[[नयसङ्गतिमालिका Source: EB]]
[
**॥ नयसङ्गतिमालिका (शारीरकीयाः) ॥ **
**॥ लक्ष्मीपुरं श्रनिवासाचार्यैः विरचिता ॥ **
1 - 1
कारणं सर्वजगतां शरणं संश्रितात्मनाम ।
अनन्तं सत्यमानन्दं विज्ञानममलं श्रये ॥
अभिवन्द्य महोदारामस्मद्गुरुपम्पराम् ।
कुर्वे श्रीभाष्यसिद्धान्ते नयसङ्गतिमालिकाम् ॥
सङ्गतिः
अनन्तराभिधाने या जिज्ञासा स्यात्प्रयोजिता ।
तद्धेतुज्ञानविषयसम्बन्धः सङ्गतिर्मता ॥ 1 ॥
सङ्गतयः
उपोद्घातश्चापवादः प्रत्युदाहृतिरेव च ।
दृष्टान्ताक्षेपातिदेशप्रसङ्ग इति सप्तधा ॥ 2 ॥
उपोद्धातः
उपोद्धातः प्रस्तुतार्थस्योपपादकता ततः ।
चिन्तां प्रकृतसिद्ध्यर्थामुपोद्धातं विदुर्बुधाः ॥ 3 ॥
अपवादः
पूर्वाधिकृतिसिद्धान्तन्यायं यज्ञाऽवलम्बते ।
उत्तराधिक्रियापूर्वपक्षः , तत्राऽपवादिकी ॥ 4 ॥
प्रत्युदाहृतिः
पूर्वाधिकृतिसिद्धान्तन्यायस्याऽविषयीक्रियाम् ।
आलम्ब्य पूर्वपक्षेस्योत्थाने स्यात् प्रत्युदाहृतिः ॥ 5 ॥
दृष्टान्तः -4.
पूर्वाधिकृतिसिद्धान्तन्यायसाधर्म्यसंश्रयात् ।
उत्तराधिक्रियोत्थाने भवेन दृष्टान्तसङ्गतिः ॥ 6 ॥
आक्षेपः - 5.
पूर्वाधिकृतिसिद्धान्तन्यायस्याऽनुपपन्नताम् ।
शङ्कित्वा पूवपक्षस्योत्थाने त्वाक्षेपसङ्गतिः ॥ 7 ॥
आतिदेशः - 6.
कृत्वा यत्राऽधिकां शङ्कां पूर्वमेवातिदिश्यते ।
सङ्गतिः कथिता सद्भिः काचित् तत्राऽतिदेशिकी ॥ 8 ॥
प्रसङ्गः - 7.
स्मृतस्योक्तार्थसम्बन्धात् उपेक्षाया अनर्हता ।
प्रसङ्ग इति यत् प्राहुः यस्मात् सैव हि सङ्गति ॥ 9 ॥
प्रसङ्गलक्षणम् -
तस्मादुपोद्घातमुखसङ्गतिभ्यः पृथक्कृता ।
या सङ्गतिः सा प्रसङ्ग इति निष्कृष्टलक्षणम् ॥ 10 ॥
सूचनाविशेषः
प्रायोण हि प्रबन्धेऽस्मिन्नपवादादिशब्दतः ।
सङ्गतिः सूच्यत इति समुद्रगृह्णन्तु सूरयः ॥ 11 ॥
काण्डत्रयप्रधानार्थाः
धर्मधीः मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः ।
सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः ॥ 12 ॥
स्वरूपमादौ तद्भेदः तदुपासनपूर्वकम् ।
फलं च देवताकाण्डे देवतानां तु कथ्यते ॥ 13 ॥
समन्वयोऽविरोधश्च साधनं च प्रयोजनं ।
काण्डत्रये प्रधानार्था एते विंशतिलक्षणे ॥ 14 ॥
शरीरकावान्तरविभागाः
तार्तीयीकं काण्डमिदं द्विकद्वितयगर्भितम् ।
सिद्धं साध्यमिति द्वेधा विषयो विषयीत्यपि ॥ 15 ॥
शरीरके चिन्तनीयाः सङ्गतयः -8
सास्त्रकाण्डद्विकाध्यायपेटिकाधिक्रियांघ्रिभिः ।
सूत्रभेदाच्चाष्टविधा वक्तव्या सङ्गतिस्त्विह ॥ 16 ॥
अन्तर्भावात्मिका शास्त्रादिषु षट्स्विह सङ्गतिः ।
आनन्तर्यात्मिका ज्ञेयाऽधिक्रियासूत्रयोः पूनः ॥ 17 ॥
वेदार्थन्यायरूपत्वात् मीमांसशाशीस्त्रसङ्गतिः ।
वेदान्तार्थविचारत्वात् काण्डसङ्गतिरुच्यते ॥ 18 ॥
सिद्धवस्तुविचारत्वात् प्रथमद्विकसङ्गतिः ।
समन्वयप्रधानत्वात् प्रथमाध्यायसङ्गतिः ॥ 19 ॥
प्रथमपादीयपेटीकाविभागः
अत्राऽयोगव्यवच्छेदपादे स्यात् पेटिकात्रयम् ।
चतुर्भिश्च त्रिभिश्चैब चतुर्भिश्च नयैः क्रमात् ॥ 20 ॥
आद्यपेटिकाप्रयोजनम्
तात्राऽद्यपेटिका शास्त्रस्याऽनारम्भप्रशान्तिकृत् ।
न्यायैश्चतुर्भिः प्रथमे पुनरेषाऽवधार्यताम् ॥ 21 ॥
- उपोद्धातभागः -
देवताकाण्डचरमाधिक्रियायां हि सूत्रितम् ।
अन्ते हरौ दर्शनात्स विप्णुराहेत्यतः परम् ॥ 23 ॥
तं ब्रह्मेत्यादिनिर्देशात् ब्रह्मशब्दार्थगोचरात् ।
अप्रसिदिं्ध निराचष्टे तस्मादाक्षेपसङ्गतिः ॥ 25 ॥
॥ इति जिज्ञासाधिकरणम् ॥ 1 ॥
प्रमाण - लक्षणाभ्यां च वस्तुसिद्धिरिति स्थिते ।
स्यात्प्रमेयपरीक्षाऽथ प्रमाणाक्षेपमूलिका ॥ 26 ॥
॥ इति जन्माद्यधिकरणम् ॥ 2 ॥
ईश्वरस्याऽनुमानेन सिद्धस्यऽप्राप्त्यसम्भवात् ।
प्रामाण्यस्य समाक्षेपः शास्त्रयोनिनये धुतः ॥ 27 ॥
इति शास्त्रयोनित्वाधिकरणम् ॥ 3 ॥
प्राणाण्य - फल - यत्नानां क्रमे व्यापकहानितः ।
समन्वयनयस्तुर्थः प्रामण्याक्षेपमच्छिनत् ॥ 28 ॥
