4.3.1 अर्चिराद्यधिकरणम्
शाखासु बहुविधत्वात् गतिश्रुतेरर्चिरादिनियमो न ।
तन्नैव नियमनं स्यात् सर्वत्रार्कादि चिह्नसंभवतः ॥ 29 ॥
4.3.2 वाय्वधिकरणम्
वायुश्च देवलोकः शब्दविभेदात् पृथग्भवतः ।
न स्यात् “योऽयं पवते स देवलोकः” इति तद्विशेषणतः ॥ 30 ॥
4.3.3 वरुणाधिकरणम्
श्रुतिभङ्गेऽप्यगतित्वात् पाठात् वायोः परे तु वरुणाद्याः ।
तन्नार्थवशाद्वरुणः तटितः स्यात् उपरि तदुपरीन्द्राद्याः ॥ 31 ॥
4.3.4 आतिवाहिकाधिकरणम्
उपदेशस्य तथात्वात् चिह्नानि त्वर्चिरादयः सरणेः ।
नैतत् गमयितृशब्दात् उपरि परेऽप्यातिवाहिका हि स्युः ॥ 32 ॥
4.3.5 कार्याधिकरणम्
चतुर्मुखमुपासितुः गतिरियं स हि प्राप्यते परस्य
परिपूर्णतः सततमेव संप्राप्तितः ।
न तत्परमुपासितुः श्रुतित एव तच्चाप्यसत् परं तदनुजीवमप्युभयतः
श्रुतेर्दर्शनात् ॥ 33 ॥
पादसङ्ग्रहः
॥अ-4,पा-3 पादसंग्रहः -1
अर्चिरादेस्तु नियमो वायोः स्वर्गस्य चैकता ।
तटितो वरुणप्राप्तिः आतिवाहिकता ततः ॥ 34 ॥
॥अ-4,पा-3 पादसंग्रहः -2
फलं जीवपरोपास्त्योः अर्चिरादिगतिस्त्वियम् ।
इति सर्वमनेनैव पादेन परिचिन्तितम् ॥ 35 ॥