ब्रह्मसूत्रदीपिका

[[ब्रह्मसूत्रदीपिका Source: EB]]

[

** सूत्रदीपिका \।**

** प्रथमोऽध्यायः**

कृष्णं रामं नारसिह्मं व्यासं नत्वा गुरूनपि ।

जगन्नाथाख्यायतिना क्रियते सूत्रदीपिका ॥

॥ प्रथमाध्यायस्य प्रथमः पादः ॥

॥ जिज्ञानाधिकरणम् ॥

  1. ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥

अथ अध्ययनशमदमादिरूपाधिकारसम्पत्त्यनन्तरम् । अतः मोक्षाख्यप्रयोजनस्य सत्वाद्विष्णोः प्रसादाद्वा । ओं गुणपूणर्स्य ब्रह्मणोः जिज्ञासा श्रवणादिरूपा कर्तव्येत्यर्थः ॥ 1 ॥

॥ जन्माधिकरणम् ॥ 2 ॥

  1. ॐ जन्माद्यस्य यतः ॐ ॥

अस्य प्रमितजीवजडात्मकप्रपंचस्य यतः यस्मात् । जन्मादि सृष्ययाद्यष्यकम् । भवतीति श्रुतं तदेव ब्रह्म नान्यदित्यर्थः ॥ 1 ॥

॥ शास्त्रयोनित्वाधिकणम् ॥ 3 ॥

  1. ॐ शास्त्रयोनित्वात् ॐ ॥

नानुमानतः रुद्रादेर्जगत्कारणत्वं कल्पनीयम् । कुतः शास्त्रयोनित्वात्, शास्त्रं ऋगादिरूपं योनिः ज्ञप्तिकारणं यस्य तच्छास्त्रयोनि । तस्य भावः शास्त्रयोनित्वं, तस्मात् जगत्कारणं ब्रह्म । शास्त्रैकसमधिगम्यत्वादित्यर्थः ॥

॥ समन्वयाधिकरणम् ॥

  1. ॐ तत्तु समन्वायात् ॐ ॥

तु शब्द एवार्थे । तदेव विष्णवाख्यं ब्रह्मैव । सं मुख्यतः सर्वशास्त्रयोनि न रुद्रादिः । कुतः समन्वायात् समीचीनोपक्रमादितात्पर्यलिङ्गदित्यर्थः ।

॥ इक्षत्यधिकरणम् ॥ 5 ॥

  1. ॐ इक्षतेर्नाशब्दं ॐ ॥

तद्ब्रह्म । अशब्दं न, शब्दावाच्यं न, किन्तु वाच्यमेव । कुतः ईक्षतेः ईक्षतिर्ज्ञानम् ॥ तद्विषयत्वादित्यर्थः ॥

  1. ॐ गौणश्चेन्नात्मशब्दात् ॐ ॥

गौणः सत्त्वादिगुणबद्धो जीव एव । “स एतस्मादिति” (प्र.5-5) ईक्षतिश्रुत्युक्त इति चेन्न । कुतः आत्मशब्दात् । ईक्षणीयवस्तुनि आत्मानं पश्येदित्यात्मशब्दश्रवणादित्यर्थः ॥ 2 ॥

  1. ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ॥

तन्निष्ठस्य परमात्मज्ञानिनः । मोक्षोपदेशात् “यस्यानुवित्तः” (बृ.उ.6-4-13) इत्यादौ मोक्षस्य श्रुतत्वात् । आत्मशब्दमुख्यवाच्यो न जीव इत्यर्थः ॥ 3 ॥

  1. ॐ हेयत्वावचनाच्च ॐ ॥

हेयत्वादचनात् ब्रह्मणो मोक्षार्थं प्राधान्येनाज्ञेयत्वरूपहेयत्वस्याप्रतिपादनात् प्रत्युत “जानथेति” अहेयत्ववचनाच्च न गौण; आत्मशब्दवाच्यः । किन्तु निर्गुणो विष्णुरेवेत्यर्थः ॥ 4 ॥

  1. ॐ स्वाप्ययात् ॐ ॥

स्वस्य स्वस्मिन् अप्ययात् अप्ययपदोक्तलयवचनात् । आत्मानं विलापयतीति श्रुत्युक्तो निर्गुण एव न गौणः । अत एव चासौ शब्दवाच्य इत्यर्थः ॥ 5 ॥

  1. ॐ गतिसामान्यात् ॐ ॥

गतेर्नानाशास्वाजन्यज्ञानस्य । सामान्यात् एकरूपत्वश्रवणात् । न विष्णोरन्यः कारणत्वेन शाखान्तरप्रतिपाद्य इत्यर्थः ॥ 6 ॥

  1. ॐ श्रुतत्वाच्च ॐ ॥

“एको देवः” इति (श्वे.6-1) श्रुत्यक्तत्वाच्च न शब्दावाच्यं ब्रह्मेत्यर्थः ॥ 7 ॥

॥ आनन्दमयाधिकरणम् ॥ 6 ॥

  1. ॐ आनन्दमयोऽभ्यासात् ॐ ॥

आनन्दमयादिशब्दवाच्यो विष्णुरेव न प्रकृत्यादि । कुतः? अभ्यासात् प्रतिप्रकरणमानन्दमयादौ ब्रह्मशब्दश्रवणादित्यर्थः ॥ 1 ॥

  1. ॐ विकारशब्दान्नेतिचेन्न प्राचुर्यात् ॐ ॥

विकारशब्दात् विकारार्थकमयट्शब्दात् आनन्दमयादिर्विष्णुनर्#ेतिचेन्न । कुतः? प्राचुर्यात् मयट्शब्दस्य प्राचुर्यपदोक्तपूर्णत्वाभिधायकत्वादित्यर्थः ॥ 2 ॥

  1. ॐ तद्धेतुव्यपदेशाच्च ॐ ॥

चः समुच्चये । तस्य आनन्दमयस्य । विष्णुत्वे लोकचेष्यकत्वाख्यहेतोर्व्यपदेशात् । “कोह्येवान्यात्” इति (तै.2-8) श्रुतौ उक्तत्वाच्च आनन्दमयो विष्णुरेवेत्यर्थः ॥ 3 ॥

  1. ॐ मान्त्रवर्णिकमेव च गीयते ॐ ॥

यतो मान्त्रवर्णिकं “सत्यं ज्ञानमनन्तं ब्रह्म” इति मन्त्रवर्णोक्तं ब्रह्म गीयते आनन्दमयादिशब्दैः प्रतिपाद्यते । अत आनन्दमयादिशब्दवाच्यं ब्रह्मैवेत्यर्थः ॥ 4 ॥

  1. ॐ नेतरोऽनुपपत्तेः ॐ ॥

इतरः चतुमर्#ुखादिः । न कुतः? अनुपपत्तेः “ब्रह्मविदाप्नोति परम्” इति (तै.उ.2-1-1) मोक्षजनकज्ञानविषयत्वायोगादित्यर्थः ॥ 5 ॥

  1. ॐ भेदव्यपदेशाच्च ॐ ॥

चर्तुमुखादेरानन्दमयस्य भेदकधमर्#ोक्तेश्च नानन्दमय इतर इत्यर्थः ॥ 6 ॥

  1. ॐ कामाच्च नानुमानापेक्षा ॐ ॥

अद्वैतश्रुत्यनुकूलानुमानस्याभावात् । केवलानुमानस्य च कामात् इच्छामनुसृत्य प्रवृत्तत्वान्नानुमानापेक्षा अतीन्द्रियार्थविषये शुष्कानुमानापेक्षा न कार्यात्यर्थः । 7 ॥

  1. ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ ॥

युक्तिसमुच्चये चशब्दः । यतः अस्मिन्नानन्दमयप्रकरणे मोक्षेऽप्यस्य जीवस्य । तद्योगं आनन्दमयादिना योगं सम्बन्धम् । शास्ति श्रुतिः प्रतिपादयति । अतोऽपि आनन्दमयादिः ब्रह्मैव, न देहादिरित्यर्थः ॥ 8 ॥

॥ अन्तस्थत्वाधिकरणम् ॥

  1. ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥

अन्तः “अन्तः प्रविष्यम्” इति (तै.आ.3-1) हृदयान्तः श्रुतं ब्रह्मैव न इन्द्रादिः । कुतः? तद्धर्मोपदेशात् तस्मिन्नन्तः श्रुते क्षीराब्धिमध्यवर्तित्व, प्रलयोदधिस्थितत्व, ब्रह्माण्डवीर्यत्वादिरूपविष्णुधर्माणामन्तः समुद्र (तै.आ.3-11-1) इत्यादौ श्रुतत्वादित्यर्थः ॥ 2 ॥ ॥ आकाशाधिकरणम् ॥ 8 ॥

  1. ॐ आकाशस्तल्लिङ्गात् ॐ ॥

आकाशः आकाश्शब्दवाच्यः विष्णुरेव, न प्रसिद्धाकाशः । कुतः? तल्लिङ्गात् छन्दोग (छां.1-9) श्रुत्युक्ताकाशे परोवरीयस्त्वादिरूपविष्णुलिङ्गस्य श्रवणशदित्यर्थः ॥

॥ प्राणाधिकरणम् ॥ 9 ॥

  1. ॐ अत एव प्राणः ॐ ॥

“तद्वै त्वं प्राणो अभवः” इत्युक्तः प्राणो विष्णुरेव नान्यः । कुतः? अतएव “श्रीश्च ते” इति (तै.आ.3-13) श्रीपतित्वलिङ्गादेव इत्यर्थः ॥ ॥ ज्योतिरधिकरणम् ॥ 10 ॥

  1. ॐ ज्योतिश्चरणाभिधानात् ॐ ॥

ज्योतिः ज्योतिश्शब्दवाच्यं ब्रह्मैव नत्वन्यम् । कुतः ? चरणाभिधानात् कर्णादीनां विचरणाभिधानात् । (ऋ.6-9-6) “वि मे कर्णा” इति ज्योतिषः साकल्येन कर्णादिविदूरत्वश्रवणादित्यर्थः ॥

॥ छन्देभिधानाधिकरणम् ॥ 11 ॥

  1. ॐ छन्दोऽभिधानान्नेतिचेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनम् ॐ ॥

छन्दोभिधानात् । ननु छन्दोगश्रुतिस्थगायत्रीपदेन चतुविर्#ंशत्यक्षरात्मकछन्दसः प्रतिपादनात् गायत्रीशब्दवाच्यो विष्णुर्नेतिचन्न । कुतः? तथाहि दर्शनं हि यस्मात् तथा गानत्राणकर्तृत्वनिमित्तेन दर्शनं विष्णोः गायत्रीशब्दवाच्यत्वप्रतिपादिका (छां.3-12-1) “गायति त्रायति च” इति श्रुतिरस्ति । तस्मात् व्यर्थं गायत्रीपदेन विष्णोरभिधानमित्यत उक्तं तथेत्यादि । तथा चेतोर्पणनिगदात् विष्णोः तथा गायत्रयादिशब्दप्रवृत्तिनिमित्तवत्वेन चेतसि अर्पणाय उपासनाय । निगदात् श्रुतौ प्रतिपादनादित्यर्थः । तथा च न वैयथ्यर्मिति भावः ॥ 1 ॥

  1. ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ ॥

एवमित्यस्यावृत्तिः । एवं गायत्रीशबदवाच्यं ब्रह्मेत्येवमेव युक्तम् । कुतः? एवं भूतादिपादव्यपदेशोपपत्तेः । “पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि” इति । (छां.3-12-6) एवरूपभूतामृतांशवत्वोक्तेश्च तस्य च विष्णावेवोपपत्तेः अन्यत्र अनुपपत्तेश्चेत्यर्थः ॥ 2 ॥

  1. ॐ उपदेशभेदान्नेतिचेन्नोभयस्मिन्नप्यविरोधात् ॐ ॥

उपदेशभेदात् गायत्रीज्यातिषो; द्युस्थत्व “त्रिपादस्यामृतं दिवि” (छां.3-12-6) दिवः परत्व “परो दिवः” (छां.3-13-7) रूपविरुद्धधर्मबोधकश्रुतिभेदान्नेतिचेत् तद्दयं विष्णवाख्यमेकं वस्तु न किन्तु भिन्नमेवेति चेन्न । कुतः? उभयस्मिन् श्रुतिवाक्येऽपि एक्य प्रतिपाद्यत्वेऽपि अविरोधात् । त्रिसप्तलोकविवक्षया विरोधाभावादित्यर्थः ॥ 3 ॥

। पादान्त्यप्राणाधिकरणम् ॥ 12 ॥

  1. ॐ प्राणस्तथानुगमात् ॐ ॥

तथा “तद्वै त्वं” इति (तै.आ.3-14-4) तैत्तिरीयोक्तप्राणवत् “तावा एताः” इति ऐतरेयोकत प्राणोऽपि विष्णुरेव । कुतः? अनुगमात् । देवतोपास्यत्वदिविष्णुलिङ्गब्रह्मशब्दानां असकृच्छ्रवणादित्यर्थः ॥ 1 ॥

  1. ॐ नवक्तुरात्मोपदेशादितिचेदध्यात्मसम्बन्धभूमाह्यस्मिन् ॐ ॥

द्वितीयार्थे षष्ठी । वक्तुः बृहतीसहस्रवक्तारं विश्वामित्रं प्रति इन्द्रेणात्मोपदेशात् । आत्मनः स्वस्य प्राणतयोपदेशात् इन्द्र एवायं प्राणः न विष्णुरिति चेत् । नेति शेषः । तस्यावृत्तिः । अनुगमादित्यनुवर्तते । तथा च प्रागुक्तानुगमहेतोः नेन्द्रः प्राणः । तथासत्युपदेशविरोध इत्यपि न । कुतः? यस्मात् अस्मिन् प्रकरणे भगवतः अध्यात्मसम्बन्धभूमा इन्द्रविश्वामिदिरूपबहुदेहसम्बोधः उक्तोऽस्ति तस्मादित्यर्थः । यद्वा हि यस्मात् अस्मिन्निन्द्रे । अध्यात्मसम्बन्धभूमा । अधि अधिकस्यात्मनः सम्बन्धस्यावेशस्य भूमा बाहुल्यं विद्यते तस्मादित्यर्थः ॥ 2 ॥

  1. ॐ शास्त्रष्ययातूपदेशो वामदेववत् ॐ ॥

तु शब्द एवार्थे । वामदेववत् यथा अन्तर्यामिविवक्षया वामदेवर्षिः “अहं मनुरभवं” इति स्वस्य मनुसूर्याद्यैक्यमाह तद्वत् । शास्त्रदृष्यया शास्ति सर्वमिति शास्त्रमन्तर्यामी तद्दृष्यया तद्विवक्षयैवोपदेशः प्राणोऽहमिति व्यपदेशः । नत्वैक्येनेत्यर्थः ॥ 3 ॥

  1. ॐ जीवमुख्यप्राणलिङ्गान्नेतिचेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॐ ॥

जीवमुख्यप्राणलिङ्गात् शतायुष्ट्वादिजीवलिङ्गानां इन्द्रियदेवैः संवादादिरूपमुख्यप्राणलिङ्गनांच श्रवणात् (ऐ.आ.2-2-4) “तावन्ति शतसंवत्सरस्य”, “ता अहिंसन्तेति” (ऐ.आ.2-1-4) प्राणो अन्य एव न विष्णुरितिचेन्न । कुतः? अनुगमात् । न च लिङ्गविरोधः । तल्लिङ्गानां अन्तर्यामिविषयत्वोपपत्तेः इत्यादिकमध्याहार्यम् । किमर्थमन्तर्यामिकथनमित्यत उक्तं उपासात्रैविध्यादिति । अन्तर्बहिःसर्वगतभेदेन ब्रह्मोपासनस्य त्रिविधत्वात् । इह प्रकरणे । तत्त्रैविध्यस्य आश्रितत्वात् उक्तत्वात् तद्योगात् तेषां अधिकारिणां त्रिविधोपासनयोग्यत्वादित्यर्थः । तथाच तत्तच्छब्दैस्तत्तदधिकारिभेदेनोपासनार्थं अन्तर्यामिकथनं युक्तमिति भावः ॥ 4 ॥

इति श्रीजगन्नाथयतिकृतायां सूत्रदीकायां प्रथमाध्यायस्य प्रथमः पादः ॥ 1 ॥ 1 ॥

॥ सर्वगतत्वाधिकरणम् ॥ 1 ॥

  1. ॐ सर्वत्र प्रसिद्धोपदषात् ॐ ॥

तत्विति वर्तते । सर्वत्र पृथिव्यादिषु । उच्यमानं वस्तु तत्तु नारायणाख्यं ब्रह्मैव न त्वन्यत् । कुतः? प्रसिद्धोपदेशात् “एतमेव ब्रह्म” इति (ऐ.आ.3-2-3-12) सर्वगते वस्तुनि नारायणवाचित्वेन श्रुत्यादिप्रसिद्धब्रह्मशब्दश्रवणादित्यर्थः ॥ 1 ॥

  1. ॐ विवक्षितगुणोपपत्तेश्च ॐ ॥

चः समुच्चयेऽवधारणे वा । सर्वगते । श्रुत्येतिशेषः । तथाच विवक्षितानामितःपरं सर्वगते श्रुत्या तन्निष्ठतया वक्तुं योग्यानां वक्ष्यमाणानां वा अश्रुतत्वादिगुणानां विष्णोरेव योग्यत्वेन तस्मिन्नेवोपपत्तेः अन्यत्रानुपपत्तेश्च विष्णुरेव सर्वगत इत्यर्थः ॥ 2 ॥

  1. ॐ अनुपपत्तेस्तु न शरीरः ॐ ॥

तुशब्द एवार्थे । शारीरो जीवः । आदित्यो वा । न सर्वगतः कुतः? अनुपपत्तेः एकस्य जीवस्य सर्वशरीरस्थत्वायोगादेवेत्यर्थः ॥ 3 ॥

  1. ॐ कर्मकर्तृव्यपदेशाच्च ॐ ॥

सर्वगते वस्तुनि “आत्मानम्” इति (ऐ.आ.3-2-3) कर्मत्वस्य जीवे च शंसतीति तद्विरुद्धर्कर्तृकत्वस्य व्यपदेशादुक्तत्वाच्च न जीवः सर्वगत इत्यर्थः ॥ 4 ॥

  1. ॐ शब्दविशेषात् ॐ ॥

“एमेव ब्रह्म” इति (ऐ.आ.3-2-3) वाक्ये ब्रह्मशब्दस्यावधारणाथर्कैवशब्दाख्यविशेषणवत्वात् ब्रह्मशब्दो न जीवपर इत्यर्थः ॥ 5 ॥

  1. ॐ स्मृतेश्च ॐ ॥

चः समुच्चये । न केवलं श्रुत्युक्तत्वात् ब्रह्मशब्दो न जीवपर इति किन्तु “अहमात्मा गुडाकेश” (भ.गीता.10-20) इत्यादिस्मृतिसद्भावाच्च ब्रह्मशब्दो न जीवपर इत्यर्थः ॥ 6 ॥

  1. ॐ अर्भकौकस्त्वात्तद्वयपदेशाच्च नेतिचेन्न निचाय्यत्वादेवं व्योमवच्च ॐ ॥

अर्भकौकस्त्वात् “सर्वेषु भूतेषु” इति (ऐ.आ.3-2-3-12) सर्वगतवस्तुनः सर्वप्राणिहृदयाकाशरूपाल्पस्थानत्वकथनात् । तद्वयपदेशात् । तस्य जीवस्य तच्छतिलिङ्गादिना व्यपदेशात् । उक्तत्वाच्च । नेतिचेत् ब्रह्मैव सर्वगतमित्युक्तं नेतिचेन्न । कुतः तेषां विष्णावेवोपपत्तेरिति शेषः । न च वैयर्थ्यम् । एवं निचाय्यत्वात् । एवमर्भकौकस्त्वादिरूपेण विष्णोरेवोपास्यत्वात् । तथाच न वैयर्थ्यमिति भावः । श्रुतिलिङ्गादीनां ब्रह्मपरत्वेन न तद्विरोध इति भावः ।व्याप्तस्य विष्णोः कथमल्पस्थानस्थितिरित्यत उक्तं व्योमवच्चेति । यथाऽऽकाशस्य व्याप्तस्यापि गृहाद्येकदेशावस्थितिः तद्वद्विष्णोरपीत्यर्थः ॥ 7 ॥

  1. ॐ सम्भोगप्राप्तिरितिचेन्न वैशेष्यात् ॐ ॥

यतो ब्रह्मणः व्यामवत् सर्वजीवशरीरस्थत्वे सम्भोगप्राप्तिः समानभोगप्राप्तिरित्यतो बाधकान्नब्रह्म सर्वगतमिति चेन्न । कुतः वैशेष्यात् विष्णोः सामर्थ्यविशेषवत्वादित्यर्थः । तथा च न तस्य जीवसमानभोगप्राप्तिरिति भावः ॥ 8 ॥

॥ अत्तृत्वाधिकणम् ॥ 2 ॥

  1. ॐ अत्ता चराचरग्रहणात् ॐ ॥

अत्ता “सर्वं वा अत्ति” इत्युक्तसर्वात्ता विष्णुरेव न त्वदितिः । कुतः? चराचरग्रहाणात् चराचरस्य चेतनाचेतनात्मकप्रपञ्चस्य “सर्वम्” इति श्रुतौ अद्यतयोक्तत्वादित्यर्थः ॥ 1 ॥

  1. ॐ प्रकणाच्च ॐ ॥

“नैवेह किञ्चन” इति विष्णुप्रकरणबलाच्च विष्णुरेव अत्तेत्यर्थः ॥ 2 ॥

। गुहाधिकरणम् ॥ 3 ॥

  1. ॐ गुहां प्रविष्यावात्मानौ हि तद्दर्शनात् ॐ ॥

तत्त्विति वचनविपरिणामेनानुवर्तते । आत्मानौ आदेयं मातीति व्युत्पत्त्या “ऋतं पिबन्तौ” (कठ.1-3-1) इति श्रुतिस्थपिबच्छब्दोदितशुभकर्मफलभोक्तारौ आत्मान्तरात्माख्यविष्णुरुपे एव नतु जीवेश्वरौ । कुतः? हि यस्मात्तौ गुहां प्रविष्यौ हृदयगुहां प्रविष्यौ तस्मादित्यर्थः । हिशब्देन हृदयगुहास्थितत्वलिङ्गस्य “यो वेद” (तै.उ.2-1) इति श्रुतिप्रसिदिं्ध सूचयति । द्विरूपतया शरीरहृदयगुहास्थितत्वे प्रमाणमाह । तद्वर्शनादिति । तस्य हरेः द्विरूपतया शरीरहृदयगुहास्थितत्वस्य तस्य “धर्मासमन्ता” (ऋ.10-114-1) इति श्रुतावुक्तत्वादित्यर्थः ॥ 1 ॥

  1. ॐ विशेषणाच्च ॐ ॥

चः युक्तिसमुच्चये । “यः सेतुः” (कठ.1-3-2) इति एकवचनेन विशेषणात् एक एव पाता स च सुतुत्वब्रह्मत्वादिना

विशेषित्वात् विष्णुरेव न जीव इत्यर्थः ॥ 2 ॥

॥ अन्तराधिकणम् ॥ 4 ॥

  1. ॐ अन्तर उपपत्तेः ॐ ॥

“य एषोऽन्तरक्षिणि” इतिश्रुत्युक्तोऽन्तरः चक्षुरन्तःस्थितो विष्णुरेव नत्वग्निः । कुतः? उपपत्तषः एतदमृतत्वब्रह्मशब्दादीनां अन्तरे श्रवणात् । तेषां च विष्णावेवोपपत्तेरित्यर्थः ॥ 1 ॥

  1. ॐ स्थानादिव्यपदेशाच्च ॐ ॥

ब्रह्मस्थानभूताक्षिशक्तेः तदधिष्ठातृब्रह्मशक्तेश्च । व्यपदेशात् “सर्पिर्वा उदकं वा सिञ्चति” (छां.4-15-1) इत्युक्तत्वाच्चक्षुरन्तस्थो विष्णुरेवेत्यर्थः ॥ 2 ॥

  1. ॐ सुखविशिष्याभिधानादेव च ॐ ॥

चः समुच्चये । सुखविशिष्याभिधानात् । “कं ब्रह्म” इत्यादि (छां.4-10) प्रकरणे विशिष्यसुखस्य पूर्णसुखस्वाभिधानादेव चक्षुरन्तरो विष्णुरेव किमु “खं ब्रह्म” इति पूर्णज्ञानादपीत्यर्थः ॥ 3 ॥

  1. ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥

श्रुतोपनिषदां श्रुतमतध्यातैतद्विद्यानां पुंसाम् । केन वायुना । कयोः कार्यपरब्रह्मणोः । गतेः प्राप्तेः । “स एनान् ब्रह्म गमयति” इति (छां.4-15) श्रुतावभिधानाच्च चक्षुरन्तरो विष्णुरेवेत्यर्थः ॥ 4 ॥

  1. ॐ अनवस्थितेरसम्भवाच्च नेतरः ॐ ॥

इतरः अग्निः । चक्षुरन्तरो न किन्तु विष्णुरेव । कुतः अनवस्थितेः जीवस्याग्नेर्जीवान्तरनियामकत्वे तस्यापि जीवत्वाविशेषात् तस्यापि नियामकान्तराभ्युपगमे तस्याप्वेवमित्यनवस्थानात् । अग्न्यादिजीवस्य जीवान्तरनियामकत्वासम्भवाच्चेत्यर्थः ॥ 5 ॥

॥ अन्तर्याभ्यधिकरणम् ॥ 5 ॥

  1. ॐ अन्तर्याभ्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥

“एष आत्मान्तर्यमी” इति (बृ.5-7-3) श्रुत्युक्तोऽन्तर्यमी विष्णुरेव न प्रधानादिः । कुतः? अधिदैवादिषु अधिदैवाध्यातमाधिभूतादिप्रकरणेषु । तद्धर्मव्यपदेशात् तस्मिन् अन्तर्यमिणि । तस्य “यं पृथिवी न वेद” इति (बृ.5-7-3) श्रुतौ उक्तस्याविदितत्वादिब्रह्मधर्मस्य व्यपदेशात् उक्तत्वादित्यर्थः ॥ 1 ॥

  1. ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ ॥

चः समुच्चये । स्मार्तं कापिलस्मृत्युक्तम् । प्रधानं जीवश्च अन्तर्यामी न । कुतः? अतद्धर्माभिलापात् तद्धर्माणां प्रधानजीवधर्माणां त्रिगुणत्वसंसारित्वादीनाम् । अनभिलापात् अनुक्तत्वादित्यर्थः ॥ 2 ॥

  1. ॐ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॐ ॥

चः नञोऽनुकर्षणार्थः । हि यस्मात् । उभये मध्यन्दिनाः । काण्वाश्च “अन्तर्यामिणः सकाशाद्भिन्नत्वेनाधीयते पठन्ति । तस्माच्छारीरो जीवश्च नान्तयर्मीत्यर्थः ॥ 3 ॥

। अदृश्यत्वाधिकणम् ॥ 6 ॥

  1. ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ॥

अदृश्यत्वादिगुणकः “यत्तदद्रेश्यम्” इति (मुं.1-1-6) श्रुत्युक्तादृश्यत्वादिधर्मविशिष्याक्षरशब्दवाच्यो विष्णुरेव न प्रकृत्यादिः । कुतः? धर्मोक्तेः ऋगादिपरविद्याविषयरूपविष्णुधर्मस्य “यया” इति (मुं.1-1-5) श्रुत्युक्तत्वादित्यर्थः ॥ 1 ॥

  1. ॐ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॐ ॥

चः समुच्चये । इतरौ प्रकृतिद्वयम् । विरिञ्चरुद्रौ च नादृश्यत्वादिगुणकौ । कुतः? विशेषणभेदव्यपदेशाभ्याम् । प्रतिज्ञाद्वये क्रमेणैकैकहेत्वन्वयः । सार्वज्ञादिविशेषणात् । “तस्मादेतत्” इति (मु.1-1-9) अदृश्यत्वादिगुणकाक्षराद्विरिञ्चरुदयोभर्#ेदोक्तेश्चेत्यर्थः । 2 ॥

  1. ॐ रूपोन्यासाच्च ॐ ॥

“यदा पश्यः पश्यते” इति (मु.3-1-3) विष्ण्वसाधारणस्वर्णरूपप्रतिपादनाच्चादृश्यत्वादिगुणको विष्णुरेवेत्यर्थः ॥ 3 ॥

। वैश्वानराधिकरणम् ॥ 7 ॥

240 ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥

वैश्वानरः “यस्त्वेतम्” इत्यादि (छां.5-18-1) वाक्यगतवैश्वानरादिशब्दवाच्यो विष्णुरेव नत्वग्निः । कुतः? । साधारणशब्दविशषात् अग्नाविष्ण्वोः साधारणस्य वैश्वानरशब्दस्य “आत्मानं वैश्वानरं” इति श्रुतावात्मशब्देन विशेषितत्वादित्यर्थः । 1 ॥

  1. ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ॥

इति स्मर्यमाणं “अहं वैश्वानरो भूत्वा” इति (भ.गीता.15-14) स्मृत्युक्तं विष्णोर्वैश्वानरत्वं, अनुमानं वैश्वानरविद्यायाः गीतोक्तभगवत्परत्वस्यानुमापकं स्यात् भवेदित्यर्थः ॥ 2 ॥

  1. ॐ शब्दादिभ्योऽन्तःप्रतिष्ठानान्नेति चेन्न तथादृष्ययुपदेशादसम्भवात्पुरुषविधमपि चैनमधीयते ॐ ॥

युक्तिसमुच्चये चशब्दः । शब्दादिभ्यः अग्निशब्दहोमाधिकरणत्वलिङ्गादित्यर्थः । अन्तःप्रतिष्ठानात् पाचकत्वेन शरीरान्तरवस्थानाच्च वैश्वानरो न विष्णुः किन्तु अग्निरेवेति चेन्न । कुतः? तथा दृष्ययुपदेशात् तथा अग्न्यादिनामलिङ्गकर्मवत्वेन दृष्ययुपदेशात् उपासनोपदेशादित्यर्थः । तथा च अग्न्यादिश्रुतिलिङ्गानां विष्णौ सावकाशत्वान्न तद्विरोध इति भावः । किञ्चात्रोक्तात्मत्वब्रह्मत्वादीनां अग्न्यादावसम्भवाच्च वैश्वनरो विष्णुरेव । अपिच यतः छन्दोगाः एनं वैश्वनरं पुरुषविधं पुरुषसूक्तप्रतिपाद्यनारायणसमानगुणकमेवाधीयतेऽभिदधति । अतोऽपि विष्णुरेवेत्यर्थः । चशब्देन पुरुषसूक्तस्य विष्णुपरत्वं बहुप्रमाणसिद्धमिति सूचितम् ॥ 3 ॥

  1. ॐ अत एव न देवता भूतं च ॐ ॥

देवता अग्न्यादिरूपा । भूतं तदभिमन्यमानतेजोभूतं च वैवानरशब्दवाच्यं न । कुतः? अत एव निरवकाशात्मशब्दादिहेतोरेवेत्यथर्ः ॥ 4 ॥

  1. ॐ साक्षादप्यविरोधं जैमिनिः ॐ ॥

साक्षात् मुख्यवृत्त्या । अपि ब्रह्मणोऽग्न्यादिशब्दवाच्यत्वेऽपि अविरोधं अज्ञानादिनिमित्तान्तरेण अग्न्यादौ तत्तच्छब्दविरोधाभावं जैमिनिराचार्यो कक्तीत्यर्थः ॥ 5 ॥

  1. ॐ अभिव्यक्तेरित्याश्मरथ्यः ॐ ॥

अभिव्यक्तेः अग्न्यादिषु ब्रह्मोपास्तौ कृतायां तेषु ब्रह्मणोऽभिव्यक्तेः । तन्निमित्तोऽग्न्यादिसूक्तनियम इति आश्मरथ्याचार्यो मन्यत इत्यर्थः ॥ 6 ॥

