०३

2.3.1 वियदधिकरणम्

उत्पत्तिमन्तो न यथैव जीवाः नभश्च नोत्पत्तिमत् अंशहानेः ।
इति त्वसारं वदति श्रुतिश्चेत् तथैव तत् स्यात् न तु तर्कभङ्गः ॥ 25 ॥

2.3.2 तेजोधिकरणम्

कार्याणि सर्वाणि तथा श्रुतत्वात् स्थानान्तरात् कारणतो भवन्ति ।
नैवं श्रुतेरव्यवधानदृष्ट्या तत्तच्छरीरात् परतो भवन्ति ॥ 26 ॥

2.3.3 आत्माधिकरणम्

“तोयेन जीवान्” इति वाक्यभावात् प्रतिज्ञया जायत एव जीवः ।
इदं त्वसारं कृतविप्रणाशप्रसङ्गतो “नित्य” इति श्रुतेश्च ॥ 27 ॥

2.3.4 ज्ञाधिकरणम्

विज्ञानशब्दात् स्वपनेष्वदृष्टेः संज्ञानमागन्तुक चेतनो वा ।
नैवं श्रुतेः सङ्कुचितं सुषुप्तौ ज्ञानाभिधा तद्गुणसारतः स्यात् ॥ 28 ॥

2.3.5 कर्त्रधिकरणम्

नान्यं गुणेत्यादिषु कर्तृताऽस्य निषिध्यते येन ततो न कर्ता ।
इत्येतदेवं न विशङ्कनीयं शास्त्रार्थवत्त्वात् उपपत्तितश्च ॥ 29 ॥

2.3.6 परायत्ताधिकरणम्

कर्तृत्वं एतस्य परानपेक्षं शास्त्रार्थवत्त्वाय स हि स्वतन्त्रः ।
नैतत् श्रुतिभ्यो न च शास्त्रकोपः प्रयत्नसापेक्षतया परस्य ॥ 30 ॥

2.3.7 अंशाधिकरणम्

भेदान्न जीवोंऽश इति श्रुतीनां दृष्टो विरोधस्त्वितरेतरेण ।
अंशस्मृतेः पादतयोपदेशात् स्यादंश एवास्य परस्य जीवः ॥ 31 ॥

पादसङ्ग्रहः

॥अ-2,पा-3 पादसंग्रहः -1

कार्यता वियदादीनां तस्याश्चाव्यवधानता ।
उत्पत्त्यभावो जीवस्य ज्ञातृता कर्तृताऽपि च ॥ 32 ॥

॥अ-2,पा-3 पादसंग्रहः -2

कर्तृतायाः परापेक्षा परं प्रत्यंशताऽपि च ।
इत्थमर्थास्त्वमी सर्वे पादेनानेन चिन्तिताः ॥ 33 ॥

॥अ-2,पा-3 पादसंग्रहः -3

प्रथमश्च द्वितीयश्च तृतीयश्चात्र सङ्गताः ।
तृतीयशेषाश्चत्वारः प्रसङ्गात् त्विह चिन्तिताः ॥ 34 ॥

चतुर्थ पादः