1.3.1 द्युभ्वाद्यधिकरणम्
मनः प्रभृत्यक्षसमाश्रयत्वात् द्युभ्वाश्रयः चेतन एव नान्यः ।
एवं न शङ्क्यं स्फुटं आत्मशब्दात् मुक्तोपसृप्य व्यपदेशतश्च ॥ 29 ॥
1.3.2 भूमाधिकरणम्
नामाद्युपक्रम्य कृतोपदेशः समापितः प्राणननाम्नि जीवे ।
ततः स भूमेति न शङ्कनीयं सत्योपदेशात् अधिकं त्वमुष्मात् ॥ 30 ॥
1.3.3 अक्षराधिकरणम्
अव्याकृतं चेतन एव वापि स्यादक्षरं चास्पदम् अम्बरस्य ।
कार्यास्पदत्वात् अचिदाश्रयत्वात् इत्यप्यसत् तस्य धृतेः प्रशास्तेः ॥ 31 ॥
1.3.4 ईक्षतिकर्माधिकरणम्
भुवोऽन्तरिक्षात् अधिकोपदिष्टो यो ब्रह्मलोकः स विधातृलोकः ।
तत्र त्रिमात्रप्रणवानुचिन्त्यो धातेत्यसत् स्यात् अमृताभिधाद्यैः ॥ 32 ॥
1.3.5 दहराधिकरणम्
दह्रस्तु खं स्यात् अथ चेतनो वा प्रसिद्धियोगात् गुणयोगतश्च ।
न साध्विदं खे न हि सत्यभावः कामाश्च जीवे न निसर्गसिद्धाः ॥ 33 ॥
1.3.6 प्रमिताधिकरणम्
“प्राणाधिपः सञ्चरती"ति वाक्ये प्रसिद्धितोऽङ्गुष्ठमितो हि जीवः ।
इत्यप्यसाध्वेव भवेत् अमुष्मिन् ईशानशब्दश्रवणाद्धि वाक्ये ॥ 34 ॥
1.3.7 देवताधिकरणम्
अविग्रहा विग्रहवत्प्रसाध्ये संराधने नाधिकृतास्तु देवाः ।
इत्यप्यसत् कल्पित नामरूपाः तस्मात् मनुष्या इव तेऽपि शक्ताः ॥ 35॥
1.3.8 मध्वधिकरणम्
मध्वादिविद्यास्वधिकारभाजः वस्वादयो नैव वसुत्वयोगात् ।
उपास्यभावात् इति नैव यस्मात् भूयोऽपि वाञ्छाऽस्ति परो ह्युपास्यः ॥ 36 ॥
1.3.9 अपशूद्राधिकरणम्
स्वाध्यायहीना अपि भारतादीन् श्रुत्वाऽथ विज्ञाय परं पुमांसम् ।
उपासते शूद्रगणा इतीदं न सत्, निषेधात् श्रवणादिकस्य ॥ 37 ॥
1.3.10 अर्थान्तरत्वादिव्यपदेशाधिकरणम्
धूत्वेति वाक्ये प्रकृतस्तु पूर्वम् आकाशतां ऋच्छतु मुक्त एव ।
एतन्न हि प्राणिति नामरूप निर्वाहकौ नैव हि बद्धमुक्तौ ॥ 38 ॥
पादसङ्ग्रहः
॥अ-1,पा-3 पादसंग्रहः -1
अक्लिष्टभावः सुखरूपता च प्रशासितृत्वं श्रयणीयता च ।
गुणोत्तरत्वं त्वजुगुप्सता च निर्वोढृता च प्रतिपादिताऽस्मिन् ॥ 39 ॥
॥अ-1,पा-3 पादसंग्रहः -2
प्रधान जीवयोः व्यष्ट्योः समष्ट्योश्चाऽऽत्मता क्रमात् ।
उक्ता तृतीये तु पुनः तस्याः शासनताऽपि च ॥ 40 ॥
॥अ-1,पा-3 पादसंग्रहः -3
चतुर्थपञ्चमाभ्यां तु स्वरूपेण गुणैरपि ।
उपास्यतार्थं आत्मत्वं इत्यात्मत्वप्रयोजनम् ॥ 41 ॥
॥अ-1,पा-3 पादसंग्रहः -4
हेयेऽपि तत्तत्सम्बन्धे नैवेशत्वात् जुगुप्सते ।
इति न्यायेन षष्ठेन प्रोक्तम् आत्मत्वसिद्धये ॥ 42 ॥
॥अ-1,पा-3 पादसंग्रहः -5
मध्ये प्रसङ्गात् षष्ठस्य देवदेव विशेषयोः ।
विद्याधिकारः शूद्राणां तदभावश्च साधितः ॥
सप्तमात् ईशितृत्वं तु निर्वोढृत्वात् स्थिरीकृतम् ॥ 43 ॥
॥अ-1,पा-3 पादसंग्रहः -6
एवं एतैः त्रिभिः पादैः कारणं ब्रह्म साधितम् ।
चतुर्थात् तच्च हेतुत्वं तस्यैवेति प्रसाध्यते ॥ 44 ॥
चतुर्थ पादः