  1. ॐ अनुस्मृतेर्बादरिः ॐ ॥

अनुस्मृतेः तत्तत्सूक्ताद्युपासकैरग्न्यादिष्वेव ब्रह्मणोऽनुस्मृतेः अनुसन्धानाद्धेतोः अग्न्यादिसूक्तव्यवस्थेति बादरिवर्क्तीत्यर्थः ॥ 7 ॥

  1. ॐ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॐ ॥

हि यस्मात् । “तं यथा” इति हि प्रसिद्धा श्रुतिः तथा दर्शयति यथा जैमिनिमतं तथा प्रतिपादयति । तस्माज्जैमिनि; स्वोक्त्यनुकूलश्रुत्यनुसारेण । सम्पत्तेः अग्न्यादिसूक्तोपासकानामग्न्यादिप्राप्तिहेतोस्तद्विवक्षया सूक्तादिनियम इत्याहेत्यर्थः ॥ 8 ॥

  1. ॐ आमनन्ति चैनमस्मिन् ॐ ॥

चः शंकानिवर्तकः । यस्मात् एवं विष्णुम् । अग्न्यादावामनन्ति तत्स्थतया “योग्नौ तिष्ठन्” (बृ.5-7-5) इत्याद्याः प्रतिपादयन्ति । तस्मात् कथमग्न्यादिषु विष्णूपास्त्या अग्न्यादिप्राप्तिर्भवतीति शंका निवृत्ता । कुतः? अग्न्दपदेन तत्स्थभगवत्प्राप्तेरेवाभिप्रेतत्वादित्यर्थः ॥ 9 ॥

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां प्रथमाध्यायस्य द्वितीयः पादः ॥ 1 ॥ 2 ॥

॥ द्युभ्वाधिकणम् ॥ 1 ॥

  1. ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥

द्युभ्वाद्यायतनं “यस्मिन्” (मुं.2-2-5) इति वाक्योक्तस्वर्गभूम्यादिसवर्#ाश्रयो विष्णुरेव नत्वन्यः । कुतः? स्वशब्दात् स्वेतिशब्दः स्वशब्द; स्वशब्दागृहीतब्रह्मवाचकात्मशब्दादित्यर्थः ॥ 1 ॥

  1. ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ॥

द्यभ्वाद्ययतनं न विष्णोरन्यः किन्तु विष्णुरेव । कुतः? मुक्तोपसृप्यव्यपदेशात् । भावप्रधानोऽयम् । द्युभ्वाद्यायतनस्य वस्तुनो “अमृतस्यैष सेतुः” इति मुक्तप्राप्यत्ववचनात्तस्य चान्यत्रायोगादित्यथर्ः ॥ 2 ॥

  1. ॐ नानुमानमतच्छब्दात् ॐ ॥

अनुमानं आनुमानमिति वा । अनुमानसिद्धप्रामाण्ययुतपाशुपताद्यागमै; सर्वाश्रयतया कल्पितं रुद्रप्राधानादिकं द्युभ्वाद्यायतनं न । कुतः? अतच्छब्दात् भस्मधरोग्रत्वादितच्छतिलिङ्गाद्यभावादित्यर्थः ॥ 3 ॥

  1. ॐ प्राणभृच्च ॐ ॥

जीवोऽप्यत एव न द्युभ्वाद्यायतनमित्यर्थः ॥ 4 ॥

  1. ॐ भेदव्यपदेशात् ॐ ॥

“अन्यमीशम्” इति जीवेशयोर्भेदोक्तेः न तयोरैक्यमित्यर्थः ॥ 5 ॥

  1. ॐ प्रकरणात् ॐ ॥

“अनश्नन्नन्यो” (मुं.3-1-1) इत्यादेर्विष्णुप्रकरणत्वात् । अत्र जीवस्य विष्णुभेद एवोच्यते । नत्वन्यस्माद्भेद इत्यर्थः ॥ 6 ॥

  1. ॐ स्थित्यदनाभ्याञ्च ॐ ॥

ईशजीवयोः “द्वा सुपर्णा” (मु.3-1-1) इत्यादिवाक्योक्तं कर्मफलानुपजीवनस्थितितदुपजीवनरूपहेतुभ्यां न च तयोरैक्यं वाच्यमित्यर्थः ॥ 7 ॥

॥ भूमाधिकरणम् ॥ 2 ॥

  1. ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ ॥

भूमा “यो वै भूमा” (छां.7-2-3) इति श्रुतौ भूमशब्दोक्तपूर्णो विष्णुरेव । कुतः? सम्प्रसादात् भूमनस्तत्सुखमित्यनेन सम्प्रसादशब्दितपूर्णसुखरूपत्वाभिधानात् किञ्च अध्युपदेशात् नामादेरपि तदुपरि नामादिदेवक्तोत्तमत्वेन भूम्नोऽभिधानाच्चेत्यर्थः ॥ 1 ॥

  1. ॐ धर्मोपपत्तेश्च ॐ ॥

“स एवाधस्तात्” इत्यादिना (छां.7-25-1) भूम्नि सवर्गतत्वादिधर्मश्रवणात् । तस्य च विष्णोरेवोपपत्तेः विष्णुरेव भूमेत्यर्थः ॥ 2 ॥

॥ अक्षराधिकरणम् ॥ 3 ॥

  1. ॐ अक्षरमम्बरान्तधृतेः ॐ ॥

अक्षरं “तद्वा एतत्” इत्यक्षरशब्दवाच्यं ब्रह्मैव न चित्प्रकृतिः । कुतः? अम्बरान्तधृतेः अस्मिन्नक्षरे “एतस्मिन्खल्वक्षरे” (बृ.5-8-11) इत्याकाशान्तपदार्तधारकत्वश्रवणशदित्यर्थः ॥ 1 ॥

  1. ॐ सा च प्रशासनात् ॐ ॥

चो यतः । सा अम्बरान्तधृतिः । प्रशासनात् विष्णोराज्ञामात्रादेव भवतीति “एतस्यवा” (बृ.5-8-9) इति श्रुतावुक्ता । अतोऽपि ब्रह्मैवाक्षरशब2दवाच्यम् । न चेतनप्रकृतिरित्यर्थः ॥ 2 ॥

  1. ॐ अन्यभावव्यावृत्तेषु ॐ ॥

अन्यभावानां विष्ण्वन्यवस्तुस्वभावानां स्थूलत्वादीनां “अस्थूलमनणु” (बृ.5-8-8) इति श्रुतावक्षरे व्यावृत्तेरभावस्य कथनाच्च ब्रह्मैवाक्षरमित्यर्थः ॥ 3 ॥

॥ सदधिकरणम् ॥ 4 ॥

  1. ॐ ईक्षतिकर्मव्यपदेशात्सः ॐ ॥

“सदेव” इत्यादि (छां.6-2-1) प्रकरणस्थितसदादिशब्दवाच्यः विष्णुरेव न प्रधानम् । कुतः? ईक्षतिकर्मव्यपदेशात्

“तदैक्षत” (छां.6-2-1) इति चेतनतिष्ठैक्षतेतिशब्दोपलक्षितदर्शनाख्यक्रियाभिदानादित्यर्थः ॥ 1 ॥

॥ दहराधिकरणम् ॥ 5 ॥

  1. ॐ दहर उत्तरेभ्यः ॐ ॥

दहरे “दहरं पुण्डरीकं वेश्म” इति वाक्योक्तहृत्पद्मस्थाल्पाकाशे स्थितो विष्णुरेव न तु जीवादिः । कुतः? उत्तरेभ्यः “य

अत्माऽपहतपाप्मा” (छां.8-7) इत्याद्युत्तरवाक्योक्तनिर्गतपाप्मत्वादिधर्मेभ्य इत्यर्थः ॥ 1 ॥

  1. ॐ गतिशब्दाभ्यां तथाहि दृष्यं लिङ्गच्च ॐ ॥

गतिशब्दाभ्यां “अहरहर्गच्छन्त्य एतं ब्रह्मलोकम्” (छां.8-3-2) इति वाक्ये श्रुताभ्यां सुप्तप्राप्यत्वब्रह्मशब्दाभ्यां हेतुभ्यां दहरपद्मस्थं ब्रह्मैव । किञ्च यतः “अरश्च” (छां.8-5-3) इति श्रुतौ तथा सुप्तप्राप्यत्ववत् । हि विष्णुनिष्ठत्वेन प्रसिद्धं लिङ्गं अरण्याख्यसुदासमुद्राश्रयलोकवत्वरूपमापकम् । हृत्पद्मस्थे दृष्यं उक्तम् । अतोऽपि दहरपद्मस्थो विष्णुरेवेत्यर्थः ॥ 2 ॥

  1. ॐ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॐ ॥

धृः “स एष सेतुर्विधृतिः” (छां.8-4) इति हृत्पद्मस्थस्य सर्वाधारत्वश्रवणाच्च विष्णुरेव हृत्पद्मस्थः । किञ्च छान्दोग्ये हृत्पद्मस्थनिष्ठतयोक्तस्य महिम्नः सर्वेश्वरत्वादेः अस्मिन् “एषसवेश्वरः” इति वाजसनेयकवाक्ये । उपब्धेः । श्रवणशत् । तत्समबाख्यानादपि विष्णुरेव हृत्पद्मस्थः । ननु समाख्यानादपि कुतो विष्णुरेवेत्यत उक्तम् । अस्येत्यादि । अस्य विष्णुमहिम्नः । अस्मन् वाजसनेयकवाक्ये श्रवणादेवेत्यर्थः ॥ 3 ॥

  1. ॐ प्रसिद्धश्च ॐ ॥

2दहरं विपाप्मम्” (महाना.10-7) इति श्रुतौ विष्णोः हृत्पस्मस्थत्वप्रसिद्धेश्च स एव हृत्पद्मस्थ इत्यर्थः ॥ 4 ॥

  1. ॐ इतरपरामर्शात्स इति चेन्नासम्भवात् ॐ ॥

इतरपरामर्शात् “स्वेन रूपेणाभिनिष्पद्यते” (छां.8-12-3) इत्युक्तस्य जीवस्य हृत्पस्मस्थात्मतया “एष आत्मा” (छां.4-15-1) इत्येतच्छब्देन परामर्शात् ग्रहणात् । जीव एव हृत्पद्मस्थ इति चेन्न । कुतः? असम्भवात् हृत्पद्मस्थनिष्ठतया श्रुतानामपहतपाप्मत्वादिगुणानां जीवे स्वातन्त्ऱ्#ेणासम्भवादित्यर्थः ॥ 5 ॥

  1. ॐ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॐ ॥

तुशब्द एवार्थे । नेतिशेषः । तथा च उत्तरात् " स तत्र पर्येति" (छां.8-12-3) इत्युत्तरवाक्यात् । जीवस्य सत्यकामत्वादिप्रतीतेः । तत एव विशोकत्वादेः सम्भवात् । स एव हृत्पद्मस्थ इति चेन्न । कुतः? यतस्तद्वाक्ये “स्वेन” इत्युत्तरवाक्यबलात् आविर्भूतस्वरूपो मुक्त एव प्रतिपाद्यः । न जीवमात्रम् । मुक्तश्च न स्वतोऽपहतपाप्मत्वादिगुणकः । अतो न तस्यापि हृत्पद्मस्थत्वमित्यर्थः ॥ 6 ॥

  1. ॐ अन्यार्थश्चपरामर्शः ॐ ॥

चः एवार्थे । परामर्शः “एष आत्मा” इति वाक्यगतैतच्छब्दः अन्यार्थः “परंज्योतिः” इत्युक्तपरमात्मार्थ एव न जीवार्थ इत्यर्थः ॥ 7 ॥

  1. ॐ अल्पश्रुतेरितिचेत्तदुक्तम् ॐ ॥

अल्पश्रुतेः “दहरः” (छां.8-1-1) इत्यल्पस्थानस्थितत्वोक्तेः । जीव एव हृत्पद्मस्थ इति चेत् । नेति शेषः । कुतः? यतस्तदुक्तं तत्तु अल्पस्थानस्थितत्वं उक्तं निचाय्यत्वादेवमित्यत्र व्याप्तस्यापि विष्णोः उपासनार्थमुच्यत इत्युक्तं “आत्माऽन्तर्हृदये” इति श्रुत्युक्तं च अत इत्यर्थः ॥ 8 ॥

॥ अनुकृत्यधिकरणम् ॥ 6 ॥

  1. ॐ अनुकृतेस्तस्य च ॐ ॥

चः समुच्चये । तस्येति श्रुतिप्रतीकग्रहणम् । अनुकृतिरनुक्रिया । तथा च “कथं नु तद्विजानीयाम्” (कठ.2-2-14) इति ज्ञानार्थं प्रार्थितत्वरूपानुकूल्येन गृह्यमाणं ब्रह्मैव । कुतः? अनुकृतेः “तमेव भान्तमनुभाति सर्वम्” (कठ.2-2-15) इति वाक्यशेषे सूर्यादीनां भगवत्क्रियानुसारिप्रकाशाख्यक्रियाकतर्#ृत्वश्रवणात्तस्य भासा सर्वमिदं विभाति" (कठ.2-2-15) इति जगतः परमात्मप्रभाप्रकाश्यत्वश्रुतेश्चेत्यर्थः ॥ 2 ॥

॥ वामनाधिकणम् ॥ 7 ॥

  1. ॐ शब्दादेव प्रमितः ॐ ॥

विष्णुरेव “ईशानो भूतभव्यस्य” (कठ.2-1-12) इति ईशानशब्दवाच्यत्वेन प्रमितः । तत्त्वतो निश्चितः । न तु वायुः । कुतः ? शब्दादेव “मध्ये वामनम्” (कठ.2-2-4) इति निरकाशवामनश्रुतेरेवेत्यर्थः ॥ 1 ॥

  1. ॐ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॐ ॥

तुशब्द एवार्थे । अपिशब्दार्थे च । तथा च सर्वगतस्यापि विष्णोः अङ्गुष्ठमात्रत्वोक्तिः हृद्यपेक्षया

अङ्गुष्ठपरिमितहृद्याकाशापेक्षयैव । न तावता विष्णोः परिच्छिन्नत्वं ज्ञेयमित्यर्थः । ननु पश्वादीनामङ्गुष्ठाभावात्कथं तन्मात्रत्ववचनं सर्वाधिकारिकमित्यत उक्तम् । मनुष्याधिकारत्वादिति । तथा चैतद्विद्योपासनस्य मनुष्याधिकारिकत्वात् । तान्प्रत्येतद्विद्याप्रवृत्तिसम्भवात् । पश्वादीनामङ्गुष्ठाभावेऽपि न दोष इति भावः ॥ 2 ॥

॥ देवताधिकरणम् ॥ 8 ॥

  1. ॐ तदुपर्यपि बादरायणः सम्भवात् ॐ ॥

तदुपर्यपि देवत्वयोग्यमनुष्याणां न केवलं मनुष्यत्वदशायां किन्तु देवादित्वप्राप्त्यनन्तरमपि वेदविद्याधिकारोऽस्ति । कुतः? सम्भवात् तेषामप्यधिकारप्रयोजकविशिष्यबुध्वयादेर्योगादिति बादरायणो भगवान्वक्तीत्यर्थः । 1 ॥

  1. ॐ विरोधः कर्मणीति चेन्नानकप्रतिपत्तेर्दर्शनात् ॐ ॥

देवादीनां सादित्वे कर्मणि पूर्वकल्पे प्रवृत्तयज्ञादिकर्मणि विषये । विरोधः उद्देश्याभावनिमित्तवैयर्थ्याख्यविरोधः । स्यादितिचेन्न । कुतः अनेकप्रतिपत्तेः अनेकेषां योग्यमनुष्याणां देवतापदप्राप्तेर्दर्शनात् । “यत्र पूर्वे” (तै.आ.3-12) इति श्रुतावुक्तत्वादित्यर्थः ॥ 2 ॥

  1. ॐ शब्द इतिचेन्नातः प्रभावात्प्रत्यक्षानुमानाभ्याम् ॐ ॥

विरोध इति वर्तते । देवानामाद्यन्तवत्त्वे शब्दे वेदे अप्रमाण्याख्यविरोधः स्यान्नित्यत्वेन श्रुतिसिद्धवेदवाचाम् । कताचिद्वाच्यहीनत्वादिति भाव इति चेन्न । अतः “धाता यथा” (महाना.5-7) इति वेदवाक्यात् । तथा प्रत्यक्षानुमानाभ्याम् । महतां प्रत्यक्षात् । देवानां प्रवाहतः उत्पत्तिसाधकलिङ्गाच्च । प्रभवात् प्रतिकल्पम् । नियमेन प्रभवशब्दितोत्पत्त्यवगमाच्च उक्तं युक्तमिति भावः ॥ 3 ॥

  1. ॐ अत एव च नित्यत्वम् ॐ ॥

अत एव पूवर्यपक्ष्युक्तवेदनित्यत्वादेव तदन्यथाऽनुपपत्त्यापि तद्वाच्यदेवप्रवाहस्य नित्यत्वं सिध्यतीत्यर्थः ॥ 4 ॥

  1. ॐ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॐ ॥

अवृत्तावपि पूर्वकल्पे मुक्तानां देवानां पुनः स्वपदेषु अवत्त्वेऽपि । अविरोधः तत्प्रतिपादकैकविधवेदाप्रामरण्याख्यविरोधो नास्ति । कुतः? समाननामरूपत्वात् एतत्कल्पोत्पन्नानामपि देवानां प्राचीनतुल्यनामरूपत्वात् । तथा च प्रतिपाद्यस्याप्येकविधत्वात् न तद्बोधकवेदाप्रामाण्यमिति भावः । एकविधत्वमेव कुत इत्यत उक्तम् । दशर्नात्स्मृतेश्चेति । “यथा पूर्वम्” (महाना.5-7) इति श्रुतेः । अनादिनिधनेति स्मृतेश्चेत्यर्थः ॥ 5 ॥

  1. ॐ मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॐ ॥

मध्वादिषु “असौ वा आदित्यो देवमधु” (छां.3-1-1) इत्याद्युक्तमध्वादिविद्यासु । अनधिकारं देवानामधिकाराभावम् । जैमिनिराचार्यो मन्यते । कुतः? असम्भवात् तेषामर्थित्वतत्पदयोग्यत्वाद्ययोगादित्यर्थः ॥ 6 ॥

  1. ॐ ज्योतिषि भावाच्च ॐ ॥

ज्योतिषि देवानां ज्ञाने भावात् सर्ववस्तूनां विषयतयाऽन्तर्भूतत्वात् । सिद्धज्ञानां देवानां न ज्ञानार्थिता युज्यत इति न मोक्षविद्यास्वप्यधिकार इत्यर्थः ॥ 7 ॥

  1. ॐ भावं तु बादरायणोऽस्ति हि ॐ ॥

हि यस्मात् । देवानामप्यस्ति विद्यासाध्यापूर्वप्रकाशविशेषो मेक्षफले अतिशयश्चास्ति । तस्माद्भावं देवानामधिकारसद्भावं मन्यत इत्यर्थः । जैमिनिमतं तु देवानां प्राप्तज्ञानफलार्थमनधिकारामिप्रायमित्यवधेयम् ॥ 8 ।

॥ अपशूद्राधिकरणम् ॥

  1. ॐ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॐ ॥

अस्य पौत्रायणाख्यस्य राज्ञः तदनादरश्रवणात् हंसकृतस्य “कम्बर एनम्” (छां.4-1-3) इत्यनादरस्यश्रवणशन्निमित्तात् । शुक्शोकः । तथापि कुतः शोकः? इत्यत उक्तम् । सूच्यते हीति । हि यस्मात् । “स ह सञ्जिहान एव” (छां.4-1-5) इत्युत्तरवाक्येन सूच्यते तथा ज्ञायते । तस्माच्छोकः अस्मादेव निमित्तात् । राजा रैक्केण ऋषिणा शूद्रेति सम्बोधितः । न तु वर्णावरत्वाभिप्रायेणेत्यर्थः । तथा च नैतज्ज्ञापकबलेन शूद्रस्य वेदविद्याधिकारो मन्तव्य इति भावः ॥ 1 ॥

  1. ॐ क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॐ ॥

चः लिङ्गान्तरसमुच्चये । उत्तरत्र हि (छां.4-2-2) इत्युत्तरवाक्ये । श्रुतेनेति शेषः । चैत्ररथेन

चित्रशब्दादश्वतरीयुक्तरथसम्बन्धित्वरूपेण लिङ्गात् । लिङ्गेन च ज्ञापकेन चास्य क्षत्रियत्वावगतेश्च । क्षत्रियत्वज्ञानात् । न पौत्रायणः शूद्र इत्यर्थः ॥ 2 ॥

  1. ॐ संस्कारपरामर्शत्तदभावाभिलापाच्च ॐ ॥

साध्यसमुच्चये चशब्दः । संस्कारपरामर्शात् “अष्यवर्षं ब्राह्मणमुपनयीत तमध्यापयीत” इत्येतच्छब्देन “नाग्निर्नयज्ञः” इति संस्काराभावाभिधानात् । न तस्य वेदविद्याधिकार इत्यर्थः ॥ 3 ॥

  1. ॐ तदभावनिर्धारणष च प्रवृत्तेः ॥

चोऽवधारणे । तदभावनिर्धारणे सत्यकामाख्यपुरुषस्य शूद्रत्वाभावनिश्चये सत्येव । प्रवृत्ते र्गौतमस्य तदुपनयने प्रवृत्तत्वात् । अस्माज्ज्ञापकान्न शूद्रस्य सास्कारो युज्यत इत्यर्थः ॥ 4 ॥

  1. ॐ श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॐ ॥

श्रवणाध्ययनार्थप्रतिषेधात् शूद्रस्य वेदश्रवणतदध्ययनतदर्थावधारणानां “श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणम्” (गौ.ध.12-4-7) इति प्रतिषिद्धत्वात् । स्मृतेः नाग्निर्नयज्ञः शूद्रस्येति निषेधकस्मृतेश्च न तस्य वेदविद्याधिकार इत्यर्थः ॥ 5 ॥

॥ कम्पनाधिकरणम् ॥ 10 ॥

  1. ॐ कम्पनात् ॐ ॥

“महद्भयं वज्रम्” इति वज्रशब्दवाच्या विष्णुरेव नात्विन्द्रायुधम् । कुतः? कक्पनात् “सर्वमेजति” (कठ.2-3-2) इति कम्पनशब्दितसर्वचेष्यकत्वलिङ्गश्रवणादित्यर्थः ॥ 1 ॥

॥ ज्योतिरधिकरणम् ॥ 11 ॥

  1. ॐ ज्योतिर्दर्शनात् ॐ ॥

“योऽयमन्तर्ज्योतिः” (बृ.6-3-7) इति ज्योतिश्शब्दवाच्यो विष्णुरेव न जीवः । कुतः? दर्शनात् “विष्णुरेव ज्योतिः” (चतुर्वेदशि) इति श्रुतेरित्यर्थः ॥ 1 ॥

॥ आकाशाधिकरणम् ॥ 12 ॥

  1. ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ ॥

“आकाशो ह वै नाम” इति श्रुत्युक्तकाशो विष्णुरेव । न त्वव्याकृताकाशः । कुतः? अर्थान्तरत्वादिव्यपदेशात् “ते यदन्तरा” (छां.8-14-1) इति वाक्ये विष्णार्नामरूपराहित्याख्यविलक्षणार्थत्वस्य आदिशब्दगृहीतब्रह्मत्वामृतत्वयोश्च उक्तत्वादित्यर्थः ॥ 1 ॥

॥ सुषुप्त्यधिकरणम् ॥ 13 ॥

  1. ॐ सुषुप्त्युत्क्रन्त्योर्भेदेन ॐ ॥

“स यत्तत्र किञ्चित्पश्यति” (बृ.6-3-15) इति श्रुत्युक्तस्वप्नादिद्रष्या परमात्मैव । न जीवः । कुतः “असङ्गोह्ययं पुरुषः” इत्युक्तासङ्गत्वलिङ्गादिति हेतुर्बहिरेवाध्याहार्यः । नन्वीश्वराभेदेन जीवेप्यसङ्गत्वोक्तिः सम्भवतीत्यत उक्तम् । सुषुप्तीत्यादि । तथा च सुषुप्त्युत्क्रन्त्याः “प्राज्ञेनात्मना सम्परिष्वक्तः” (बृ.6-3-21) इति “प्राज्ञेनात्मनाऽन्वारूढः” (बृ.6-3-35) इति च सुषुप्त्युत्क्रन्तिप्रकरणयोः । भेदेन जीवेशयोर्भिन्नत्वेनोक्तेः । न तयोरैक्यमित्यर्थः ॥ 1 ॥

॥ ब्राह्मणाधिकरणम् ॥ 14 ॥

  1. ॐ पत्यादिशब्देभ्यः ॐ ॥

2 एष नित्यो महिमा ब्राह्मणस्य"(बृ.6-4-22) इति श्रुत्युक्तब्रह्मणो विष्णुरेव । न विरिञ्चः । कुतः? पत्यादिशब्देभ्यः सर्वस्याधिपतिरित्यादिर्वाधिपत्यादिवाचि (बृ.6-4-22) श्रुतिभ्यः इत्यर्थः ॥ 1 ॥

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां प्रथमाध्यायस्य तृतीयः पादः ॥ 1-3 ॥

॥ आनुमानिकाधिकरणम् ॥ 1 ॥

  1. ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥

अपिरेवार्थे । चः स्मृतिसमुच्चये । तथा च यतः आनुमानिकं सांख्यानुमानकल्पितं प्राधानाद्येव । एकेषां शाखिनां शाखासु

स्थितै; “अव्यक्तात्पुरुषः” (कठ.1-3-11) इत्यादिवाक्यगताव्यक्तादिशब्दैरुच्यते । अतो न विष्णोः सर्वशब्दवाच्यत्वं युज्यत

इति चेन्न । यतः विष्णुरेवाव्यक्तादिशब्दवाच्यः । न प्रधानादिः । तत्कुतः? यतः “अव्यक्तम्” (पिप्पलादशा) इति श्रुतिः “अव्यक्तोऽक्षणः” (भ.गी.8-21) इति स्मृतिश्च । दर्शयति विष्णोरेवाव्यक्तादिशब्दवाच्यत्वं प्रतिपादयति । अत इत्यथर्ः । कथं तर्ह्यन्यत्राव्यक्तादिशब्दव्यवहार इत्यत उक्तम् । शरीररूपकेत्यादि । कप्रत्ययः कुत्सने । तथा च शरीररूपकविन्यस्तगृहीते; । यथा शरीरं पुरुषतन्त्रम् । तथा परमात्मतन्त्रत्वेन निमित्तेन शरीरसमे कुत्सितत्वात् वस्तुतः अशरीरे प्रधानादौ । विन्यस्तस्य स्थितस्य परमात्मन एवाव्यक्तादिशब्दैः गृहीतेः ग्रहणात् । तथा च परमात्मसम्बन्धादेवान्यत्र प्रकृत्यादवव्यक्तादिशब्दवाच्यत्वव्यवहार इत्यर्थः ॥ 1 ॥

  1. ॐ सूक्ष्मं तु तदर्हत्वात् ॐ ॥

यतः सूक्ष्मं तु सूक्ष्ममेवाव्यक्तशब्दवाच्यम् । कुतः? तदर्हत्वात् तस्य सूक्ष्मस्य अव्यक्तशब्दप्रवृत्तिनिमित्तयोग्यत्वात् । तत्र च सूक्ष्मत्वं विष्णोरेव । अतस्तस्वाव्यक्तशब्दवाच्यत्वमित्यर्थः ॥ 2 ॥

  1. ॐ तदधीनत्वादर्थवत् ॐ ॥

दर्शयति चेत्यत्रत्यश्चशब्दोऽनुवर्तते । परमात्मन्येव परावदुःखिबद्धत्वादिवाचिशब्दजातम् । अर्थवत् प्रवृत्तिनिमित्तरूपार्थवत् । न व्यर्थम् । कुतः? तदधीनत्वात् तेषां प्रधानादिगतपरावरत्वादिधर्माणां भगवदधीनत्वात् । तथा चान्यगतप्रवृत्तिनिमित्तस्वामित्वेन निमित्तेनापि भगवति परावरादिशब्दप्रयोगो युक्त एवेत्यर्थः ॥ 3 ॥

  1. ॐ ज्ञेयत्वावचनाच्च ॐ ॥

“तमेवैकं जानथ” (मुं.2-2-50) इति विष्णोरेव मोक्षार्थं ज्ञेयत्ववचनात् । अन्येषां तदवचनात् । प्रत्युत विमुञ्चथेति हेयत्ववचनात् । अत्रत्याव्यक्तादि शब्दैर्विष्णुरेव वाच्य इत्यर्थः ॥ 4 ॥

  1. ॐ वदीतीति चेन्न प्राज्ञो ॐ ॥

ननु अनाद्यनन्तमिति काठकवाक्यम् । वदति प्रधानं प्रतिपाद्यते । इतीति तस्यापि ज्ञेयत्वमस्तीतिचेन्न । कुतः? हि यतः । प्राज्ञः प्राज्ञशब्दित; परमात्मैव तत्र प्रतिपाद्यते न प्रधानम् । अतो न तस्य ज्ञेयत्वं मन्तव्यमित्यर्थः ॥ 5 ॥

  1. ॐ प्रकणात् ॐ ॥

वैष्णवरूपाणां त्रयाणां प्रकरणबलाच्च प्राज्ञ एवात्र प्रतिपाद्य इत्यर्थः ॥ 6 ॥

  1. ॐ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॐ ॥

युक्तिसमुच्चये चो यत इत्यथर्#े च । एवशब्दः प्रकारत्रैविध्यपरामर्शकः । तथा च यतः एवं त्रयाणामेव पितृसौमनस्यस्वर्ग्याग्निपरमात्मरूपाणां त्रयाणामेव । तद्विषयक एव प्रश्नः नचिकेतऋषिणा यमं प्रति कृतः । तेषामेवोपन्यासः प्रतिवचनं चात्र प्रकरणष दृश्यते । अतो नात्र प्रधाने प्रतिपाद्यमित्यर्थः ॥ 7 ॥

  1. ॐ महद्वच्च ॐ ॥

चः दार्ष्यान्तिकसमुच्चये । “महान्तं विभुमात्मानम्” (कठ.1-2-22) इत्यादिवाक्यगतमहच्छब्दस्य यथा विष्णुपरत्वमेव न महत्तत्त्वपरत्वं तद्वदव्यक्तादिशब्दस्यापीत्यर्थः ॥ 8 ॥

  1. ॐ चमसवदविशेषात् ॐ ॥

चमसवत् यथा यज्ञपात्रे प्रसिद्धस्यापि चमसशब्दस्य “इदं तच्छिरः” (बृ.4-2-3) इति श्रुतिबलेन शिरोवाचकता तद्वदव्यक्तादिशब्दस्य प्रधानादौ प्रसिद्धत्वेऽपि विष्णुवाचकत्वमेव । कुतः? “नामानि” इति श्रुतेः । ननु तथापि कुतो विष्णुवाचकत्वम्? इत्यत उक्तम् । अविशेषादिति । “नामानि सर्वाणि” इति श्रुतेः “इदं” इति श्रुत्या विशेषाभावादित्यर्थः ॥ 9 ॥

॥ ज्योतिरुपक्रमाधिकणम् ॥ 2 ॥

  1. ॐ ज्योतिरुपक्रमात्तु तथाह्यधीयत एके ॐ ॥

तुशब्द एवार्थे । ज्योति; “ज्योतिषा यजेत” इत्यादिवाक्योक्तज्योतिरादिशब्दवाच्यं ब्रह्मैव न ज्यातिष्ठोमादि । कुतः? हि यस्मादेके शाखिनः । उपक्रमात् “एष इमम्” इत्युपक्रम्य तथा सर्वशब्दाभिधेयत्वेन हरिमेव “ता वा एता;” (ऐ.आ.2-2-2) इत्यत्राधीयते पठन्ति तस्मादित्यर्थः ॥ 1 ॥

