2.4.1 प्राणोत्पत्त्यधिकरणम्
न हि जननं इन्द्रियाणां प्राणा अग्रेऽभवन् इति श्रुत्या ।
नैवं प्राणस्तु परः प्रतिज्ञया गौणमेव बहुवचनम् ॥ 35 ॥
2.4.2 सप्तगत्यधिकरणम्
सप्त तु यदेति वाक्यात् सप्त प्राणा इति श्रुतेश्चापि ।
नैवं प्रधानभावात् “दशेम” इति वाक्यतः स्मरणात् ॥ 36 ॥
2.4.3 प्राणाणुत्वाधिकरणम्
तानि तु विभूनि युक्तं “सर्वेऽनन्ताः समा” इति श्रवणात् ।
नैवमुपास्त्यर्थत्वात् उत्क्रमणश्रुतित एव चोत्क्रमणे ॥ 37 ॥
2.4.4 वायुक्रियाधिकरणम्
वाक्यात् प्रसिद्धेश्च विशंक्यतेऽयं न वायुमात्रं न च तत्क्रिया वा ।
प्राणस्तु देहादिभृदेव वायुः प्राणस्य वाक्योश्च पृथक्त्वशब्दात् ॥ 38 ॥
2.4.5 श्रेष्ठाणुत्वाधिकरणम्
लोकैः त्रिभिः साम्यगिरा विभुः स्यात् प्राणस्त्वितीदं न विशङ्कनीयम् ।
उत्क्रान्ति शब्दादिभिरस्य लोकैः साम्यश्रुतिर्याऽव तथाऽर्थवादः ॥ 39 ॥
2.4.6 ज्योतिराद्यधिष्ठानाधिकरणम्
वागाद्यधिष्ठानम् इह स्वतः स्यात् जीवेन सार्थं ज्वलनादिकानाम् ।
नैवं परात्मामननात् अमीषां एतत्तु “योऽग्नौ” इति च श्रुतत्वात् ॥ 40 ॥
2.4.7 इन्द्रियाधिकरणम्
प्राणाभिधानात् उपकारसाम्यात् ष्येष्ठोऽपि चायं स्फुटमिन्द्रियं स्यात् ।
नैतत् “दशे"ति व्यपदेशभावात् प्राणो मनश्चेन्द्रियमित्यतश्च ॥ 41 ॥
2.4.8 संज्ञामूर्तिकिप्त्यधिकरणम्
नामादिसृष्टिस्तु हिरण्यगर्भात् भवेत् “अनेने"ति तु वाक्यभावात् ।
नैवं परादेव तु तच्छरीरात् सेयं त्रिवृत्कार समानकर्तुः ॥ 42 ॥
पादसङ्ग्रहः
॥अ-2,पा-4 पादसंग्रहः -1
उत्पत्त्या संख्यानं परिमाणं चैव करणानाम् ।
प्राणस्य च स्वरूपं परिमाणमनिन्द्रियत्वं च ॥ 43 ॥
॥अ-2,पा-4 पादसंग्रहः -2
एतेषां सर्वेषां सर्गकरो व्यष्टिभूतानाम् ।
इत्येतदखिलममुना पादेन विचिन्तितं सम्यक् ॥ 44 ॥
॥अ-2,पा-4 पादसंग्रहः -3
प्रथमे प्रसक्तरूपाः पञ्चापि विचिन्तिता द्वितीयाद्याः ।
तस्मात् सङ्गतमस्मिन् पादे प्रथमं च चरमं च ॥ 45 ॥
॥अ-2,पा-4 पादसंग्रहः -4
प्राणस्वरूपचिन्ता प्राणतया शब्दनेन करणानाम् ।
प्रासङ्गिकप्रसिद्धा प्रसङ्गतस्तद्विशेषचिन्ता च ॥ 46 ॥
॥अ-2,पा-4 पादसंग्रहः -5
अण्डबहिर्भूतानां पूर्वेण विचिन्तिता सृष्टिः ।
सृष्टिस्तु चिन्तिता स्यात् अण्डान्तर्वर्तिनामनेनापि ॥ 47 ॥
तृतीयोऽध्यायः।
प्रथमपादः।