3.4.1 पुरुषार्थाधिकरणम्
कर्माङ्गत्वात् कर्तृनिर्णायिकायाः विद्यायास्तत्कर्म दत्ते फलानि ।
नैतज्जीवाधीश निर्णायकत्वात् विद्या दत्ते कर्म चाङ्गं त्वमुष्याः ॥ 54 ॥
3.4.2 स्तुतिमात्राधिकरणम्
कर्माङ्गोद्गीथादिसंबन्धमात्रं दृष्टं यस्मात् तत्स्तुतित्वं रसादेः ।
नासान्निध्यात् तद्विधेयप्रकर्षात् अप्राप्तत्वाच्चात्र कल्प्यो
विधिः स्यात् ॥ 55 ॥
3.4.3 पारिप्लवाधिकरणम्
प्रतर्दनाद्यास्तु विशेषसंज्ञाः पारिप्लवार्था विनियोगहेतोः ।
विद्याविधार्थास्तु तदैकवाक्यात् मन्वादिसंज्ञा चरितार्थनाच्च ॥ 56 ॥
3.4.4 अग्नीन्धनाद्यधिकरणम्
विद्यास्तु यज्ञादितदङ्गहानेः प्रव्राजकानां न हि संभवन्ति ।
नैतत्, “यदिच्छन्त” इति श्रुतत्वात् अग्न्याद्यपेक्षारहितैव साऽस्ति ॥ 57 ॥
3.4.5 सर्वापेक्षाधिकरणम्
साधारणत्वात् गृहमेधिनां च प्रव्राजिवत् सा तु तदङ्गहीना ।
नैवं तु यज्ञादिक वाक्यभावात् सर्वत्र च स्वाश्रमधर्मवत्त्वात् ॥ 58 ॥
3.4.6 शमदमाद्यधिकरणम्
व्यापारकर्माधिकृतत्वहेतोः तेषां तु विद्या न शमादियुक्ता ।
नैतत् शमादेस्तु तदङ्गभावात् द्वयोस्तयोः भिन्ननिबन्धनत्वात् ॥ 59 ॥
3.4.7 सर्वान्नानुमत्यधिकरणम्
सर्वान्नभुक्तिस्तु विशेषहानेः स्यात् सर्वदा प्राणविदां इतीदम् ।
न शोभते शक्तिविशेषभाजः प्राणात्यये ब्रह्मविदोऽपि दृष्टेः ॥ 60 ॥
3.4.8 विहितत्वाधिकरणम्
विद्याविहीनाश्रमकर्मभूता यज्ञादयो नैव विरोधभावात् ।
नित्यं तदन्यच्च फलं कथं स्यात् नैतत्प्रसङ्गो विनियोगभेदात् ॥ 61 ॥
3.4.9 विधुराधिकरणम्
यज्ञादिकर्माङ्गकलापहानेः विद्याधिकारो न निराश्रमाणाम् ।
तन्नैव रैक्वादिषु लक्षितत्वात् जपोपवासाद्युपकारतश्च ॥ 62 ॥
3.4.10 तद्भूताधिकरणम्
जपोपवासाद्यनुमोदभावात् विद्याधिकारो विपरिच्युतानाम् ।
नैतत् स्मृतेः तत्परिहारहानौ सन्दर्शनात् शिष्टबहिष्कृतेश्च ॥ 63 ॥
3.4.11 स्वाम्यधिकरणम्
क्रत्वङ्गसंबन्धमुपासनं यत् तत्स्वामिनः तत्फलभोक्तृभावात् ।
नैवÐत्वजां कर्म तदङ्गवत् स्यात् कर्माङ्गसंबन्धत एव हेतोः ॥ 64 ॥
3.4.12 सहकार्यन्तराधिकरणम्
मन्तव्य इत्येव विधानहेतोः अनूद्यते मौनं इति त्वसत् स्यात् ।
मौनं प्रकृष्टे मनने हि लोके प्रसिद्ध्यते तेन विधेयमेतत् ॥ 65 ॥
3.4.13 अनाविष्काराधिकरणम्
विधेयहानेः विदुषस्तु बाल्यं सर्वं च कामाचरणादि, नैतत् ।
विशेषतो “नाविरता"दिवाक्यैः बाल्यं त्वनाविष्करणं कुलादेः ॥ 66 ॥
3.4.14 ऐहिकाधिकरणम्
यज्ञादिकं त्वभ्युदयादिहेतुः सद्यः फलं स्यात् अविलम्बहेतोः ।
न तत् बलिष्ठैः प्रतिबन्धहानौ तत् स्यात् “यदेवे"ति तु चोदितत्वात् ॥ 67 ॥
3.4.15 मुक्तिफलाधिकरणम्
निःश्रेयसैकार्थं उपास्तिकर्म सद्यः फलं स्यात् प्रबलत्वहेतोः ।
तच्चापि न ब्रह्मविदग्रिमाणां निन्दादिकस्यातिबलोत्तरत्वात् ॥ 68 ॥
पादसङ्ग्रहः
॥अ-3,पा-4 पादसंग्रहः -1
विद्यायाः फलदातृत्वं रसादेश्च विधेयता ।
विद्याङ्गता च यज्ञानां विद्या प्रव्राजिनां तथा ॥ 69 ॥
॥अ-3,पा-4 पादसंग्रहः -2
गृहस्थानां च विद्याया यज्ञादिप्रत्यवेक्षणम् ।
तेषां शमाद्यपेक्षत्वं आहारस्य व्यवस्थितिः ॥ 70 ॥
॥अ-3,पा-4 पादसंग्रहः -3
गार्हस्थ्यापि कर्मत्वं यज्ञादेः कर्मणः तथा ।
विधुराणां अधिकृतिः च्युतानां तद्विहीनता ॥ 71 ॥
॥अ-3,पा-4 पादसंग्रहः -4
क्रत्वङ्गोपासने ऋत्विक्कार्यता मौनिताविधिः ।
बाल्यं त्वस्याप्रकाशत्वं शक्ति विद्याभिजन्मनाम् ॥ 72 ॥
॥अ-3,पा-4 पादसंग्रहः -5
प्रतिबन्धे विलम्बित्वं स्वर्गमोक्षार्थकर्मणोः ।
इत्यनेनेतिकर्तव्यसंहतिः परिचिन्तिता ॥ 73 ॥
चतुर्थोऽध्यायः।