०२

4.2.1 वागधिकरणम्

वाचो मनः कारणकत्वहानेः वृत्तेर्लयश्चेतसि नैव वाचः ।
तन्नैव तस्याश्च समानभावात् वाक्छब्दतः सङ्गतिमात्रतश्च ॥ 15 ॥

4.2.2 मनोधिकरणम्

प्राणोऽम्बु तेजः प्रकृतित्वयोगात् “आपोमयः प्राणः” इति श्रुतेश्च ।
न स्यादहङ्कारकृतं तु चित्तं प्राणो नभः कार्यमतः स एव ॥ 16 ॥

4.2.3 अध्यक्षाधिकरणम्

प्राणो भवेत् तेजसि योगभागी तथैव शब्दश्रवणात् इतीदम् ।
न स्यात्तु जीवोपगमादिशब्दात् प्राणस्य, तेजः श्रवणं तु पश्चात् ॥ 17 ॥

4.2.4 भूताधिकरणम्

तेजस्तु “तत्तेज” इति श्रुतत्वात् तन्मात्रमेवान्यवियुक्तरूपम् ।
न स्यात् तु भूतान्तरसंप्रविष्टं त्रिवृत्कृतत्व श्रवणादशक्तेः ॥ 18 ॥

4.2.5 आसृत्युपक्रमाधिकरणम्

एषा त्वविद्यस्य गतिर्भवित्री विद्यावतोऽत्रैव पराप्तिशब्दात् ।
नैतत् द्वयं स्यात् उभयोः समाना गतिः शरीरात् इतरोऽर्थवादः ॥ 19 ॥

4.2.6 परसंपत्त्यधिकरणम्

भोगाद्यभावेन निरर्थकत्वात् यथायथं स्युर्न तु देवतायाम् ।
संयन्ति तानीति न शंक्यमेतत् “तेजः परस्यां” इति चोदितत्वात् ॥ 20 ॥

4.2.7 अविभागाधिकरणम्

तेषां त्रयाणां तु परत्र पुंसि स्वकारणत्वात् प्रलयस्तु भावी ।
तन्नैव पूर्वैः स्फुटमेकवाक्यात् संश्लेषमात्रं तदबाधतश्च ॥ 21 ॥

4.2.8 तदोकोधिकरणम्

मूर्धाऽन्यनाडीभिरिति व्यवस्था न सौक्ष्म्यतः संभवशंसि वाक्यम् ।
तन्नैव विद्यामहिमातिरेकात् परप्रसत्तेश्च तथैव यानम् ॥ 22 ॥

4.2.9 रश्म्यनुसाराधिकरणम्

निशामृतौ रश्म्यनुसारवारणे नैव व्यवस्था किरणानुसारे ।
न तद्व्यवस्थैव भवेन्निशीथेऽप्यौष्ण्योपलब्धेः यदमी हि सन्ति ॥ 23 ॥

4.2.10 निशाधिकरणम्

दिवा मृतस्यैव परोपसत्तिः विगर्हितत्वान्मरणस्य रात्रौ ।
न स्यादिदं बन्धककर्महानात् विद्याबलात् तां वदति श्रुतिश्च ॥ 24 ॥

4.2.11 दक्षिणायनाधिकरणम्

मृतस्य मुक्तिर्न हि दक्षिणायने शशाङ्कसायुज्यं अमुष्य हि श्रुतम् ।
न तत्तु विद्या महिमातिरेकतः श्रुतिस्तु सा विश्रमभूमिगोचरा ॥ 25 ॥

पादसङ्ग्रहः

॥अ-4,पा-2 पादसंग्रहः -1

वाक् तु चेतसि तत् प्राणे तत् पुनर्जीवचेतसोः (तेजसोः) ।
तेजसश्चेतरश्लेषः तावन्मात्रस्य तुल्यता ॥ 26 ॥

॥अ-4,पा-2 पादसंग्रहः -2

तेषां परस्मिन् गमनं तस्य च श्लेषमात्रता ।
मूर्धन्यनाडीनियमो रश्मिनेति व्यवस्थितिः ॥ 27 ॥

॥अ-4,पा-2 पादसंग्रहः -3

निशायां चापि सन्मोक्षो मोक्षणं दक्षिणायने ।
इत्येतत् सर्वं एतेन पादेनात्र विचिन्तितम् ॥ 28 ॥

तृतीय पादः