1.2.1 सर्वत्रप्रसिद्ध्यधिकरणम्
स्वकर्मतः कारणताभियोगात् अल्पत्वतोऽल्पायतनत्वतश्च ।
सर्वं समाशङ्क्य निरास जीवं प्रसिद्धितस्तद्गुणतः स्मृतेश्च ॥ 21 ॥
1.2.2 अत्त्रधिकरणम्
अत्ता तु जीवो न परः स्वतन्त्रः स एव यत्कर्मफलोपभोगी ।
इत्यप्यसत् तद्धि चराचरस्य मृत्यूपसेकात् अदनं त्वपीतिः ॥ 22 ॥
1.2.3 अन्तराधिकरणम्
अक्ष्यन्तरस्त्वेष इति प्रसिद्ध्या जीवोऽथवा बिम्बम् अथापि दैवम् ।
इत्यप्यसत् स्यात् अमृतत्वशब्दात् सुखश्रुतेश्चाप्यनवस्थितेश्च ॥ 23 ॥
1.2.4 अन्तर्याम्यधिकरणम्
द्रष्टेति शब्दात् इह वाक्यशेषे द्रष्ट्रन्तरस्य प्रतिषेधतश्च ।
क्षेत्रज्ञमन्तर्यमयन्तमाहेत्येतन्न जागर्त्यमृतत्वशब्दात् ॥ 24 ॥
1.2.5 अदृश्यत्वादिगुणकाधिकरणम्
स्थूलत्वदृश्यत्व निषेधनेन सूक्ष्मं त्वदृश्यत्वगुणं प्रधानम् ।
क्षेत्रज्ञ एवाक्षर मित्यसत् स्यात् प्रतिज्ञया तत्परतः परत्वात् ॥ 25 ॥
1.2.6 वैश्वानराधिकरणम्
कौक्षेयवह्निस्त्वथ देवता वा भूतं तृतीयं त्वथवाऽग्निशब्दात् ।
वैश्वानरः स्यात् इति, नैव यस्मात् त्रैलोक्यदेहः पुरुषाभिधा च ॥ 26 ॥
॥अ-1,पा-2 पादसंग्रहः
स्थूलस्य सूक्ष्मस्य तथेन्द्रियाणां एकैकशश्चावयवत्वतश्च ।
तद्देहतां संप्रतिपाद्य पश्चात् तदन्यदेहत्वं अपाचकार ॥ 27 ॥
॥अ-1,पा-2 पादोपसंहारः
पादेनेत्थं अनेनार्थात् जगतः तच्छरीरता ।
सामानाधिकरण्येन तदन्येन च साधिता ॥ 28 ॥
तृतीय पादः