्हापत्यादयो गुरोरग्नयस्तस्मै ब्रह्मस्वरूपमात्रं तदङ्गभूतां चाग्निविद्यामुपदिश्य आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत् (छां.४.९.३) इति श्रुत्यर्थमालोच्य साधुतमत्वप्राप्त्यर्थमाचार्य एवास्य संयद्वामत्वादिगुणकं ब्रह्म तदुपासनस्थानमर्चिरादिकां च गतिमुपदिशत्विति मत्वा आचार्यस्तु ते गतिं वक्ता (छां.४.१४.१) इत्यवोचन्। गतिग्रहणमुपदेश्यविद्याशेषप्रदर्शनार्थम्। अत एवाचार्योऽपि अहं तु ते तद्वक्षामि यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते (छां.४.१४.३) इत्युपक्रम्य संयद्वामत्वादिकल्याणगुणविशिष्टं ब्रह्माक्षिस्थानोपास्यमर्चिरादिकां च गतिमुपदिदेश। अतः कं ब्रह्म खं ब्रह्म (छा.४.१०.५) इति सुखविशष्टस्य प्रकृतस्यैव ब्रह्मणोऽत्राभिधानात् अयमक्ष्याधारः परमात्मा॥१५॥
कं ब्रह्मेति वाक्यस्य ब्रह्मपरत्वाभावमाशङ्क्य, उत्तरसूत्रसङ्गतिः
ननु च कं ब्रह्म खं ब्रह्म (छां.४.१०.५) इति परं ब्रह्माभिहितमिति कथमवगम्यते, यस्येह अक्ष्याधारतयाऽभिधानं ब्रूषे; यावता कं ब्रह्म खं ब्रह्म (छां.४.१०.५) इति प्रसिद्धाकाशलौकिकसुखयोरेव ब्रह्मदृष्टिर्विधीयत इति प्रतिभाति, नाम ब्रह्म (छां.७.१.५), मनो ब्रह्म (छां.७.३.२) इत्यादिवचनसारूप्यात्। तत्राह –
४८. अत एव च स ब्रह्म॥ १-२-१६ ॥
यतस्तत्र यदेव कं तदेव खम् (छा.४.१०.५) इति सुखविशष्टस्याकाशस्याभिधानम्, अत एव स्वशब्दाभिधेयस्सः आकाशः परं ब्रह्म। एतदुक्तं भवति – अग्निभिः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म (छां.४.१०.५) इत्युक्ते उपकोसल उवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामि (छां.४.१०.५) इति॥
विजानाम्यहम् इति वाक्याभिप्रायविवरणम्
अस्यायमभिप्रायः – न तावत्प्राणादिप्रतीकोपासनमग्निभिरभिहितम्, जन्मजरामरणादि-भवभयभीतस्य मुमुक्षोर्ब्रह्मोपदेशाय प्रवृत्तत्वात्। अतो ब्रह्मैवोपास्यमुपदिष्टम्। तत्र प्रसिद्धैः प्राणादिभिस्समानाधिकरणं ब्रह्म निर्दिष्टम्; तेषु च प्राणविशिष्टत्वं जगद्विधरणयोगेन वा प्राणशरीरतया प्राणस्य नियन्तृत्वेन वा ब्रह्मण उपपद्यत इति विजानाम्यहं यत्प्राणो ब्रह्म (छा.४.१०.५) इत्युक्तवान्। तथा सुखाकाशयोरपि ब्रह्मणः शरीरतया तन्नियाम्यत्वेन विशेषणत्वम्; उतान्योन्यव्यवच्छेदकतया निरतिशयानन्दरूप-ब्रह्मस्वरूपसमर्पणपरत्वेन वा; तत्र पृथग्भूतयोश्शरीरतया विशेषणत्वे वैषयिकसुखभूताकाशयोर्नियामकत्वं ब्रह्मणस्स्यादिति स्वरूपावगतिर्न स्यात् अन्योन्यव्यवच्छेदकत्वेऽपरिच्छन्नानन्दैकस्वरूपत्वं ब्रह्मणस्स्यादित्यन्यतर-प्रकारनिर्दिधारयिषया कं च तु खं च न विजानामि (छा.४.१०.५) इत्युक्तवान्। उपकोसलस्येममाशयं जानन्तोऽग्नयः यद्वा व कं तदेव खं यदेव खं तदेव कम् (छा.४.१५.५) इत्यूचिरे। ब्रह्मणस्सुखरूपत्वमेवापरिच्छिन्नमित्यर्थः। अतः प्राणशरीरतया प्राणविशिष्टं यद्ब्रह्म, तदेवापरिच्छन्नसुखरूपं चेति निगमितम् – प्राणं च हास्मै तदाकाशं चोचुः (छां.४.१०.५) इति। अतः कं ब्रह्म खं ब्रह्म (छां.४.१०.५) इत्यत्रापरिच्छिन्नसुखं ब्रह्म प्रतिपादितमिति परं ब्रह्मैव तत्र प्रकृतम्, तदेव चात्राक्ष्याधारतयाऽभिधीयत इत्यक्ष्याधारः परमात्मा॥ १६॥
अक्षिपुरुषस्य परमात्मत्वे ज्ञापकान्तरम्
४९. श्रुतोपनिनषत्कगत्यभिधानाच्च ॥ १-२-१७ ॥
श्रुतोपनिषत्कस्य – अधिगतपरमपुरुषयाथात्म्यस्यानुसन्धेयतया श्रुत्यन्तरप्रतिपाद्यमाना अर्चिरादिका गतिर्या, तामपुनरावृत्तिलक्षणपरमपुरुषप्राप्तिकरीमुपकोसलायाक्षिपुरुषं श्रुतवते तेऽर्चिषमेवाभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षम् (छां ४.१५.५) इत्यारभ्य चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते (छां.४.१५.५) इत्यन्तेनोपदिशति। अतोऽप्ययमक्षिपुरुषः परमात्मा॥१७॥
व्यतिरेकोक्त्या जीवनिषेधः
५०. अनवस्थितेरसम्भवाच्च नेतरः ॥ १-२-१८ ॥
प्रतिबिम्बादीनामक्षिणि नियमेनानवस्थानादमृतत्वादीनां च निरुपाधिकानां तेष्वसम्भवान्न परमात्मन इतरः छायादिः अक्षिपुरुषो भवितुमर्हाति। प्रतिबिम्बस्य तावत्पुरुषान्तर-सन्निधानायत्तत्वान्न नियमेनावस्थानसम्भवः। जीवस्यापि सर्वेन्द्रियव्यापारानुगुणत्वाय सर्वेन्द्रियकन्दभूते स्थानविशेषे वृत्तिरिति चक्षुषि नावस्थानम्। देवतायाश्च रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः (छा.७.५.१०) इति रश्मिद्वारेणावस्थानवचनात् देशान्तरावस्थितस्यापि इन्द्रियाधिष्ठानोपपत्तेः न चक्षुष्यवस्थानम्। सर्वेषामेवैषां निरुपाधिकामृतत्वादयो न सम्भवन्त्येव। तस्मादक्षिपुरुषः परमात्मा ॥१८॥
इति श्रीशारीरकमीमांसाभाष्ये अन्तरधिकरणम्॥३॥