०४

1.4.1 आनुमानिकाधिकरणम्

अव्यक्तं महतः परं तु पुरुषः तस्मात् परः तत्परं नैवास्तीति कुतन्त्र

सिद्धगणना तत्प्रक्रियानुस्मृतेः ।
एतन्नैव यथार्थमत्र रथताद्युक्तेषु वागादिकेषु अव्यक्तं तु शरीरमेव

पुरुषः सोऽयं परः पूरुषः ॥ 45 ॥

1.4.2 चमसाधिकरणम्

“अजां” इत्येतस्मिन् वचसि गदितं तन्वगदितं प्रधानं स्वातन्त्र्यात्

सकलजगती सर्गकरणात् ।
इदं नैवैतस्मिन् खलु सृजतिमात्रं त्वभिहितं विशेषस्याभावात् वदति च विशेषं

श्रुतिरतः ॥ 46 ॥

1.4.3 संख्योपसंग्रहाधिकरणम्

“यस्मिन् पञ्चजनाश्च पञ्च गगनं चापी"ति वाक्ये स्फुटं संख्यासंग्रहणात् तु

तन्त्रगणनेत्येतन्न हि प्राणिति ।
ब्रह्माधारतया स्थितेरतिशयस्फूर्तेश्च संज्ञात्वतः प्राणादीन्द्रियपञ्चकस्य च

यथा सप्तेति सप्तर्षयः ॥ 47 ॥

1.4.4 कारणत्वाधिकरणम्

क्वचित् सत् क्वाप्यात्मा क्वचित् असदपि क्वापि पुरुषः क्वचित् ब्रह्मेत्येवं

विविधवचनात् हेतुवचसाम् ।
न निर्णीतिः क्वापि त्विति न खलु, सर्वत्र हि परः समाकृष्टो

लिङ्गप्रकरणगुणाद्यैरिति यतः ॥ 48 ॥

1.4.5 जगद्वाचित्वाधिकरणम्

“यः कर्ता यस्य कर्मे"त्यभिहितपुरुषो जीव एवात्र वृत्तः कर्तृत्वात्

कर्मवत्वात् सहज निजगुणैः भोक्तृभावप्रतीतेः ।
इत्येवं नैव शङ्क्यं जगदिह वचने कर्मशब्दाभिधेयं दृष्ट्यर्थं प्राणजीवग्रहणमिह

सुषुप्त्याश्रयो ब्रह्म यस्मात् ॥ 49 ॥

1.4.6 वाक्यान्वयाधिकरणम्

पत्यादीनां प्रियत्वं स्वकृतमिति वचस्यत्र जीवोऽभिधेयः द्रष्टव्यत्वेन

यस्मात् श्रुतमिह पतिपत्न्यादि सम्बन्ध भाक्त्वम् ।
नैवान्यस्मिन् हि वाक्यान्वयनं अमृतता हेतुभावस्तथोक्तः वाक्यान्ते

जीवलिङ्गश्रवणमिदमवस्थानतोऽन्तः परस्य ॥ 50 ॥

1.4.7 प्रकृत्यधिकरणम्

उपादानात् अन्यत् त्वितरदिति नैकत्रघटना विकारित्वाभावश्रवणमपि जागर्ति भुवने ।
अतो नोपादानं पर इति न शक्यं कथयितुम् प्रतिज्ञानात् साक्षात् उभयकथनात् किंस्विदिति च ॥ 51 ॥

पादसङ्ग्रहः

॥अ-1,पा-4 पादसंग्रहः -1

प्रक्रिया प्रत्यभिज्ञानात् स्वभावकथनात् तथा ।
संख्योपसंग्रहाचापि व्याकुलत्वात् परस्परम् ॥ 52 ॥

॥अ-1,पा-4 पादसंग्रहः -2

कर्मसम्बन्धकथनात् पत्यादि श्रवणात् तथा ।
लोके च भेदसन्दृष्टेः उपादाननिमित्तयोः ॥ 53 ॥

॥अ-1,पा-4 पादसंग्रहः -3

ब्रह्मैव कारणं नान्यत् इत्येषा नैव निश्चितिः ।
इति यत् तान्त्रिकेषूक्तं तदनेन निराकृतम् ॥ 54 ॥

॥अ-1,पा-4 पादसंग्रहः -4

त्रिभिः प्रधानस्य निराकृतिः स्यात् चतुर्थतोऽन्योन्य विरोधभङ्गः ।
मुकिं्त गतो बन्धगतश्च जीवो व्यावर्तितः पञ्चमषष्ठकाभ्याम् ॥ 55 ॥

॥अ-1,पा-4 पादसंग्रहः -5

एतावता सूत्रकलापकेन निरीश्वरं सांख्यं अपाचकार ।
शेषात् धुनोति स्म स चेश्वरं तत् ऐक्यं निमित्तेश्वरयोः समिच्छन् ॥ 56 ॥

॥अ-1,पा-4 पादसंग्रहः -6

एवं जगत्कारणवादिवाक्यैः उक्तं समस्तैरपि चैककण्ठैः ।
ब्रह्मैव सर्वज्ञमनन्तशक्ति निदानमेषां जगतामितीदम् ॥ 57 ॥

॥अ-1,पा-4 अध्यायसंग्रहः

सूक्ष्मचिदचिच्छरीरं कारणतां याति तत् परं ब्रह्म ।
स्थूलचिदचिच्छरीरं पुनश्च तत् कार्यतां याति ॥ 58 ॥


द्वितीयोऽध्यायः।

प्रथमपादः\।