3.2.1 सन्ध्याधिकरणम्
गुणित्वतः सन्निधितश्च जीवः स्वाप्नार्थकर्तेति न शंक्यमेतत् ।
असंभवत्वात् अहितक्रियायाः तिरोहितत्वेन गुणस्य चास्य ॥ 10 ॥
3.2.2 तदभावाधिकरणम्
श्रुतौ विशेषाग्रहणात् सुषुप्तेः नाड्यः पुरीतत् परमोऽथवा स्यात् ।
भूमिस्त्वितीदं न, विकल्पदोषात् प्रासादखट्वाशयनादिवत् स्यात् ॥ 11 ॥
3.2.3 कर्मानुस्मृतिशब्दविध्यधिकरणम्
प्राप्त्या परस्याखिलकर्मनाशात् अन्यः प्रबोद्धा न पुनः सुषुप्तः ।
नैवार्थवत्त्वात् विधिकर्मणोः स्यात् अनुस्मृतेः व्याघ्र इति श्रुतेश्च ॥ 12 ॥
3.2.4 मुग्धाधिकरणम्
प्राणस्य सर्वेन्द्रियसंहृतेश्च व्यापारहानेर्मरणं तु मूर्च्छा ।
मुग्धेऽर्धलाभो मरणस्य सा स्यात् आकारवैषम्यसमुत्थितिभ्याम् ॥ 13 ॥
3.2.5 उभयलिङ्गाधिकरणम्
आत्मेच्छया वाऽप्यतिहेयभावात् पूयादिसङ्गः स परस्य दोषः ।
तत्स्थानसंबन्धितयेति, नैतत् सर्वत्र निर्दोषगुणित्वशब्दात् ॥ 14 ॥
3.2.6 अहिकुण्डलाधिकरणम्
नानात्वैकत्वयुक्तेः परिणमनमचित्त्वेन चेत् बाधितत्वं निर्दोषत्वश्रुतेः
स्यात् अथ तदुभययोरेक सामान्ययोगः ।
नैतत् स्यान्नैव लोके क्वचिदपि कथितः खण्डशब्देन मुण्डः तस्मादंशत्वमंशित्वमपि
हि जगतो ब्रह्मणश्चाऽऽत्मवत् स्यात् ॥ 15 ॥
3.2.7 पराधिकरणम्
सेतुत्वव्यपदेशतो मिततया संशब्दनात् प्रापक- श्रुत्या चापि “ततो यदुत्तरतरं”
त्वित्येव भेदग्रहात् ।
प्राप्योऽन्यः परतोऽपि कश्चिदिति यन्नैतत् त्वसंभेदनात्
ध्येयत्वादपवर्गसाधनतया हेतुत्वसंशब्दनात् ॥ 16 ॥
3.2.8 फलाधिकरणम्
साक्षात् क्रमात् वा फलदत्वदृष्टेः अत्रापि कर्मैव फलं ददातु ।
नैवेदमन्यार्थतया तु किप्तेः श्रुतिस्मृतिभ्यश्च स एव दत्ते ॥ 17 ॥
पादसङ्ग्रहः
॥अ-3,पा-2 पादसंग्रहः -1
स्वप्नः सुषुप्तिः प्रतिबोधनं च मूर्च्छा च जीवस्य, परस्य चापि ।
निर्दोषभावो जगदंशभावः सर्वेश्वरत्वं फलदातृता च ॥ 18 ॥
॥अ-3,पा-2 पादसंग्रहः -2
न्यायैश्चतुर्भिराद्यैः विचिन्तितः पूर्वपादशेषस्तु ।
तस्मादत्र तु पादे सुसङ्गतं पञ्चमात् प्रभृति ॥ 19 ॥
॥अ-3,पा-2 पादसंग्रहः -3
स्थानित्वात् अचिदैक्यात् अवरत्वात् अफलदत्वाच्च ।
अनुपास्यम् इति तु शङ्कां शकलयति स्मौत्तरैः चतुर्भिः इह ॥ 20 ॥