  1. ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॐ ॥

च एवार्थे । समुच्चये वा । तथा च मध्वादिवत् यथा मधुविद्यादिगतमध्वादिशब्दानां विष्णुवाचित्वेऽप्यविरोधः न

लौकिकक्षौद्रादिवाचकशब्दाभावेन तदभावाख्यविरोधः । तथा परमात्मनः सर्वशब्दवाच्यत्वेऽभ्युपगतेऽपि न कर्माद्यभावविरोधः । कुतः? शब्दानामन्यत्र योगरूढिवृत्ती अभ्युपगस्यैवेश्वरे महायोगवृत्त्यङ्गीकारादित्यध्याहारः । तदपि कुतः? कल्पनोपदेशात् “प्राण ऋचः” इति सर्वशब्दवाच्यत्वस्य विष्णोः कल्पनाशब्दितोपासनार्थमुक्तत्वात् । तस्य च सर्वशब्दार्थमुख्यगुणवत्वरूपमहायोगवृतिं्त विनाऽयोगादित्यर्थः ॥ 2 ॥ ॥ नसंख्योपसङ्ग्रहाधिकरणम् ॥ 3 ॥

  1. ॐ न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ ॥

संख्योपसङ्ग्रहात् “यस्मिन्पञ्च पञ्चजना” इति (बृ.6-4-17) बहुत्वसंख्योवचनात् । अपि यस्मिन्नित्याधारादेयभावनिर्देशादपि । विष्णोः पञ्चजनादिशब्दवाच्यत्वे विरोधो नास्ति । कुतः नानाभावात् भगवतः बहुरूपाणां सत्त्वात् । अतिरेकाच्च यस्मिन्नित्युक्ताधाररूपस्य पञ्चजना इत्युक्ताधेयरूपस्य सविशेषाभिन्नत्वाच्चेत्यर्थः ॥ 1 ॥

  1. ॐ प्राणादयो वाक्यशेषात् ॐ ॥

भगवद्रूरूपत्वेनोक्ताः पञ्चजनास्तु प्राणादेः प्राणादयः द्वितीयानिर्दिष्यघ्राणचक्षुःश्रोत्रान्नमनोभिधाः ज्ञेयाः । कुतः? वाक्यशेषात् ते च भगवद्रूपविशेषा एव । कुतः? विष्णोरन्यत्रासम्भावितप्राणप्राणप्रदत्वादिप्रतिपादकं “प्राणस्य प्राणम्” (छां.6-4-18) इत्यादि वाक्यशेषादित्यर्थः ॥ 2 ॥

  1. ॐ ज्योतिषैकेषामसत्यन्ने ॐ ॥

एकेषां कण्वादीनां शाखायाम् । अन्ने अन्नाख्यभगवद्रूपे । असति अनुक्तेऽपि । ज्यातिषा तदाख्यभगवद्रूपेण पञ्चत्वसंख्यापूर्तिर्ज्ञातव्येत्यर्थः ॥ 3 ॥

॥ आकाशाधिकरणम् ॥ 4 ॥

  1. ॐ कारणत्वेनचाकाशादिषु यथा व्यपदिष्योक्तेः ॐ ॥

“आत्मनः आकाशः सम्भूतः आकाशाद्वायुः” (तै.2-1-2) इत्यादौ कार्यत्वे सति कारणत्वरूपावान्तरकारणवाचकाकाशादिशब्दैराकाशादिषु स्थितो विष्णुरेव । कारणत्वेन चशब्दात् कार्यत्वेन चोच्यते न भूतम् । कुतः यथा व्यपदिष्यत्वोक्तेः “स योऽतोऽश्रुतः” (ऐ.आ.3-2-4) इत्यादौ विष्णुर्यथा यादृशेनाविदितत्वादिरूपेण व्यपदिष्यः उक्तः । तद्रूपयुक्तस्यैवाकाशादिषु “यमाकाशो न वेद” (बृ.5-7-12) इत्यादिवाक्येनोक्तत्वादित्यर्थः ॥ 1 ॥

॥ समाकर्षाधिकरणम् ॥ 5 ॥

  1. ॐ समाकर्षात् ॐ ॥

स्वतो मुख्यवृत्त्या परमात्मवाचिनः शब्दात् । ततः समाकृष्यान्यत्र वाचकत्वशक्त्यङ्गीकारात् । नान्यत्र व्यवहारलोपप्रसङ्ग इत्यर्थः ॥ 1 ॥

  1. ॐ जगद्वाचित्वात् ॐ ॥

लोकव्यवहाराच्छब्दानां जगद्वाचित्वज्ञानात्तेषां तत्र प्रसिद्धिर्युक्तेत्यर्थः ॥ 2 ॥

  1. ॐ जीवमुख्यप्राणलिङ्गादितिचेत्तद्वयाख्यातम् ॐ ॥

“अस्य यदैकां शाखां जीवो जहाति” (छां.6-11-2) इति “वायुना हि लोका नेनीयन्ते” इति वाक्ये च । जीवमुख्यप्राणलिङ्गात् जीवमुख्यप्राणलिङ्गयो श्रवणात् । तयोरपि तत्तच्छब्दमुख्यवाच्यता स्यादिति चेन्न । कुतः? यस्मात्तद्वाक्यजातं तत्तदन्तर्यामिपरतया व्याकृतं तस्मादित्यर्थः ॥ 3 ॥

1() ॐ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चवैमेके ॐ ॥

तुशब्द एवार्थे । एतेन विष्णोरन्यत्र शब्दान् समाकृष्य कर्मादिप्रतिपादनमपि युक्तमेव । कुतः? यस्मात् अन्यार्थं परमात्मज्ञानार्थमेव तत्कुत इति चेत् । प्रश्नव्याख्यानाभ्यां कस्मिन्निति शौनकप्रश्नात् “द्वे विद्ये” (मु.1-1-4) इति अङ्गिरसो वचनात् तथा कथन्विति वचनाच्च (छां6-1) इति जैमिनिराचार्यो मन्यते । किञ्च एके शाखिनः स्पष्यं “यस्तं न वेद” (ऋ.1-164-39) इत्यन्यज्ञानस्य परमात्मज्ञानार्थतां पठन्ति तस्मादपीत्यर्थः ॥ 4 ॥

  1. ॐ वाक्यान्वयात् ॐ ॥

ब्रह्मणि वाक्यसमन्वयमपेक्ष्य वेदेन कर्मादिकमपि प्रतिपादनीयमित्यर्थः ॥ 5 ॥

  1. ॐ प्रतिज्ञासिद्धेलिङ्गमाश्मरथ्यः ॐ ॥

वेदेन कर्मादिप्रतिपादनम् । यतः प्रतिज्ञासिद्धेः । लिङ्गं ज्ञानमेव मोक्षहेतुः नान्यदित्येवं रूपाया “नान्यः पन्ताः”

(तै.आ.3-12-7) इति प्रतिज्ञातार्थसिद्धेः साधकम् । अतस्तदुपयोगित्वेन तत्प्रतिपादनं युक्तमित्याश्मरथ्याचार्यो मन्यत इत्यर्थः ॥ 6 ॥

  1. ॐ उत्क्रष्यित एवं भावादित्यौडुलोमिः ॐ ॥

उत्क्रमिष्यतः ज्ञानान्मोक्षमिच्छतोऽधिकारिणः । एवं ज्ञानसाधनतया । भावात् कर्मादेरप्यनुष्ठेयत्वान्मोक्षार्थज्ञानसाधनत्वेन वेदेन कर्मादिप्रतिपादनं युक्तमेवेति औडुलोमिराचार्यो मन्यत इत्यर्थः ॥ 7 ॥

  1. ॐ अवस्थितेरिति काशकृत्स्नः ॐ ॥

सर्वाधारे भगवति कर्मादीनां अवस्थितेः अवस्थानात् । भगवतः कर्माद्याधारत्वज्ञानायाधेयभूतकर्मादिस्वरूपं वेदेन प्रतिपाद्यत इति काशकृत्स्नाचार्यो मन्यत इत्यर्थः । अनेकाधिकारिकत्वान्मतानां न विरोध इति ध्येयम् ॥ 8 ॥

॥ प्रकृत्यधिकरणम् ॥ 6 ॥

  1. ॐ प्रकृतिश्च प्रतिज्ञादृष्यान्तानुपरोधात् ॐ ॥

ईश्वरः न केवलं पुल्लिङ्गाभिधेयः किन्तु प्रकृतिः । सैषा प्रकृतिरित्याद्युक्तप्रकृत्यादिस्त्रीलिङ्गशब्दवाच्यश्च भवति । कुतः? एवं सत्येव प्रतिज्ञादृष्यान्तानुपरोधात् हन्तैतमिति प्रतिज्ञायाः यथेति नदीसमुद्रदृष्यान्तस्य चानुपरोधात् अविरोधात् । अन्यथा तद्विरोधः स्यादित्यर्थः ॥ 1 ॥

  1. ॐ अभिध्योपदेशाच्च ॐ ॥

अभिध्यायाः ईश्वरेच्छायाः । उपदेशात् “मायान्तु” (श्वे.4-10) इति श्रुतौ प्रकृतिशब्दवाच्यत्वोक्तेश्च इच्छाभिन्नेश्वरस्यापि तच्छब्दवाच्यत्वाच्चेत्यर्थः ॥ 2 ॥

  1. ॐ साक्षाच्चोभयाम्नानम् ॐ ॥

चः अवधारणे । साक्षात् द्वारमन्तरेणैव । उभयाम्नानात् “एषस्त्रैष पुरुषः” (पैङ्गिश्रुतिः) इति वाक्येन प्रकृतिपुरुषोभयशब्दवाच्यत्वाभिधानात् ईश्वरस्य प्रकृत्यादिशब्दवाच्यत्वमावश्यकमित्यर्थः ॥ 3 ॥

  1. ॐ आत्मकृतेः परिणामात् ॐ ॥

प्रकृतिपरिणामं विधाय तत्प्रेरणाय । आत्मकृतेः स्वस्य बहुधाकरणात् प्रकृतिशब्दवाच्यो विष्णुरेवेत्यर्थः ॥ 4 ॥

  1. ॐ योनिश्च हि गीयते ॐ ॥

हि यस्मात् । ईश्वरः “यद्रूतयोनिम्” (मुं1-1-6) इति श्रुत्या योनिः स्वदेहादेवापत्योत्पादकश्च गीयते प्रतिपाद्यते । तस्मात्प्रकृत्यादिस्त्रीलिङ्गशब्दवाच्य इत्यर्थः ॥ 5 ॥

॥ एतेनसवर्#ेव्याख्यातधिकरणम् ॥ 7 ॥

  1. ॐ एतेन सर्वे व्याख्याता व्याख्याताः ॐ ॥

एतेन पूर्वोक्तहेतुनैव । सर्वे शून्यादिशब्दाः । व्याख्याताः मुख्यतो भगवद्वाचिन एवेत्यर्थः । एतदव्यायादिमारभ्यान्तमुक्तस्यार्थस्य इत्थमेवेत्यववारणार्थमध्यायन्ते द्विरुक्तिः ॥ 1 ॥

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां प्रथमाध्यायस्य चतुर्थः पादः ॥ 1 ॥ 4 ॥

**॥ इति प्रथमाध्यायः समाप्तः ॥ **

————- —————-

**॥ द्वितीयाध्यायस्य प्रथमः पादः ॥ **

॥ स्मृत्यधिकरणम् ॥ 1 ॥

  1. ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥

यतः स्मृत्यनवकाशदोषप्रसङ्गः स्मृतीनां पाशुपतादिरूपाणां अनवकाशेन विष्णुजगत्कर्तृत्वादौ निरवकाशत्वेन श्रुतीनां विष्णुकारणतापरत्वे तद्विराधेन दोषप्रसङ्गः अप्रामाण्याख्यदोषप्राप्तिरस्ति । अतः न श्रुतीनां विष्णुकारणतापरत्वं युक्तम् । किन्तु शिवादिकर्तृतापरत्वमेव युक्तमितिचेन्न । कुतः अन्यस्मृत्यनवकाशदोषप्रसङ्गात् पाशुपतादिभ्यो अन्यसां श्रुतिसंवादित्वेन रुद्राद्यपेक्षया सर्वज्ञतमविष्ण्वादिप्रणीतत्वेन च इतरस्मृतिभ्यः प्रबलानां पञ्चरात्रादिस्मृतीनां अनवकाशेन रुद्रादिजगत्कर्तृत्वादौ निरवकाशेन तद्विरुद्धशैवादिस्मृतीनाम् । दोषप्रसङ्गात् अप्रामाण्याख्यदोषेण प्रकर्षेण

सम्बन्धाङ्गीकारेण तद्विरोधस्याकिञ्चित्करत्वादित्यर्थः ॥ 1 ॥

  1. ॐ इतरेषां चानुपलब्धेः ॐ ॥

अनुपलब्धेरित्यावर्तते । चशब्द; किञ्चित्फलोपलब्ध्यङ्गीकारसूचकः । तथाचानुपलब्धेः अतीन्द्रियात् । इतरेषां भिन्नानां प्रत्यक्षयोग्यनां पाशुपताद्युक्तफलानां अनिष्यानां च तदुक्तक्रियानुष्ठानपरित्यागयोः कृतयोरप्यनुपलब्धेः प्रत्यक्षतोऽदर्शनात् तासामप्रामाण्यमेव युक्तमित्यर्थः ॥ 2 ॥

  1. ॐ एतेन योगः प्रत्युक्तःॐ ॥

एतेन फलादशर्नलक्षणपूर्वोक्तहेतुनैव । योगः योगशास्त्रम् । प्रत्युक्तः निरस्तमित्यर्थः ॥ 3 ॥

॥ नविलक्षणत्वाऽधिकरणम् ॥ 2 ॥

  1. ॐ नविलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ॥

अस्य श्रुतितदनुसारिस्मृत्यादेः न शैवादिस्मृतिवदप्रामाण्यम् । कुतः? विलक्षणत्वात् स्वतःप्रामाण्याख्येतरवैलक्षण्यात् । किञ्च श्रुतेनिर्त्यत्वाख्यवैलक्षण्यवत्त्वात् । स्मृतेः श्रुत्यनुसारित्वाख्यवैलक्षण्यवत्त्वाच्च नाप्रामाण्यं तथात्वं च उक्तवैलक्षण्यवत्त्वं च । शब्दात् वाचा विरूप नित्या (ऋ.8-6-4-86) इत्यागमान्निश्चितमित्यर्थः ॥ 1 ॥

  1. ॐ दृश्यते तु ॐ ॥

तुशब्दो विशेषार्थे । यतः तत्फलयोग्याधिकारिविशेषाणां श्रुत्याद्युक्तं फलं दृश्यते उपलभ्यते । अता नाप्रमाण्यमित्यर्थः ॥ 2 ॥

॥ अभिमान्यधिकरणम् ॥ 3 ॥

  1. ॐ अभिमानिव्यपदषशस्तु विशेषानुगतिभ्याम् ॐ ॥

तुशब्दोऽवधारणे । अभिमानिव्यपदेशः मृदब्रवीदित्यादौ अभिमानिनश्चेतनस्यैव व्यपदेशः उक्तिः न त्वचेतनस्य । कुतः मअन्न वक्त्त्#ी जडत्वादिति युक्तिविरुद्धत्वात् । तथा च न वेदाप्रामाण्यम् । नन्वभिमानिनः विदेहत्वायोगेन सदेहत्वे तस्यादर्शनं अन्यवस्त्वधिष्ठानेन वक्तृत्वं अनेकाभिमन्यमानाधिष्ठातृत्वं चेत्यादिकं कथं युज्यत इत्यत उक्तम् । विशेषः सामर्थ्यम् । अनुगतिः सर्वाभिमन्यमानव्याप्तिः । ताभ्यां सर्वं युज्यत इत्यर्थः ॥ 1 ॥

  1. ॐ दृश्यते च ॐ ॥

अभिमानिदेवतायां सामर्थ्यं योगिभि; उपलभ्यते च । अतोऽपि नादर्शनविरोध इत्यर्थः ॥ 2 ॥

॥ असदधिकरणम् ॥ 4 ॥

  1. ॐ असदितिचेन्न प्रतिषेधमात्रत्वात् ॐ ॥

असत् विश्वप्रागभाव एव । जगत्कर्तृत्वे नेश्वर इति चेन्न । कुतः प्रतिषेधमात्रत्वात् अभावधर्मात्मतामन्तरेण स्वरूपत एव निषेधबुद्धिविषयत्वादित्यर्थः ॥ 1 ॥

  1. ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ ॥

अपीतौ प्रलये । तद्वत्प्रसङ्गात् । असन्मात्रवत्त्वप्रसङ्गात् । असत्कर्तृत्वं असमञ्जसं अयुक्तमित्यर्थः ॥ 2 ॥

  1. ॐ नतु दृष्यान्तभावात् ॐ ॥

तुशब्दोऽवधारष । प्रलये सर्वासत्त्वं न युज्यते । कुतः तदा सर्वपदार्थसत्त्व एव दृष्यान्तस्य । भावात् सद्भावादित्यर्थः ॥ 3 ॥

  1. ॐ स्वपक्षदोषाच्च ॐ ॥

स्वपक्षे प्रलये सर्वासत्त्वपक्षे । दोषात् दृष्यान्तभावाख्यदोषाच्च न तत्पक्षो युक्त इत्यर्थः ॥ 4 ॥

  1. ॐ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ ॥

तर्काप्रतिष्ठानात् दृष्ठान्ताभावादिरूपतर्कस्याप्रतिष्ठानात् अव्यवस्थितत्वात् । अन्यथापि सिद्धान्त्युक्तप्रकारात् । अन्यरूपेणापि प्रतितर्केणानुमेयं साधनीयमिति चेत् । नेति शेषः । कुतः एवमपि एवं सति तर्कमात्रस्याप्रमामाण्ये सति । अनिर्मोक्षप्रसङ्गः सर्वसिद्धान्तिभिः स्वस्वशास्त्रप्रयोजनत्वेनाङ्गीकृतस्यापि मोक्षस्यापि लोपप्रसङ्गः । कुतः तस्य विप्रतिपन्नं प्रति अनुमानेनैव साधनीयतया तस्याप्येवमप्रामाण्योक्तिसम्भवादित्यर्थः ॥ 5 ॥

  1. ॐ एतेन शिष्या अपरिग्रहा अपि व्याख्याताः ॐ ॥

एतेन स्वपरपक्षयोः दृष्ठान्तभावाभावाख्यहेतुना । अपरिग्रहाः वेदपरिग्रहशून्याः । तद्विरुद्धाश्च । शिष्याः अवशिष्याः जीवकालस्वभावकर्तृत्वपक्षा अपि । व्याख्याताः प्रत्याख्याताः दूषिता इत्यर्थः ॥ 6 ॥

॥ भोक्त्त्रधिकरणम् ॥ 5 ॥

  1. ॐ भोक्त्त्#ापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ॥

भोक्त्त्#ापत्तेः यस्माद्भोक्तुः जीवस्य

“परेऽव्यये सर्व एकीभवन्ति” (मुं.3-2-7) इति वाक्ये ब्रह्मभावापत्ते; श्रवणात् । तयोरविभागः भेदाभावः । तस्मादल्पजीवाभिन्नब्रह्मणः जगत्कारणत्वं न युक्तमिति चेत् । नेति शेषः । कुतः यतः लोकवत् यथा लोके जले जलान्तरस्यैकीभावोक्तिस्तथात्रापि स्थानैक्याद्यालम्बनेन जीवेशयोः एकीभवन्तीत्यैक्योक्तिः स्यात् उपचरिता भवेत् । अतो नोक्तदोष इत्यर्थः ॥ 1 ॥

॥ आरम्भणाधिकरणम् ॥ 6 ॥

  1. ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥

तदनन्यत्वं तस्य स्वतन्त्रकारणस्य ब्रह्माभिन्नत्वं वाच्यम् । कुतः आरम्भणशब्दादिभ्यः आरम्भणे फलोपलक्षितार्किस्विदासीदि (ऋ.10-81-2) त्यधिष्ठानाद्याक्षेपकवाक्यात् स्वातन्त्ऱ्#ादियुक्तिभिश्चेत्यर्थः ॥ 1 ॥

  1. ॐ भावे चोपलब्धेः ॐ ॥

यतः ईश्वरान्यस्वतन्त्रसाधनस्य भावे सत्त्वे । उपलब्धेः दर्शनस्य । प्रसङ्ग इति शेषः । अतोऽपि नास्त्यतन्त्रसाधनमित्यर्थः ॥ 2 ॥

  1. ॐ सत्वाच्चावरस्य ॐ ॥

चोऽवधारणे । अस्वतन्त्रसाधनस्य सत्त्वादेव “अद्भयः सम्भूतः” इति (तै.आ.3-13) वाक्यं तत्परं भवतीति न तद्विरोध इत्यर्थः ॥ 3 ॥

  1. ॐ असद्वयपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ॥

असद्वयपदेशात् 2नासदासीत्" इत्यन्यस्यासत्त्ववचनात् । अन्यसत्त्वं न युक्तमिति चेन्न । कुतः यतः तन्निषेधः धर्मान्तरेणास्वातन्त्ऱ्#ादिधर्मविशेषेण युज्यते । कुत एतत् वाक्यशेषात् । “तम आसीत्” (ऋ.10-129-3) इत्यवशिष्यवाक्यशेषादित्यर्थः ॥ 4 ॥

  1. ॐ युक्तेः शब्दान्तराच्च ॐ ॥

प्रलये युक्तेः लीलया दण्डमवष्यभ्य गन्तुः पङ्गुत्वाभाववत् भगवतोऽपि लीलया स्वाधीनसाधनावलम्बस्य युक्तत्वात् । शब्दान्तरात् । तस्माच्छक्तोऽपीत्यागमविशेषाच्च उक्तं युक्तमित्यर्थः ॥ 5 ॥

  1. ॐ पटवच्च ॐ ॥

पटसृष्यिवच्च विश्वसृष्यिरपि कर्तृभिन्नसाधनान्तरसाध्येत्यर्थः ॥ 6 ॥

  1. ॐ यथा प्राणादिः ॐ ॥

यथा प्राणदेहेन्द्रियादिकं न स्वतन्त्रम् । एवं प्रकृत्यादिसाधनान्तरमपीत्यर्थः ॥ 7 ॥

॥ इतरव्यपदेशाधिकरणम् ॥ 7 ॥

  1. ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥

इति यदि तर्हीति च शेषः । इतख्यपदेशात् “जीवाद्भवन्ती"ति श्रुतावुक्तत्वात् । स एव कर्ता नेश्वर इति । यदि तर्हि हिताकरणादिदोषप्रसक्तिः जीवनिष्ठयोः हितानाचरणाहिताचरणयोर्दोषत्वप्रसङ्गः । जीवस्य स्वतन्त्रत्वात् ते न स्यातामिति भावः । विद्येते च ते जीवे तस्मान्न जीवः स्वतन्त्रकर्तेत्यर्थः ॥ 1 ॥

  1. ॐ अधिकन्तु भेदनिर्देशात् ॐ ॥

तुशब्दः जीवसाम्यव्यावर्तकः । ब्रह्म तु जीवापेक्षया अधिकम । कुतः श्रोता मन्ता(ऐ.आ.3-2-4) इत्यादौ श्रोतृत्वादिरूपविशेषस्योक्तत्वादित्यर्थः ॥ 2 ॥

  1. ॐ अश्मादिवच्च तदनुपपत्तिः ॐ ॥

चशब्दोऽपिशब्दार्थः । अश्मदिवत् । पाषाणादेरिव । अपि जीवस्य चेतनत्वेऽपि । तदनुपपत्तिः अस्वातन्त्ऱ्#ात् स्वतः कर्तृत्वानुपपत्तेरित्यर्थः ॥ 3 ॥

  1. ॐ उपसंहारदर्शनान्नेतिचेन्न क्षीरवद्धि ॐ ॥

उपसंहारदर्शनात् जीवेनारब्धकार्यस्य समापनदर्शनात् । स एव कर्तेति उक्तब्रह्मकर्तृत्वं नेति चेन्न । कुतः हि यस्मात् ।

क्षीरवत् गोषु दृश्यमानक्षीरस्य यथा मुख्यप्राणकर्तृत्वं तथा जीवकृतोपसंहोऽपि परमात्मकृत एवेत्यर्थः । हि शब्देनात्रार्थे “अन्नम्” इति प्रमाणप्रसिद्धिश्च सूचिता ॥ 4 ॥

  1. ॐ देवादिवदपि लोके ॐ ॥

एवम्भूतेश्वरस्यापि देवादिवत् अदर्शनं युज्यते । कथमेतदित्यत उक्तम् । लोक इति । लोके जगति पिशाचादीनामपि अदृश्यत्वादिशक्तिर्दृष्या । सर्वेश्वरस्य तु किं वाच्यमित्यर्थः ॥ 5 ॥

  1. ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॐ ॥

वाशब्दः पक्षभेदेन दोषापादनसूचकः । जीवस्य स्वतःकर्तृत्वे सवर्कात्स्नयेन प्रवर्तने चाङ्गीकृते कृत्स्नप्रसक्तिः तृणादानादिसर्वकार्येष्वपि सर्वसामर्ध्यप्रवृत्तिप्रसङ्गः । तत्परिहाराय एकदेशेन प्रवृत्त्यभ्युपगमे च निरवयवत्वशब्दकोपः “नित्यो निरवयवः” इति (भाल्लवेय) श्रुतिविरोधः स्यादित्यर्थः ॥ 6 ॥

॥ श्रुतेस्तु शब्दमूलत्वाधिकरणम् ॥ 8 ॥

  1. ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ॥

ईश्वरकर्तृत्वपक्षे तु कृत्स्नप्रसक्तिरित्यादिना जीवकर्तृत्वपक्षोक्तयुक्तिविरोधदोषो नास्ति । कुतः श्रुतेस्तु “योऽसौ विरुद्ध” (पैङ्गि) इति श्रुतेरेव । नन्वेतावता कथं युक्तिविरोधशान्तिरित्यत उक्तम् । शब्दमूलत्वादिति । ईश्वरतद्धर्माणां शब्दैकप्रमाणवत्वे युक्त्यविषयत्वात् न तत्र युक्तिविरोधः प्रवर्तते । जीवे तु न तथा । तस्य प्रमाणान्तरेणापि गम्यत्वादित्यर्थः ॥ 1 ॥

  1. ॐ आत्मनि चैवं विचित्राश्च हि ॐ ॥

आद्यश्चशब्दोऽवधारणे । द्वितीयः समुच्चये । हिशब्दः प्रसिद्धौ । तथा च हिशब्दात् । आत्मनि ईश्वर एव । एवं सकलयुक्तिविरोधनिरासकाः विचित्राः अचिन्त्याः “विचित्रशक्ति;” इति श्रुतिप्रसिद्धाः शक्तयः सन्ति न जीवे । तस्माच्च जीवपक्ष एव युक्तिविरोधः नेश्वरपक्ष इत्यर्थः ॥ 2 ॥

  1. ॐ स्वपक्षदोषाच्च ॐ ॥

चोऽवधारणे । तथा च “ये दोषाः” इति श्रुतौ जीवपक्षे युक्तिविरोधस्य दोषस्यैवोक्तेः नासावदोषतां नेतव्यः । किन्तु ईश्वरपक्ष एव अदोषतां इत्यर्थः ॥ 3 ॥

  1. ॐ सर्वोपेता च तद्दर्शनात् ॐ ॥

यतः परमात्माख्यदेवता नकेवलं सामान्यतो विचित्रशक्तिमती । किन्तु सर्वोपेता सर्वविषयसार्वकालिकशक्तिमती च । कुतः तद्दर्शनात् “सर्वैर्युक्ता” इति (चतु.शि0 तथा श्रुतेः । अतो नेश्वरे युक्तिविरोधः शंकनीय इत्यर्थः ॥ 4 ॥

  1. ॐ विकारणत्वान्नेतिचेत्तदुक्तम् ॐ ॥

नेत्यावर्तते । विकरणत्वात् “अपाणिपादो” (श्वे.3-19) इति ईश्वरस्य हस्तादीन्द्रियशून्यत्वावगमात् । नेति चेत् ईश्वरस्य कर्तृत्वं न युक्तमिति चेन्न । कुतः यस्मात् तदुक्तं तस्मिन्न तस्येत्याद्यागमेन तत्करणराहित्यस्य प्राकृतेन्द्रियविषयत्वमुक्तं तस्मादित्यर्थः ॥ 5 ॥

॥ न प्रयोजनाधिकरणम् ॥ 9 ॥

  1. ॐ न प्रयोजनवत्त्वात् ॐ ॥

ईश्वरस्य सृष्ययादौ प्रवृत्तिर्न स्वप्रयोजनोद्देशेन । कुतः प्रयोजनवत्त्वात् । पूर्णानन्दत्वेन प्राप्तप्राप्तव्यत्वादित्यर्थः ॥ 1 ॥

  1. ॐ लोकवत्तु लीलाकैवल्यम् ॐ ॥

तुशब्द एवाथर्#े । लोकवत् लोके मत्तादिप्रवृत्तेतेरिवेश्वरप्रवृत्तेः । लीलाकैवल्यं केवललीलारूपत्वमेव न स्वप्रयोजनोद्देश्यत्वमित्यर्थः ॥ 2 ॥

॥ वैषम्यनैर्घ्रण्याधिकरणम् ॥ 10 ॥

  1. ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति ॐ ॥

स्वातन्त्यसिद्धथर्मीश्वरस्य जीवेभ्यः फलदाने कर्मापेक्षाङ्गीकारे निर्निमित्तं वैषम्येन फलदातुस्तस्य वैषम्यनैर्घृण्ये

विषमत्वनिर्दयत्वे ये प्रसक्ते ते न स्तः । कुतः सापेक्षत्वात् ईश्वरस्य कमर्#ापेक्षावत्त्वाभ्युपगमात् । तत्कुतः हि यस्मात् । “पुण्येन पुण्यं” (प्र.3-7) इति श्रुतिः तथा दर्शयति प्रति2पादयति तस्मादित्यर्थः ॥ 3 ॥

  1. ॐ न कर्माविभागादितिचेन्नानादित्वात् ॐ ॥

वैषम्यनैर्घृण्यादिदोषपरिहाराय ईशेनापेक्षणीयं यत्कर्म तन्नास्तीति विशिष्यनिषेधः । कुतः अविभागात् तस्य कर्मणः अस्वतन्त्रवस्तुभ्यः अविभक्तत्वात् । अस्वतन्त्रत्वादितियावत् । तथा च स्वाधीनकर्मापेक्षया वैषम्यादेरपरिहार इति चेन्न । कुतः अनादित्वात् कर्मपरम्परायाः अनादित्वादित्यर्थः । तथा चेश्वरः पूर्वपूर्वमपेक्ष्योत्तरोत्तकरकर्म जीवेन कारयतीत्यङ्गीकारेण कर्मणः अपेक्षणीयत्वापेत्तेः नोक्तदोष इति भावः ॥ 4 ॥

  1. ॐ उपपद्यते चाप्युपलभ्यते च ॐ ॥

ईश्वरस्य कर्मापेक्षायामप्युपपद्यते स्वातन्त्यं युज्यत एव । कमर्णः स्वाधीनत्वात् । ननु पुनः स्वाधीनकर्मसापेक्षत्वकृतवैषम्यापात इत्यत उक्तं उपलभ्यतेचेति । “स कारयेत्” (चतु.शि) इति श्रुत्या तादृशवैषम्यं अदोषत्वेन ज्ञायते चेत्यर्थः ॥ 5 ॥

॥ सर्वधर्मोपपत्त्यधिकरणम् ॥ 11 ॥

  1. ॐ सर्वधर्मोपपत्तेश्च ॐ ॥

गुणदोषाभाववत्त्वरूपाणां सर्वेषां धर्माणां उपपत्तेः स्वातन्त्ऱ्#ादिना ब्रह्मणि युक्तत्वाच्च न तस्य गुणपूर्णत्वे युक्तिविरोधः शंकनीय इत्यर्थः ॥ 1 ॥

