०० 0

॥शास्त्रावतारः शास्त्रावतारः -1

प्रणम्य रामानुज संयमीश्वरं प्रबोधहेतुं हृदयाम्बुजन्मनः ।
करोमि तद्दर्शनमार्गगोचरं शारीरकन्यायकलापसंग्रहम् ॥ 1 ॥

॥शास्त्रावतारः शास्त्रावतारः -2

प्रमाणता तत्प्रतियोगिभङ्गः संराधनं तस्य फलोपभोगः ।
एतानि सम्यक् परिचिन्तितानि शास्त्रे त्विहाध्याय चतुष्टयेन ॥ 2 ॥

॥शास्त्रावतारः शास्त्रावतारः -3

अस्पष्टतरम् अस्पष्टं स्पष्टं छायानुसारि च ।
जीवप्रधानयोः आदौ वाक्यजातं विचिन्तितम् ॥ 3 ॥

॥शास्त्रावतारः शास्त्रावतारः -4

स्मृतिन्यायाविरोधश्च परपक्षपराहतिः ।
कार्यता वियदादीनां अक्षादेश्च द्वितीयतः ॥ 4॥

॥शास्त्रावतारः शास्त्रावतारः -5

सदोषत्वं अदोषत्वं जीवस्य च परस्य च ।
तृतीयेन परोपास्तिः इतिकर्तव्यताऽपि च ॥ 5 ॥

॥शास्त्रावतारः शास्त्रावतारः -6

उपास्त्यनुष्ठानविधा गत्युपक्रम एव च ।
गतिमार्ग प्रकारश्च फलं चापि चतुर्थतः ॥ 6 ॥

प्रथम पादः