2.1.1 स्मृत्यधिकरणम्
स्मृतेर्विरोधादुपबृंहणस्य न ब्रह्म हेतुर्जगतामितीदम् ।
असारमन्यस्मृतिभिर्विरोधात् तेषां त्वनाप्तिश्च न शक्यशङ्का ॥ 1 ॥
2.1.2 योगप्रत्युक्त्यधिकरणम्
ब्रह्मेति वेदान्तसमर्थितोऽर्थः तत्सेश्वर स्मृत्यनुसारहानेः ।
असाध्वितीदं न, परैर्विरोधात् जीवत्वतो विभ्रमसंभवाच्च ॥ 2 ॥
2.1.3 विलक्षणत्वाधिकरणम् ।2.1.4
यद्यत्कार्यं न तत्तत्प्रतिभटगुणकं ब्रह्म चेदं च विश्वम् ।
ज्ञात्वाज्ञत्वादि धर्मैः प्रतिभयमथ चेदीक्षणाच्चेतनत्वम् ॥ 3 ॥
2.1.5 भोक्त्रापत्त्यधिकरणम्
तत्तासां देवतानामिति तु न चतुरं दृश्यते मक्षिकादेः ।
कृम्यादि द्रव्यभेदो यदि न भवति तत्कार्यहेत्वोरलं स्यात् ॥ 4 ॥
2.1.6 आरम्भणाधिकरणम्
भोक्तृत्वं स्याज्जीववद्देहवत्त्वात् इत्येतस्मान्नाधिकं ब्रह्म सिद्ध्येत् ।
नैतच्छङ्क्यं मुक्तवत्कर्महानेः युज्येतैतत् राजवच्चापि लोके ॥ 5 ॥
2.1.7 इतरव्यपदेशाधिकरणम्
बुद्ध्याकाराभिधान व्यवहृतिगणनैर्भेदकैः कार्यहेत्वोः एकत्वं नैव सिध्येत्
इति तु न चतुरं कारकानर्थता च ।
सद्ब्रह्मात्मादि शब्दैरभिहितमपृथग्येन शब्दादिभेदो द्रव्यावस्थावलंबी तत
इह न भवेत् कारकानर्थता च ॥ 6 ॥
2.1.8 उपसंहारदर्शनाधिकरणम्
जीवस्य ब्रह्मभावं व्यपदिशति यतस्तत्त्वमस्यादिवाक्यं तस्माद्दुःखैककन्दं
न हि सृजति जगत् कः स्वदुःखाभिलाषी ।
नैवैतद्येन भेदं प्रकटयति तयोरन्य इत्यादि वाक्यं देहात्मत्वादि भेदश्रवणमपि
यथा चेतनैक्योपदेशः ॥ 7 ॥
2.1.9 कृत्स्नप्रसक्त्यधिकरणम्
यत्कारणं कारकसेव्यपक्षं तत्स्यात् परं ब्रह्म न तद्व्यपेक्षम् ।
अतो न हेतुस्त्विति नैव यस्मात् क्षीरं तु नैवेच्छति तत् दधित्वे ॥ 8 ॥
2.1.10 प्रयोजनवत्त्वाधिकरणम्
ब्रह्म स्यात् कार्यशेषं निखिलमवयवाभावतः सांशता चेत् व्याकोपः
स्यादिदानीमवयवविरह श्राविणीनां श्रुतीनाम् ।
हेतुत्वं तस्य तस्मात् विहतमुभयथेत्येतदप्यात्तसारं वैलक्षण्यात्प्रकाराच्छØतिभिरपि
तथा ज्ञापनाच्छक्तिमत्त्वात् ॥ 9 ॥
2.1.10 प्रयोजनवत्त्वाधिकरणम्
कामानां समवाप्तितो न हि फलं किञ्चित् समालोक्यते सृष्टेरस्य परस्य नापि दयया
दुःखैकहेतुत्वतः ।
नैवैतत् स हि लीलयैव तनुते पुण्याद्यपेक्षावशात् वैषम्यादि च नास्ति कर्मवशता
सिद्धेरनादित्वतः ॥ 10 ॥
2.1.10 प्रयोजनवत्त्वाधिकरणम्
कपिलस्मृतेर्विरोधात् हिरण्यगर्भस्मृते र्विरोधाच्च ।
न्यायविरोधात् भोगप्रसङ्गतः कार्यहेतुभेदाच्च ॥ 11 ॥
पादसङ्ग्रहः
॥अ-2,पा-1 पादसंग्रहः -1
जीवब्रह्मैकत्वात् कारकसंग्रहणहानितश्चापि ।
कार्यैकशेषभावात् फलहानेश्चोत्थितं तु पर्यहरत् ॥ द्वाभ्यां स्मृत्यविरोधः
स्यात् शेषैर्न्यायाविरोधिता । चतुर्थपञ्चमौ तत्र तृतीयोक्तौ प्रसंगतः ॥ 12 ॥
॥अ-2,पा-1 पादसंग्रहः -2
तस्मात् षष्ठं तृतीयं च पादेऽस्मिन् संगते मते ।
षष्ठादयस्तु चत्वारः संगच्छन्ते यथाक्रमम् ॥ 13 ॥
॥अ-2,पा-1 पादसंग्रहः -3
तच्छायवाक्यैरुत्थानं तथा न्यायेन चोद्गमः ।
इति पूर्वेण पादेन संगतिः स्यात् सुशोभना ॥ 14 ॥
द्वितीय पादः