असम्भवो लक्षणस्य लक्ष्यासिद्धिनिबन्धनः ।
योऽयोगः तद्व्यवच्छेदः प्रथमे पाद उच्यते ॥ 29 ॥
अतिव्याप्तिर्योऽन्ययोगः तद्व्यवच्छेदलक्षणः ।
अर्थस्त्रिपाद्यामिति च विवेकस्स्यात् समासतः ॥ 30 ॥
॥ इति समन्वयाधिकरणम् ॥
- चतुस्सूत्री समाप्ता -
वेदान्तसारसद्विद्या वक्ति प्रकृतिहेतुताम् ।
इत्याक्षेपप्रतिक्षेपः स्यादीक्षतीनयेऽधुना ॥ 31 ॥
एवं बह्व्यः सङ्गतयः प्रोक्ता मुखविभेदतः ।
तत्र मुख्या सङ्गृहीता शिष्यविक्षेपशान्तये ॥ 32 ॥
॥ इति ईक्षत्यधिकरणम् ॥ 5 ॥
अथऽऽनन्दाधिकरणे जीवो मुख्येक्षणादिमान् ।
जगतः कारणं स्यादित्यपवादोऽत्र वार्यते ॥ 33 ॥
॥ इति आनन्दमयाधिकरणम् ॥
स यश्चायमिति श्रुत्या पूर्वाधिकृतिशेषतः ।
अन्तर्णये पुण्यजीवकारणत्वमपोद्यते ॥ 34 ॥
॥ इति अन्तरधिकरणम् ॥ 7 ॥
विशेषलिङ्गं प्रबलं सामान्यश्रुतितो मतम् ।
विपरीतमिहाकाशनयेऽतः प्रत्युदाहृतिः ॥ 35 ॥
॥ इति आकाशाधिकरणम् ॥ 8 ॥
अत्र कृत्वाऽधिकाशङ्कां पूर्वन्यायातिदेशतः ।
अपाकरोत् प्राणनये सङ्गतिस्त्वातिदेशिकी ॥ 36 ॥
॥ इति प्राणाधिकरणम् ॥ 9 ॥
स्ववाक्योक्तब्रह्मलिङ्गविशेषादर्शनादिह ।
ज्योतिर्विचार्यते तस्मात् प्रत्युदाहृतिसङ्गतिः ॥ 7 ॥
॥ इति ज्योतिरधिकरणम् ॥ 10 ॥
पूर्वोक्तात् पूर्वपक्षः स्यादुपक्रमपराक्रमात् ।
इन्द्रप्राणाधिकरणे सङ्गतिस्त्वापवादिकी ॥ 38 ॥
एवं समगमन्नाद्यपादे प्रथमलक्षणे ।
पेटिकात्रितयं चैकादशाधिकरणान्यपि ॥ 39 ॥
॥ इन्द्रप्राणाधिकरणम् ॥ 11 ॥
अथ द्वितीयपादेऽस्मिन् त्रिकद्विकविभागातः ।
अल्पस्थान - महास्थानस्थितेशोपास्तिपेटिके ॥ 40 ॥
महावाक्यगतं ब्रह्मलिङ्गं प्रबलमीरितम् ।
तादृक्षलिङ्गतः सर्वनये शङ्का व्यपोद्येते ॥ 41 ॥
॥ इति सर्वत्रप्रसिद्ध्यधिकरणम् ॥ 1 ॥
भोक्तृत्वं नास्ति चेदन्तर्यामिणो जीव एव सः ।
अत्ता स्यादिति शङ्कातः सङ्गतिः प्रत्युदाहृतिः ॥ 42 ॥
॥ इति अत्त्रधिकरणम् ॥ 2 ॥
अत्तुर्दुर्दर्शतायां स्यादक्षिदृश्यः सुदर्शनः ।
प्रत्युदाहृतिसङ्गत्याऽथान्तराधिक्रियोदयः ॥ 43 ॥
॥ इति अन्तराधिकरणम् ॥
अक्षिस्थपुरुषस्यैव ब्रह्मत्वस्योपपादिका ।
अथाऽन्तर्याम्यधिकृतिः तेनोपोद्धातसङ्गतिः ॥ 44 ॥
॥ इति अन्तर्याभ्यधिकरणम् ॥ 4 ॥
अदृश्यत्वाधिकरणे द्रष्टृत्वादेरनुक्तितः ।
प्रकृतिर्वा पुमान्वेति शङ्कातः प्रत्युदाहृतिः ॥ 45 ॥
॥ इति अदृश्यत्वादिगुणकाधिकरणम् ॥ 5 ॥
प्राग्विश्वरूपोपन्यासः द्युमूर्धत्वादिना कृतः ।
तत्क्लृप्त्या चिन्त्यते वैश्वानरविद्याऽपवादतः ॥ 46 ॥
इत्थं ह्यधिक्रियाषट्कं पेटिकाद्वयलक्षणम ।
अध्याये प्रथमे द्वैतीयीकपादे सुसङ्गतम् ॥ 47 ॥
॥ इति वैश्वानराधिकरणम् ॥ 6 ॥
॥ इति प्रथमेऽध्याये द्वितीयः पादः ॥
अथ द्वाभ्यां चतुर्भिश्च त्रिभिरेकेन च क्रमात् ।
न्यायैस्तृतीयचरणे पेटिकानां चतुष्टयम् ॥ 48 ॥
द्युपृथिव्यादिसम्बन्धः प्राक् पादान्ते निरूपितः ।
जीवेऽस्तीत्यपवादेन द्युभ्वादिनयनिर्णयः ॥ 49 ॥
॥ इति द्युभ्वाद्यधिकरणम् ॥ 1 ॥
उक्तात् प्रकरणस्यैक्यादेव सिद्धान्तयुक्तियः ।
अपवादो भूमनये जीवेनाऽत्र निराकृतः ॥ 50 ॥
॥ इति भूमाधिकरणम् ॥ 2 ॥
प्रकृतौ पुरुषे वैषा स्वे महिम्नि प्रतिष्ठितिः ।
प्रोक्ताऽस्तीत्यपवादेन स्यादक्षरनयोदयः ॥ 51 ॥
॥ इति अक्षराधिकरणम् ॥ 3 ॥
उक्तादृष्टद्रष्टृताऽत्र न संश्लिष्यत इत्यतः ।
भवेदीक्षतिकर्माधिकरणे प्रत्युदाहृतिः ॥ 52 ॥
॥ इति ईक्षतिकर्माधिकरणम् ॥ 4 ॥
निर्णीतः प्राक्र पुरिशयः पुरुषश्रुतिवैभवात् ।
प्रत्युदाहृतिसङ्गत्या दहराधिक्रियोत्थितिः ॥ 53 ॥
॥ इति दहराधिकरणम् ॥ 5 ॥
ब्रह्मणोऽस्त्वल्पमानत्वं प्रमिताधिकृतौ पुनः ।
तद्विशेषश्रुतैर्जीवः स्यादिति प्रत्युदीर्यते ॥ 54 ॥
॥ इति प्रमिताधिकरणम् ॥ 6 ॥
उपासनं मनुष्याधिकारं चेत् प्रमितोक्तितः ।
देवाधिकारापवादो देवतानयवारितः ॥ 55 ॥