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां द्वितीयाध्यायस्य प्रथमः पादः ॥ 2 ॥ 1 ॥

। रचनानुपपत्त्वधिकरणम् ॥ 1 ॥

  1. ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥

अनुमीयत इत्यनुमानम् । सांख्यानुमानकल्पितं प्रधानं न जगत्कर्तृ । कुतः रचनानुपपत्तेः प्रधानस्य जडत्वेन स्वतः प्रवृत्त्यनुपपत्ते; । अचेतनस्य स्वतः प्रवृत्तौ प्रमाणाभावाच्चेत्यर्थः ॥ 1 ॥

  1. ॐ प्रवृत्तेश्च ॐ ॥

अहं करोमीति चेतनस्यैव प्रवृत्तेर्दर्शनाच्च न प्रधानं जगत्कर्तृ इत्यर्थः ॥ 2 ॥

  1. ॐ पयोऽभ्युवच्चत्तत्रापि ॐ ॥

अपिशब्दश्चेतनप्रवृत्त्याकर्षणार्थः । पयोऽम्बुवत् यथाऽचेतनयोः पयोऽम्बुनोः प्रवृत्तिर्दृष्या तथा प्रधानस्याप्यस्त्विति चेन्न । कुतः यतस्तत्रापि पयोऽम्ब्वादावपि अन्ततः ईश्वरादेव प्रवृत्तिः । न स्वतः प्रवृत्तिरित्यर्थः ॥ 3 ॥

  1. ॐ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॐ ॥

व्यतिरेकानवस्थितेः “न ऋते” (ऋ.10-113-9) इति श्रुत्या ईश्वरव्यतिरेकेण कस्यापि कर्मणः असत्त्वावगमात् । तत एवाचेतनस्यैव स्वतः प्रवृत्तिरिति निरीश्वरसांख्यमतस्याप्रामाणिकत्वात् । अत एव अनपेक्षत्वात् सद्भिरनादरणीयत्वान्नतद्विरोधो विष्णुकर्तृत्वस्येत्यर्थः ॥ 4 ॥

॥ अन्यत्राभावाधिकरणम् ॥ 2 ॥

  1. ॐ अन्यत्राभावाच्च न न तृणादिवत् ॐ ॥

तृणादिवत् यथा पृथिवीजन्यतृणशदिकार्ये पर्जन्यः सहकारिमात्रं तथा प्रकृतिजन्यमहदादिकायेऽपीश्वरः अनुग्राहकः । न स्वतन्त्र इति सेश्वरसांख्यापक्षोऽपि न । कुत; अन्यत्राभावात् ईश्वरादन्यत्र तत्प्रेरणां विना जगतोऽभावादीश्वरस्य प्रकृतिसत्तादिप्रदत्वाच्चेत्यथर्ः ॥ 1 ॥

॥ अभ्युपगमाधिकरणम् ॥ 3 ॥

  1. ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ ॥

नेत्यनुवर्तते । अनभ्नयुपगमेऽपि चावर्#ाकैः स्वशास्त्रस्य सिद्धान्तत्वानभ्युपगमे सिद्धमस्मदिष्यम् । अभ्युपगमेऽपि अर्थाभावात् सिद्धान्तत्वव्यापकयोः अर्थशब्दितविषयप्रयोजनयोः अवत्त्वङ्गीकारात् स्वव्याघातः स्यादिति न तत्पक्षोऽपि युक्त इत्यर्थः ॥ 1 ॥

॥ पुरुषाश्माधिकरणम् ॥ 4 ॥

  1. ॐ पुरुषाश्मवदिति चेत्तत्रापि ॐ ॥

पुरुषाश्मवत् यथा पुरुषसम्बन्धादचेतनं शरीरं अश्मानयनादौ प्रवर्तते तथा अचेतनप्रकृतिः चेतनसम्बन्धात्प्रवर्तत इति चेन्न ।

कुतः यतः तत्रापि शरीरप्रवृत्तावपि चेतनस्य ईश्वरस्यैव कर्तृत्वे । न दृष्यान्ताभावः । अत इत्यर्थः ॥ 1 ॥

  1. ॐ अङ्गित्वानुपपत्तेः ॐ ॥

पुरुषस्याङ्गत्वेऽङ्गीकृते “अङ्गमङ्गीति” वाक्ये अङ्गित्वस्य प्राधान्यस्य उक्त्यनुपपत्तेः । न पुरुषोपसर्जनप्रकृतिकर्तृत्वपक्षे दृष्यान्तोऽस्तीत्यर्थः ॥ 2 ॥

॥ अन्यथानुमित्यधिकरणम् ॥ 5 ॥

  1. ॐ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॐ ॥

चशब्देनाङ्गित्वानुपपत्तेरित्यस्य समाकर्षः । यथा प्राचीनपक्षान्यप्रकारेण प्रकृत्युपसर्जनपुरुषकर्तृत्वस्यानुमितौ साधनेऽपि । ज्ञाक्तिवियोगात् ज्ञस्य जीवस्य शरीरसम्बन्धार्थं प्रवृत्तिशक्तिवियोगात् अङ्गित्वानुपपत्तेरेवेत्यर्थः ॥ 1 ॥

  1. ॐ विप्रतिषेधाच्चासमञ्जसम् ॐ ॥

विप्रतिषेधात् सकलश्रुतिस्मृतियुक्तिविरुद्धत्वादनीश्वरमतमसमञ्जसमयुक्तमित्यर्थः ॥ 2 ॥

॥ वैशेषिकाधिकरणम् ॥ 6 ॥

  1. ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्हलाभ्याम् ॐ ॥

महद्दीर्घवत् वैशेकिमते त्यणुकादिगतान्महत्त्वात् दीर्घत्वाच्च चतुरणुकादिगतपरिमाणमुत्पद्यते । तथा ह्रस्वपरिमण्डलाभ्यामपि द्वयणुकपरमाणूभयगतह्रस्वत्वपारिमाण्हल्यपरिमाणाभ्यामपि त्यणुकद्वयणुकगतपरिमाणोत्पत्तिः स्यादित्यर्थः । अन्यथा महत्वदीर्घत्वाभ्यामपि कार्योतपत्तिर्नस्यादिति वाशब्दार्थः । तस्माद्वैशेषिकमतमनुपपन्नमिति भावः ॥ 1 ॥

  1. ॐ उभयथाऽपि न कर्माऽतस्तदभावः ॐ ॥

यतः उभयथापि ईश्वरेच्छाया नित्यत्वानित्यत्वरूपपक्षद्वयेऽपि । न परमाणुषु क्रियोत्पत्तिसम्भवः । अतस्तदभावः तस्मिन् द्वयणुकादिकायर्#ोभावः स्यादित्यर्थः ॥ 2 ॥

  1. ॐ समवायायुपगमाच्च साम्यादनवस्थितेः ॐ ॥

वैशेषिकैः अवयवावयव्यादीनां भिन्नत्वनिमित्तेन समवायाभ्युपगमात् । समवायसबन्धङ्गीकारात् । साम्यात् समवाय्यसमवायिनोरपि भिन्नत्वसाम्यात् । तत्रापि समवायाभ्युपगमे अनवस्थितेः अनवस्थानाच्च तन्मतमयुक्तमित्यर्थः ॥ 3 ॥

  1. ॐ नित्यमेव च भावात् ॐ ॥

दोषसमुच्चये चः । ईशेच्छापरमाण्वादिकारणानां सदात्वात् । वैशेषिकमते नित्यमेव सर्वदैव । भावात् कार्योत्पत्तिः स्यात् । न तु कदाचिदित्यर्थः ॥ 4 ॥

  1. ॐ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॐ ॥

किञ्च वैशेषिकमते पाथिवाप्यतैजसपरमाणुनां रूपादिमत्त्वात् । विपर्ययः नित्यत्वविपरीतानित्यत्वं स्यात् । कुतः दर्शनात् यद्रूपादिमत् तदनित्यमिति व्याप्तेः घटादौ दृष्यत्वादित्यर्थः ॥ 5 ॥

  1. ॐ उभयथा च दोषात् ॐ ॥

वैशेषिकमते उभयथा च परमाणुनित्यत्वानित्यत्वरूपपक्षद्वयेऽपि । दोषात् तद्वत्सर्वनित्यत्वकारणाभावनिमित्तकतदुत्पत्त्यभावस्य दोषस्य सत्त्वात् न तत्पक्षो युक्त इत्यर्थः ॥ 6 ॥

  1. ॐ अपरिग्रहाच्चात्यन्तमनपेक्षा ॐ ॥

अपरिग्रहात् वैशेषिकमतस्य श्रुत्यादिपरिग्रहशून्यत्वात् । तद्विरुद्धत्वाच्च । तत्रात्यन्तमनपेक्षा अनादरः कार्य इत्यर्थः ॥ 7 ॥

॥ समुदायाधिकरणम् ॥ 7 ॥

  1. ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥

यतः समुदाये परमाणुसमुदायेऽनेकत्वसंख्यारूपे मिलितानेकपरमाणुनिमित्तक्रेऽङ्गीकृते सत्यपि विरलानेकहेतुके

वाऽङ्गीकृते सति । कुतः अन्योन्याश्रयादिदोषादिति शेषः । तदुपपादितं टीकायाम् । अतः परमाणुपुञ्च एव घटावयवीति बौद्धपक्षोऽपि न क्षम इत्यर्थः ॥ 1 ॥

  1. रँ#़ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॐ ॥

ननु परमाणुपञ्चस्य सदा सत्त्वेऽपि नास्मत्पक्षे प्रलयानुपपत्तिः । कुतः तद्वयवहारादेरितरेतरप्रत्ययत्वात् । इदमिदं चेति परमाणुपरस्परापेक्षाबुद्धिनित्तिकत्वात् । तथा च तादृशबुद्धयभावकाले समुदायव्यवहारादेरसत्त्वात्प्रलयोपपत्तिरिति चेन्न । कुतः उत्पत्तिमात्रनिमित्तत्वात्परमाणूनां स्वसमुदायोत्पत्तिमात्रनिमित्तत्वात्न तेभ्योऽपेक्षाबुद्धयादेरप्युत्पत्तिः सम्भवतीति मात्रशब्दार्थः । तथा च तन्नित्तिकव्यवहारादिः क्षणिकमते न कदापि सम्भवतीत्यर्थः ॥ 2 ॥

  1. ॐ उत्तरोत्पादे च पूवर्निरोधात् ॐ ॥

चोऽवधारणष समुच्चये च । नेत्यनुवर्तते । सामर्थ्यादिति शेषः । तथा च न केवलं क्षणिकमते समुदायव्यवहारानुपपत्तिः । किन्तु विशेषकार्योत्पत्तिश्च न युक्ता । कुतः उत्तरोत्पादे च कारणस्य सदृशकार्यजननसामर्थ्यात् तेन कारणं प्रथमं स्वसदृऽशमुत्पाद्य पश्चाद्विसदृशर्कायर्मुत्पद्यताम् । को दोष इत्यतोऽप्याह । उत्तर इति । तथा च उत्तरस्य स्वसदृशकार्योत्पादे उत्पत्तौ सत्यामेव । पूर्वनिरोधात् पूर्वस्य कारणस्य नाशात् । पुनर्विसदृशकार्यजनकत्वासम्भव इत्यर्थः ॥ 3 ॥

  1. ॐ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॐ ॥

क्षणिकमते न प्रतिक्षणं कार्योत्पत्तिर्युज्यते । कुतः असति कारणे कार्यमुत्पद्यत इत्यङ्गीकारे प्रतिज्ञोपरोधः तस्य त्कार्यत्वमिति प्रतिज्ञाय सिद्धान्तव्यवहारस्योपरोधो हानिः स्यात् । अन्यथा कारणे सति कार्यमुत्पद्यत इत्यङ्गीकारे यौगपद्यं कारणेन सह कार्याणामेकदावस्थानं प्रसज्यत इत्यर्थः ॥ 4 ॥

  1. ॐ प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॐ ॥

एवं क्षणिकमते प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिः प्रतिसंख्याऽप्रतिसंख्यानिरोधयोः प्रतिक्षणविनाशसन्तानविनाशयोः अप्राप्तिः अनुपपत्तिः । कुतः अविच्छेदात् । तद्रीत्या कार्योत्पत्तावकार्याणां चाविच्छिन्नत्वादित्यर्थः ॥ 5 ॥

  1. ॐ उभयथा च दोषात् ॐ ॥

उभयथा कारणे सति कार्यं भवत्येवेति नियमपक्षे तदभावपक्षे च । दोषसत्त्वात् कार्यकारणविशेषकार्यानुत्पत्त्याख्यदोषात् । नान्यतरपक्षावलम्बेनार्थापत्त्या क्षणिकपक्षो युक्त इत्यथर्ः ॥ 6 ॥

  1. ॐ आकाशे चाविशेषात् ॐ ॥

चोऽप्यर्थे । दीपदृष्यन्तेन सत्त्वहेतुना जगति क्षणिकत्वसाधने आकाशदृष्यान्तेनाक्षणिकत्वस्यापि साधनापातः । ननु दृष्यान्ते साध्यवैकल्यमित्यत उक्त आकाशेऽविशेषादिति । क्षणिकत्वसाधकत्वेन परोक्तपरिमाणविशेषादर्शनादित्यर्थः । तथा च सत्प्रतिपक्षोऽयं हेतुरिति न तेन क्षणिकत्वसिद्धिरिति भावः ॥ 7 ॥

  1. ॐ अनुस्मृतेश्च ॐ ॥

तदेवेदमिति प्रत्यभिमानाच्च तद्विरोधात् न सत्त्वहेतुना क्षणिकत्वसाधनं युक्तमित्यर्थः ॥ 8 ॥

। असदधिकरणम् ॥ 8 ॥

  1. ॐ नासतोऽदृष्यत्वात् ॐ ॥

असतःशून्यस्य । न जगत्कर्तृत्वं युक्तम् कुतः प्रमाणाभावादिति शेषः । तत्कुतः अदृष्यत्वात् । क्वाप्यसतः कारणत्वादर्शनात् । अत एवानुमानागमयोरप्यभावादित्यर्थः ॥ 1 ॥

  1. ॐ उदासीनानामपि चैवं सिद्धिः ॐ ॥

एवं सत्यसतः कार्योत्पादकत्वेऽङ्गीकृते सति । उदासीनानां हेयोपादेयत्वयुद्धयविषयाणां गगनकुसुमादीनां सकाशादपि सौरभ्यादिकार्यसिद्धिः स्यादित्यर्थः । अन्यथा शून्यादपि कार्योत्पत्तिर्न स्यादिति चशब्दार्थः ॥ 2 ॥

  1. ॐ नाभाव उपलब्धेः ॐ ॥

जगत् अभावः असत् न । कुत उपलब्धेः सदिति प्रतीयमानत्वादित्यर्थः ॥ 3 ॥

  1. ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ ॥

जगत् स्वप्नादिवत् स्वापनवस्तुन्यारोपितजाग्रत्वादिवदप्यसन्न । कुतः वैधर्म्यात् स्वाप्नजाग्रत्वस्य

बाध्यत्वाख्यविलक्षणधर्मवत्त्वात् जगति च तदभावादित्यर्थः ॥ 4 ॥

॥ अनुपलब्ध्यधिकरणम् ॥ 9 ॥

  1. ॐ न भावोऽनुपलब्धेः ॐ ॥

जगत् भावः ज्ञानात्मकमपि न । कुतः अनुपलब्धेः ज्ञानज्ञेययोरभेदाननुभवादित्यर्थः ॥ 1 ॥

  1. ॐ क्षणिकत्वाच्च ॐ ॥

ज्ञानस्यैकक्षणावस्थायित्वाज्जगतः स्थायित्वात्तद्विरोधान्नतयोरैक्यमित्यर्थः ॥ 2 ॥

  1. ॐ सर्वथाऽनुपपत्तेश्च ॐ ॥

सर्वप्रकारेणानुपपत्तेः बौद्धरान्तस्य युक्तिशून्यत्वात् तद्विरुद्धत्वाच्च न ग्राह्यत्वमित्यर्थः ॥ 3 ॥

॥ नैकस्मिन्नधिकरणम् ॥ 10 ॥

  1. ॐ नैकस्मिन्नसम्भवात् ॐ ॥

जैनोक्तसप्तप्रकारा एकस्मिन्वस्तुनि न युक्ताः । कुतः असम्भवात् अप्रामाणिकत्वेन तेषामेकत्रासम्भावितत्वादित्यथर्ः । सप्तप्रकारास्तु सत्वं, असत्वं, सदसत्वं, सद्विलक्षणत्वं, सत्त्वे सति सद्विलक्षणत्वं, असत्त्वे सति असदिलक्षणत्वं, सदसत्त्वे सति सदसद्विलक्षणत्वमित्येवंरूपाः ज्ञातव्याः ॥ 1 ॥

  1. ॐ एवञ्चात्माकात्स्नर्यम् ॐ ॥

एवञ्चात्मनः कायपरिमाणेऽङ्गीकृते सत्यात्माकात्स्नर्यं आत्मनः प्राक् पिपीलिकादेहं प्राप्तस्य तत्कायपरिमितस्य जीवस्याकात्स्नर्यं गजगर्दभादिशरीरप्राप्तावपूर्णता स्यादित्यर्थः । एवं गजशरीरं प्राप्तस्यात्मन; पिपीलिकादेहप्राप्तावकात्स्नर्यमाधिक्यं च स्यादित्यपि द्रष्यव्यम् ॥ 2 ॥

  1. ॐ न च पर्यायादप्यविरोधो विकारादिभ्यः ॐ ॥

पर्यायात् क्रमात् क्रमेण तत्तद्देहपरिमाणत्वाङ्गीकारादपि । अविरोधः नोक्तदोष इति च न युज्यते । कुतः यतः पर्यायो न युज्यते । तदपि कुतः विकारादिभ्यः तथा सति तत्तत्कालीनपरिमाणभेदेन वस्तुभेदात् । आत्मनो विकारित्वापत्तेः । ततश्चानित्यत्वान्निर्मोक्षत्वादिदोषप्रसङ्गादित्यर्थः ॥ 3 ॥

  1. ॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॐ ॥

पूर्वसूत्रादेवेचेत्यनुषज्यते । अन्त्यावस्थितेरित्येतदावर्तते । चशब्दोऽवधारणे समुच्चये वा । तथा च एवं सति आत्मनः कायपरिमाणत्वेऽङ्गीकृते अन्त्यावस्थितेः प्रसङ्ग इति शेषः । मोक्षेऽपि सतः आत्मनः शरीरसत्त्वमङ्गीकार्यं स्यादित्यर्थः । कुतः अन्त्यावस्थितेश्च अन्त्यस्य मौक्तिकपरिमाणस्यावस्थितेरवश्यमङ्गीकायर्त्वात् । अवच्छेदकशरीरं विना अवच्छेद्यपरिमाणसत्त्वायोगादिति भावः । परिमाणमेव कुत इत्यतोऽप्याह । अन्त्येति । अन्त्यस्य मौक्तिकात्मस्वरूपस्य मुक्ताववस्थितेरवश्यं स्वरूपसत्त्वस्य परिमाणं विनाऽयोगादिति भावः । अस्तु मोक्षेऽपि शरीरं ततः किमित्यत उक्तं उभयनित्यत्वादिति । तथा सति उभयोः मुक्तकालीनयोर्देहात्मनोर्नित्यत्वप्रसङ्गादित्यर्थः । अस्तु मौक्तिकशरीरनित्यत्वं ततः किमित्यत आह । ततश्च सर्वनित्यत्वं स्यादित्यापाद्यवाक्यमध्याहार्यम् । अत एव समुच्चयार्थकश्चशब्दः । सर्वेषामधुनातनशरीराणां नित्यत्वं स्यादित्यर्थः । कुत इत्यत आह अविशेषादिति । मुक्तिकालीनानां अधुनातनानां च शरीराणां शरीत्वाविशेषादित्यर्थः । तस्मान्न कायपरिमाणत्वमात्मनो युक्तति भावः ॥ 4 ॥

| पत्युरधिकरणम् ॥ 11 |

  1. ॐ पत्यरसामञ्जस्यात् ॐ ॥

पत्युः पशुपतेः जगत्कारणत्वं न युक्तम् । कुतः असामञ्जस्यात् पारतन्त्ऱ्#ोत्पत्त्यादिदोषवत्वादित्यर्थः ॥ 1 ॥

  1. ॐ सम्बन्धानुपपत्तेश्च ॐ ॥

शिवस्याशरीरत्वेन जगता सम्बन्धानुपपत्तेः न तस्य कतर्#ृत्वमित्यर्थः ॥ 2 ॥

  1. ॐ अधिष्ठानानुपपत्तेश्च ॐ ॥

प्रलये सर्वेषां नष्यत्वात् पुनः सृष्यिकाले पशुपतेः पृथिव्याद्याश्रयानुपपत्तेश्च न तस्य जगत्कर्तृत्वमित्यर्थः ॥ 3 ॥

  1. ॐ कारणवच्चेन्न भोगादिभ्यः ॐ ॥

ननु यतः साधनजातं पशुपतेः करणवत् शरीरवत् शरीरेण तुल्यं अधिष्ठानतुल्यं च अतो नोक्तदोष इति चेन्न । कुतः

भोगादिभ्यः शरीरकृतसुखदुःखभोगोत्पत्तिमरणादिदोषेभ्य इत्यर्थः ॥ 4 ॥

  1. ॐ अन्तवत्वमसर्वज्ञाता वा ॐ ॥

यतः शिवस्य देहित्वतदभावपक्षयोः क्रमेणान्तवत्त्वं नाशवत्त्वं असर्वज्ञता न सर्वज्ञत्वं स्यात् अतो न तद्युक्तमित्यर्थः ॥ 5 ॥

॥ उत्पत्त्वधिकरणम् ॥ 12 ॥

  1. ॐ उत्पत्त्यसम्भवात् ॐ ॥

न शक्तिर्जगत्कारणम् । कुतः उत्पत्त्यसम्भवात् शक्तिशब्दितकेवलस्त्रीभ्यः अपत्योत्पत्त्ययोगादित्यर्थः ॥ 1 ॥

  1. ॐ न च कर्तुः करणम् ॐ ॥

यतः कर्तुः शक्त्यनुग्राहकशिवस्य च करणं ज्ञानादिसाधनं न । अतो न तस्य शक्त्यनुग्राहकत्वमित्यर्थः ॥ 2 ॥

  1. ॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ ॥

विज्ञानादिभावे वा शिवस्य ज्ञानेच्छादिसत्त्वेऽङ्गीकृते च । तदप्रतिषेधः तस्य शैवपक्षस्याप्रतिषेधः अनिरासः अनुमतिः कृता स्यात् स च दूषित एवेत्यर्थः ॥ 3 ॥

  1. ॐ विप्रतिषेधाच्च ॐ ॥

सकलश्रुतिस्मृतिविरुद्धत्वाच्च शाक्तेयमतमसमञ्जसमयुक्तमित्यर्थः ॥ 4 ॥

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां द्वितीयाध्यायस्य द्वितीयः पादः ॥ 2 ॥ 2 ॥

॥ वियदधिकरणम् ॥ 1 ॥

  1. ॐ न वियदश्नुतेः ॐ ॥

वियत् आकाशमनुत्पत्तिमन्न किन्त्वीशादुत्पत्तिमदेव । कुतः । अश्रुतेः वियदनुत्पत्तौ श्रुत्यभावादितर्य्थः ॥ 1 ॥

  1. ॐ अस्ति तु ॐ ॥

आकाशोत्पत्तौ “आत्मन आकाशः सम्भूत;” इति (तै.2-1) श्रुतिरस्त्येवेत्यर्थः ॥ 2 ॥

  1. ॐ गौण्यसम्भवात् ॐ ॥

"

अनादिर्वाऽयमाकाशः” इति श्रुतिर्गौणी अमुख्यानादित्वपरा । कुतः । असम्भवात् तस्याः मुख्यार्थत्वे बहुलोत्पत्तिश्रुत्ययोगादित्यर्थः ॥ 3 ॥

  1. ॐ शब्दाच्च ॐ ॥

“अथ ह वाव नित्यानि” इति श्रुतिबलाच्चानादित्वश्रुतिर्गौणार्थेत्यर्थः ॥ 4 ॥

  1. ॐ स्याच्चैकस्य ब्रह्मशब्दवत् ॐ ॥

चोऽवधाणे । ब्रह्मशब्दवत् यथा एकस्यैव ब्रह्मशब्दस्य विष्णौ मुख्यत्वं जीवेत्वमुख्यताऽस्ति । तथा एकस्यैव नित्यत्वबोधकशब्दस्य ब्रह्मणि मुख्यार्थता स्यात् भवेदित्यर्थः ॥ 5 ॥

  1. ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॐ ॥

आकाशस्य मुख्यानुत्पत्त्युक्तौ प्रतिज्ञाहानिः “स इदं सर्वमसृजत” (तै.2-6) इति विष्णोः स्रष्यृत्वप्रतिज्ञाहानिः स्यात् । कुतः अव्यतिरेकात् अकाशस्य सर्वशब्दार्थानतिरिक्तत्वात् । किञ्च यतः शब्देभ्यः “आत्मा वा इदम्” (ऐ.1-1) इत्यादिस्पष्यश्रुतिभ्यश्च ब्रह्मण एव मुख्यानुत्पत्तिः । न त्वन्यस्येत्यवसीयते अत उक्तं युक्तमित्यर्थः ॥ 6 ॥

  1. ॐ यावद्वि कारन्तु विभागो लोकवत् ॐ ॥

यावच्छब्दोऽवधारणे । यावद्विकारमित्यव्ययम् । तुशब्दश्चशब्दार्थे । तथा च यतः यावद्विकारं विक्रियमाणमेव वस्तु । विभागः विभागशब्दिताल्पशक्तिमत् । न त्वन्यदिति नियमः सिद्धः । अतो लोकवत् लोक इव । यथा लोके घटादौ विभक्तत्वात् विकारित्वमङ्गीकृतं तथाकाशादेरपि विभक्तत्वहेतुना विकारित्वं सिध्यति । तत एव सादित्वमपि सिध्यतीत्यर्थः ॥ 7 ॥

॥ मातरिश्वाधिकरणम् ॥ 2 ॥

॥ वियदधिकरणम् ॥ 1 ॥

  1. ॐ न वियदश्रुतेः ॐ ॥

वियत् आकाशमनुत्पत्तिमन्न किन्त्वीशादुत्पत्तिमदेव । कुतः । अश्रुतेः वियदनुत्पत्तौ श्रुत्यभावादित्यर्थः ॥ 1 ॥

  1. ॐ अस्ति तु ॐ ॥

आकाशोत्पत्तौ “आत्मन आकाशः सम्भूतः” इति (तै.2-1) श्रुतिस्स्त्#ेवेत्यर्थः ॥ 2 ॥

  1. गौण्यसम्भवात् ॐ ॥

“अनादिर्वाऽयमाकाशः” इति श्रुतिगौणी अमुख्यानादित्वपरा । कुतः । असम्भवात् तस्याः मुख्यार्थत्वे बहुलोत्पत्तिश्रुत्ययोगादित्यर्थः ॥ 3 ॥

  1. ॐ शब्दाच्च ॐ ॥

“अथ ह वाव नित्यानि” इति श्रुतिबलाच्चानदित्वश्रुतिर्गौणार्थेत्यर्थः ॥ 4 ॥

  1. ॐ स्वाच्चैकस्य ब्रह्मशब्दवत् ॐ ॥

चोऽवधारणे । ब्रह्मशब्दवत् यथा एकस्यैव ब्रह्मशब्दस्य विष्णौ मुख्यत्वं जीवेत्वमुख्यताऽस्ति । तथा एकस्वैव नित्यत्वबोधकशब्दस्य ब्रह्मणि मुख्यार्थता स्यात् भवेदित्यर्थः ॥ 5 ॥

  1. ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॐ ॥

आकाशस्य मुख्यानुत्यत्त्युक्तौ प्रतिज्ञाहानिः “स इदं सर्वमसृजत” (तै.2-6) इति विष्णोः स्रष्यृत्वप्रतिज्ञाहानिः स्यात् । कुतः अव्यतिरेकात् आकाशस्य सर्वशब्दार्थानतिरिक्तत्वात् । किञ्च यतः शब्देभ्यः “आत्मा वा इदम्” (ऐ.1-1) इत्यादिस्पष्यश्रुतिभ्यश्च ब्रह्मण एव मुख्यानुत्पत्तिः । न त्वन्यस्येत्यवसीयते अत उक्तं युक्तमित्यर्थः ॥ 6 ॥

  1. ॐ यावद्वि कारन्तु विभागो लोकवत् ॐ ॥

यावच्छब्दोऽवधारणष । यावद्विकारमित्यव्ययम् । तुशब्दश्चशब्दार्थे । तथा च यतः यावद्विकारं विक्रियमाणमेव वस्तु । विभागः विभागशब्दिताल्पशक्तिमत् । न त्वन्यदिति नियमः सिद्धः । अतो लोकवत् लोक इव । यथा लोके घटादौ विभक्तत्वात् विका­िवमङ्गीकृतं तथाकाशादेरपि विभक्तत्वहेतुना विकारित्वं सिध्यति । तत एव सादित्वमपि सिध्यतीत्यर्थः ॥ 7 ॥

॥ मातरिश्वाधिकरणम् ॥ 2 ॥

  1. ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥

एतेन पूर्वोक्तविभक्तत्वादिहेतुना । मातरिश्वा मुख्यवायुः । व्याख्यातः उत्पत्तिमत्वेनोक्त इत्यर्थः ॥ 1 ॥

॥ असम्भवाधिकरणम् ॥ 3 ।

  1. ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥

तुशब्दोऽवधारणे । सतः विष्णोः । असम्भवः अनुत्पत्तिरेव । न तु “असतः सदजायत” (तै.2-7) इति श्रुत्या असतः सकाशदुत्पत्तिर्वाच्या । कुतः अनुपपत्तेः । अतो विष्णोरसदुत्पत्तेरयोगादित्यर्थः ॥ 1 ॥

॥ तेजोऽधिकरणम् ॥ 4 ॥

  1. ॐ तेजोऽतस्तथाह्याह ॐ ॥

तेजस्तेजोभूतम् । अतः ब्रह्मणएवोत्पद्यते न वायोः कुतः हि यस्मात् । “तत्तेजः” इति (छां.6-2-3) श्रुतिः तथा उक्तप्रकारेणाह वक्ति तस्मादित्यर्थः ॥ 1 ॥

। अबधिकरणम् ॥ 5 ॥

  1. ॐ आपः ॐ ॥

अत्रापि अतः तथाह्याहेत्यनुवर्तते । तथा च आपः अतः विष्णोरेवोत्पत्तिमत्यः । न त्वन्यतः । कुतः हि यस्मात् ब्रह्मैवेदमिति श्रुतिस्तथाऽऽह तस्मादित्यर्थः ॥ 1 ॥

॥ पृथिव्यधिकरणम् ॥ 6 ॥

  1. ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ ॥

पृथिवी पृथिव्येव “ता अन्नमसृजन्त” इति श्रुतिः । तथान्नशब्देनोच्यते न प्रसिद्धान्नम् । कुतः अधिकाररूपशब्दान्तरादिभ्यः अधिकारशब्दितभूतप्रकरणात् रूपशब्दोक्तकृष्णरूपस्य च श्रवणात् । शब्दान्तरं शब्दविशेषः “पृथिवी वा अन्नम्” इति (तै.3-9) श्रुतिविशेषाच्चेत्यर्थः । अपौरुषेयत्वेनादोषस्य वाक्यस्य नाप्रामाण्यमित्यादियुक्तिरादिशब्दार्थः ॥ 1 ॥

