०१

3.1.1 तदन्तरप्रतिपत्त्यधिकरणम्

न भूतसूक्ष्मैः सह याति देही तवैव तेषां सुलभत्वहेतोः ।
नैवैवं “आप पुरुषा भवन्ति” इत्येवं श्रुतत्वात् सह तैः प्रयाति ॥ 1 ॥

3.1.2 कृतात्ययाधिकरणम्

“प्राप्यान्तं” इत्यादिभिरेव वाक्यैः आयातु जीवो न तु कर्मशेषी ।
नैतत्फलं कर्मनिबन्धनं तु “कपूयचारा” इति च श्रुतत्वात् ॥ 2 ॥

3.1.3 अनिष्टादिकार्यधिकरणम्

“ये वै च केऽपी” त्यविशेषशब्दात् धूमादिकं केवलपापिनां च ।
इति त्वसत् स्यात् “अथ ये"ति वाक्यात् पुण्यावलम्बी तु विशेषशब्दः ॥ 3 ॥

3.1.4 तत्स्वाभाव्यापत्त्यधिकरणम्

तद्देहता स्यात् वियदादिभावः सोमत्ववन्नास्ति यतो विशेषः ।
नैवं, न भोगोऽस्ति यतोऽत्र तस्मात् सादृश्यमेवात्र न तत्तनुत्वम् ॥ 4 ॥

3.1.5 नातिचिराधिकरणम्

आव्रीहिभावात् अचिरात् चिरात् वा सन्तिष्ठतेऽयं नियतेरभावात् ।
नैवं विशंक्यं परतो विशेषात् “अतो हि दुर्निष्पतं” इत्यमुष्मात् ॥ 5 ॥

3.1.6 अन्याधिष्ठिताधिकरणम्

“जायन्त” इत्येव विशेषशब्दात् व्रीह्यादिदेहास्तु भवन्ति जीवाः ।
नैतत्तु गौणं जननाभिधानं तद्धेत्वभावात् परतस्तु भावात् ॥ 6 ॥

पादसङ्ग्रहः

॥अ-3,पा-1 पादसंग्रहः -1

भूतसूक्ष्मैः परिष्वङ्गः कर्मशेषसहायता ।
अपुण्यानामनारोहो वियदादिसदृक्षता ॥ 7 ॥

॥अ-3,पा-1 पादसंग्रहः -2

तत्राचिरादवस्थानं व्रीह्यादेः श्लेषणं तथा ।
इत्यर्थाः षडमी सम्यक् पादेनानेन चिन्तिताः ॥ 8 ॥

॥अ-3,पा-1 पादावतारः

गमनागमनप्रकारचिन्ता विहितोपासिसिषा प्रसिद्धिहेतोः ।
न तु कश्चन दोषमात्मसंस्थं यदि नेक्षेत तदा परं ह्युपास्ते ॥ 9 ॥