॥ इति देवताधिकरणम् ॥ 7 ॥
यद्यप्युपास्तिसामान्ये स्यात् सामर्थ्यादिसम्भवः ।
प्रत्युदाहरणत्वेन मध्वादिनयसम्भवः ॥ 56 ॥
॥ इति मध्वधिकरणम् ॥ 8 ॥
शूद्रो विद्याधिकारी स्यात् सामर्थ्यार्थित्वयोगतः ।
इत्याशङ्कापवादर्थमपशूद्रनयोदयः ॥ 57 ॥
॥ इति अपशूद्राधिकरणम् ॥ 9 ॥
प्रसक्तानुप्रसक्त्येत्थमधिकारचतुष्टयम् ।
दह्ननीत्युत्थापवादमर्थान्तरनयोऽच्छिनत् ॥ 58 ॥
इति अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥ 10 ॥
एमचतुष्पेटिकोऽयं दशाधिकरणात्मकः ।
अध्याये प्रथमे पादस्तार्तीयीकः सुसङ्गतः ॥ 59 ॥
॥ इति प्रथमेध्याये तृतीयः पादः ॥
अ#ाद्याध्याये तुर्यपादे नीत्यष्टकमसूत्रयत् ।
तत्र पडूभिर्नयैः साड्ख्यान् द्वाभ्यां यौगानशीशमत् ॥ 60 ॥
मुक्तवैलक्षण्यमुक्तं प्राक् पादान्ते न युज्यते ।
परस्यैव प्रतिक्षेपादाक्षेपो ह्यानुमानिके ॥ 61 ॥
इति आनुमानिकाधिकरणम् ॥ 1 ॥
पारिशेष्यस्थानमाने नाऽजावाक्ये स्त इत्यतः ।
प्रत्युदाहरणत्वेन चमसाख्यनयोदयः ॥ 62 ॥
॥ इति चमसाधिकरणम् ॥ 2 ॥
वाक्यान्तरस्य चाऽभावात् तत्त्वसङ्रख्याविरोधतः ।
सङ्ख्योपसङ्ग्रहनये शङ्कातः प्रत्युदाहृतिः ॥ 63 ॥
॥ इति सङ्ख्योपसङ्ग्रहाधिकरणण् ॥ 3 ॥
यस्मिन्निति पुरा प्रोक्तमाश्रयत्वं न विद्यते ।
इत्यशङ्का कारणत्वनयेऽतः प्रत्युदाहृतिः ॥ 64 ॥
॥ इति कारणत्वाधिकरणम् ॥ 5 ॥
सिद्घान्तः प्राक् प्रकरणादीक्षितृत्वादियोगतः ।
जीवलिङ्गाज्जगद्वाचिनयः स्यादपवादतः ॥ 65 ॥
॥ इति जगद्वाचित्वाधिकरणम् ॥ 8 ॥
अन्यथा चोपपत्त्याख्यन्यायस्यात्र त्वसम्भवात् ।
शङ्कातो वाक्यनीतौ स्यात् प्रत्युदाहृतिसङ्गतिः ॥ 66 ॥
॥ इति वाक्यान्वयाधिकरणम् ॥ 6 ॥
उक्तं ह्युभयहेतुत्वं सर्वविज्ञानतः पुरा ।
प्रकृत्यधिकृतौ तस्य सम्यगाक्षिप्य निर्णयः ॥ 67 ॥
॥ इति प्रकृत्यधिकरणम् ॥ 7 ॥
सर्वत्रोक्तप्रकारेण निर्वाहः स्वयमूह्यताम् ।
इति चात्राऽतिदिश्यन्ते प्रागुक्ताः सर्वनीतयः ॥ 68 ॥
इत्थमष्टाधिकरणी पेटिकाद्वयसङ्गता ।
आद्याध्याये तुर्यपादे सन्दर्भं समुपागमत् ॥ 69 ॥
इति सर्वव्याख्यानाधिकरणम् ॥ 8 ॥
अथाऽविरोधाध्याये(द्वौ) पादौ कारणमूलकम् ।
अनन्तरौ कार्यमूलं विरोधं च निरास्थताम् ॥ 70 ॥
आद्ये स्यात् पेटिकायुग्मं द्वाभ्यामप्यष्टभिर्नयैः ।
स्मृत्या तर्कैश्च सञ्जातौ विरोधो भज्यते क्रमात् ॥ 71 ॥
सर्वव्याख्यानाधिकृतावीप्सिते चोपबृंहणे ।
साङ्ख्यस्मृत्याऽपवादेन स्मृनिन्यायः प्रवर्तते ॥ 72 ॥
इति स्मृत्यधिकरणम् ॥ 1 ॥
योगस्मृत्यपवादे तु पूर्वन्यायातिदेशतः ।
योगप्रत्युक्तयधिकृतिः सङ्गतिस्त्वातिदेशिकी ॥ 73 ॥
इति योगप्रत्युक्तयधिकरणम् ॥ 2 ॥
विलक्षणत्वाधिकृतौ साङ्ख्यस्तर्कावलम्बनः ।
पुनः प्रत्यवतिष्ठेन तस्मादाक्षेपसङ्गतिः ॥ 74 ॥
शिष्टापरिग्रहनये योगाद्यास्तर्कसाधनाः ।
अतिदेशान्निरस्यन्ते सङ्गतिस्त्वातिदेशिकी ॥ 75 ॥
इति शिष्टापरिग्रहाधिकरणम् ॥ 4 ॥
प्रकू शरीरात्मभावेन कृताः सर्वोपपत्तयः ।
वैलक्षण्यापवादोऽतो भोक्त्रापत्तिनयोदयः ॥ 76 ॥
इति भोक्त्रापत्त्यधिकरणम् ॥ 5 ॥
वैलक्षण्ये कार्यहेत्वोरसत्कार्याभ्युपागमात् ।
आरम्भणाधिकरणमपवादनिरासकृत् ॥ 77 ॥
इति आरम्भणाधिकरणम् ॥ 6 ॥
सर्वतोऽनन्यता स्याच्चेत् ईश्वरः स्यादनीश्वरः ।
अपाकृतोऽपवादोऽयं तदनन्तरनीतितः ॥ 78 ॥
इति इतरव्यपदेशाधिकरणम् ॥ 7 ॥
वैलक्षण्यं सत्यकामत्वादिभिः प्रतिपादितम् ।
तन्नोपपद्यत इति ह्याक्षेपोऽत्र निवार्यते ॥ 79 ॥
इति उपसंहारदर्शनाधिकरणम् ॥ 8 ॥
क्षीरोदकादिकं सांशं निरंशं ब्रह्म संमतम् ।
कृत्स्नप्रसक्त्यधिकृतौ सङ्गतिः प्रत्युदाहृतिः ॥ 80 ॥
इति कृत्स्नप्रसक्त्यधिकरणम् ॥ 9 ॥
प्रयोजनं विना नेशो विचित्रं स्रष्टुमर्हति ।
इति प्रयोजननये प्रोक्तमाक्षेपदूषणम् ॥ 81 ॥
इति प्रयोजनवत्त्वाधिकरणम् ।
एवं द्वितीयाद्यापादे मिथः समगमन् क्रमात् ।