॥ तदभिध्यानाधिकरणम् ॥ 7 ॥

  1. ॐ तदभिध्यानादेव तु तल्लिङ्गात्सः ॐ ॥

तुशब्दोऽवधारणे । अभिध्यानशब्देनेच्छोच्यते । तच्छब्देन विष्णुर्ग्रह्यते । तथा च स विष्णुरेव संहारकर्ता न रुद्रः । कुतः तदभिध्यानात् “तस्याभिध्यानात्” (श्वे.1-10) इति श्रुत्यक्तत्वात् तस्य विष्णोः

अभिध्यानरूपशब्दज्ञापितसाञ्जिहीर्षाविशेषितादनादिबन्धसंहारेच्छारूपात्तल्लिङ्गादेव सादिजगत्संहर्तृत्वसाधकादेवेत्यथर्ः । एवकारस्तु भाष्यरीत्या किमु श्रुतिभ्य इति कैमुत्यसूचकः ॥ 1 ॥

॥ विपर्ययाधिकरणम् ॥ 8 ॥

  1. ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ ॥

तुशब्दोऽवधारणे । अत इत्यावर्तते । अत उत्पत्तिक्रमात् । विपर्ययेण वैपरीत्येन । क्रमः लयक्रमः । न तूत्पत्तिक्रमेण । कुतः अत एव व्युत्क्रमादिति श्रुतेरेव । किञ्च उपपद्यते युज्यते चायं व्युत्क्रमः । कुतः पूर्वोत्पन्ननां उत्तरोत्पन्नेभ्योऽधिसामर्थ्येन तेषशं अधिककालावस्थानस्य युक्तचादित्यर्थः ॥ 1 ॥

॥ अन्तराधिकरणम् ॥ 9 ॥

  1. ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादितिचेन्नाविशेषात् ॐ ॥

विज्ञानमनसी विज्ञानतत्त्वमनस्तत्त्वे । अन्रा विना । अन्यत्र क्रमेण व्युत्क्रमेण लयः न तयोरपि । कुतः तल्लिङ्गात् “मनसश्च विज्ञानम्” इत्यत्र विज्ञानात्पूर्वोत्पन्नतया भूतस्यापि मनसः “यच्छेद्वाङ्मनसि” इति पूर्वमेव लयोक्तिरूपसाधकदर्शनादिति चेन्न । कुतः अविशेषात् । विज्ञानमनस्तत्त्वयोर्यथोत्पत्तिलय इत्यत्र विशेषप्रमाणाभावादित्यथर्ः ॥ 1 ॥

  1. ॐ चराचरव्यपाश्रयस्तु स्यात् तद्वयपदेशो भाक्तस्तद्भावभावित्वात् ॐ ॥

चराचरव्यपाश्रयः चराचरशब्दितेन्द्रियतद्वृत्तिज्ञानविषयसाधारणः । तद्वयपदेशस्तु “मनसश्च विज्ञानम्” इति श्रौतव्यवहारस्तु । भाक्तः एकदेशः मनोविज्ञानशब्दाथर्#ैकदेशभूतेनिद्रयवृत्तिज्ञानविषयक एव न तत्त्वविषयकः । कस्मान्निमित्तात् । तद्भावभावित्वात् । तस्यावृत्तिः तस्मिन् चराचरशब्दितचेतनाचेतनविषये तद्भावेन मनोभावेन आलोचनेन भावित्वात्त्पद्यमानत्वात् । अतो नोक्तलिङ्गदर्शनं बाधकमित्यर्थः ॥ 2 ॥

॥ आत्माधिकरणम् ॥ 10 ॥

  1. ॐ नात्माऽश्रुतेः नित्यात्वाच्च ताभ्यः ॐ ॥

आत्मा परमात्मा न विलीयते । अश्रुतेः तल्लयस्य क्वाप्यश्रवणात् । किञ्च ताभ्यः “स नित्यो निर्गुणः” इत्यादिश्रुतिभ्यः नित्यत्वात् विष्णोर्नित्यत्वावगमाच्च न तस्य नाश इत्यर्थः ॥ 1 ॥

॥ ज्ञाधिकरणम् ॥ 11 ॥

  1. ॐ ज्ञोऽत एव ॐ ॥

जानातीति ज्ञः जीवोऽपि । अतः विष्णोः उत्पद्यत एव । कुतः अत एवाविनष्या एवोत्पद्यन्त इति (काषायण) श्रुतेरेवेत्यर्थः ॥ 1 ॥

  1. ॐ युक्तेश्च ॐ ॥

अनादिनित्यस्यापि जीवस्येशाधीनत्वदेहयत्वरूपोत्पत्तेः युक्तत्वाच्च जीवः उत्पत्तिमानेवेत्यर्थः । 2 ।

॥ उत्क्रान्तत्यधिकरणम् ॥ 12 ॥

  1. ॐ उत्कान्तिगत्यागतीनाम् ॐ ॥

सोऽस्मादित्यादिवाक्योक्तदेहोत्क्रमणं लोकान्तरगमनैतल्लोकगमनरूपहेतूनां सकाशात् अणुरेव जीवः न विभुरित्यर्थः ॥ 1 ॥

  1. ॐ स्वात्मना चोत्तरयोः ॐ ॥

चशब्द एवार्थः । जीवः स्वात्मना स्वतन्त्रपरमात्मनैव तत्प्रेरणयैवात्क्रान्त्यादिमान् न स्वतः । कुतः उत्तरयोः सकाशात् "

स एतेनैव स्वात्मना एष ह्येनं जीवम्" इति (पौष्यायण) उत्तरवाक्यबलादित्यर्थः ॥ 2 ॥

  1. ॐ नाणुरतच्छतेरिति चेन्नेतराधिकारात् ॐ ॥

ननु न जीवोऽणुः । कुतः अतच्छतेः “व्याप्ताह्यात्मानः” इत्यणुत्वविरुद्धव्याप्तत्वश्रुतेः श्रवणादिति चेन्न । कुतः इतराधिकारात् परमात्मप्रकरणात् । तथा च व्याप्तत्वश्रुतेः परमात्मविषयत्वात् नाणुत्वबाधकत्वमित्यर्थः ॥ 3 ॥

  1. ॐ स्वशब्दोन्मानाभ्याञ्च ॐ ॥

चः समुच्चये । न केवलं प्रकरणबलाद्वयाप्तत्वश्रुतिर्विष्णुपरा । किन्तर्हि “एषोऽह्यात्माऽध्युद्गतो मानशक्तेः” इति (काषायण) वाक्यस्थस्वशब्दगृहीतब्रह्मवाचकात्मशब्दादुन्मानशिब्दतापरिमितत्वलिङ्गाचच व्याप्तत्वश्रुतिर्विष्णपरैव न जीवपरेत्यर्थः ॥ 5 ॥

  1. ॐ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदिहि ॐ ॥

ननु युक्तं चन्दनबिन्दोः शरीरे व्याप्तत्वम् । कुतः अवस्थितिवैशेष्यात् देहे क्वचित्प्रदेशे सम्यगवस्थानवस्थानसत्त्वात् न तथा जीवस्य तदभावादिति चेन्न । कुतः यतः हृदिहि “हृदि ह्येषः” (प्र.3-6) श्रुतिः जीवस्यापि हृदि सम्यगवस्थानमवयवान्तरेत्वसम्यगवस्थानाङ्गीकारादित्यर्थः ॥ 6 ॥

॥ व्यतिरेकाधिकरणम् ॥ 13 ॥

  1. ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ॥

चशब्दो “अचिन्त्यये” इति स्मृतिसमुच्चायकः । गन्धवत् गन्धस्येव । यथा पुष्पगन्धस्य स्वांशैः व्यतिरेको विभागस्तथा अणोरपि जीवस्य स्वंशैः ईशशक्त्या व्यतिरेको युज्यते । कुत एतत् प्रतिपादयति यतो अथेति (शाण्डिल्य) श्रतिः तथा दर्शयति अत एवेत्यर्थः ॥ 1 ॥

॥ पृथगधिकरणम् ॥ 14 ॥

  1. ॐ पृथगुपदेशात् ॐ ॥

जीवः परमात्मना पृथक् भिन्नः । कुतः उपदेशात् “भिन्नोऽचिन्त्यः” इति (कौशिक) श्रुतेरित्यर्थः ॥ 1 ॥

  1. ॐ तद्गुणसारत्वात्तु तद्वयपदेशः प्राज्ञवत् ॐ ॥

प्राज्ञवत् ब्रह्मण इव । यथा प्राज्ञे ब्रह्मणि “सर्वं खल्विदं ब्रह्म” (छां.3-14-1) जगदभेदोक्तिः । तथाजीवे तद्वयपदेशः तत्त्वमसीति ब्रह्मैक्योक्तिर्युज्यते । कुतः तद्गुणसारत्वात् जीवस्य ब्रह्मगुणसदृशज्ञानानन्दादिगुणस्वरूपत्वान्निमित्तादित्यर्थः ॥ 2 ॥

॥ यावदधिकरणम् ॥ 15 ॥

  1. ॐ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॐ ॥

यावदात्मभावित्वाच्च जीवस्य यावत्परमात्मसत्त्वात् । नित्यत्वादिति यावत् । न दोषः “सोऽनादिना” इति पुण्यपापसम्बन्धबोधकश्रुत्यप्रामण्यदोषो नास्ति । कुत एतत् तद्दर्शनात् तस्य नित्यत्वस्य “नित्यो जीवः” इति (आग्निवेश्य) श्रुतावुक्तत्वाच्च आत्मा नित्यः जीव इति (भारत) स्मृतिद्वयाच्चत्यर्थः ॥ 1 ॥

॥ पुंस्त्वाधिकरणम् ॥ 16)

  1. ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ॥

तुशब्द एवार्थे पुंस्त्वादिवत् पुंस्त्वादेरिव पुरुषयोषिदादीनामपत्योप्तत्तिशक्तिसवरूपत्वेऽपि कालविशेषे तदभिव्यक्तिः । तथा सतः जीवस्वरूपत्वेन मुक्तेः पूर्वमपि विद्यमानस्यैवास्य ज्ञानानन्दादेरभिव्यक्तियोगात् मुक्तावभिव्यक्तया निमित्तभूतया योगात्" आनन्दीभवतीति (पैङ्गि) श्रुत्युपपत्तेः न जीवस्यानन्दादिरूपत्वे तच्छतिविरोध इति जीव आनन्दादिरूप एवेत्यर्थः ॥ 1 ॥

  1. ॐ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॐ ॥

वाशब्दो व्यवस्थितविकल्पार्थः । उपलब्धिरनुभवः । अन्यथा जीवस्यानन्दादिरूपत्वमङ्गीकृत्यावरणानङ्गीकारे नित्योपलब्ध्यनुपलब्धिप्रसङ्गः । यथायेग्यमन्वयः । मुक्तियोग्यानां नित्यमानन्दानुभवः स्यात् । तमोयाग्यानां न कदाप्यानन्दानुभवः स्यात् । किन्तु स्वरुपदुःखानुभव एव स्यात् । एवं मध्यममनुष्याणामन्यतरनियमः अन्यतरयोः सुखदुःखानुभवयोः । नियमः साम्यमेव स्यात् । प्रतिबन्धकीभूतावरणगतादित्यर्थः ॥ तस्माज्जीवस्यावरणमङ्गीकार्यमिति भावः ॥ 2 ॥

॥ कर्तृत्वाधिकरणम् ॥ 17 ॥

  1. ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ॥

जीवोऽपि कर्ता । कुतः तथा सत्येव शास्त्रार्थवत्वात् विधिनिषेधरूपाशास्त्रस्य प्रयोजनवत्त्वात् अन्यथा वैयर्थ्यप्रसङ्गादित्यर्थः ॥ 3 ॥

  1. ॐ विहारोपदेशात् ॐ ॥

मुक्तावपि “जक्षन् क्रीडन्” इति विहारकर्तृत्वोक्तेः जीवः परमार्थत एव कर्ता । न काल्पनिककर्तेत्यथर्ः ॥ 2 ॥

  1. ॐ उपादानात् ॐ ॥

जीवस्य मोक्षार्थे साधनाद्यनुष्ठानदर्शनात् ततः फलदर्शनाच्च न जीवः संसारेऽपि काल्पनिककर्तेत्यर्थः ॥ 3 ॥

  1. ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॐ ॥

क्रियायां “आत्मानमेव लोकमुपासीत” इति (बृ.3-4-15) उक्तोपासनक्रियायां व्यपदेशाज्जीवस्य कतर्#ृत्वोक्तेश्च । जीवः कर्ता न चेत् कर्तृत्वं न चेत् । निर्देशविपर्ययः निर्देशस्य जीवस्य कर्तृत्वेन ईश्वरस्य कर्मत्वेन वचनस्य विपर्ययः आत्मैवोपासीतेत्येवं रूपवैपरीत्यं स्यादित्यर्थः ॥ 4 ॥

  1. ॐ उपलबिधवदनियमः ॐ ॥

उपलब्धिवत् उपलब्धाविव । यथा जीवस्योपलब्धौ ज्ञाने । अनियमः स्वेच्छानुसारेण ज्ञानालाभः । तथा क्रियायामपि अनियमो युक्त इत्यर्थः ॥ 5 ॥

  1. ॐ शक्तिविपर्ययात् ॐ ॥

ईशजीवयोः शक्तिविपर्ययात् पूर्णापूर्णरूपशक्तिभेदमपेक्ष्य कतर्#ृत्वमपि स्वतन्त्रपरतन्त्रभेदभिन्नमित्यर्थः । यद्वा ईश्वरवत् जीवे पूर्णशक्त्यभावान्न तस्य स्वतन्त्रकर्तृत्वमित्यर्थः ॥ 6 ॥

  1. ॐ समाध्यभावाच्च ॐ ॥

समाधिरलम्बुद्धिस्तदभावात् न जीवस्य स्वतन्त्रकर्तृत्वं किन्तु परतन्त्रकर्तृत्वमेवेत्यर्थः ॥ 7 ॥

  1. ॐ यथा च तक्षोभयथा ॐ ॥

दार्ष्यान्तिकसमुच्चये चशब्दः । यथा तक्षा वर्धकिः । उभयथा प्रासादादिकारयितृप्रेरितत्वेन तत्कर्तृत्वेन च व्यपदिश्यते तथा ईश्­वरनियतोऽपि जवः कर्तेति वक्तुं शक्यत इत्यर्थः ॥ 8 ॥

  1. ॐ परात्तु तच्छतेः ॐ ॥

जीवस्य कर्तृत्वशक्तिः परात्तु परमात्मानमनुसृत्यैव तदधीनैवास्ति । कुतः । तच्छतेः ।कर्तृत्वं करणत्वञ्चेति (पौङ्गिश्रुतौ) जीवकर्तृत्वस्येशादीनत्वश्रवणादित्यर्थः ॥ 9 ॥

  1. ॐ कृतप्रयत्नापेक्षस्तु विहितप्रतिषेवावैयर्थ्यादिभ्यः ॐ ॥

तुरवधारणे । यतः परमात्मा विहितप्रतिषेदावैर्थ्यादिभ्य; । तादथ्यर्#े चतुर्थी । विधिनिषधशास्त्राऽऽवैयर्थ्याय स्वस्य वैषम्यनैर्घ्रण्यपरिहाराय च । कृतप्रयत्नापेक्षः जीवकर्मप्रयत्नयोग्यतामपेक्षमाण एव जीवं प्रेरयति न त्वनपेक्षः सन् अतो जीवशक्तेरीशधीनत्वेऽपि तस्यापेक्षितकृतिमत्त्वमस्येवेत्यर्थः ॥ 11 ॥

॥ अंशाधिकरणम् ॥ 18 ॥

  1. ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥

जीवः परमात्मनोंऽश एव । पितापुत्रत्वादिसम्बन्धेन केवलं तदुपजीवकस्वरूपांशत्वेन च न तु न कदाचित् ईश्वरात् उपजीव्यः । कुतः । नानाव्यपदेशात् " मां रक्षतु" इत्यादौ पितृत्वभ्रातृत्वादिनानाप्रकारेण जीवस्येशसम्बन्धित्वोक्तेः । किञ्च यतः एके शाखिनः “अन्यः परोऽन्यो जीवः” (काषायण श्रु) इत्यादिना एनं जीवं परात् । अन्यथा भिन्नत्वेन अधीयते पठन्ति । यतः अन्ये च शाखिनः “ब्रह्म दाशाः” इत्यादिना ब्रह्मणो दाशकितवादित्वं दाशकितवशब्दितजातिविशेषयुक्तजीवप्रभृतिभावम् । तदभेदमिति यावत् । दाशकितवादेव चाब्रह्मत्वमधीयते । अतोंऽशत्वरूपांशत्ववानित्यर्थः ॥ 1 ॥

  1. ॐ मन्त्रवर्णात् ॐ ॥

“पादोऽस्येति” (ऋ.10-90-3) श्रुतेश्च जीवः परमात्मांश इत्यर्थः ॥ 2 ॥

  1. ॐ अपि स्मर्यते ॐ ॥

जीवस्यांशत्वं कृष्णादिभिः “ममैवांशः” इति (भ.गी.15-7) स्मृत्या कथ्यते चेत्यर्थः ॥ 3 ॥

  1. ॐ प्रकाशादिवन्नेवं परः ॐ ॥

जीवः प्रकाशादिवत् स्वद्योताद्यभिमानितेजोंऽशवत् । परमात्मनो भिन्नांशः । परः मत्स्यादिरूपी विष्णुस्तु । नैवं जीववद्भिन्नांशो न । किन्तु प्रकाशादिवत् कालाग्न्याद्यभिमानि तेजोंऽशवत् ईशाभिन्नांश एवेत्यर्थः ॥ 4 ॥

  1. ॐ स्मरन्ति च ॐ ॥

स्मर्तारः जीवेशयोः भिन्नांशत्वाभिन्नांशत्वे “एते स्वांशकलाः” (भागवते.1-3-28) इत्यादिस्मृत्या कथयन्ति चेत्यथर्ः ॥ 5 ॥

  1. ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ॥

यतो ज्योतिरादिवत् चक्षुर्गोलकादिस्थितापभ्रष्यदेवतादेः तत्तद्देहसम्बन्धात् सूर्यवरुणाद्यनुज्ञया तत्प्रवृत्त्यादेरिव जीवस्यापि तत्तद्देहसम्बन्धाद्धेतोः । अनुज्ञापरिहारौ परमात्मानुज्ञाधीनप्रवृत्तिसम्बन्धपरिहारौ न तथा मत्स्यादेः । किन्तु ज्योतिरादिवत् सूर्यप्रभाद्यभिमानिनः यथा तदधीनप्रवृत्त्यादिमत्त्वं तथेशाधीनप्रवृत्तिरेव अतोऽपि जीवः परमात्मनो भिन्नांशः । मत्स्यादिस्तु अभिन्नांश इति व्यावस्था सिद्धेत्यर्थः ॥ 6 ॥

  1. ॐ असन्ततेश्चाव्यतिकरः ॐ ॥

असन्ततेः जीवस्य सम्यक् शक्त्यभावात् मत्स्यादीनां तु तद्भावात् । अव्यतिकरः जीवेशयोर्भिन्नाभिन्नांशत्वमित्युक्तार्थस्य व्यत्यासाभाव इत्यर्थः ॥ 7 ॥

  1. ॐ आभास एव च ॐ ॥

चः समुच्चये । यतो जीवः परस्य आभास एव प्रतिबिम्ब एव । मत्स्यादिस्तु न तथा । अतोऽप्युक्तस्य न व्यत्यास इत्यर्थः ॥ 8 ॥

॥ अदृष्याधिकरणम् ॥ 19 ॥

  1. ॐ अदृष्यानियमात् ॐ ॥

अदृष्यपदोपलक्षितविद्याकर्मसंस्काराणामनियमात् । नियमो नामैकप्रकारता । अनियमोऽनेकप्रकारता । तथा च वैचित्यं वैचित्यात् प्रतिबिम्बभूतजीवानामपि देवदानवमानवादिवैचित्यं युज्यत इत्यर्थः ॥ 1 ॥

  1. ॐ अभिसन्ध्यादिष्वपि चैवम् ॐ ॥

यतोऽभिसन्ध्यादिषु कामक्रोधादिदोषेष्वपि । एवमदृष्यादिवैचित्यादेव वैचित्यं वाच्यम् । अत आवश्यकत्वाददृष्यवैचित्यमेव जीववैचित्­यकारणम् । न दोषादिवैचित्यमित्यर्थः ॥ 4 ॥

  1. ॐ प्रदेशादितिचेन्नान्तर्भावात् ॐ ॥

ननु प्रदेशात् स्वर्गभूम्यादिस्थानवैचित्यादेव सुरनरादिजनवैचित्यमस्तु नादृष्यवैचित्यादिति चेन्ना कुतः अन्तर्भावात् स्थानवैचित्ये किं कारणमिति कारणान्वेषणे तत्कारणस्यादृष्यवैचित्य एवान्तर्भावात् तद्रुपत्वात् । अत आवश्यकत्वाददृष्यवैचित्र्यमेव सुरनरादिवैचित्­यनियामकमित्यर्थः ॥ 5 ॥

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां द्वितीयाध्यायस्य तृतीयः पादः ॥ 2 ॥ 3 ॥

॥ प्राणोत्पत्त्यधिकरणम् ॥ 1 ॥

  1. ॐ तथा प्राणाः ॐ ॥

यथा आकाशादयः विष्णोरुपद्यन्ते । तथा प्राणाः इन्द्रियाण्यपि उत्पद्यन्त एव न त्वनुत्पत्तिमन्तीत्यर्थः ॥ 1 ॥

  1. ॐ गौण्यसम्भवात् ॐ ॥

प्राणा एवानादय इत्यनादित्वश्रुतिः गौणी अमुख्या सूक्ष्मरूपेणानुत्पत्तिविषया । कुतः असम्भवात् इन्द्रियाणां मुख्यानादित्वायोगात् । “एतस्मात्” इति (मुं.2-1-3) श्रुत्ययोगाच्चेत्यर्थः ॥ 2 ॥

  1. ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥

“स इदं सर्वमसृजत” (तै.2-6) इति प्रतिज्ञानुपरोधात् प्रतिज्ञानुसाराच्च प्राणा त्पाद्यन्त इत्यङ्गीकार्यमित्यर्थः ॥ 3 ॥

॥ तत्प्रागधिकरणम् ॥ 2 ॥

  1. ॐ तत्प्राक् श्रुतेश्च ॐ ॥

तदनुत्पत्तीति स्मृतिसमुच्चये चशब्दः । तस्य मनसः । तेभ्योऽन्येन्द्रियेभ्यः प्राक्पूर्वं उत्पन्नत्वेन । श्रुतेः “मनः सर्वेन्द्रियाणि

च” (मुं.2-1-3) इति श्रवणटात् । मन उत्पत्तिमददेव न त्वनुत्पत्तिमदित्यर्थः ॥ 1 ॥

॥ तत्पूर्वकत्वाधिकरणम् ॥ 3 ॥

  1. ॐ तत्पूर्वकत्वाद्वाचः ॐ ॥

वाचः वागिन्द्रियस्य तत्पूर्वकत्वात् “मन एव पूर्वरूपम्” (ऐ.आ.3-1-1) मनःकारणकत्वश्रवणाद्वागिन्द्रियमुत्पत्तिमदेव न त्वनुत्पत्तिमदित्यर्थः ॥ 1 ॥

॥ सप्तगत्यधिकरणम् ॥ 4 ॥

  1. ॐ सप्त गतेर्विशेषितत्वाच्च ॐ ॥

चशब्दः सप्तप्राणास्त्ववगतेरिति प्रमाणसमुच्चये । गते; ज्ञानस्य । जनकानीन्द्रियाणि सप्त सप्तसंख्याकानीति निर्णय एव । न त्वनिर्णयः । कुतः विशेषितत्वात् सप्त प्राणा इति (मु.2-1-8) श्रुतौ गुहाशयां बुद्धयर्थं निहिताः विशेषणयुक्ततया निर्दिष्यत्वादित्यर्थः ॥ 1 ॥

  1. ॐ हस्तादयस्तु स्थितेऽतो नैवम् ॐ ॥

तुशब्दो वैलक्षण्यद्योतकः । यतो हस्तादयस्तु हस्तादीन्द्रियाणि तु । स्थिते स्थितं कर्म । तादर्थ्ये सप्तमी । कर्मार्थानि । अतः अस्माद्वैलक्षणट्यात्तानि । एवं ज्ञानेन्द्रियसहभावेन न पठितानि । अतस्तेषां सप्तता सिद्धैवेत्यर्थः ॥ 2 ॥

॥ अण्वधिकरणम् ॥ 5 ॥

  1. ॐ श्रष्ठश्च ॐ ॥

यथेतरे प्राणा उत्पद्यन्ते एवं श्रेष्ठः मुख्यप्राणोऽपि विष्णोरुत्पद्यत एव न त्वनुत्पत्तिमानित्यर्थः ॥ 1 ॥

  1. ॐ न वायुक्रिये पृथगुपदेशात् ॐ ॥

वायुक्रिये बाह्यवायुचेष्याख्यकर्मणी न । एतस्मादिति (मु.2-1-3) प्राणोत्पत्तिश्रुतिप्रतिपाद्ये न भवतः । किन्तु मुख्यवायुरेव तत्प्रतिपाद्यः । कुतः पृथगुपदेशात् “स प्राणमसृजत” (प्र.6-4) इत्यादौ मुख्यवायूत्पत्तेः वायुक्रयोत्पत्तिभ्यां सकाशात् पृथक् श्रवणादित्यर्थः ॥ 2 ॥

॥ चक्षुराद्यधिकरणम् ॥ 7 ॥

  1. ॐ चक्षुरादिवत्तु तत्सहशिष्ययादिभ्यः ॐ ॥

तुशब्द एवार्थे । मुख्यप्राणोऽपि चक्षुरादिवत्परमात्मधीन एव न तु स्वतन्त्रः । कुतः । तत्सहशिष्ययादिभ्यः तैश्चक्षुरादिभि; सह मुख्यवायोरपि “सर्वं ह्येवैतदिति (गौपवन) श्रुतौ पराधीनत्वोक्तेः । सर्वकर्तेत्यादिवचनोक्तयुक्तिभ्यश्चेत्यर्थः ॥ 1 ॥

  1. ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ॥

मुख्यप्राणस्य करणत्वात् । कर्तृप्रयोज्यत्वरूपकरणाभिन्नत्वात् चक्षुरादीनां तद्रूपत्वाच्च अस्मादेव वैलक्षण्यान्मुख्यस्येतरेभ्य उत्तमत्वसिद्धेः । न दोषः मुख्यप्राणस्वातन्त्यवाचिश्रतेरवान्तरेश्वरपरत्वाभावदोषो नास्ति । कस्मादेवं कल्प्यत इति चेत् । हि यस्मात् । “तानि ह वा” (माण्डव्या) इति श्रुतिस्तथा उक्तप्रकारेण । दर्शयति ज्ञापयति । तस्मादित्यर्थः ॥ 2 ॥

॥ प्रञ्चवृत्त्यधिकरणम् ॥ 8 ॥

  1. ॐ पञ्चवृत्तिर्मनोवद्वयपदिश्यते ॐ ॥

मनोवत् मनस इव । यथा मनस; मनोबुध्यहंकारचित्तचेतनाख्यपञ्चप्रारोपेतत्वं तथा मुख्यप्राणोऽपि पञ्चवृत्तिः प्राणापानादिपञ्चरूपवान् । कुतः यस्माथ् अथ पञ्चवृत्त्येति (कौण्डिण्य) श्रुतौ तथा व्यपदिश्यते प्रतिपाद्यते । तस्मादित्यर्थः ॥ 1 ॥

। अण्वधिकरणम् ॥ 9 ॥

  1. ॐ अणुश्च ॐ ॥

मुख्यप्राणः प्रारणूपेणाणुः । वायुरूपेण व्याप्तश्चेत्यर्थः ॥ 1 ॥

॥ ज्योतिराद्यधिकरणम् ॥ 10 ॥

  1. ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ॥

ज्योतिराद्यधिष्ठानमित्यावर्तते । तत्त्वित्यन्वयः । तथा च ज्येतिराद्यधिष्ठानं अग्न्यादिभूतप्रेरकं तत् ब्रह्मैव । ज्योतिराद्यधिष्ठानं च चक्षुरादिप्रेरकं न जीवः । कुतः तदामननात् “यश्चक्षुषि तिष्ठन्” (बृ.5-7-16) इत्यादिना तथा

प्रतिपादनादित्यर्थः ॥ 1 ॥

  1. ॐ प्राणवता शब्दात् ॐ ॥

पामेत्मे स्यप्रयोब्यैरेव चक्षरादिभिः करणैः प्राणवता जीवेन कर्त्रा दर्शनादि कारयति न जीवप्रयोज्यैः । कुतः शब्दात् “एष ह्यनेन” (भाल्लवेय) इति श्रुतेरित्यर्थः ॥ 2 ॥

  1. ॐ तस्य च नित्यत्वात् ॐ ॥

चक्षुरादीनां ब्रह्मकरणत्वेऽपि तस्य जीवस्य करणस्य च तयोः सम्बन्धस्य च नित्यत्वात् । तद्विवक्षया

जीवकरणत्वश्रुतिरप्युपपद्यत इत्यर्थः ॥ 3 ॥

॥ त इन्द्रियाधिकरणम् ॥ 11 ॥

  1. ॐ त इन्द्रियाणि तद्वयपदेशादनत्र श्रष्ठात् ॐ ॥

श्रेष्ठात् मुख्यप्राणात् अन्यत्र ये प्राणाः । त एवेन्द्रियाणि न तु मुख्यप्राणोऽपि । कुतः तद्वयपदेशात् द्वैदशैवेन्द्रियाणीति (पौत्रायण) श्रुतौ तथोक्तत्वादित्यर्थः ॥ 1 ॥

  1. ॐ भेदश्रुतेः ॐ ॥

मुख्यप्राणस्य सर्वकर्तृत्वकारयितृत्वरूपभेदकधर्मस्यान्येषां तदभावस्य “स्थित एव हीति” (पौत्रायण) श्रुतौ श्रुतत्वात् न तस्य चक्षुराद्यविशेष इत्यर्थः ॥ 2 ॥

  1. ॐ वैलक्षण्याच्च ॐ ॥

मुख्यप्राणस्य तदितरप्राणानाञ्च केवलेश्वराधीनत्वेश्वरजीवोभयाधीनत्वरूपवैलक्षण्यसत्त्वाच्च न तस्येन्द्रियत्वं किन्तु चक्षुरादीनामेवेत्यर्थः ॥ 3 ॥

॥ संज्ञाधिकरणम् ॥ 12 ॥

  1. ॐ संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॐ ॥

तुशब्दोऽवधारणे । संज्ञामूर्तिकॢप्तिर्नामरूपात्मकदेहेन्द्रियप्रपञ्चोत्पत्तिः । त्रिवृत्कुर्वतः पृथिव्यप्तेजसां मिश्रीभावं कुर्वतः परमात्मनः सकाशादेव भवति । न विरिञ्चात् । कुतः उपदेशात् “सर्वाणि रूपाणि विचित्य धीरः” इति (तै.आ.3-12) श्रुतेरित्यर्थः ॥ 1 ॥

॥ मांसाधिकरणम् ॥ 13 ॥

  1. ॐ मांसादिभौमं यथाशब्दमितरयोश्च ॐ ॥

भौममित्युपलक्षणम् । यच्छरीरे कठिनं मांसादि तदेव भौमं पार्थिवं न सर्वशरीरम् । किं तर्हि यथाशब्दं “यत्कठिनं सा पृथिवी” (गर्भ.3) इति श्रुतिमनुसृत्य । शरीरे इतरयोः अप्तेजसोश्च कार्यं शोणितमज्जादिरूपमङ्गीकार्यम् । यथा मांसादिकं भौमं पृथिवीकार्यम् । न केवलं पृथिवीकार्यं किन्नामेतरयोरप्तेजसोश्च कायर्#ं यथा श्रुत्यङ्गीकार्यमित्यर्थः ॥ 1 ॥

