1.1.1 जिज्ञासाधिकरणम्
कार्ये हि वृद्धव्यवहार सिद्धो व्युत्पततिभावो वचसां, न सिद्धे ।
इत्येतदुत्सारितवान् प्रसिद्धेः सिद्धेऽपि बालप्रतिबोधनेषु ॥ 7 ॥
1.1.2 जन्माद्यधिकरणम्
भेदप्रसक्तेरनुभूत्यभावात् विशेषणं वाऽप्युपलक्षणं वा ।
जन्माद्यशक्यप्रतिपादनं यत् स्यात्तन्निरासोऽप्युभयत्व शक्तेः ॥ 8 ॥
1.1.3 शास्त्रयोनित्वाधिकरणम्
कार्यत्वतः सावयवत्त्व सिद्धात् कर्ता च संसिद्ध्यति कारणं च ।
इत्येतदुत्सारितवान् प्रदूष्य शास्त्रैकगम्यत्व समर्थनेन ॥ 9 ॥
1.1.4 समन्वयाधिकरणम्
प्रयोजनं ब्रह्मणि नैव लब्धं सिद्धे प्रवृत्तिस्त्वथवा निवृत्तिः ।
इत्यप्रमात्वं हि विशङ्क्य नुन्नं स्वतः फलत्वेन परस्य पुंसः ॥ 10 ॥
1.1.4 समन्वयाधिकरणम्
व्युत्पत्त्यभावात् प्रतिपत्तिदौस्स्थ्यात् अन्येन सिद्धेरफलत्वतश्च ।
अमात्वमाशङ्क्य निराचकार न्यायैश्चतुर्भिः प्रतिपाद्य तत्तत् ॥ 11 ॥
1.1.5 ईक्षत्यधिकरणम्
गौणी तु गौणेक्षण साहचर्यात् ईक्षा यतस्तज्जगतां निदानम् ।
प्रधानं इत्येदपाचकार मुख्यं यतो वीक्षणं आत्मशब्दात् ॥ 12 ॥
1.1.6 आनन्दमयाधिकरणम्
विकारवाची मयडित्यमुष्मात् क्षेत्रज्ञमानन्दमयं विशङ्क्य ।
असंभवात् प्राणमये च हानेः प्राचुर्यवाचीति निराचकार ॥ 13 ॥
1.1.7 अन्तरधिकरणम्
देहित्वतश्चेतन एव कश्चित् पुण्योत्तरो मण्डलमध्यवर्ती ।
इत्येवमुत्सारयते स्म शङ्कां लोकेशताद्यैः परमात्मधर्मैः ॥ 14 ॥
1.1.8 आकाशाधिकरणम्
आकाश इत्येव विशेषनाम्ना स व तु स्यात् जगतां निदानम् ।
प्राणोऽथवेत्येतदपाचकार भूताभिसंवेशमुखैश्च लिङ्गैः ॥ 15 ॥
1.1.10 ज्योतिरधिकरणम्
न हि स्ववाक्ये परलिङ्गधर्माः ज्योतिस्तु तद्भूततृतीयमेव ।
एतन्न शङ्क्यं, न हि तस्य पादो भूतानि किन्त्वस्य परस्य पुंसः ॥ 16 ॥
1.1.11 इन्द्रप्राणाधिकरणम्
इन्द्रे तु निर्धारित जीवभावे स्वोपास्ति शब्दात् स हि कारणं स्यात् ।
एतन्न सत्, तस्य हि शास्त्रदृष्ट्या तथोपदेशोऽमृतता च धर्मः ॥ 17 ॥
॥अ-1,पा-1 पादावतारः
सर्ज्ञमानन्दमयं सरूपं तेजस्विनं प्राणनकारणं च ।
सुस्थानमात्मानमुदाजहार पादेन पूर्वेण जगन्निदानम् ॥ 18 ॥
॥अ-1,पा-2 पादावतारः -1
शास्त्रे त्वमुष्मिन् जगतां निदानं ब्रह्मैव साक्षात् चिदचिच्छरीरम् ।
इत्येवमर्थं विशदीकरिष्यन् पादान् अथ त्रीन् प्रचकार शेषान् ॥ 19 ॥
॥अ-1,पा-2 पादावतारः -2
तत्र द्वितीयेन शरीरम् आसीत् तत्प्रत्यशेषः चिदचित्प्रपञ्चः ।
तृतीयतस्तस्य तदात्मभावः चतुर्थतस्तद्विपरीतभङ्गः ॥ 20 ॥