पेठिकाद्वयगूढानि दशाधिकरणान्यपि ॥ 82 ॥
इति द्वितीयाध्याये प्रथमः पादः ॥
एवं बाधः परिहृतः प्रतिपक्षो निरस्यते ।
पार्श्वस्थसंशयोच्छित्यै द्वितीये चरणे पुनः ॥ 83 ॥
विफला चित्प्रवृत्तिश्चेत् तादृश्येवाचितो वरम् ।
इति शङ्कापोद्यतेऽत्र रचनासम्भवात् पुनः ॥ 84 ॥
इति रचनानुपपत्त्यधिकरणम
ईश्वराधिष्ठितैरेव जगत् स्यात् परमणुभिः ।
महद्दीर्घाकरणे शङ्कैषा प्रत्युदीर्यते ॥ 85 ॥
इति महद्दीर्घाधिकरणम् ॥ 85 ॥
सङ्घातवादे प्रारम्भवाददोषो न विद्यते ।
समुदायनये चापि शङ्कैषा प्रत्युदीर्यते ॥ 86 ॥
इति समुदायाधिकरणम् ॥ 3 ॥
वस्त्वस्ति यदि बाह्यं तत् प्रोक्तदोषः प्रसज्यताम् ।
इत्यतोऽथाऽभावनयः प्रत्युदाहृतिसङ्गतेः ॥ 87 ॥
इति उपलब्ध्यधिकरणम् ॥ 4 ॥
न हि सर्वाभाववादे कोऽपि दोषः प्रसज्यते ।
इति माध्यमिको वादः प्रत्युदाहृतिसङ्गतेः ॥ 88 ॥
इति सर्वथानुपपत्त्याधिकरणम् ॥ 5 ॥
अथ सार्वात्म्यवादेन सर्वदोषनिराकृतिम् ।
अभ्युपेत्यार्हतनयस्योदयात् प्रत्युदाहृतिः॥ 89 ॥
इति एकस्मिन्नसम्भवाधिकरणम् ॥ 6 ॥
सर्वं पांशुपनं तन्त्रं सम्भवास्पदमिष्यताम् ।
इति शङ्कासम्भवेन चात्राऽपि प्रत्युदाहृतिः ॥ 90 ॥
इति पशुपत्यधिकरणम् ॥ 7 ॥
पाञ्चरात्रे तन्त्रसाम्यात् प्रामाण्यं चेदपोद्यते ।
उत्पत्त्यसम्भवनयः प्रामाण्यं प्रत्यतिष्ठिपत् ॥ 91 ॥
इति उत्पत्त्यसम्भवाधिकरणम् ॥ 8 ॥
इत्थमष्टाधिकरणी पेटिकाद्वयगर्भिता ।
शारीरके तर्कपादे सन्दर्भं समुपागमत् ॥ 92 ॥
इति पादोपसंहारः ॥
इति द्वितीयाध्याये द्वितीयः पादः ॥ 2 ॥
एवं निरस्तोपरोधा ब्रह्मकाराणता स्थिता ।
निराबाधा कार्यतापि वर्तते पादर्योर्द्वयोः ॥ 93 ॥
अत्र पादद्वयमपि पेटिकाद्वयलक्षणम् ।
आद्या सप्ताधिकरणी द्वितीयाष्टनयात्मिका ॥ 94 ॥
औपचारिकमित्युक्तं प्राग्जीवोत्पत्तिभाषितम् ।
तथेति वियदुत्पत्तिवादः स्यादित्यपोद्यते ॥ 95 ॥
इति वियदधिकरणम् ॥ 1 ॥
साक्षात्तु ब्रह्मकार्यत्वं न स्यात्तेजोजलादिषु ।
इति तेजोऽधिकरणे शङ्का पुनरपोद्यते ॥ 96 ॥
इति तेजोधिकरणम् ॥ 2 ॥
प्रागुक्तयुक्त्या जीवोऽपि कार्यः स्यादिति संशयात् ।
आत्माधिकरणं प्राप्तमपवादाख्यसङ्गतेः ॥ 97 ॥
इति आत्माधिकरणम् ॥ 3 ॥
ज्ञानरूपस्य जीवस्याऽनुत्पत्त्यैव व्यपोदिते ।
स्वभावेऽप्यन्यथाभावे स्याद् ज्ञाधिकरणोदयः ॥ 98 ॥
इति ज्ञाधिकरणम् ॥ 4 ॥
ज्ञानैकगुणसारस्य निर्विकारस्य चात्मनः ।
अपोदिते च कर्तृत्वे भवेत् कर्त्तृनयोदयः ॥ 99 ॥
इति कर्त्रधिकरणम् ॥ 5 ॥
स्वातन्त्र्यविनिवृत्त्यैव कर्तृत्वं विनिवर्तते ।
इत्याक्षेप समाधातुं परायत्तनयोदयः ॥ 100 ॥
इति परायत्ताधिकरणम् ॥ 6 ॥
परायत्तो च कर्तृत्वे परांशत्वं विरुध्यते ।
इति प्राप्तेऽपवादोऽथ स्यदंशाधिकृतिः पुनः ॥ 101 ॥
इति अंशाधिकरणम् ॥ 7 ॥
आत्माधिकरणस्यैवातिदेशो भवेदिह ।
प्राणाधिकरणे तस्मादातिदेशिकसङ्गतिः ॥ 103 ॥
इति प्राणोत्पत्त्यधिकरणम् ॥ 1 ॥
तथेन्द्रियाणां कार्यत्वमुक्तं तस्य प्रसङ्गतः
सङ्ख्याचिन्ताऽधुना तेषां स्यात् सप्तगतिनीतितः ॥ 104 ॥
इति सप्तगत्यधिकरणम् ॥ 2॥
प्रसङ्गेनैनेन्द्रियाणां प्राणानामेव चिन्त्यते ।
प्राणाणुत्वाधिकरणेऽणुत्वं वृत्तिविकासिनाम् ॥ 105 ॥
इति प्राणाणुत्वाधिकरणम् ॥ 4 ॥
मुख्यप्राणस्वरूपेऽपि विवादानां बहुत्वतः ।
वायु - क्रियाधिकरणे प्रसङ्कात् तत्त्वनिर्णयः ॥ 106 ॥
इति वायुक्रियाधिकरणम् ॥ 4 ॥
श्रेष्ठप्राणस्य कार्यत्वं स्वरूपं चोपवर्णितम् ।
श्रेष्ठाणुत्वाधिकरणेऽणुत्वं चाऽपि प्रसङ्गतः ॥ 107 ॥
इति शेष्ठाणुत्वाधिकरणम् ॥ 5 ॥
प्राणानां जन्यतेयत्ता परिमाणप्रसङ्गतः।
अग्न्यादिदेवतानां चाऽधिष्ठानं तत्र चिन्त्यते ॥ 108 ॥
इति ज्योतिराद्यधिष्ठानाधिकरणम् ॥ 6 ॥
प्राणोन्द्रियाविभागेन विचारो विफलस्त्विति ।
आक्षेपपरिहारार्थं स्यादिन्द्रियनयोदयः ॥ 109 ॥