  1. ॐ वैशेष्यात्तु तद्वादस्तद्वादः ॐ ॥

पार्थिवमाप्यं तैजसमिति विशेषोक्तिस्तु वैशेष्यात् पृथिव्यादिभूतानां तत्तच्छरीरविशेषसंयोगमपेक्ष्य युज्यते । अतः न तद्विरोध इत्यर्थः । एतदध्यायोक्तसर्वस्याथर्स्यावधारणार्थमध्यायान्ते द्विरुक्तिः ॥ 2 ॥

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां द्वितीयाध्यायस्य चतुर्थः पादः ॥ 2 ॥ 4 ॥


तृतीयाध्यायः।

॥ 1. तदन्तराधिकरणम् ॥

(1) ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ॥

तदन्तरप्रतिपत्तौ शरीरान्तरप्राप्त्यर्थम् । जीवः सम्परिष्वक्तः पृथिव्यादिभूतसंयुक्त एव । रंहति इमं देहं परित्यज्य लोकान्तरं गच्छतीति ज्ञायते । कुतः । प्रश्ननिरूपणाभ्यां "” वेत्थ यथेति"" (छा.5-3-9) श्वेतकेतुमृषिं प्रति प्रवाहणस्य राज्ञः प्रश्नात् । तथा “इति त्विति” प्रवाहणोक्तपरिहाराच्चेत्यर्थः ॥ 1 ॥

॥ 2 ॥ त्यात्मकत्वाधिकरणम् ॥

  1. ॐ त्यात्मकत्वात्तु भूयस्त्वात् ॐ ॥

जीवः सर्वभूतपरिष्वक्त एव गच्छति । नाद्भिरेव । आप इति विशेषोक्तिस्तु त्यात्मकत्वात् अपां क्षितिसलिलानकात्मकत्वात् । तेष्वप्यपां भूयस्त्वात् । बाहुल्यात् । युजयते । अतो न तद्विरोध इत्यर्थः ॥

॥ 3 ॥ प्राणगत्यधिकरणम् ॥

  1. ॐ प्राणगतेश्च ॐ ॥

भूतव्याप्तप्राणशब्दितेन्द्रियाणां जीवेन सह गमनश्रवणाच्च । जीवो भूतसम्परिष्वक्त एव गच्छतीत्यर्थः ।

॥ 4 ॥ अग्य्राद्यधिकरणम् ॥

  1. ॐ अग्य्रादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ ॥

अग्न्यादिगतिश्रुतेः प्राणानां यत्रेति अग्न्यादीन् प्रति गमनस्योक्तेर्न जीवेन सह गमनमिति चेन्न । कुतः भाक्तत्वात् “यत्रेति” श्रुतेः (बृ.5-2-13) प्राणभागविषयत्वादित्यर्थः ।

॥ 5 ॥ प्रथमाधिकरणम् ॥

  1. ॐ प्रथमेऽश्रवणादितिचेन्न ता एव ह्युपपत्तेः ॐ ॥

प्रथमे तस्मिन्नित्युपक्रमे । प्रथमे द्युनामके । प्रथमाग्नौ होमश्रवणात् भूतानां जीवसाहित्यश्रवणशभावाच्च । न जीवो भूतसहितो गचछतीति चेन्न । कुतः हि यतः । ता एव प्रस्तुता आप एवोपक्रमगतश्रद्दाशब्देनोच्यन्ते । अतः तत्कुतः उपपत्तेः “अपः पुरुषवचसो भवन्ति” (छां.5-9-1) इत्युपसंहारोपपत्तेरित्यर्थः ।

॥ 6 ॥ अश्रुतत्वाधिकरणम् ॥

  1. ॐ अश्रुतत्वादितिचेन्नष्यादिकारिणां प्रतीतेः ॐ ॥

अश्रुतत्वात् भूतानां जीवेन सह गमनस्य “अग्निं वागप्येति” इतिवत् प्रत्यक्षश्रवणाभावान्न तेषां सह गमनमिति चेन्न । कुतः “अथैनमिति” (कौण्डिण्य) श्रुत्या इष्यादिकारिणां यागहोमकृताम् । प्रतीते; प्रत्यक्षत एव भूतवियोगसहयोगयोरवगमादित्यर्थः ।

॥ 7 ॥ भाक्ताधिकरणम् ॥

  1. भाक्तं वाऽनात्मवित्त्वात्तथाहि दर्शयति ॐ ॥नि#ाम्यकर्मिणां उक्तममृतत्वं भाक्तं अमुख्यम् । कुतः अनात्मवित्त्वात् तेषामब्रह्मज्ञानित्वात् । वाशब्देन जिज्ञासुज्ञानिकृताकाम्यकर्मजन्यामृत्वमपि न संसारनिवृविरुपमुख्यामृतत्वरूपम् । किन्तु अन्तःकरणशुद्धयानन्दातिशयरूपनिरतिशयपरममुख्यमिति पक्षद्वयं सूचयति । कुत एतत् हि यस्मात् । “अमृतो वा” इति “स एनमिति” (बृ.3-4-15) “कर्मणा” इति “आत्मानम्” इति च श्रुतिः तथोक्तार्थान् दर्शयति प्रतिपादयति । तस्मादित्यथर्ः ।

॥ 8 ॥ कृतात्ययाधिकरणम् ॥

  1. ॐ कृतात्ययेऽनुशयवान् दृष्यस्मृतिभ्याम् ॐ ॥

कृतात्यये कृतस्य कर्मणः स्वगर्#ादौ भोगेनात्यये क्षये सति । पुनरनुशयवान् भुक्तशेषवानेवेमं लोकं प्रत्यागच्छतीति ज्ञायते । कुतः दृष्यस्मृतिभ्याम् । “ततःशेषेण” इति दृष्यशब्दितश्रुतेः । “मुक्तशेषेति” स्मृतेश्चेत्यर्थः ।

॥ 9 ॥ यथेताधिकरणम् ॥

  1. ॐ यथेतमनेवञ्च ॐ ॥

जीवेन यथा येन मार्गेण स्वर्गादिकम् । इतं प्राप्तम् । तथा तेन । अनेवं अन्येन मार्गेण च । जीव इमं लोकमागच्छतीत्यर्थः ।

॥ 10 ॥ चरणाधिकरणम् ॥

  1. ॐ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॐ ॥

गतागतं न यज्ञादेर्भवति । किन्तु चरणात् यज्ञाङ्गभूताचारादेव । चरणाचार इति श्रुतेरिति चेन्न । कुतः यतः श्रुतिः तदुपलीणार्थाजहत्स्वार्थलक्षणया यज्ञाचारोभयप्रतिपादिकेति कार्ष्णाजिनिराचार्यो मन्यते । अत इत्यर्थः ।

॥ 11 ॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॐ ॥

उपलक्षणार्थत्वे चरणशब्दस्यानर्थक्यम् । कुतः रमणीयकपूयपदाभ्यामेव कर्मोपलक्षणसम्भवादिति चेन्न । कुतः तदपेक्षत्वात् तस्य साध्वसाधुयज्ञादित्त्वस्य तदपेक्षत्वात् आचारादिसापेक्षत्वात् । तथा च तद्बोधार्थं तत्पदसार्थक्यं सम्भवतीत्यर्थः ।

  1. ॐ सुकअतदुष्कृते एवेति तु बादरिः ॐ ॥

सुकृथदुष्कृते साध्यसाधुकर्मणी एव श्रुतिस्थचरणशब्दवाच्ये न तु तदङ्गाचरणमिति बादरिराचार्यो मन्त इत्यर्थः । तुशब्दात् स्वशब्दात् स्वसिद्धान्तोऽपि स एव इति सूचयति ।

॥ 11 ॥ अनिष्याधिकरणम् ॥

  1. ॐ अनिष्यादिकारिणामपि च श्रुतम् ॐ ॥

चशब्दो दुःखान्तरसमुच्चये । न केवलमिष्यादिकारिणामेव गतागतं किन्त्विष्यशब्दितयागादिकर्मविरुद्धपापकारिणामपि । कुतः यतः श्रुतं “तस्य इह” इति (भाल्लवेय" श्रुत्या तथोक्तम् । अत इत्यर्थः ।

  1. ॐ संयमनेत्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॐ ॥

तुशब्दोऽवधारणे । सप्तमी द्वितीयार्थे । संयमने नरके । सम्यम्यमशासनमनुभूयैव स्थितानामितरेषामिष्यादिकारिभ्योऽन्येषां मध्ये आरोहावोहौ केषाञ्चिदारोहः नरकादुत्थानं केषाञ्चिदवरोहः ततोऽपि नीचस्थाने नित्यनरके पातो भवति । कुतः तद्गतिदर्शनात् तेषां अनिष्यादिकारिणां तद्गतेः एवंविधगतेः दर्शनात् “सवर्” इह इति (कौण्ठरव्य) श्रुतावुक्तत्वादित्यर्थः ।

  1. ॐ स्मरन्ति च ॐ ॥

स्मृतिकर्तारः उक्तमर्थं “गच्छन्ति” इत्यादिस्मृतिभिः प्रतिपादयन्ति चेत्यर्थः ।

॥ 12 ॥ अपिसप्ताधिकरणम् ॥

  1. ॐ अपि सप्त ॐ ॥

स्मर्तारः रौरवादिसप्तविधानपि नरकान् “रौरवः” इति (भारते" स्मृतिभिः प्रतिपादयन्तीत्यर्थः ।

॥ 13 ॥ तत्राप्यधिकरणम् ॥

  1. ॐ तत्रापि च तद्वयापारादविरोधः ॐ ॥

चशब्दो दुःखानुभवं विनैवेत्यर्थसूचकः । तथा च तत्रापि नरकेऽपि । तद्वयापारात् दुःखानुभवं विनैव तस्येश्वरस्य प्रेरणाख्यव्यापारसत्वादविरोधः । ईश्वरस्य नरके स्थित्वा तत्स्थजीवानियन्तृत्वे “सर्वं” इति श्रुतिविरोधः । तन्नियन्तृत्वे दुःखभोक्तृत्वमित्युभयविधविरोधो नेत्यर्थः ।

॥ 14 ॥ विद्याधिकरणम् ॥

  1. ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ ॥

तुशब्दोऽवधारणे । “अथैतयोः पथोः” इति (छां.5-10-8) श्रुतावेतयोरित्यस्य ज्ञानकर्मणोरित्येवार्थः । न तु दूमाचिरादिमार्गयोरिति । येन जीवस्य फलस्वातन्त्यं स्यात् । कुतः प्रकृतत्वात् । “तद्य इत्थम्” इति (छां.5-10) तयोरपि प्रकृतत्वादित्यर्थः ।

॥ 15 ॥ न तृतीयाधिकरणम् ॥

  1. ॐ न तृतीये तथोपलब्धेः ॐ ॥

तृतीये “तिर्यम्यातना तमः” इत्युक्ताधोगतिषु तृतीये तमसि । न सुखमस्तीति शेष; । कुतः तथोपलब्धेः तथा प्रतीतेरित्यर्थः ।

  1. ॐ स्मर्यतेऽपि च लोके ॐ ॥

अन्धे तमसि सुखराहित्यं “नान्धे तमसि” इति (भविष्यतपर्व) स्मृतिकर्त्रा स्मर्यते च स्मृत्या च प्रतिपाद्यते । किञ्चैतत् लोकेऽपि लोकदृष्यव्याप्तिकानुमानेनापि सिद्धमित्यर्थः ।

  1. ॐ दर्शनाच्च ॐ ॥

तृतीये सुखराहित्यं हिरण्यगर्भप्रत्यक्षाच्च सिद्धमित्यर्थः ।

  1. ॐ तृतीये शब्दावरोधः संशोकजस्य ॐ ॥

तृतीय इत्यावर्तते । तृतीये तमसि । तत्रापि तृतीये अन्धे तमसि तद्विषये । यः शब्दः । तेन संशोकजस्य सम्यक् शोकजस्य । मोहस्यावरोधः प्राप्तिर्भवतीत्यर्थः ।

  1. ॐ स्मरणच्च ॐ ॥

तमस्त्रैविध्यस्य तृतीयतमसः श्रवणे श्रोतृमोहप्राप्तिश्च “महातमः” इति )कौर्म) स्मृत्या तदुभयं सिद्धमित्यर्थः ।

॥ 16 ॥ तत्स्वाभाव्याधिकरणम् ॥

  1. ॐ तत्स्वाभावापत्तिरुपपत्तेः ॥

कर्मणि तत्स्वाभाव्यापत्तिः तस्य धूमादिदेवस्य स्वाभाव्यस्य स्वभावसदृशस्वभावस्य । प्राप्तिरेव । न तदैक्यं तत्पदप्राप्तिर्वा । कुतः उपपत्तेः अन्यस्यान्यैक्यादृष्ययास्यैवार्थस्य युक्तत्वादित्यर्थः ।

॥ 17 ॥ नातिचिरेणाधिकरणम् ॥

  1. ॐ नातिचिरेण विशेषात् ॐ ॥

स्वगर्#ान्निर्गतः कर्मी नातिचिरेण अचिरेणैव । भूमावागत्य ब्राह्मणादियोनिं प्राप्नोति । न चिरेण । कुतः विशेषात्

“तस्य इहेति” (छां.5-10-7) विशेषवचनादित्यर्थः ।

॥ 18 ॥ अन्याधिकरणम् ॥

  1. ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ ॥

कमिर्णो अन्याधिष्ठिते अन्यजीवाभिमन्यमानव्रीह्यादिशरीरे प्रवेश एव न तु तदभिमानित्वम् । येन दुःखं स्यात् । तर्हि “व्रीहियवाः” इत्यभेदोक्तिः कथमित्यत उक्तम् । पूर्ववदिति । यथा “धूमो भूत्वा” इत्यादै (छां.5-10-5) धूमादिभावोक्तिः तथा । कुत एतत् अभिलापात् “सोऽवामतः” इति (कौषारव) श्रुतौ तथाभिधानादित्यर्थः ।

  1. ॐ अशुद्धमिति चेन्न शब्दात् ॐ ॥

हिंसारूपत्वाद्यज्ञस्य कर्मासिद्धं दुःखसाधनमिति चेन्न । कुतः शब्दात् श्रुतिवाक्यविहितत्वादित्यर्थः ।

॥ 19 ॥ रेतोऽधिकरणम् ॥

  1. ॐ रेतः सिग्योगोऽथ ॐ ॥ कर्मिणः प्रथमं रेतःसिग्योगः रेतःसिचा पित्रा योगः सम्बन्धः । तत्प्रवेश इति यावत् । अथ अनन्तरम् । मातृप्रवेशो भवति न तु प्रथमेवेत्यर्थः ।

॥ 20 ॥ योन्यधिकरणम् ॥

  1. ॐ योनेः शरीरम् ॐ ॥

ल्यबूलोपे पञ्चमी । कर्मी पितृद्वारा मातृयोनिं प्रविश्यैवाथ तत्र शरीरं न तद्विनेत्यर्थः ।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां तृतीयाध्यायस्य प्रथमः पादः ।

॥ 1 ॥ सन्ध्याधिकरणम् ॥

  1. ॐ सन्ध्ये सृष्यिराह हि ॐ ॥

हि यस्मात् । “अथ रथान्” इति (बृ.6-3-10) श्रुतिः सन्ध्ये जाग्रत्सुषुप्तिसन्धौ भवतीति स्वप्ने भगवतः सृष्यिमाह । अतः सृष्यिः स्वप्नपदार्थसृष्यिः । भगवत एव जायत इत्यर्थः ।

  1. ॐ निमर्#ातारंचैके पुत्रादयश्च ॐ ॥

चो यतः । एके शाखिनः । एनं भगवन्तम् । “य एषु सुप्तेषु” इति (कठ. 5-8) स्वप्नपदाथर्निर्मातारमामनन्ति । अपरे च पुत्रादयः । तस्माद्विष्णोरेव जायन्त इति वदन्ति । तस्माद्विष्णोरेव स्वाप्नसृष्यिरित्यर्थः ।

  1. ॐ मायामात्रन्तु कात्स्नयेनानभिव्यक्तिस्वरूपत्वात् ॐ ॥

तुरेवार्थे । सन्ध्यं मायामात्रं निमित्तोपादानभूताभ्यां मायाशब्दितेच्छावासनाभ्यामेव निर्मितं न बाह्यकारणकम् । कुतः कात्स्नयेनानभिव्यक्तस्वरूपत्वात् बाह्यवत्सम्यगनभिव्यक्तस्वरूपत्वादित्यर्थः ।

  1. ॐ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॐ ॥

चो यतः । स्वाप्नपदार्थः सूचकः शुभाशुभज्ञापकः । अतोऽपि नासत्यः । तत्कुतः “यता” इति (छां.5-2-9) श्रुतेः । प्रत्यक्षतः फलदर्शनाच्चेति हि शब्दः । किञ्च तद्विदः स्वाप्नविदो व्यासादयः आचक्षते च । “यदा” इति श्रुतौ

स्वाप्नार्थानामर्थक्रियाकारित्वं वदन्त्यतोऽपीत्यर्थः ।

॥ 2 ॥ पराभिध्यानाधिकरणम् ॥

  1. ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥

यस्मात् । ततः परमात्मनः सकाशात् । अस्य जीवस्य । बन्धविपर्ययौ बन्धमोक्षौ भवतः । तस्मात्पराभिध्यानात्तु परमात्मेच्छयैव । सन्ध्यं तिरोहितं लीनं भवति । न कारणान्तरादित्यर्थः ।

॥ 3 ॥ देहयोगाधिकरणम् ॥

  1. ॐ देहयोगाद्वासोऽपि ॐ ॥

देहयोगाद्वासोऽपि देहाभिमानेनावस्थितिरूपजाग्रदवस्थापि पराभिध्यानादेव भवति नान्यत इत्यर्थः ।

॥ 4 ॥ तदभावाधिकरणम् ॥

  1. ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ ॥

अस्य जीवस्य नाडीषु आत्मनि नाडीस्थिते परमात्मन्येव । तदभावः जाग्रत्स्वप्नयोरभावः । सुषुप्तिर्जायते । तस्य तदा तत्प्रवेशो भवति । कुतः तच्छते; “आसु तदा नाडीषु” (छां.8-6-3) श्रुतेः तथा श्रवणादित्यर्थः । हेत्यस्यार्थस्य युक्ततामाह ।

॥ 5 ॥ प्रबोदाधिकरणम् ॥

  1. ॐ अतः प्रबोधोऽस्मात् ॥

अस्य जीवस्य प्रबोधः सुप्तरुत्थानम् । अस्मात् परमात्मन एव भवति नान्यतः । कुतः “एष एव” इति (कौण्डिण्य) श्रुत्वादित्यर्थः ।

॥ 6 ॥ कर्मानुस्मृत्यधिकरणम् ॥

  1. ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥

चशब्दोऽप्यर्थे । स एव ईश्वर एव । सर्वेषामपि सर्वदा सर्वावस्थाप्रेरकः । न देशाकालान्तरेऽन्यः । कुतः कर्मानुस्मृतिशब्दविधिभ्यः “एष ह्येव” इति (कौ.3-8) कर्मणामीशाधीनत्वश्रुतेः । प्रदर्शक इत्यनुकूलस्मृतेश्च । “एष” इति शब्दाच्चात्मानमिति (बृ.उ.3-4-15) विधेश्चेत्यर्थः ।

॥ 7 ॥ सम्पत्त्यधिकरणम् ॥

  1. ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ॥

मुग्धे मुर्छायाम् । जीवस्यार्धसम्पत्तिः परमात्मन्यर्धप्रवेशः । कुतः परिशेषात् प्रसक्तप्रतिषेधपूर्वकानुमानादित्यर्थः ।

॥ 8 ॥ नस्थानतोऽप्यधिकरणम् ॥

  1. ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥

परस्य परमात्मनः । स्थानतोऽपि अक्ष्यादिस्थानभेदादपि । उभयलिङ्गं भिन्नरूपम् । नास्ति । किन्तु सर्वत्र सर्वस्थानेषु स्थितं रूपमेकमेव । कुतः हि यस्मात् । “सर्वेषु” इति (ऐ.आ.3-2-3) श्रुतिरत्रास्ति । अत इत्यर्थः ।

  1. ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ ॥

भेदात् कार्यकारणबद्धाविति (मां.2-16) स्वप्नजाग्रदनुभवजनकत्वरूपभेदकत्वधर्मश्रवणात् विश्वादिरूपाणां नाभेद इति चेन्न । कुतः प्रत्येकं परस्परम् । तेषां रूपाणाम् । अतद्वचनात् “एष त आत्मा” इत्यभेद श्रुतेरित्यर्थः ।

  1. ॐ अपि चैवमेके ॐ ॥

यत एवमभेदं चशब्दादनन्तरूपत्वं चैके शाखिनः “अमात्रः” इति (मां.4-7) श्रुतौ पठन्ति । अपि अभेदेऽपि भेदव्यपदेशः स्थानभेदाद्युज्यते इत्यर्थः ।

॥ 9 ॥ अरूपाधिकरणम् ॥

  1. ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥

ब्रह्म अरूपवदेव प्राकृतरूपरहितमेव । कुतः तत्प्रधानत्वात् प्रकृत्याद्युत्तमत्वात् । हिशब्दसूचितास्थूलमिति (बृ.5-8-8) श्रुतेश्चेत्यर्थः ।

  1. ॐ प्रकाशवच्चावैयर्थ्यम् ॥

चो हेतुसूचकः । प्रकाशवत् लोकविलक्षणचक्षुरादिप्रकाशे नास्ति प्रकाश इति व्यावहारस्येव । अवैयर्थ्यं न ब्रह्मणो रूपित्वश्रुतीनामप्रामाण्य् । कुतः तस्यारूपपित्वेऽपि विलक्षणरूपित्वभ्युपगमादित्यथर्ः ।

  1. ॐ आह च तन्मात्रम् ॐ ॥

यत “ऐकात्म्यम्” इति (मां.2-7) श्रुतिः ब्रह्मणः तन्मात्रं विज्ञानानन्दैकस्वरूपं रूपमाह वक्तीत्यर्थः । अतो न वैलक्षण्यानिरुक्तिरिति चशब्दार्थः ।

  1. ॐ दर्शयति चाथो अपि स्मर्यते ॐ ॥

चो यतः । चः समुच्चये । न केवलं ब्रह्मणः आनन्दाद्यात्मकत्वं दर्शयति । किन्तु “तद्विज्ञानेन” (मुं.2-2-8) इति श्रुतिः ज्ञानस्य ब्रह्मात्मकत्वमपि दर्शयति प्रतिपादयति । अथो इत्यर्थान्तरवाचि । अथो विज्ञानस्यापि ब्रह्मरूपत्वं स्मर्यते व्यासादिभिः “शुद्धस्फटिकम्” इत्यादिना (मात्स्ये) अतो न ज्ञानानन्दयोः ब्रह्मस्वरूपत्वमप्रामाणिकमित्यर्थः ।

॥ 10 ॥ उपमाधिकरणम् ॥

  1. ॐ अत एव चोपमा सूर्यकादिवत् ॐ ॥

अत एव ईशतद्रूपाणामभेदोक्तेरेव । अत एव चेतनत्वादिहेतोरेव । उपमा जीवस्य मत्स्यादिसाम्यम् । मत्स्यादिवदीश्वराभेद इति चेत् । नेति शेषः । चशब्देन भिन्नत्वसाम्ये समुच्चिनोति । कुतः यतः सूर्यकादिवत् यथा जलप्रतिबिम्बितसूर्यकादेः सूर्यादिप्रतिबिम्बत्वाद्भिन्नत्वं तथा जीवस्य प्रतिबिम्बत्वात् भिन्नत्वमित्यर्थः । यद्वा । अत एव मत्स्यादीनां ब्रह्मणो ज्ञानादिगुणैरविशेषोक्तेरेव । अत एव सूर्यकादिवत् । उपमा सूर्यकाद्युपमा । जीवस्य मत्स्यादितुल्यांशत्वे तदविशेषापत्तेरेव उपमा ब्रह्मप्रतिबिम्बतेत्यर्थः । अत एव ब्रह्मप्रतिबिम्बत्वादेव सूर्यकादिवन्न ब्रह्माभिन्नो जीव इति चशब्दार्थः । अथवा । अत एव प्रकृताभ्यां तदधीनत्वतत्सदृशत्वाभ्यामेव । उपमा सूर्यकादिवदित्यपमा । जीवस्येश्वरप्रतिबिम्बत्वात् नोपाध्यधीनत्वादिना न तन्निवृत्त्या प्रतिबिम्बतानिवृविरित्यर्थः ।

॥ 11 ॥ अम्बुवदधिकरणम् ॥

  1. ॐ अम्बुवदग्रहणात्तु न तथात्वम् ॐ ॥

सादृश्यार्थे वतिः । सादृश्यं स्नेहाख्यविशेषेण विवक्षितम् । तथा च यतः अम्बुवदग्रहणात् स्नेहसहितमाहात्म्यज्ञानाभावात् । भकिं्त विनेति यावत् । तथात्वं सुखाद्यात्मकत्वरपेश्वरसादृश्यम् । न तु सम्यग्व्यज्यते । अतो भक्तिरेव सम्यक् स्वरूपाभिव्यक्तिजनिकेति तदर्थं सा कर्तव्येत्यर्थः ।

॥ 12 ॥ वृद्धिह्रासाधिकरणम् ॥

  1. ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ॥

वृद्धिह्रासभाक्त्वं भक्त्यादेः साधकेष्वाधिक्यन्यूनता न तावदङ्गीकार्यम् । कुतः अन्तर्भावात् महदल्पफलवतां ब्रह्मादीनामन्येषां च भक्तत्वेऽन्तर्भावात् । तथापि कुतो वृद्धिह्रासभाक्त्वम् । एवं भक्तितारतम्ये सत्येव । उभयसामञ्जस्यात् उभयान् महदल्पफलान् ब्रह्मादिजीवान् प्रति फलदातुरीश्वरस्य सामञ्जस्यात् वैषम्येन फलदानस्य भक्तितारतम्येन युक्तत्वात् । अन्यथा अयुक्तत्वात् । अतस्तदङ्गीकायर्मित्यर्थः ।

  1. ॐ दर्शनाच्च ॐ ॥ "

अथात" इति (तै.2-8) श्रुतौ “यथेति” स्मृतौ च फलतारतम्यदर्शनात् उक्तत्वाच्चोक्तं युक्तमित्यर्थः ।

॥ 13 ॥ पालकत्वाधिकरणम् ॥

  1. ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ॥

हि यतः । नैतावदेनेति (ऋ.10-31-8) श्रतिः प्रकृतैतावत्त्वं प्रकृतस्य सृष्ययादिकर्तृत्वस्य । एतावत्त्वं सृष्यिसंहारकर्तृकत्वमात्रपर्यवसितत्वम् । प्रतिषेधति निराचष्ये । ततः सृष्ययादिकतर्#ृकत्वात् । भूयः अधिकम् । पालकत्वं च ब्रवीति । अतः पालकत्वात् सृष्यिं चेति सूचितपालकत्वाख्यं महिमान्तरमपि हरेरस्तीति ज्ञापयतीत्यर्थः । चशब्देन सृष्यिं चेति स्मृतिः (ब्रह्माण्डे) सूचिता ।

॥ 14 ॥ अव्यक्तत्वाधिकरणम् ॥

  1. ॐ तदव्यक्तमाह ॐ ॥

तत् ब्रह्म । अव्यक्तं पुरुषप्रयत्नेन द्रष्युमशक्यस्वभावम् । कुतः हि यस्मात् । अव्यक्तं च निष्कलमिति (कौण्ठरव्य)

श्रुतिस्तथाऽह तस्मादित्यर्थः ।

  1. ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ ॥

अपि भक्तिरहिताराधनेनापि न ब्रह्म व्यक्तीकर्तुं शक्यम् । कुतः संराधनेऽपि सम्पूजनेऽपि । अव्यक्तत्वस्य प्रत्यक्षानुमानाभ्यां ज्ञानिप्रत्यक्षसूक्ष्मत्यहेतुकानुमानाभ्यां सिद्धत्वादित्यर्थः ।

  1. ॐ प्रकाशवच्चावैशेष्यम् ॐ ॥

चो नञर्थः । प्रकाशवत् यथाग्नेः स्थूलसूक्ष्माभ्यां व्यक्तत्वाव्यक्तत्वे । तथा ब्रह्म न किन्तु स्वतोऽव्यक्तमेव । कुतः यतः अवैशेष्यं ब्रह्मणि स्थूलसूक्ष्मत्वविशेषो नास्ति । अत इत्यर्थः ।

  1. ॐ प्रकाशवच्च कर्मण्यभ्यासात् ॐ ॥

प्रकाशश्च अपरोक्षज्ञानञ्च । कर्मणि विषयभूते ब्रह्मणि । अभ्यासात् श्रवणादेरावर्तनात् । भवीत्यर्थः ।

  1. ॐ अतोऽनन्तेन तथाहि लिङ्गम् ॐ ॥

अतः अव्यक्तत्वे प्रत्यक्षत्वे प्रमाणसद्भावात् । तदन्यथाऽनुपपत्त्या । अनन्तेन अपरिच्छिन्नेन ब्रह्मणा । तत्प्रसादेनाव्यक्तस्यापरोक्ष्यं भवतीति ज्ञायते । न केवलमनुपपत्तिमात्रात् किं तर्हि । हि यस्मात् । तथा लिङ्गं तस्याभिध्यानादित्युक्तमीशप्रसादस्य बन्धनिवृत्तिहेतुत्वरपम् । प्रसादस्य दर्शनहेतुत्वज्ञापकमस्ति तस्मादित्यर्थः ।

॥ 14 ॥ अहिकुण्डलाधिकरम् ॥

  1. ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ ॥

ब्रह्म आनन्दगुणकं तद्रूपञ्च भवति । कुतः उभयव्यपदेशात् आनन्दो ब्रह्म (तै.3-6) आनन्दं ब्रह्मणः (तै.2-4) इत्यादिश्रुतिषु गुणात्मकत्वेन गुणित्वेन च ब्रह्मणः उक्तत्वात् । तदपि कथम् । अहिकुण्डलवत् यथाऽहेः सर्पस्य । कुण्डलत्वं कुण्डलित्वञ्च । विशेषात्तथेत्यर्थः ।

  1. ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ ॥

यथा प्रकाशाश्रयस्यादित्यस्य प्रकाशरूपत्वं तदाश्रयत्वञ्च तद्वत् ब्रह्मणोऽपि । अन्यपरित्यागेनादित्यदृष्यान्ते को हेतुरित्यत उक्तम् । तेजस्त्वादिति । ब्रह्मादित्ययोरुभयोरपि तेजोरूपत्वात् तदभिप्रायेण तद्दृष्यान्तीकरणमित्यर्थः ।

  1. ॐ पूर्ववद्वा ॐ ॥

यथा कालः पूर्वेणाभिन्नोऽपि पूर्वकाल इति पूर्वपदेन विशिष्यते तथा ब्रह्म आनन्देन विशिष्यत इत्यर्थः । आदरार्थं स्थूरलसूक्ष्मबुद्धिविवक्षया वा दृष्यान्तत्रयोक्तिः ।

  1. ॐ प्रतिषेधाच्च ॐ ॥

ब्रह्मगुणानां ब्रह्मणश्च “नेह नानास्ति” (कठ.2-4) इति भेदस्य । प्रतिषेधाच्च ब्रह्म गुणात्मकमित्यर्थः ।

॥ 16 ॥ परमताधिकरणम् ॥

  1. ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ ॥

ब्रह्मगुणजातं परं लोकविलक्षणम् । कुतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः “एष सुतुः” (छां.8-4-1) इति सेतुत्वोक्तेः । “यतो वाचः” (तै.2-4) इत्युन्मानशब्दितपूर्णत्वोक्तेः । “एतस्यैवानन्दस्य” (बृ.6-3-22) इति बिम्बप्रतिबिम्बभावसम्बन्धोक्तेः । अन्यज्ज्ञानंत्विति लौकिकानन्दाद्भेदोक्तेश्चेत्यर्थः ।

