०१

4.1.1 आवृत्त्यधिकरणम्

ज्ञानस्योपायत्वात् तस्य च सकृदेव कर्तुमर्हत्वात् ।
सकृदेव वेदनं स्यात् नैतदुपास्तित्वचोदनात् ज्ञप्तेः ॥ 1 ॥

4.1.2 आत्मत्वोपासनाधिकरणम्

स्वस्मात् विभेदेन परो ह्युपास्यः भेदस्य सर्वत्र समर्थितत्वात् ।
नैवाहमित्यात्मतया ह्युपास्यः “त्वं वे"ति शब्दाच्च तदात्मतश्च ॥ 2 ॥

4.1.3 प्रतीकाधिकरणम्

तथा प्रतीकेषु यथेतरेषु यस्मात् परोपासनताऽविशिष्टा ।
तन्नैव शंक्यं, परमात्मदृष्ट्या नामादिकानां समुपास्यभावात् ॥ 3 ॥

4.1.4 आदित्यादिमत्यधिकरणम्

उद्गीथदृष्टिस्तपने तु नीचे श्रेष्ठं हि कर्मैव फलप्रदत्वात् ।
तन्नैव तस्यापि फलप्रदत्वं तत्पूजनत्वादिति नान्यथा स्यात् ॥ 4 ॥

4.1.5 आसीनाधिकरणम्

आसीन इत्येव विशेषहानेः सर्वप्रवृत्तिष्वपि सा विधेया ।
स्यान्नैवमैकाग्र्यविशेषभावात् ध्यानश्रुतेश्चोपनिषेदुषः सा ॥ 5 ॥

4.1.6 आप्रयाणाधिकरणम्

शास्त्रार्थनिर्वृत्तित एव हेतोः कर्तव्यमेकत्र तु वासरे तत् ।
एतन्न संसिद्ध्यति “यावदायुः” इत्येव शब्दात् विधितश्च तस्य ॥ 6 ॥

4.1.7 तदधिगमाधिकरणम्

“नाभुक्तं” इत्येव तु संस्मृतत्वात् अश्लेषनाशौ न हि पातकानाम् ।
तस्याः फलित्वैकसमर्थनत्वात् “एवं विदी"ति श्रवणाच्च नैवम् ॥ 7 ॥

4.1.8 इतराधिकरणम्

अश्लेषनाशौ हितकर्मणां तु नैव प्रसक्तौ सुखलाभहेतोः ।
तन्नैव मोक्षप्रतिबन्धकत्वसाम्यान्मुमुक्षोः स्फुटतः प्रसक्तौ ॥ 8 ॥

4.1.9 अनारब्धकार्याधिकरणम्

सर्वस्य वैशेषिकशब्दहानेः अश्लेषनाशौ भवतो हि तस्य ।
नारब्धकार्यस्य हि नैव यस्मात् “यावन्न मोक्ष्ये"ति विशेषशब्दः ॥ 9 ॥

4.1.10 अग्निहोत्राद्यधिकरणम्

अश्लेषनाशश्रवणात् कृतानां अकार्यता स्वाश्रमकर्मणां च ।
नैतत्तु कार्यं खलु “यज्ञ"शब्दात् विद्यासमुत्पादनशक्तितश्च ॥ 10 ॥

4.1.11 इतरक्षपणाधिकरणम्

“यावन्न मोक्ष्ये"ति विशेषशब्दात् आरभ्यमाणस्य फलं च कर्म ।
तद्देहपातावधिकं न चैतत् तस्याः श्रुतेः तत्फलगोचरत्वात् ॥ 11 ॥

पादसङ्ग्रहः

॥अ-4,पा-1 पादसंग्रहः -1

असकृत् कार्यतोपास्तेः अहमित्यप्युपास्यता ।
प्रतीकेष्वन्यथोपास्तिः अङ्गेष्वर्कादिदृष्टयः ॥ 12 ॥

॥अ-4,पा-1 पादसंग्रहः -2

उपास्तेरासनाङ्गत्वं प्रत्यहं चाप्युपास्यता ।
अघस्याश्लेषनाशौ च पुण्यस्यापि तथा भवः ॥ 13 ॥

॥अ-4,पा-1 पादसंग्रहः -3

आरब्धस्य फलित्वं च कार्यताऽऽश्रमकर्मणाम् ।
कर्मावधित्वं बन्धस्य पादेनानेन साधितम् ॥ 14 ॥