इति इन्द्रियाधिकरणम् ॥ 7 ॥
समष्टिसष्टौ हेतुत्वं स्यादेव परमात्मनः ।
संज्ञामूर्त्रित्रये व्यष्टौ जीवस्य तदपोद्यते ॥ 110 ॥
इति संज्ञामूर्तिक्लृप्त्याधिकरणम् ॥ 8 ॥
वैराग्यसुभयं लिङ्गं विद्या घिद्याङ्गमेव च ।
तार्तियीकाध्यायपादप्रधानार्था इमे मताः ॥ 111 ॥
कृतो मूर्तिप्रसङ्गः प्रागिह मूर्त्यन्तरग्रहे ।
तदन्तरनये भूतसूक्ष्मयोगो निरूप्यते ॥ 112 ॥
इति तदन्तरप्रतिपत्त्यधिकरणम् ॥ 1 ॥
अथैकभविकन्यायात् कर्मशेषविलोपने ।
भुक्तशिष्टस्य सम्बन्धः कृतात्ययनयोदितः ॥ 113 ॥
इति कृतात्ययाधिकरणम् ॥ 2 ॥
प्राक्च्छØतेष्टापूर्तदत्तकारिणां चन्द्रमोगतिः ।
आशङ्क्य सैषाऽनिष्टादिकारिणां प्रतिषिध्यते ॥ 114 ॥
इति अनिष्टादिकार्यधिकरणम् ॥ 3 ॥
इष्टादिकारिणामत्र मृगाङ्कादवरोहताम् ।
तत्स्वाभाव्यापत्तिनीत्याऽबादिभावपरिष्क्रिया ॥ 115 ॥
इति तत्स्वाभाव्यापत्त्यधिकरणम् ॥ 4 ॥
अब्भ्रादिभावावस्थायां चिराचिरविचारणा ।
कृता नातिचिरन्याये जीवदुःखप्रसिद्धये ॥ 116 ॥
इति नातिचिराधिकरणम् ॥ 5 ॥
व्रीह्यादिभावो जीवानामवरूढवतामिह ।
आश्लोषाऽन्याधिष्ठितेन तेन व्रीह्यादिनोच्यते ॥ 117 ॥
इति अन्याधिष्ठिताधिकरणम् ॥ 6 ॥
इत्थं तृतीयाध्यायाद्यपादे षण्णीतयः क्रमात् ।
प्रसङ्गसङ्गत्यैवेकपेटिकान्तर्गता मिथः ॥ 118 ॥
इति तृतीयाध्यायस्य प्रथमः पादः ॥ 1 ॥
जाग्रद्दोषविनिर्मुक्तः जीवः स्वप्नदशास्थितः ।
निर्दोष इति शङ्कैषा सान्ध्यनीत्या प्रतीर्यते ॥ 119 ॥
इति सन्ध्याधिकरणम् ॥ 1 ॥
स्वाप्नो जीवोऽथ दुष्टोऽस्तु सौषुप्तो दोषवर्जितः ।
तदभावनये चैषा शङ्कैव प्रत्युदीर्यते ॥ 120 ॥
इति तदभावाधिकरणम् ॥
कर्मानुस्मृत्यधिकृतौ सुषुप्तान्यसमुत्थितौ ।
निर्दोषो जीव एव स्याच्छङ्कैषा प्रत्युदीर्यते ॥ 121 ॥
इति कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥ 3 ॥
उक्तावस्थात्रयस्थस्य दोषभूयस्त्वसिद्धये ।
मुग्धन्यायः सम्प्रवृत्तः तेनोपोद्धातसङ्गतिः ॥ 122 ॥
इति मुग्धाधिकरणम् ॥ 4 ॥
अथाऽत्रोभयलिङ्गाधिकरणे परमात्मनः ।
चेतनत्वेन सामान्यात् प्राप्तो दोषो व्यपोद्यते ॥ 123 ॥
इति उभयलिङ्गाधिकरणम् ॥ 5 ॥
तथाऽहिकुण्डलनये प्रोक्तशुद्धिविशुद्धये ।
अचितो ब्रह्मरूपत्वं तेनोपोद्धातसङ्गतिः ॥ 124 ॥
इति अहिकुण्डलाधिकरणम् ॥ 6 ॥
उपादानात् प्रपञ्चस्य निमित्तं परमिष्यते ।
विशुद्धं तत्त्वमित्येवं चोद्यं परनयोऽच्छिनत् ॥ 125 ॥
इति पराधिकरणम् ॥ 7 ॥
फलप्रदं यदा कर्म कारणोपासना तदा ।
व्यर्थेत्याक्षेपशान्त्यर्थं दाता फलनयोदितः ॥ 126 ॥
इत्थमष्टाधिकरणी पेटिकाद्वयभूषिता ।
तृतीयस्य द्वितीयेऽस्मिन् पादेऽन्योन्यं सुसङ्गता ॥ 127 ॥
इति फलाधिकरणम् ॥ 8 ॥
उपासनाप्रसन्नेशफलदत्वप्रसङ्गतः ।
अनुष्ठानोपयोगाय तद्भेदाभेदचिन्तना ॥ 128 ॥
शाखन्तराधिकरणप्रोक्तयुक्तिसमुच्चयात् ।
तद्वैश्वानरविद्यादौ सर्ववेदान्तनीतितः ॥ 129 ॥
इति सर्ववेदान्तप्रत्याधिकरणम् ॥ 1 ॥
अथाऽन्यथात्वाधिकृतौ प्राग्वैश्वानरनीतिवत् ।
उद्गीथोपासनानामप्येकताऽपोद्यतेऽधुना ॥ 130 ॥
इति अन्यथात्वाधिकिरणम् ॥ 2 ॥
सर्वाभेदाधिकरणे रूपभेदविधानतः ।
प्राणविद्याभेदशङ्काऽपोद्यतेऽन्तर्गतत्वतः ॥ 131 ॥
इति सर्वाभेदाधिकरणम् ॥
सत्यादिविद्या भिन्ना स्यात् प्रक्रियारूपभेदतः ।
इति शङ्काऽऽनन्दनये स्वरूपात् प्रत्युदीर्यते ॥ 132 ॥
इति आनन्दाद्यधिकरणम् ॥ 4 ॥
कार्याख्यानाधिकरणे प्राणवासस्त्वचिन्तना ।
नियतेत्याह पूर्वाधिकरणन्यायसाम्यतः ॥ 133 ॥
इति कार्याख्यानाधिकरणम् ॥ 5 ॥
समानाधिकृतौ चाऽपि रूपभेदाभिमानतः ।
विद्याभेदोऽपोद्यतेऽन्तर्गतं हि ! वशितादिकम् ॥
इति समानाधिकरणम् ॥ 6 ॥
अथ सम्बन्धाधिकृतौ रूपभेदाभिमानतः ।
अक्ष्यर्कविद्यैक्यशङ्काऽपोद्यते स्थानभेदतः ॥ 135 ॥
इति सम्बन्धाधिकरणम् ॥ 7 ॥
सम्भृत्यधिकृतौ स्थानभेदाभावनिबन्धना ।