  1. ॐ दर्शनात् ॐ ॥

अन्यानन्दादीनां प्रत्यक्षसिद्धत्वान्मनोवाग्विषयत्वाच्च ब्रह्मानन्दस्यातथात्वादेव लोकविलक्षणत्वमित्यर्थः ।

  1. ॐ बुद्धयर्थः पादवत् ॐ ॥

यथा लोकपादविलक्षणेषु जीवाख्यभूतेषु “पादोऽस्य विश्वा भूतानि” (ऋ.10-90-3) इति पादपदप्रयोगः । बुद्धयर्थः भूतानां ईशांशत्त्वज्ञापनार्थः । तथाऽलौकिकेऽपि ब्रह्मानन्दादावानन्दपदप्रयोगः । बुद्धयर्थः अनुकूलतया वेदनीयत्वादिधर्मज्ञापनार्थ इत्यथर्ः ।

॥ 17 ॥ स्थानविशेषाधिकरणम् ॥

  1. ॐ स्थानविशेषात्प्रकाशदिवत् ॐ ॥

प्रकाशादिवत् यथा सूर्यकान्तादिगतसूयर्#ादिप्रतिबिम्बेऽग्निजकनकत्वादि वैचित्यम् । स्थानविशेषात्

सूर्यकान्तादिस्थानगुणवैचित्यादुपपद्यते । तथा ब्रह्मादिस्थानगतभक्त्यादिगुणवैचित्याद्भागवदानन्दप्रतिबिम्बेषु ब्रह्माद्यान्देष्वपि वैचित्­यमुपपद्यत इत्यर्थः ।

  1. ॐ उपपत्तेश्च ॐ ॥

बिम्बभूतभगवदैश्वर्यवशादेव प्रतिबिम्बभूतब्रह्माद्यानन्दवैचित्योपपत्तेश्च तत्प्रतिबिम्बमितरेषां युक्तमित्यर्थः ।

॥ 18 ॥ तथान्यत्वाधिकणम् ॥

  1. ॐ तथाऽन्यत्प्रतिषेधात् ॐ ॥

यथा जीवाननदादि ब्रह्मनन्दादेर्विलक्षणम् । तथा ध्यानकाले प्रतीतं वासनात्मकं वस्तु । ब्रह्मणोऽन्यत् तद्भिन्नम् । कुतः “यन्मनसा” (केन.1-6) इति श्रुतावन्यस्य ब्रह्मत्वप्रतिषेधादित्यर्थः ।

॥ 19 ॥ सर्वगतत्वाधिकरणम् ॥

  1. ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ ॥

अनेन भगवतैव । सर्वदेशकालयोः सृष्ययादिर्भवति । न तु देशकालान्तरयोरन्येन । कुतः सर्वगतत्वमायामयशब्दादिभ्यः “एष सर्वगत;” इति (भाल्लवेय) सर्वगतत्वश्रुतेः । तस्य च सृष्ययाद्यर्थत्वात् । विष्णौ प्रयुक्तमायामयशब्दव्याख्यानरूपसर्वत्रेत्यादि (चतुवर्#ेदशि) श्रुतेश्चेत्यर्थः । अन्यत्र प्रमाणाभावाच्चेत्यादिशब्दार्थः ।

॥ 20 ॥ फलाधिकरणम् ॥

  1. ॐ फलमत उपपत्तेः ॐ ॥

फलं स्वर्गादि । अतः ईश्वरादेव भवति । न कर्मतः । कुतः उपपत्तेः ईश्वरस्य चेतनत्वेन फलदातृत्वस्य युक्तत्वादित्यर्थः ।

  1. ॐ श्रुतत्वाच्च ॐ ॥

श्रुतत्वाच्च “रातिः” इति (बृ.5-9-28) श्रुत्युक्तत्वाच्चेश्वरस्यैव फलदातृत्वमित्यर्थः ।

  1. ॐ धर्मं जैमिनिरत एव ॐ ॥

जैमिनिराचार्यः धर्मं फलप्रदमाह । तं च धर्मम् । अत एव ईश्वरादेव जन्यं मन्यते । कुतः अत एव “एष ह्येव” इति (कौ.3-8) श्रुतेरेवेत्यर्थः ।

  1. ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ॥

बादरायणाचार्यस्तु । पूर्वं पूर्वोक्तम् । ब्रह्म धर्मं चोभयं फलहेतुं मन्यते । तत्र ब्रह्मकर्तृत्वेन कमर् करणत्वेन हेतुरिति विशेषस्तुशब्दार्थः । कुतः हेतुव्यपदेशात् “पुण्येन” इति (प्र.3-7) श्रुतौ ब्रह्मकर्मणोः कर्तृत्वकरणत्वरूपहेतुत्वस्योक्तत्वादित्यर्थः ।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां तृतीयाध्यायस्य द्वितीयः पादः ॥ 3 ॥ 2 ॥

॥ 1 ॥ सर्ववेदाधिकरणम् ॥

  1. ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ॥

पूर्वसूत्रे पूर्वपदोदितं ब्रह्म सर्ववेदान्तप्रत्ययम् । बहुव्रीहिः । यथाशक्ति सर्ववेदविषयकश्रवणाद्युत्पन्ननिर्णयजन्यज्ञानविषयम् । कुतः चोदनाद्यविशेषात् “आत्मा” इत्यादि (बृ.3-4-7) विधीनामादिपदोदितानां “अत्र ह्यते” (बृ.3-4-7) इत्यादिवाक्योक्तयुक्तीनां चाविशेषात् । सर्वाधिकारिसाधारणत्वादित्यर्थः ।

  1. ॐ भेदान्नेति चेदेकस्यामपि ॐ ॥

चेदिति नेति भेदादिति अपीति चावर्तते । तर्हीति शाखायामिति च लभ्यते । तथा च चेद्यदि सर्वशाखोक्तार्थानां भेदात् पृथत्क्वात् । एकेकैन सर्वशाखोक्तं ज्ञेयं न । किन्तु स्वस्वाशाखोक्तमेवेत्युच्यते । तर्हि अपि स्वस्वशाखोक्तमपि । न ज्ञेयं स्यात् । कुतः एकस्यां शाखायामपि भेदात् अर्थभेददर्शनात् । अथ यदि तत्र धर्मभेदादेकस्मिन् धर्मिणि भिन्नधर्मविधानात् प्रसङ्गभेदाच्चेति परिहार उच्यते तस्य सर्वशाखोक्तपरिज्ञानेऽपि सम इत्यर्थः ।

  1. ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ ॥

स्वाध्यायस्य “स्वाध्यायोऽध्येतव्यः” इति (तै.आ.2-15) विधेः । तथात्वेन सर्वसाधारण्येनाध्ययनविधायकत्वेन । समाचारे सर्ववैदिकमर्करणे । अधिकारात् सर्वेषामधिकारसद्भावाच्च । हीति सूचितायाः “वेदः कृत्स्न्#ोधिकन्तव्यः” इति स्मृतेश्च

एकैकेनापि सर्वशाखाध्ययनेन ब्रह्म ज्ञातव्यमित्यर्थः ।

  1. ॐ सलिलवच्च तन्नियमः ॐ ॥

चोऽवधारणे । तन्नियम इत्यत्र पञ्चमीतत्पुषकमर्धारयौ । सलिलवत् सलिलमिव । तन्नियमः यथा सर्वेषां सलिलानां प्रतिबन्धाभावमपेक्ष्यैव समुद्रैकाश्रयत्वनियमः । तथाऽत्रापि तस्याः पुरुषशक्तिमपेक्ष्यैव तन्नियमः । सर्ववेदोक्तप्रकारेण ध्यानेन ब्रह्म ज्ञातव्यमिति नियम इत्यर्थः ।

  1. ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ॥

विधिशेषवत् विधिविहितस्येव । यथा विधिविहितत्वात् सन्ध्यावन्दनादिकमवश्यं कर्तव्यम् । तथा अर्थाभेदात् भेदो विभागः । सर्ववेदार्थभूतानामानन्दादिगुणानामपहतपाप्मत्वादिदोषाभावानां चाभेदात् अविभागात् । तानविभज्यति यावत् । उपसंहारः सर्वगुणानामप्येकबुध्यारोहणरूपोपसंहारः । “उपास्य एकः” इति (भाल्लवेय) श्रुतौ विहितत्वात् कर्तव्यः । सोऽपि समाने च समानविषय एव । ये ब्रह्मणि योग्याः पूर्णत्वाविरोधिनो गुणाः । तद्विषय एव । नत्वयोग्यरोदनादौ । तथा सत्यनर्थप्राप्तेरित्यर्थः ।

  1. ॐ अन्यथात्वं चशब्दादिति चेन्नाविशेषात् ॐ ॥

अन्यथात्वं सर्वगुणोपसंहारः कार्य इत्युक्तस्यान्यथाभावः । तस्याकर्तव्यत्वमेवावश्यमङ्गीकार्यम् । कुतः शब्दात् “आत्मेत्येवोपासीत” इत्यनुपसंहार श्रुतेः (बृ.3-4-7) इति चेन्न । अविशेषात् एते गुणा नोपसंहायर्#ा इति विशेषप्रमाणाभावात् । सर्वैगुणैरित्यविशेषेणोपसंहारे तु विशेषप्रमाणसद्भावाच्चेत्यर्थः । आत्मेत्येवेत्येवकारस्त्वयोगव्यवच्छेदक इति भावः ।

  1. ॐ न वा प्रकरणभेदात्परोवीयस्त्वादिवत् ॐ ॥

परोवरीयस्त्वादिवत् “यथा स एषः” (छां.1-9-2) इत्युक्तानां निरवधिकसर्वोत्तमत्वरूपपरोवरीयस्त्वादिगुरानामेवोपासनार्थमुपसंहो न सर्वगुणानाम् । तद्वत्सर्वगुणोपसंहारो न कर्तव्यो वा । कुतः प्रकरणेभेदात् परोरीयो वैश्वानरादिप्रकरणभेदात् । अन्यथा तन्न स्यादित्यर्थः ।

  1. ॐ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॐ ॥

संज्ञातः सर्वविद्यानां भगवन्नामत्वेन तद्गुणोक्तिरूपत्वात् । सर्वविद्योक्तगुणोपसंहारः कार्य इति चेत् । तदुक्तं तत्र चोद्ये तदिष्यमेवेति सामाधानं तेनोपसंहारसूत्रेणोक्तमित्यर्थः । न केवलं युक्तिसिद्धमेतत् । किन्तु तदपि तस्मिन्नर्थे “नाम वा एता” इति (कौण्डिन्यश्रुतेः) प्रमाणमप्यस्ति । तु अस्येवेत्यर्थः ।

॥ 3 ॥ प्राप्त्यधिकरणम् ॥

  1. ॐ प्राप्तेश्च समञ्जसम् ॐ ॥

उपसंहारानुपसंहारयोः कर्तव्यत्वम् । समञ्जसं युक्तम् । कुतः प्राप्तेः तत्तद्योग्यपुरुषभेदेन तयोः व्यवस्थितत्वादविरोधप्राप्तेश्चेत्यर्थः ।

॥ 4 ॥ सर्वाभेदाधिकरणम् ॥

  1. ॐ सर्वाभेदादन्यत्रेमे ॐ ॥

इमे सर्वगुणोपसंहर्तृब्रह्मादयः । अन्यत्र तदनुपसंहर्तृभ्योऽन्यत्र । तत्फलविलक्षणमहाफले भवन्ति तद्भाजो भवन्ति । कुतः सर्वाभेदात् सर्ववेदोक्तगुणानां अविभागेनोपसंहर्तृत्वेनोपासनादित्यर्थः ।

॥ 5 ॥ आनन्दाधिकरणम् ॥

  1. ॐ आनन्दादयः प्रधानस्य ॐ ॥

आनन्दादयः आनन्दो ज्ञानं सच्छब्दोदितं निर्दोषत्वं आत्मपदोदितस्वामित्वमित्येते चत्वारो गुणाः । प्रधानस्य मोक्षस्यार्थे सर्वमुमुक्षुभि; उपास्या इत्यर्थः ।

॥ 6 ॥ प्रियशिरस्त्वाधिकरणम् ॥

  1. ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ ॥

सर्वेषामधिकारिणां प्रियशिरस्त्वाद्यप्राप्तिः । “तस्य प्रियमेव शिरः” (तै.उ.2-5-2) इत्यादिश्रुत्युक्तप्रियशिरस्त्वादिगुणोपासनयोग्यता नास्ति । किन्तु केषाञ्चिदेव । कुतः हि यस्मात् । तेषां भेदे फलभेदे

फलतारतम्ये हि प्रसिद्धा नैव सर्वेति (वाराह) स्मृतिरस्ति । यस्माच्च भेदे फलभेदसिद्धयर्थं उपचयापचयौ उपासने वृद्धिह्रासौ । तारतम्यमिति यावत् । अपेक्षितौ तस्मादित्यर्थः ।

॥ 7 । इतराधिकरणम् ॥

  1. ॐ इतरेत्वर्थसामान्यात् ॐ ॥

तुशब्द एवार्थे । अर्थसामान्यात् । ल्यब्लोपनिमित्ता पञ्चमी । उपासनस्य स्वस्वप्राप्यफलसाम्यमपेक्ष्य इतरे चतुर्थ्यः सर्वेभ्यश्चेतरे मध्यमा गुणाः देवादिभिरुपसंहर्तव्या एवेत्यर्थः ।

॥ 8 ॥ आध्यानाधिकरणम् ॥

  1. ॐ आध्यानाय प्रयोजनाभावात् ॐ ॥

वेदेषु सवर्गुणोक्तिरुपसंहारश्च आध्यानाय सम्यग्ज्ञानाध्यानार्थम् । क्लृप्तो भवेत् । कुतः प्रयोजनाभावात् गुणोक्तेस्तदुपसंहारस्य च ध्यानं विना प्रयोजनाभावादित्यर्थः ।

  1. ॐ आत्मशब्दाच्च ॐ ॥

“आत्मेत्येवोपासीत” (बृ.3-4-7) इत्यत्रात्मेति भावप्रधानं सावधाणञ्च । आत्मत्वमात्रोपास्तिविधायकः शब्द आत्मशब्दः । आत्मेत्येवोपासीतेति शब्दः । तस्माद्गुणान्तरव्यावृत्तिपूर्वमात्मत्वोपास्तिविधायकशब्दादनुपसंहारश्च सिध्यतीति चार्थः ।

॥ 9 ॥ आत्मगृहीत्यधिकरणम् ॥

  1. ॐ आत्मगृहीतिरितरवदुत्तरात् ॐ ॥

यतः इतरवत् “सत्यं ज्ञानम्” इत्यादि (तै.2-1) वाक्ये सत्यादिपदैरन्येषां गुणानामिवात्मगृहीतिः आत्मैवेति वाक्येऽप्यात्मशब्देन चतुणर्#ा#ं गुणानां ग्रहणं सम्भवति । कुतः उत्तरात् “अत्रह्येते” (बृ.3-4-7) इत्युत्तरवाक्याच्च । अतो न चतुर्गुणोपास्त्युक्तेस्तद्विरोध इत्यर्थः ।

॥ 10 ॥ अन्वयाधिकरणम् ॥

  1. ॐ अन्वयादिति चेत्स्यादवधारणात् ॐ ॥

नन्वात्मेति वाक्यस्यानुपसंहारमानत्वमयुक्तम् । कुतः अन्वयात् आत्मशब्दे सर्वगुणानामन्वयात् । तस्य तद्बोधकत्वादिति यावत् । इति चेत् स्यात् यत्पारेक्तं तत्तथा स्यादेव । तथापि नानुपपत्तिः । कुतः अवधारणात् । आत्मेत्येवेत्यवधारणात् । न चानिर्णयः । आत्मशब्दो हि ब्रह्मादीन् प्रत्येव सर्वगुणान्वदति नान्यान्प्रतीति निर्णयोपपत्तेरित्यर्थः ।

॥ 11 ॥ कार्याधिकरणम् ॥

  1. ॐ कार्याख्यानादपूर्वम् ॐ ॥

कार्याख्यानात् ध्यानकायर्स्य मोक्षस्यालौकिकत्वोक्तेः । अपूर्वं अलौकिकं गुणजातम् । ध्यातव्यमित्यर्थः ।

॥ 12 ॥ समानाधिकरणम् ॥

ॐ समान एवञ्चाभेदात् ॐ ॥

एवञ्च एवमपि । ब्रह्मगुणानामलौकिकत्वेऽपि । वाण्याः समाने योग्यगुणविषय एवोपसंहारः नत्वयोग्यक्रियासु । तत्रत्वभेदात् अभेदमपेक्ष्य त्रिविक्रमत्वादीनां कादाचित्कानां क्रियाणां तत्सजातीयनित्यविक्रान्त्यादिष्वन्तर्भाव्योपसंहारो भवेदित्यर्थः ।

  1. ॐ सम्बन्धादेवमन्यत्रापि ॐ ॥

हिरण्यगर्भस्य तु अन्यत्रापि त्रिविक्रमत्वादिक्रियाविशेषेऽपि । एवं सर्वदोपसंहारो युज्यते । कुतः सम्बन्धात् क्रियाणां ब्रह्मणा तादात्म्यरूपसम्बन्धेन नित्यत्वादित्यथर्ः । ॥

॥ 13 ॥ नवाधिकरणम् ॥

  1. ॐ न वा विशेषात् ॐ ॥

आत्मेति वाक्यस्थात्मशब्देन सर्वगुणानां ग्रहणं नवाऽभ्युपगम्यते । कुतः विशेषात् अधिकारियोग्यताविशेषमपेक्ष्य तस्य तद्योग्यगुणाभिधायकत्वादित्यर्थः ।

  1. ॐ दर्शयति च ॐ ॥

सर्वानिति (भाल्लवेय) श्रुतिः स्वोक्तार्थं प्रतिपादयतीत्यर्थः ।

॥ 14 ॥ सम्भृत्यधिकरणम् ॥

  1. ॐ सम्भृतिद्युव्याप्त्यपि चातः ॐ ॥

आदिपदेन नञः समाकर्षः । चशब्द एवार्थः । सम्भृतिद्युव्याप्ती सम्यग्भरणप्रकाशव्याप्ती । न सर्वस्योपास्ये । किन्तु देवाद्युपास्ये एव । कुतः अत एवाधिकारियोग्यतायां विशेषसद्भावादेवेत्यर्थः ।

॥ 15 ॥ पुरुषाधिकरणम् ॥

  1. ॐ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॐ ॥

पुरुषविद्यायामपि सर्वविद्योत्तमत्वेन प्रतिज्ञातायामपि । पुरुषसूक्ताख्यविद्यायां केषाञ्चिदेवोक्तत्वादितरेषां तत्रोक्तेभ्योऽन्येषाञ्च गुणानामनाम्नानात् । कर्तव्य एव सर्वविद्यागुणोपसंहार इत्यर्थः ।

॥ 16 ॥ वेधाधिकरणम् ॥

  1. ॐ वेधाद्यर्थभेदात् ॐ ॥

अर्थभेदात् वेधाद्युपासनफलस्य हिंसादेर्यत्यादियोग्यफलाद्विलक्षणत्वात् वेधादि भिन्धि विद्धि शृणीही (बृहत्तन्त्रे) त्युक्तवेधादिकं न सर्वोपास्यमित्यर्थः ।

॥ 17 ॥ हान्यधिकरणम् ॥

  1. ॐ हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॐ ॥

तुरवधारणे । यतः हानौ बन्धहानिरूपमुक्तौ । तदुक्तं मुक्तानां “एतत्साम” इति (तै.3-10) श्रुतावुपासनमुक्तम् । अतो मोक्षेऽपि तेषामुपासनमत्स्येव । तदपि कुशाच्छन्दस्तुत्युपगानवदेव न विधितः । यथा नियतब्रह्मयज्ञानां द्विजानां नियतसन्ध्योपासनानन्तरमपि कुशैराच्छन्देन स्वेच्छयैव स्तुत्युपगान इवोभयत्र नाम्नोरध्ययनम् । तथा स्वेच्छयैव न विधितः । कुतः उपायनशब्दशेषत्वात् । उपायनं मोक्षः उपासनाविधीनां मोक्षवाक्यशेषत्वादित्यर्थः । तथा च मोक्षार्था उपासनाविधयः कथं तत्रापि ता विदध्युरित्यर्थः ।

  1. ॐ साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॐ ॥

साम्पराये मोक्षे । उपासनं स्वेच्छयैवेत्यङ्गीकायर्म् । न त्वनिष्यनिवृत्त्यर्थम् । कुतः तर्तव्याभावात् मुक्तैः परिहर्तव्यानिष्यस्यैवाभावात् । तदपि कुतः हि यस्मात् । अन्ये शाखिनः तथा “तीर्णो हि” (बृ.6-3-22) श्रुतिं पठन्ति । तस्मादित्यर्थः ।

॥ 18 ॥ छन्दाधिकरणम् ॥

  1. छन्दत उभयाविरोधात् ॐ ॥

मुक्ताः छन्दतः स्वेच्छामनुसृत्यैव कर्म कुर्वन्ति न विधितः । कुतः उभयाविरोधात् कर्मकरणाकरणयोः विधिबन्धप्रत्यवाययोः अभावादित्यर्थः ।

  1. ॐ गतेरथर्वत्त्वमुभयथाऽन्यथा हि विरोधः ॐ ॥

हिर्हेतौ । उभयथा हि बन्धप्रत्यवाययोरभावादेव । गतेः मुक्तेः । पुरुषार्थत्वम् । अन्यथा मुक्तौ बन्धप्रत्यवाययोर्भावे । विरोधः मुक्ते; संसारसमत्वेनापुरुषार्थत्वरूपविरोधः स्यादित्यर्थः ।

  1. ॐ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॐ ॥

यथा लोके यागाङ्गविष्णुक्रमणस्य क्रियानुष्ठाननियमः न यागसम्पूत्यर्नन्तरमपि अस्ति । किन्तु कदाचिदेव । तथा मुक्तानां कदाचित्कर्म कुर्वन्ति न वेत्येवं तावदुपपन्नः युक्तः । कुत एतत् । तल्लक्षणार्थोपलब्धेः तल्लक्षणस्य परम्परया कर्मसाध्यस्याथर्स्य मोक्षस्य । उपलब्धेः प्राप्तत्वादित्यर्थः ।

॥ 19 ॥ अनियमाधिकरणम् ॥

  1. ॐ अनियमः सर्वेषामविरोधाच्छब्दानुमानाभ्याम् ॐ ॥

अनियमः अपरोक्षज्ञानिनां मध्ये केषाञ्चिन्मोक्षः केषाञ्चिन्नेत्येवंरूपव्यवस्थाभावो ज्ञायते । कुतः सर्वेषामपि मोक्षे । अविरोधात् निषेधकाभावात् । किञ्च शब्दानुमानाभ्यां “न कश्चित्” इति (कौण्डिन्य) श्रुतेः तन्मूलकानुमानच्चेत्यर्थः ।

॥ 20 ॥ यावदधिकरणम् ॥

  1. ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ॥

आधिकारिकाणां योग्यतानुसार्युपासनशीलानां ब्रह्मादीनां स्वस्वाधिकारानुसारेणैव मुक्तौ । अवस्थितिः । अवस्थितानामुपासनावत्तारतम्येनैव मुक्तौ तेषां फलमित्यर्थः ।

  1. ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॐ ॥

तुशब्दोऽप्यर्थः । अक्षरधियां ब्रह्मज्ञानिनाम् ।किवषमत्वेप्यविरोधः विरोधो नास्ति । कुतः ब्रह्मधीत्वात् । किञ्च सामान्यतद्भावाभ्यां सर्वेषां दोषाभावात् उत्तमेभ्यः अधमानां उपकारभावाच्च । कथम् । औपसदवत् सच्छिष्यवत् । किञ्च तदुक्तं तत् असमत्वेऽपि विरोधो नास्तीत्येतत् “नाना” इति तुरश्रुतावुक्तमतोऽप्यविरोध इत्यर्थः ।

॥ 21 ॥ इयदामननाधिकरणम् ॥

  1. ॐ इयदामननात् ॐ ॥

अधिकारितारतम्यं इयदेव प्राणावधिकमेव । कुतः आमननात् "

प्राणो वाव" इति (कौण्ठरव्य) श्रुतेरित्यर्थः ।

  1. ॐ अन्तरा भूतग्रामवदिति चेत्तदुक्तम् ॐ ॥

भूतग्रामवत् यथा नामादिप्राणसमूहे एकस्मादेक उत्तमो दृष्यः । तथा अन्तरा परमात्मानं श्रियञ्च विना प्राणादप्युत्तम्रोस्त्विति चेत् । नेति शेषः । यतस्तदुक्तं तत्र प्राणादुत्तमाभावे नहीति (कौण्ठरव्य) प्रमाणमुक्तम् । अत इत्यर्थः ।

  1. ॐ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॐ ॥

अन्यथा प्राणादप्युत्तमाभावे । प्राणपरमात्मनो; भेदानुपपत्तिरिति चेन्न । कुतः यतः उपदेशवत् यथा श्रुतावुक्तं तथाऽङ्गीक्रियते । अतो नोक्तदोष इत्यर्थः ।

॥ 22 ॥ व्यतिहाराधिकरणम् ॥

  1. ॐ व्यतिहारो विशिंषन्ति हीतरवत् ॐ ॥

व्यतिहारः प्राणप्रकरणादनन्तरं विष्णोः प्रकरणात् प्राक् प्रश्नप्रतिच्वचनयोरध्याहारः कार्य; । कुतः हि यस्मात् । इरवत् नामादितो वागादिकमिव प्रारवादिनः सकाशात् सत्याख्यविष्णुवादिनः छन्दोगाः “एष तु वा” इति (छां.7-16) तुशब्देन विशिंषन्ति व्यावर्तयन्ति । तस्मादित्यर्थः ।

॥ 23 ॥ सत्याधिकरणम् ॥

  1. ॐ सैव हि सत्यादयः ॐ ॥

हि यस्मात् । सत्याद्याः अहमात्मान्तः पदार्थाः । सैव ईश्वराख्यपरदेवतैव । तस्मात्प्राणाधिकाः बहवः न । किन्तु श्रीतधीशावेवेत्यर्थः ।

॥ 24 ॥ कामाधिकरणम् ॥

  1. ॐ कामादितरत्र तत्र चायतनादिभ्यः ॐ ॥

लक्ष्मीः तत्र भगवत्समीपे स्थिता सती । इतरत्र च भूम्यादावपि । कामात् ईश्वरेच्छयैवावतारान्करोति । कुतः आयतनादिभ्यः सर्वगतत्वप्रतिपादकसर्वायतनेत्यादिश्रुत्यादिभ्य इत्यर्थः ।

  1. ॐ आदरादलोपः ॐ ॥

आदरात् भगवति निरुपाधिकभक्त्यतिशयात् । अलोपः श्रियो भगवदुपासनाभावो नेत्यर्थः ।

420 ॐ उपस्थितेस्तद्वचनात् ॐ ॥

श्रियो नित्यमुक्तत्वं युज्यते । कुतः उपस्थितेः हरिसमीपे सदा स्थितेः । श्रियो नित्यसमीपस्थत्वं च । तद्वचनात् “द्वावेतौ” इति (गौपवनश्रुतेः" नित्यसम्बन्धित्ववचनात् । ज्ञायत इत्यर्थः ।

॥ 25 ॥ निर्धारणाधिकरणम् ॥

  1. ॐ तन्निर्धारणार्थनियमस्तद्दृष्येः फलम् ॐ ॥

यतस्तन्निर्धारणार्थनियमः वेदार्थनिश्चयो वेदार्थनियमश्चेत्येतद्रूपम् । श्रवणमननफलम् । ध्याफलभूतायाः । तद्दृष्येः ब्रह्मदशर्नात् । पृथगेवभिन्नमेव । अतो न ब्रह्मदृष्यिः श्रवणादिना भवतीत्यर्थः । तथापि न श्रवणमननवैयर्थ्यम् । कुतः हि यस्मात् । अप्रतिबन्धः ब्रह्मदृष्यिप्रतिबन्धकनिवृत्तिः । तन्निश्चयः तन्नियमद्वारा श्रवणमननयोः फलम् । अतो ध्यानसाध्यापि दृष्यिः प्रतिबन्धकनिवृत्तिद्वारा श्रवणादिसाध्या भवति । तदर्थं श्रवणादिकमपि कार्यमेवेत्यर्थः । हि शब्देन “आत्मा वा अरे”

इति (बृ.4-4-5) श्रुतिः सूचिता ।

॥ 26 ॥ प्रदानाधिकरणम् ॥

  1. ॐ प्रदानवदेव हि तदुक्तम् ॐ ॥

प्रदानवत् सम्यक् प्रीतिपूर्वकं गुरूपदेशयुक्तमेव श्रवणादिकं ज्ञानसाधनं न केवलम् । कुतः हि यतः । तदुक्तम् । तस्य ज्ञानस्य गुरुप्रसादाधीनत्वं “आचार्यवान्” इति (छां.3-14-2) श्रुतावुक्तमत इत्यर्थः ।

॥ 27 ॥ लिङ्गभूयस्त्वाधिकरणम् ॥

  1. ॐ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॐ ॥

तत् गुरुप्रसादपूर्वकप्रदानमात्रम् । बलीयः अतिशयेन बलवत् । कुतः लिंगभूयस्त्वात् वृषभहंसजलवायसरूपेभ्यो वाय्वग्निवरुणेभ्यः श्रुतविद्येनापि सत्यकामेन वचनात् । लिंगभूयत्स्वात् गुरुप्रदानादिरूपलिंगबाहुल्यदर्शनात् । तथापि तदपि श्रवणादिकमपि कार्यम् । कुतः “श्रोतव्यः” इति (बृ.4-4-5) श्रुतेरित्यर्थः । हि शब्दः श्रुतिसूचकः ।

॥ 28) पूर्वविकल्पाधिकरणम् ॥

  1. ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ ॥

क्रियामानसवत् मानसक्रियारूपध्याने यथा विकल्पः तथा पूर्वविकल्पः पूर्वप्राप्तेन गुरुणा समस्य पश्चात्प्राप्तस्य गुरोः । विकल्पः ग्राह्यो वा नवेति विकल्पः स्यात् । न तु स्वीकार्य एवेति विधिः । कुतः प्रकरणात् प्रकृष्यानुग्रहमपेक्ष्य गुरोः स्वीकायर्त्वादिति भावः ।

  1. ॐ अतिदेशाच्च ॐ ॥

पूर्वगुरुणैव स्वसमोत्तमगुरुस्वीकारायातिदेशात् । “यथा” इति पौष्यायणश्रुत्यातिदिश्यमानत्वात् । युक्तमेव पश्चात्तनस्वीकरणमित्यर्थः ।

॥ 29 ॥ विद्याधिकरणम् ॥

  1. ॐ विद्यैव तु निर्धारणात् ॐ ॥

“नान्यः पन्थाः” इति (श्वे.3-8) निर्धारणात् अन्यनिषेधेन ज्ञानस्यैव मोक्षसाधनत्वनिश्चयात् । विद्यैव मोक्षसाधनं न कर्मादिकमित्यर्थः । श्रुतेः प्राबल्यद्योतकस्तुशब्दः ।

  1. ॐ दर्शनाच्च ॐ ॥

न केवलं परोक्षमप्तिरूपविद्ययैव मोक्षः । किन्तु दर्शनाच्च ब्रह्मसाक्षात्कारादपि । अतो न ध्यानवैयर्थ्यमित्यर्थः ।

॥ 30 ॥ श्रुत्यधिकरणम् ॥

  1. ॐ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॐ ॥

मोक्षस्य ज्ञानसाध्यत्वेऽबाधःकर्मणैवेति स्मृतिविरोधो नास्ति कुतः । श्रुत्यादिबलीयस्त्वात् ज्ञानस्य मोक्षसाधकत्वोपपादकत्वं “एवं विदित्वा” इत्यादि श्रुतिलिंगादेरतिबलवत्वेन स्मृतिगतैवशब्दस्यायोगव्यवच्छेदार्थत्वोपपत्तेरित्यर्थः । एतत्सूचनाय चशब्दः ।