व्याप्तिः सर्वगता स्यादित्याशङ्का प्रत्युदीर्यते ॥ 136 ॥
इति सम्भृत्यधिकरणम् ॥ 8 ॥
ब्रूते पुरुषविद्याधिकृतिः सन्निधिमात्रतः ।
पुंविद्यां परविद्याङ्गं साधर्म्यादिह याजुषीम् ॥ 137 ॥
इति पुरुषविद्याधिकरणम् ॥ 9 ॥
अथ वेधाद्याधिकृतौ पुंविद्योक्तप्रयत्नतः ।
शुक्रमित्यादिमन्त्रणां शङ्किताऽपोद्यतेऽङ्गता ॥ 138 ॥
इति वेधाद्यधिकरणम् ॥ 10 ॥
प्रोच्यते हान्यदिकृतौ प्राग्यथा कर्मशेषता ।
तथैव वस्तुसामर्थ्यलिङ्गादन्योन्यशेषाता ॥ 139 ॥
इति हान्यधिकरणम् ॥
साम्परायाधिकरणे हानोपायनचिन्तना ।
स्थाप्यते कालनिप्कर्षात्तेनोपोद्धातसङ्गतिः ॥ 140 ॥
इति साम्परायाधिकरणम् ॥ 12 ॥
तथैवाऽनियमन्याये सर्वेषामर्चिरादिका ।
गतिश्चेत् पूर्वसिद्धान्ता भवेयुरुपपादिताः ॥ 141 ॥
इति अनियमाधिकरणम् ॥ 13 ॥
अथाऽक्षरध्यधिकृतावर्चिरादिगतेरिव ।
स्यात् सम्बन्धोऽक्षरधियामिति दृष्टन्तसङ्गतिः ॥ 142 ॥
इति अक्षरध्यधिकरणम् ॥ 14 ॥
ब्रह्मणो हेयराहित्यात् प्राणनादेरसम्भवात् ।
अन्तरत्वाधिकरणे जीवशङ्का व्यपोद्यते ॥ 143 ॥
इति अन्तरत्वाधिकरणम् ॥ 15 ॥
कामाद्यधिकृतौ पूर्वन्यायेन वशितादिकम् ।
नियतं स्यादितीयं तु शङ्काऽपि प्रत्युदीर्यते ॥ 144 ॥
इति कामाद्यधिकरणम् ॥ 16 ॥
स्यात् तन्निर्धारणन्याये प्राङ्न्यायाधीनशङ्कया ।
उद्गीथोपासनानां च नियमोऽपि व्यपोद्यते ॥ 145 ॥
इति तन्नर्धारणानियमाधिकरणम् ॥ 17 ॥
अपवादसमायातं पूर्वाधिकरणं यतः ।
स्यात् प्रदानाधिकरणं कामाधिकृतिशेषतः ॥ 146 ॥
इति प्रदानाधिकरणम् ॥ 18 ॥
प्राक् सर्वदह्नविद्यैक्ये प्रक्रियाबलसंमते ।
लिङ्गभूयस्त्वाधिकृतौ वाक्याच्छङ्का व्यपोद्यते ॥ 147 ॥
इति लिङ्गभूयस्त्वाधिकरणम् ॥ 19 ॥
अपवादकवाक्यस्याऽभावात् प्रकरणात् पुनः ।
शङ्का पूर्वविकल्पाख्यनयेन प्रत्युदीर्यते ॥ 148 ॥
इति पूर्वविकल्पाधिकरणम् ॥ 20 ॥
अथाऽऽसत्तेरतिशयात् तत्कालाकारचिन्तनम् ।
उपासकेऽपोद्यतेऽथ शरीरे भावनीतितः ॥ 149 ॥
इति शरीरे भावाधिकरणम् ॥ 21 ॥
पूर्वाधिकृतिसिद्धान्तादासत्त्यतिशयेऽपि च ।
अङ्गावबद्धनीत्या स्यात् सर्वोद्गीथसमन्वयः ॥ 150 ॥
इति अङ्गावबद्धाधिकरणम् ॥ 22 ॥
उद्गीथोपासनन्यायाद् वैश्वानरमतावपि ।
समस्त-व्यस्तताशङ्का भूम्नो न्यायादपोद्यते ॥ 151 ॥
इति भूमज्यायस्त्वाधिकरणम् ॥ 23 ॥
नानाशब्दाधिकरणे वैश्वानरनयक्रमात् ।
सदक्षिहार्दादिधियामैक्यशङ्का व्यपोद्यते ॥ 152 ॥
इति शब्दादिभेदाधिकरणम् ॥
विद्याभेदव्यवस्थायामेकस्यैवाऽधिकारिणः ।
समुच्चयस्याऽपवादः विकल्पनियमो यथा ॥ 153 ॥
इति विकल्पाधिकरणम् ॥ 25 ॥
उद्गीथोपास्तिनियमो विकल्पनियमो यथा ।
इति शङ्काऽपोद्यतेऽत्र यथाश्रयनये पुनः ॥ 154 ॥
एवं तृतीयाध्यायेऽस्मिन् ततीयचरणेऽपि च ।
षड्विंशत्यधिकाराणां सङ्गतिः समुदाहृता ॥ 155 ॥
इति यथाश्रयभावाधिकरणम् ॥ 26 ॥
चतुर्भिः सप्तभिर्द्वाभ्यां द्वाभ्यां न्यायैश्चतुर्विधैः ।
अङ्गपादे पञ्चदशाधिक्रियाणां समन्वयः ॥ 156 ॥
नोद्गीथोपास्तिवद् ब्रह्मप्राप्तेः क्रत्वर्थतेष्यते ।
पुरुषार्थाधिकरणे सङ्गतिः प्रत्युदाहृतिः ॥ 157 ॥
इति पुरुषार्थाधिकरणम् ॥
ब्रह्मसंस्थार्थवादत्वाभावेऽप्याश्रमवाक्ययोः ।
शङ्कोद्गीथार्थवादत्वे स्तुतिनीत्या प्रतीर्यते ॥ 158 ॥
इति स्तुतिमात्राधिकरणम् ॥ 2 ॥
उद्गीथोपस्तिविधिवत् पारिप्लवविधिर्भवेत् ।
इति शङ्काऽपोद्यतेऽत्र विद्यार्थत्वव्यवस्थया ॥ 159 ॥
इति पारिप्लवार्थाधिकरणम् ॥ 3 ॥
स्तुतिप्रसक्तौ न्यायौ द्वौ पारिव्राज्ये स्थिते सति ।
कर्मणोऽनङ्गताशङ्काऽपोद्याऽग्नीन्धननीतितः ॥ 160 ॥
इति अग्नीनधनाद्यधिकरणम् ॥ 4 ॥
यज्ञानपेक्षा विद्यैषा स्यादग्नीन्धननीतिवत् ।
इति सङ्काऽपोद्यतेऽथ सर्वापेक्षानये पुनः ॥ 161 ॥
इति सर्वापेक्षाधिकरणम् ॥ 5 ॥
गृहस्थस्याऽपि विद्या चेच्छान्तिदान्त्याद्योगतः ।
शमाद्यनङ्गताशङ्का शमनीत्या व्यपोद्यते ॥ 162 ॥
इति शमदमाद्यधिकरणम् ॥ 6 ॥
नापेक्षेत प्राणविद्या शममाहारगोचरम् ।
इति सर्वान्नानुमतिन्यायाच्छङ्का व्यपोदिता ॥ 163 ॥
इति सर्वान्नानुमत्यधिकरणम् ॥ 7 ॥
एवं कर्माऽखिलं ज्ञाने विदुषां चेत् समाप्यते ।
अन्येषां स्वैरिताक्षेपापवादो विहितत्वतः ॥ 164 ॥
इति विहितत्वाधिकरणम् ॥ 8 ॥
चेद्विद्याऽऽश्रमधर्माङ्गा नाऽधिकुर्यादनाश्रमी ।
इत्याक्षेपोऽपोद्यतेऽथाऽन्तरा चापि न ये पुनः ॥ 165 ॥
इति विधुराधिकरणम् ॥ 9 ॥
आरूढपतितानामप्यधिकारो भवेदिति ।
तद्भूताख्यनये शङ्का वचनेन व्यपोद्यते ॥ 166 ॥
इति तद्भूताधिकरणम् ॥ 10 ॥
उद्गीथोपासने ऋत्विङ्नाऽधिकुर्यात् फलश्रुतेः ।
इत्याक्षेपोऽपोद्यतेऽथ स्वामिनीतौ प्रसङ्गतः ॥ 167 ॥
इति स्वाम्यधिकरणम् ॥ 11 ॥
कर्माविरोधान्मननं सहकार्यन्तरं मतम् ।
प्राक् पञ्चमनयेनाऽस्य सङ्गतिस्त्वापवादिकी ॥ 168 ॥
इति सहकार्यन्तरविध्यधिकरणम् ॥ 22 ॥
विद्याकर्मविरुद्धत्वात् बाल्यं नैवाङ्गमिष्यते ।
इत्याक्षेपापवादः स्यादनाविष्कृतिनीतितः ॥ 169 ॥
इति अनाविष्काराधिकरणम् ॥ 13 ॥
कर्म नाङ्गं भोगहेतूपासने व्यभिचारतः ।
इत्याक्षेपप्रतिक्षेपः स्यादैहिकनयादिह ॥ 170 ॥
इति ऐहिकाधिकरणम् ॥ 14 ॥
एवं मुक्तिफलोपास्तौ प्रोक्तो न्यायोऽतिदिश्यते ।
ततश्चानियमः प्रायः प्रबलं प्रतिबन्धकम् ॥ 171 ॥
इति मुक्तिफलाधिकरणम् ॥ 15 ॥
एवं तृतीयाध्यास्य तुर्ये पादे सुसङ्गता ।
अधिक्रियापञ्चदशी बहुसङ्कीर्णनिया ॥ 172 ॥
इति चतुर्थः#ः पाद॥
अथ तुर्याध्यायपादप्रधानार्था मता इमे ।
अधाश्लेषोत्क्रान्तिमार्गपरब्रह्मोपसम्पदः ॥ 173 ॥
पेटिकाद्वयमाद्याङ्घ्रावेका विद्याविशोधिनी ।
नीतिषट्काऽपरा नीतिपञ्चका फलबोधिनी ॥ 174 ॥
शास्त्रार्थस्य सकृत्त्वे तु केयं निष्पत्तिचिन्तना ।
इत्याक्षेपं प्रतिक्षेप्तुमावृत्तिन्यायसम्भवः ॥ 175 ॥
इति आवृत्त्यधिकरणम् ॥ 1 ॥
साक्षात् सदाऽऽत्मनः स्फूर्तौ काऽसावावृत्तिसाध्यता ? ।
इत्याक्षेपं प्रतिक्षेप्तुमात्मत्वोपास्त्यधिक्रिया ॥ 176 ॥
इति आत्मत्वोपासनाधिकरणम् ॥ 2 ॥
स्वात्मत्वेनोपास्तिरूपा विद्यौपनिशषदी यदि ।
प्रतीकोपासनेऽप्येवमाक्षेपोऽपि व्यपोद्यते ॥ 177 ॥
इति प्रतीकाधिकरणम् ॥ 3 ॥
पुराऽपकृष्टे तूत्कृष्टदृष्टिर्न्याय्येत्युदीरिता ।
आदित्यादाविहोद्गीथदृष्टिशङ्का व्यपोद्यते ॥ 178 ॥
इति आदित्यादिमत्यधिकरणम् ॥ 4 ॥
आवर्तव्या यद्युपास्तिः स्वैरमावृत्तिरिष्यते ।
इति शङ्कापवादः स्यादासीनाधिकृतौ पुनः ॥ 179 ॥
इति आसीनाधिकरणम् ॥ 5 ॥
आवृत्ताऽप्युपसंहार्या स्वेच्छयेत्येष संशयः ।
आप्रयाणाधिकरणेऽपोद्यते श्रुतिदर्शनात् ॥ 180 ॥
इति आप्रयाणाधिकरणम् ॥ 6 ॥
प्राचीनपापानन्त्येन प्रायणान्ताऽप्युपासना ।
फलायाऽनवकाशेति चाऽऽक्षेपोऽपि ततो हतः ॥ 181 ॥
इति तदधिगमाधिकरणम् ॥ 7 ॥
अथेतराधिकरणे पुण्यानन्त्येऽपि पूर्ववत् ।
नाशाश्लेषाविमौ प्रामादिक (दुष्कर्म) सत्कर्मगोचरौ ॥ 182 ॥
इति इतराधिकरणम् ॥ 8 ॥
तथाऽनारब्धातिरिक्तविषयावित्यपि स्थितिः ।
नाऽतोध्यक्षविरोधः स्यादित्याक्षेपः प्रशाम्यति ॥ 183 ॥
इति अनारब्धकार्याधिकरणम् ॥ 9 ॥
सुकृतस्याऽप्यसंश्लेषे स्वैराचारः प्रसज्यते ।
इत्याक्षेपस्यापवादो ह्यद्निहोत्रनयं पुनः ॥ 184 ॥
इति अग्निहोत्राधिकरणम् ॥ 10 ॥
अग्निहोत्रादिसुकृतात् प्रारब्धस्य विनाशनम्
इत्याक्षेपस्याऽपवादे भोगान्तत्वव्यवस्थितेः ॥ 185 ॥
इति इतरक्षपणाधिकरणम् ॥ 11 ॥
इत्थं तुरीयाध्यायस्य पादे प्राथमिके पुनः ।
एकादशानां न्यायानां क्रमात् सङ्गतिसङ्ग्रहः ॥ 186 ॥
इति चतुर्थस्याऽध्यायस्य प्रथमः पादः ॥ 1 ॥
अत्र सप्तचतुस्सङ्ख्यैर्न्यायैः स्यात् पेटिकाद्वयम् ।
क्रमेण सामान्यगति - विशेषगतिगोचरम् ॥ 187 ॥
प्रारब्धान्तेऽप्यनियतोत्क्रान्तौ फलविलम्बनम् ।
इत्याक्षेपं प्रतिक्षेप्तुं वागादिन्यायचिन्तना ॥ 188 ॥
इति वगधिकरणम् ॥ 1 ॥
ततो मनोऽधिकरणं प्रत्युदाहरणागतम् ।
तत् सर्वं फलपूर्वत्वाद्योगिचिन्त्यं विचिन्त्यते ॥ 189 ॥
इति मनोऽधिकरणम् ॥ 2 ॥
उक्तं श्रौतं क्रमं ज्ञात्वा पूर्वपक्षस्य सम्भवात् ।
आपवादिकसङ्गत्या स्यादध्यक्षनयोदयः ॥ 190 ॥
इति अध्यक्षाधिकरणम् ॥ 3 ॥
यथाश्रुतार्थमादाय पूर्वपक्षसमुद्भवात् ।
भूताधिकरणे चाऽपि प्रोक्ताऽऽशङ्का व्यपोदिता ॥ 191 ॥
इति भूताधिकरणम् ॥ 4 ॥
अत्र ब्रह्माऽश्नुते विद्वानिति स्पष्टमनुश्रवात् ।
उत्क्रान्त्याक्षेपसंशान्त्यै आसृतिन्यायचिन्तना ॥ 192 ॥
इति आसृत्युपक्रमाधिकरणम् ॥ 5 ॥
उत्क्रान्तिमध्ये विश्रान्तेर्वैफल्याक्षेपशान्तये ।
फलस्य कल्पनायैव परसम्पत्त्यधिक्रिया ॥ 193 ॥
इति परसम्पत्त्यधिकरणम् ॥ 6 ॥
परसम्पत्तिसत्वे सा लय एव भविष्यति ।
इति शङ्कापवादायाऽविभागनयनिर्णयः ॥ 194 ॥
इति अविभागाधिकरणम् ॥ 7 ॥
गातिसामान्येऽपि नाडी दुर्विवेका यदा भवेत् ।
अनैयत्योदिताऽऽशङ्का तदोकोनीत्यपोदिता ॥ 195 ॥
इति तदोकोऽधिकरणम् ॥ 8 ॥
रात्रियाने रश्म्यभावादचिन्त्या गतिचिन्तना ।
इत्याक्षेपापवादोऽपि रश्म्यनुन्यायगोचरः ॥ 196 ॥
इति रश्म्यनुसाराधिकरणम् ॥ 9 ॥
सत्सु सौरेषु तेजस्सु कालदोषनिबन्धनम् ।
प्रतिहन्तुमिहाऽऽक्षेपं निशाधिकरणं मतम् ॥ 197 ॥
इति निशाधिकरणम् ॥ 10 ॥
दक्षिणायनयाने तु चन्द्रमः प्राप्तिसम्भवात् ।
निर्निरोधगतिस्थित्यै दक्षिणायननिर्णयः ॥ 198 ॥
इति दक्षिणायनाधिकरणम् ॥ 11 ॥
एवं चतुर्थाध्यायस्य द्वितीये चरणेऽपि च ।
द्विपेटिकान्तरक्षाधिकारणानि समागमन् ॥ 199 ॥
इति चतुर्थाऽध्यायस्य द्वितीयः पादः ॥ 2 ॥
कालदोषप्रशान्तावप्यर्चिरध्वाऽव्यवस्थितौ ।
विक्षेपान्मोक्षलाभस्याऽक्षेपोऽर्चिर्नित्यपोदितः ॥ 200 ॥
इति अर्चिराद्यधिकरणम् ॥ 1 ॥
शाखाविरोधशान्तावप्यवान्तरविकल्पतः ।
विक्षेपस्याऽपवादाय वायुन्यायसमुद्भवः ॥ 201 ॥
इति वाय्वधिकरणम् ॥ 2 ॥
वरुणाधिक्रियाऽप्येवमन्तस्संशयभेदिनी ।
योगाङ्गत्वेनाऽर्चिरादिचिन्तनं निरुपद्रवम् ॥ 202 ॥
इति वरुणाधिकरणम् ॥ 3 ॥
आतिवाहिकनीतावप्येवं विशयधूननम् ।
आक्षेपो वाऽपवादो वा सङ्गतिस्त्ववधार्यताम् ॥203 ॥
इति आतिवाहिकाधिकरणम् ॥ 4 ॥
आतिवाहिकनिर्णितावप्यतिवाह्याव्यवस्थितौ ।
वेफल्याक्षेपसंशान्त्यै कार्याधिकरणोदयः ॥ 204 ॥
इति कार्याधिकरणम् ॥ 5 ॥
तुर्याध्याये तुर्यपादे पेटिकाद्वयभूषिते ।
त्रिकद्विकविभागेन मुक्तयै (क्तै) श्वर्यं निरूप्यते ॥ 206 ॥
मुक्तिः स्वरूपाविर्भावश्चेत्सुषुप्तिरपीदृशी ।
मार्गादिचिन्तावैयर्थ्यं सम्पन्नीत्या व्यपोदितम् ॥ 207 ॥
इति सम्पद्याविर्भावाधिकरणम् ॥ 1 ॥
अविभागेनेति नये स्वरूपार्थविनिर्णयात् ।
उपोद्धातप्रक्रियया सङ्गतिर्वेदितुं क्षमा ॥ 208 ॥
इति अविभागेन दृष्टत्वाधिकरणम् ॥ 9 ॥
ब्रह्माधिकरणे चाऽपि प्रक्रिया प्रागुदीरिता ।
प्रोक्तैव सङ्गतिरपि तत्त्रिकं ह्येकपेटिका ॥ 209 ॥
इति ब्राह्माधिकरणम् ॥ 3 ॥
एवं सुक्तस्य चैश्वर्ये सर्वभोगात्मके सति ।
पर्यायेणैष संसार इत्याक्षेपोऽथ वारितः ॥ 210 ॥
इति सङ्कल्पाधिकरणम् ॥ 4 ॥
अविघातेच्छमैश्वर्यं सङ्कल्पनयबोधितम् ।
अनन्तरनये प्रायेणान्तरातङ्कशोधनम् ॥ 211 ॥
इति अभावाधिकरणम् ॥ 5 ॥
जगद्व्यापारविरहे सम्पत् सावधिका भवेत् ।
इत्याक्षेपप्रतिक्षेपो जगद्व्यापारनीतितः ॥ 212 ॥
एवं षण्नीतयः पादे तुरीये तुर्यलक्षणे ।
समागमन्शास्त्रसारनिरूपणपरे शुभम् ॥ 213 ॥
षट्पञ्चाशद्युतशतमिताधिकरणावलेः ।
आचार्यसूक्तिकुसुमपूर्णा सङ्गतिमालिका ॥ 214 ॥
इमां श्रीभाष्यनिर्णितनयसंङ्गतिमालिकाम् ।
समर्पितां मोदते स्म प्रतिगृह्य श्रियः पतिः ॥ 215 ॥
मालैषा संग्रहेच्छूनां मोदाय समगृह्यत ।
लक्ष्भीपुरं श्रीनिवासविपश्चिच्चक्रवर्तिना ॥ 216 ॥
**॥ इति नयसंङ्गतिमालिका समाप्ता । **
**इति जगद्व्यापारवर्जाधिकरणम् ॥ 6 ॥ **
————- ————- ———– ———–
]