॥ 31 ॥ अनुबन्धाधिकरणम् ॥

  1. ॐ अनुबन्धादिभ्यः ॐ ॥

न केवलं श्रवणादिना । नापि प्रबलगुरुप्रसादेन ब्रह्मदर्शनं भवति । किन्त्वनुबन्धशब्दितहरिगुरुभक्तिशमादिभ्यश्चेत्यर्थः ।

॥ 32 ॥ प्रज्ञान्तराधिकरणम् ॥

  1. ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्यिश्च तदुक्तं ॐ ॥

प्रज्ञान्तरं प्रज्ञाविशेषः । ध्यानमिति यावत् । तस्य पृथक्त्ववत् अनेकप्रकारत्ववत् । तदनुसारेण दृष्यिश्च ब्रह्मदृष्यिरपि अनेकप्रकारा न सर्वेषामेकविधा । किञ्च तदुक्तम् । तद्दृष्येरनेकविधत्वं “अन्तर्द्दृष्ययो” इति (कमठ0 श्रुतावुक्तञ्चेत्यर्थः ।

॥ 33 ॥ न सामान्याधिकरणम् ॥

  1. ॐ न सामान्यादप्युपलब्धेमर्#ृत्युवन्न हि लोकापत्तिः ॐ ॥

मृत्युवत् मृत्युमात्रानन्तरं यथा न मुक्तिः । किन्तु चरममृतिविशेषानन्तरमेव । तद्वदत्रापि भगवद्रूपाणां साम्येऽपि उपलब्धेः । भगवद्दृष्यिसामान्यात् साधारणरूपापरोक्षज्ञानात् । न सर्वेषां मुक्तिः । किन्तु स्वस्वबिम्बदर्शनादेव । न चैवं सामान्यदर्शनस्य

वैफल्यम् । तस्य महरादिलोकप्राप्तिसाधनत्वात् । न चैतावता तस्य मोक्षहेतुत्वं । तस्य महरादिलोकप्राप्तिसाधनत्वात् । न चैतावता तस्य मोक्षहेतुत्वं प्राप्नोति । हि यतः । लोकापत्तिः लोकप्राप्तिमात्रं न मुक्तिः । तस्मादित्यर्थः । हीत्यनेन सामान्यदर्शनादि (नारायणतन्त्रे) त्यादि प्रमाणप्रसिद्धिश्च सुचिता ।

॥ 34 ॥ परेणाधिकरणम् ॥

  1. ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्वनुबन्धः ॐ ॥

तुरपि यद्यपि । परेण च परमात्मनैव । ब्रह्मदर्शनम् । तथापि शब्दस्य “भक्तिरेवैनमिति” (माठर) श्रुतेः ताद्विध्यं परमात्मन इव भक्तेः स्वातन्त्रयेण ब्रह्मदर्शनहेतुत्ववाचित्वं युज्यते । कुतः दर्शनादौ कारणत्वादिति हेतुरुपस्कर्तव्यः । यद्वा परेण वाच्येन निमित्तेन शब्दस्य भक्तिरिति श्रुतेः । ताद्विध्यं युक्तमित्यर्थः । तर्हि कथं भक्तिरिति वाक्येन सत्स्वप्यन्यसाधनेषु अनुबन्धो भक्तिः विशिष्योच्यत इत्यत उक्तम् । भूयस्त्वादिति । तस्याः साधनेषु । भूयस्त्वात् प्राधान्यात् । तदभिप्रायेणानुबन्धो भक्तिर्विशिष्योच्यत इत्यर्थः ।

॥ 35 ॥ एकाधिकरणम् ॥

  1. ॐ एक आत्मनः शरीरे भावात् ॐ ॥

अंशोंऽशीतिपदयोः अर्थः एक एव । अंशांशिनोरैक्यमेव । कुत; आत्मनः अंशिनः । इन्द्रादेः शरीरे कर्मनिर्मितशरीरे । अंशस्यार्जुनादेः । भावात् तदभिमानितया सत्त्वादित्यर्थः ।

  1. ॐ व्यतिरेकस्तद्भावभावित्वान्नतूपलब्धिवत् ॐ ॥

उपलब्धिवत् ज्ञानसुखादौ परस्परं भेद इव । अंशस्यांशिकृतभावशब्दितोपासनजन्यफलानुभवित्वात् । अन्यथा तन्नस्यादित्यर्थः ।

॥ 36 ॥ अंगावबद्धाधिकरणम् ॥

  1. ॐ अंगावबद्धास्तु न शाखासु हि प्रतिवेदम् ॐ ॥

तुशब्दो विशेषे । अंगावबद्धाः हरेरंगाश्रिताः । देवा अपि तत्परिवारत्वेन देवैरुपास्या । तदुपसंहारे तु विशेषोऽस्ति । कः? देवानां प्रतिवेदं सर्ववेदगतासु शाखासु उक्तं यत् ब्रहमाद्यंगदेवतावबद्धगुणजातं तत्सर्वं रुद्रादिषु नोपसंहार्यम् । किन्तु योग्यमेवेत्येवं रूप इत्यर्थः । हीत्यनेन समत्वाद्वेति (ब्रह्मतर्क) स्मृतिप्रसिद्धिः सूचिता ।

  1. ॐ मन्त्रादिवद्वाऽविरोधः ॐ ॥

मन्त्रादिवत् यथाऽग्न्याद्यधमदेवतावाचिमन्त्राविद्यानां ब्रह्मद्युत्तमदेवतावाचचित्वं तथाऽविरोधः अधमगुणानामुत्तमेषूपसंहारेऽपि विरोधो नास्तीति वाऽभ्युपगम्यत इत्यर्थः ।

॥ 37 ॥ नानाशब्दाधिकररम् ॥

  1. ॐ नाना शब्दादिभेदात् ॐ ॥

भूमगुणः सर्वैर्यथायोग्यं नानाप्रकारेणोपास्यः । नत्वेकप्रकारेण । कुतः । शब्दादिभेदात् । शब्दादिप्रमाणैरधिकारिभेदात् । भूमगुणस्य नानाप्रकारेण प्रतीतेरित्यर्थः ।

॥ 39 ॥ विकल्पाधिकरणम् ॥

  1. ॐ विकल्पो विशिष्यफलत्वात् ॐ ॥

विकल्पः स्वस्वमोक्षसाधनान्यनृसिंहाद्युपासनं कार्यं न वेति द्विविधः प्रकारः स्यात् । कुतः विशिष्यफलत्वात् तथोपासनस्य दुरितनिवृत्तिरूपफलविशेषमपेक्ष्य कर्तव्यत्वने तदनुसारेण विकल्पस्यैव युक्तत्वादित्यर्थः ।

॥ 40 ॥ काम्याधिकरणम् ॥

  1. ॐ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ ॥

काम्यास्तु काम्यसाधनरूपे कामितसाधनभगवयद्गुरास्तु । यथाकाम् । स्वस्वफले कामानुसारेण । समुच्चीयेरन्नवा अमुमुक्षुभिरुपसंहर्तव्याः मुमुक्षुभिस्तु नोपसंहतर्व्या इति । वा व्यवस्थितविकल्पः स्यात् । कुतः पूर्वहेत्वभावात् मुमुक्षूणां मोक्षेच्छापूर्वकालीनपूर्वसूत्रोक्तान्यकामाख्यहेत्वभावात् । एवं मुमुभिरेवेश्वरप्रीत्यर्थमुपसंहार्या फलार्थं नोपसंहार्या इति वा विकल्पः स्यादित्यर्थः ।

॥ 41 ॥ अंगाधिकरणम् ॥

  1. ॐ अंगेषु यथाऽऽश्रयभावः ॐ ॥

अंगेषु भगवदंगेषु । यथाऽऽश्रयभावः । “चक्षोः सूर्योऽजायत” इत्यादौ (ऋ.10-90-13) यथा यथाऽऽश्रयत्वमुक्तं तथा तैरुपासनं कर्तव्यमित्यर्थः ।

  1. ॐ शिष्येश्च ॐ ॥

यस्मिन्निति (पौत्रायण) श्रुतिविहितत्वाच्च तथोपासनं कर्तव्यमित्यर्थः ।

  1. ॐ गुणसाधारण्यश्रुतेश्च ॐ ॥

गुणानां भगवद्गुणानां । साधारण्यस्य सर्वोपास्यत्वस्य । श्रुतेः “साधारण्यात्” इति (माण्डव्य) श्रुत्युक्तत्वाच्च । देवैस्तथोपासनं कार्यमित्यथर्ः ।

॥ 42 ॥ नवाधिकरणम् ॥

  1. ॐ न वाऽतत्सहभावश्रुतेः ॐ ॥

अंगदेवतोपासनं देवान्यैः न कार्यम् । किन्तु देवैरेवेति वा व्यवस्थितविकल्पः स्यात् । कुतः अतत्सहभावश्रुतेः तत्सहश्रुतेरभावात् । सर्वखागतगुणोपासनेन सहांगदेवतोपासनस्य श्रवणादित्यर्थः ।

  1. ॐ दर्शनाच्च ॐ ॥

“सत्यो ज्ञान” इति (कमठ) श्रुतौ अस्यार्थस्य दर्शनात् उक्तत्वाच्च देवैरेवांगदेवतोपास्तिः कार्या नान्यैरित्यर्थः ।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां तृतीयाध्यायस्य तृतीय; पादः ॥ 3 ॥ 3 ॥

॥ 1 ॥ पुरुषार्थाधिकरणम् ॥

  1. ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ॥

पुरुषैरर्थ्यमानं यच्छुभफलं तत्सर्वमपि । अतः ब्रह्मदर्शनाद्भवति न तु मोक्षमात्रम् । कुतः शब्दात् “यं यं” इति (मु.3-1-10) श्रुतेरिति भगवान् बादरायणो मन्यत इत्यर्थः ।

  1. ॐ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ ॥

शेषत्वात् ज्ञानस्य कर्मांगत्वात् । निमित्तादेव पुरुषार्थवादः “यं यम्” इति (मु.3-1-10) श्रुतौ ज्ञानस्य स्वर्गादिपुरुषार्थसाधनत्ववादः न तु मोक्ष इव स्वर्गादौ प्राधान्यात् । तत्कथम् । यथा अन्येषु स्वर्गसाधनकर्मशेषभूतेषु धनादिषु । यथा स्वर्गं धनादिति प्राधान्यवादः । तथेति जैमिनिराचार्यो मन्यत इत्यर्थः ।

  1. ॐ आचारदर्शनात् ॐ ॥

“यज्ञेन यज्ञं” इति (तै.आ. 3-12-17) देवानामपि कर्मानुष्ठानश्रुतेश्च न ज्ञानादेव सर्वपुरुषार्थप्राप्तिरत्यर्थः ।

40 ॐ तच्छ्रतेः ॐ ॥

“यदेव विद्यया” इति (छां.1-1-10) ज्ञानस्य कर्मशेषत्वश्रुतेः न तत्प्रधानमित्यर्थः ।

  1. ॐ समन्वारम्भणात् ॐ ॥

न कर्मणः ज्ञानशेषत्वम् । तत्साम्यच्च । किन्तु प्राधान्यम् । कुतः समन्वारम्भणात् “कर्मणैवेति” (माठरश्रु) प्राधान्येन स्वर्गाद्यारम्भकत्वश्रुतेरित्यर्थः ।

  1. ॐ तद्वतो विधानात् ॐ ॥

तद्वतः विधानात् “ज्ञानी च कर्माणि” इति (कमठ श्रुति) कर्मविधानात् न ज्ञानिकर्म लीलारूपमित्यर्थः ।

  1. ॐ नियमाच्च ॐ ॥

ज्ञानिनोऽपि कर्मनियमस्याकरणे प्रत्यवायस्य च “कुर्वन्” इति (ई.2) श्रुतेश्च । न ज्ञानिकर्म लीलारूपमित्यर्थः ।

  1. ॐ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॐ ॥

तुशब्दो व्यासमतविशेषद्योतकः । बादरायणस्य त्वेवं ज्ञानादेव सर्वपुरुषार्थप्राप्तिरित्येवं मतम् । कुतः अधिकोपदेशात् अधिकस्य ज्ञानजन्यमोक्षे कर्माधीनातिशयस्य “ज्ञानादेव” इति (कौण्ठरव्य) श्रुतावुक्तत्वात् । किञ्च तद्दर्शनाच्च तस्य ज्ञानजन्यफले कर्मजन्यादिशयस्य राजसूयादिना (भविष्यत्पर्वणि) युधिष्ठिरादावुपलम्भाच्चेत्यर्थः । अत्र भगवन्मतं देवतानिष्ठज्ञानविषयम् । जैमिन्यादिमतं तदन्यमनुष्यनिष्ठज्ञानविषयम् । अतो न विरोध इति ज्ञेयम् ।

  1. ॐ तुल्यं तु दर्शनम् ॐ ॥

ज्ञानिकर्म न ज्ञानेऽतिशयकृत् । किन्तु ज्ञानफल एव । कुतः यतो दर्शनं ज्ञानम् । तुल्यं तु कमर्करणाकरणयोः सममेव । अत इत्यर्थः ।

॥ 2 ॥ असार्वत्रिकाधिकरणम् ॥

  1. ॐ असार्वत्रिकी ॐ ॥

ज्ञानाधिकारिता सर्वजनस्थिता नेत्यर्थः ।

  1. ॐ विभागः शतवत् ॐ ॥

विभागः केषाञ्चिज्ज्ञानाधिकारिता अन्येषां नेति विभागः । शतवत् परापरब्रह्माधिकदेवताशतस्यैव सोमाधिकारःनान्येषामिति विभागवत् “नवकोट्यो हि” इत्यादावुक्तत्वादित्यर्थः ।

  1. ॐ अध्ययनमात्रवतः ॐ ॥

यथाशक्ति सर्ववेदाध्ययनवतो ब्रह्मविद्याधिकारिता नान्यस्येत्यर्थः ।

॥ 3 ॥ अविशेषाधिकरणम् ॥

  1. ॐ नाविशेषात् ॐ ॥

देवादीनां ज्ञानाधिकारिता । अविशेषात् साम्यात् । न । किन्तु तारतम्यादिनेत्यर्थः ।

॥ 4 ॥ स्तुत्यधिकरणम् ॥

  1. ॐ स्तुतयेऽनुमतिर्वा ॐ ॥

ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषोऽस्त्येव । कुतः यतः यथेष्याचारो ज्ञानी मुच्यत एवेति ज्ञानिस्तुतय एव “येन स्यात्केन स्यात्” इत्युच्यते । अनुमतिर्वा ज्ञानिनां यथेष्ठाचारेऽभ्यनुज्ञामात्रं वा न त्वत्र यथेष्चारविधिरत इत्यर्थः ।

  1. ॐ कामकारेणचैके ॐ ॥

एके शाखिनः । कामकारेण च यथेष्याचारेणापि ज्ञानिनां मोक्षं “कामचाराः” इति (सामशाखा) श्रुतौ पठन्ति । अतो न ज्ञानिनः सदसत्प्रवृत्त्योर्मोक्षहानिः । किन्तु फले विशेषमात्रमस्तीत्यर्थः ।

  1. ॐ उपमर्दञ्च ॐ ॥

चशब्दोऽप्यर्थः । यदा ज्ञानिनः प्रारब्धकर्मणोऽपि किचिद्भुक्तस्य ज्ञानेनोपमर्दं ईषत्फलह्रासम् । “ओमित्युच्चार्य” इति (तुर) श्रुतावेके शाखिन; पठन्ति । तदा ज्ञानोत्तरकालीनासत्कर्म न मोक्षप्रतिबन्धकमिति किं वर्णनीयमित्यर्थः ।

  1. ॐ ऊर्ध्वरेतस्सु च शब्दे हि ॐ ॥

कामचाराणामपि ज्ञानिनां मुक्त्यधिकारवत् कामचाराणां जिज्ञासूनां न ज्ञानाधिकारः । कुतः हि यस्मात् । शब्दे य इममिति (माठर) श्रुतावूर्ध्वरेतस्त्वादिगुणवत्स्वेव ज्ञानोपदेशो विहितः । तस्मादित्यर्थः ।

  1. ॐ परामर्शं जैमिनिरचोदना चापवदति हि ॐ ॥

जैमिनिः परामर्शं “येन स्यात्” इति वाक्ये प्रातरुत्थायेत्यादिश्रुत्युक्तसदाचारस्यैव ग्रहणमभ्युपेत्यात्र सदाचारस्यैव स्वेच्छया नियमेनाचरणं प्रतिपाद्यम् । न तु निषिद्धस्य करणमिति मन्यते । कुतः हि यस्मात् । अचोदना अनिषिद्धं ज्ञानिना कार्यमिति विध्यभावः अपवदति च प्रत्युत “ब्रह्मणो न हन्तव्यः” इति श्रुतिः विकर्म निषेधति च इति तस्मादित्यर्थः ।

  1. ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ ॥

बादरायणः भगवान् बादरायणस्तु । अनुष्ठेयं स्वेच्छया श्रुत्याद्युक्तानुष्ठानयोग्यकिञ्चित्कर्माचरणाभ्यनुज्ञानमेव “येन स्यात्” इति (बृ.5-1-1) श्रुतेरर्थः । न तु सवर्कर्मकरणाय यथेष्ठाचारविधिरेवेति मन्यते । कुतः साम्यश्रुतेः केनापि प्रकारेण प्रवृत्तावपि “ईदृश एव” इति ज्ञानिनः साम्योक्तेः ।

  1. ॐ विधिर्वा धारणवत्ॐ ॥

यथा वेदधारणविधेः त्रैवर्णिकाधिकारिकत्वमेव न तु सर्वाधिकारिकत्वम् । तथा विधिः ज्ञानिनामेव “येन स्यात्” इति (बृ.5-1-1) स्वेच्छाचारविधिः न त्वज्ञानिनामित्यर्थः । वाशब्दः प्रगुक्तपक्षद्वयात् अस्य पक्षान्तरत्वद्योतकः ।

  1. ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वत् ॐ ॥

“केन स्यात्” इति वाक्यं पूवर्#ोक्तस्तुतिरेव न स्वेच्छाचरणविधिः । कुत; उपादानात् ज्ञानिभिरपि

“सन्ध्यामुपासीत” इत्यादि साधारणविधिस्यीकारादिति चेन्न । कुतः अपूर्वत्वात् अशब्दवाच्यपरमात्माधीनत्वादित्यर्थः । तथा च ज्ञानिनः

स्वेच्छाचरणविधेरप्यभावे सर्वविध्यतिदूरत्वप्रसङ्गेन परमात्माधीनत्वं न स्यादिति भावः ।

  1. ॐ भावशब्दाच्च ॐ ॥

भावः इच्छाभावशब्दघटित “यथा विधानम्” इति (तुर) श्रुतेश्च “केन स्यात्” इत्ययं कामचारविधिरित्यर्थः ।

  1. ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ ॥

नियमेन सर्वधर्माचरणविधिपक्षस्यानुष्ठेयानां मध्ये स्वेच्छया कतिपयधर्माचरणाभ्यनुज्ञानपक्षस्य स्वेच्छाचरणविधिपक्षस्य च परस्परविरुद्धत्वात् । “येन स्यात्” इत्यादयः पारिप्लवाथर्#ाः अव्यवस्थितार्थका इति चेन्न । कुतः विशेषितत्वात् “त्रेधाहि ज्ञानिनः” इति (गौपवन) श्रुतौ ज्ञानिनां विधिनियतादिपदैः विशेषितत्वेन तेषामनेकप्रकारत्वस्योक्तत्वादित्यर्थः ।

  1. ॐ तथा चैकवाक्योपबन्धात् ॐ ॥

उक्तपक्षत्रयानुसारिवाक्यानां अधिकारिभेदमाश्रित्याविरोधेनैकवाक्यतायाः युक्तत्वात् । तथा च श्रुतीनामेकवाक्यत्वे सिद्धे “येन स्यात्” इति वाक्यस्यापि एकवाक्योपबन्धात् अधिकारिभेदेन व्यवस्थितार्थकत्वोपपत्तेः न पारिप्लवार्थत्वमित्यर्थः । तथा च जैमिनिमतं मनुष्यज्ञानविषयम् । व्यासमतं देवताविषयम् । “विधिर्वा” इतिमतं विधिवेत्तृत्तिषयमिति न विरोध इति भावः ।

  1. ॐ अत एव चाग्नीन्धनाद्यनपेक्ष ॐ ॥

ज्ञानस्य मोक्षसाधनत्वे अग्नीन्धनाद्यनपेक्षा अग्निहोदिसत्कर्मसापेक्षितत्वं नास्ति । कुतः अत एव कामचाराणामपि मोक्षस्य प्रमाणसिद्धत्वादित्यर्थः ।

  1. ॐ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॐ ॥

अश्ववत् यथा गतिसाधनाश्वादयः गतिनिष्पत्यर्थमेवापेक्ष्यन्ते न तत्फलं ग्रामादिप्राप्त्यर्थम् । तथा मोक्षसाधनज्ञानोत्पत्तावेव । सर्वापेक्षा सर्वधर्मापेक्षा । न तु ज्ञानफलमोक्षेऽपि । कुतः यज्ञादिश्रुतेः “विविदिषन्ति यज्ञेन” इति (बृ.6-4-22) ।

  1. ॐ शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदंगतया तेषामवश्यानुष्ठेयत्वात् ॐ ॥

यद्यपि ज्ञानेनैव मोक्षो नियतः । तथापि ज्ञानी शमदमाद्युपेतः स्यात् शमदमादियुक्तो भीवेत् । कुतः तद्विधेः “आचार्यात्” इति (माठर) श्रुत्या तस्या ज्ञानिनः शमदमादेः विधानात् । तथापि न ज्ञानिनः शमदमादिवैयर्थ्यम् । कुतः तदंगतया ज्ञानांगतया ज्ञानफलोपकर्यमतस्तेषां शमदमादीनामवश्यानुष्ठेयत्वात् अवश्यमनुष्ठानार्हत्वात् । तुशब्दः शमदमादेः पूर्णफलाथर्त्वं सूचयति ।

  1. ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दशर्नात् ॐ ॥

चशब्द एवार्थे । ज्ञानिनः सर्वान्नानुमतिः “यदि ह वा अप्येवं वित्” इति निषिद्धानिषिद्धसर्वभक्षणस्याभ्यनुज्ञानश्रुतिः । प्राणात्यये प्राणत्यागकालविषयैव न तु सर्वकालविषया कुत तद्दर्शनात् तस्मिन्नर्थे " न वा अजीविष्यम्" इति (छां.1-10-4) श्रुतेः तदर्थरूपलिंगदर्शनाच्चेत्यर्थः ।

  1. ॐ अबाधाच्च ॐ ॥

ज्ञानिनां निषिद्धाकरणे बादकाभावाच्च निषिद्धं न कार्यमित्यर्थः ।

  1. ॐ अपि स्मर्यते ॐ ॥

तत्करणेऽल्पफलता च “अतीत” इत्यादिना (हरिवंशेषु) कृष्णादिभिः स्मअतिभिः निषिद्धं न कार्यमिति स्मर्यते च । अतोऽपि न निषिद्धं ज्ञानिभिः कार्यमित्यर्थः ।

  1. ॐ शब्दश्चातोऽकामचारे ॐ ॥

चो यतः । अकामचारे निषिद्धकर्मभावे । शब्दः “स य एतदेवं वित्” इति (कौण्डिन्य) श्रुतिरस्ति । अतोऽपि न निषिद्धं ज्ञानिना कार्यमित्यर्थः ।

  1. ॐ विहितत्वाच्चश्रमकर्मापि ॐ ॥

चः कारणसमुच्चये । अपिः वर्णाश्रमधर्मसमुच्चये । ज्ञानिना न केवलं निषिद्धमकार्यम् । किन्तत्वाश्रमधर्मोऽपि वर्णाश्रमोचितकमर्#ापि सम्पूर्णफलार्थं कार्यम् । कुतः विहितत्वात् “पश्यन्नपि” इति (कौषारव) श्रुतिविहितत्वादित्यर्थः ।

  1. ॐ सहकारित्वेन च ॐ ॥

ज्ञानिना सम्पूर्णफलसिद्धयै सत्कर्म कार्यमेव । कुतः “यथा राज्ञाः” इति (कमठ) श्रुतौ ज्ञोक्षफलातिशयकर्मणो

ज्ञानसहकारित्वेनोक्तत्वाच्चेत्यर्थः ।

॥ 5 ॥ उभयलिंगाधिकरणम् ॥

  1. ॐ सर्वथाऽपि तु त एवोभयलिंगात् ॐ ॥

सर्वथापि देशकालगुरूपदेशाद्यनेकसाधनसम्पत्तावपि ये ज्ञानयोग्याः त एव ज्ञानमाप्नुवन्ति । नायोग्याः । कुतः उभयलिंगात् । उभयोः योग्यायोग्ययोः इन्द्रविरोचनयोः । विरिञ्चोपदेशसाम्येऽपि सम्यग्विपरीतज्ञानप्राप्तिरूपज्ञापकादेवेत्यर्थः ।

  1. ॐ अनभिभवं च दर्शयति ॐ ॥

चो यतः । “दैवीमेव” इति श्रतिः । न केवलं योग्यायोग्यस्वरूपं दर्शयति । किन्त्वनभिभवं च स्वभावतिरस्काराभिभवञ्च । दर्शयति प्रतिपादयति । अतो नायोग्यानां ज्ञानप्राप्तिरित्यर्थः ।

  1. ॐ अन्तरा चापि तु तद्दृष्येः ॐ ॥

चशब्दोऽवधारणे । तुशब्दो विशेषार्थः ।अन्तरा सम्यग्ज्ञानविपरीतज्ञानयोः मध्ये । स्थितानां नित्यसंसारिणामपि मिश्रस्वभावानभिभव एव । कुतः तद्दृष्येः तेषां तस्मिन् मिश्रज्ञान एव तस्योदाहृतस्य दृष्येर्दर्शनादित्यर्थः ।

  1. ॐ अपि स्मर्यते ॐ ॥

कृष्णादिभिः (गीतायां) स्वभावानभिभवः “असुराः” इति (स्कान्दे) स्मर्यते च । अतोऽपि देवदानवमानवस्वभावानां नाभिभव इत्यर्थः ।

  1. ॐ विशेषानुग्रहं ॐ ॥

चशब्दो युक्तिसमुच्चये । यतः “#ृण्वे वी” (ऋ.6-47-16) इति श्रुतेः देवेषु परमेश्वरस्य विशेषानुग्रहञ्च दर्शयति प्रतिपादयति । अतो देवानामेव सम्यक् ज्ञानतत्फले नान्येषामित्यर्थः ।

  1. ॐ अतस्त्वितरञ्ज्यये लिंगाच्च ॐ ॥

तुशब्दोऽवधारणे । अतो देवभागादसुरभागस्य कदाप्यूनत्वाभावात् । इतरत् असुरवृन्दमेव । अतो देवभागाज्ज्यायः बहुलम् । कुतः लिंगात् “तस्मान्न जनतामियात्” इति (बृ.3-3-10) जनसङ्घप्रवेशनिषेधोक्त्यन्यथाऽनुपपत्तिरूपलिङ्गात् । चशब्दसूचित “ततः कनीयसा” इति (बृ.3-3-1) श्रुतेश्चेत्यर्थः ।

  1. ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॐ ॥

तद्भूतस्य तु देवभूतस्यैव । तद्भावः देवताभावः एवमसुरस्यैवासुरभावः जैमिनेराचार्यस्यापि सिद्ध एव । कुतः नियमातद्रूपाभावेभ्यः नासुरा इति चशब्दसूचितश्रुतेः “यो यद्रूपः” इति अतद्रूपशब्दोक्तान्यस्यान्यरूपत्वाभावश्रुतेः । अभावः अभूतिः । देवासुराणाम् । “ते भूतिः” इति (ऐ.आ.2-1-8) इति भावशब्दितश्रुतेरित्यर्थः ।

॥ 6 ॥ आधिकारिकाधिकरणम् ॥

  1. ॐ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॐ ॥

चशब्दः ज्ञानार्थिनां अयोग्याकांक्षावर्जनरूपेतिकर्तव्यतान्तरसूचक; । आधिकारिकमपि देवतापदमपीतरैर्नाकंक्ष्यम् । भगवदैश्वर्यादिकं तु सुतरामिति सूचयितुमपिशब्दः । कुतः पतनानुमानात् अयोग्येच्छात्वतः पतनस्य स्मार्तयुक्तिसिद्धत्वात् । अत एव तदयोगात् अयोग्याकांक्षाया कर्तुमयुक्तत्वादित्यर्थः ।

  1. ॐ उपपूर्वमपीत्येके भावशमनवत्तदुक्तम् ॐ ॥

भावशमनवत् भावे चित्तष शमनं भगवन्निष्ठा येषां ते भावशमनाः ऋषयः तत्पदं यथा नाकांक्ष्यम् । किमुत सुतरां देवादिपदमिति सूचयितुमपिशब्दः । इत्येके शाखिनः मन्यन्ते । कुतः यतो ज्ञानार्थिनां यथेतीन्द्रद्युम्नश्रुतौ । तदुक्तं तथोक्तम् । अत इत्यर्थः ।

  1. ॐ बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॐ ॥

बहिस्तु देवादिपदेभ्योऽन्यत्र । ज्ञाने भक्त्यादिविषये । उभयथाऽप्याकांक्षायां अनाकांक्षायामपि न दोषः । कुतः देवर्षिरिति स्मृतेराचाराच्च नानात्वमिति शुभाचारविधायकशब्दाच्चेत्यर्थः ।

॥ 7 ॥ फलश्रुत्यधिकरणम् ॥

  1. ॐ स्वामिन; फलश्रुतेरित्यात्रेयः ॐ ॥

समुदायविवक्षया स्वामिन इत्येकवचनम् । तथा च स्वामिनां देवानामेव । ज्ञानफलं भवति न प्रजानाम् । कस्मात् तेषामेव

ज्ञानस्वामित्वात् “यदु किञ्च” इति (माध्यान्दिन) तेषामेव फलश्रुतेश्चेत्येवमात्रेयाचार्यो मन्यत इत्यर्थः ।

  1. ॐ आÐत्वज्यमित्यौडुलोमिस्तस्महि परिक्रियते ॐ ॥

हि यस्मात् । तस्मै प्रजार्थं देवैः परिक्रियते प्रजाद्वारा ज्ञानं सम्पाद्यते । तस्मादाÐत्वज्यं आत्विर्ज्यमिवेति शेषः । ऋत्विजां यज्ञफलमिव प्रजानामप्यल्पज्ञानफलमस्तीत्यौडुलोमिराजार्यो मन्यत इत्यर्थः ।

  1. ॐ सहकायर्न्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ॥

तद्वतो प्रजावतो राज्ञः, विश्यवतो गुरोश्च । विध्यादिवत् विधानफलयोरिव । यथा प्रजानां शिष्याणां पालनव्याख्यानयोः राजगुरुसहकारित्वेन विधानं फलञ्च तयोरेव मुख्यतया स्वविहितज्ञानदाने प्रजानां सहकार्यन्तरविधिः देवैरनुग्राह्यरूपविशेषसहकार्यन्तरत्वेन करणम् । पक्षेणपक्षत्वेन । तृतीयं आत्रेयौडुलोमिपक्षापेक्षया तृतीयः । अयमेव बादरायणीयपक्ष इत्यर्थः ।

॥ 8 ॥ कृत्स्नभावाधिकरणम् ॥

  1. ॐ कृत्स्नभावात्तु गृहिणोपसंहारः ॐ ॥

यतः “कुटुम्बे” इति (छां.8-15-1) श्रुतौ गृहिणो गृहस्थस्यैव मोक्षफलोक्त्या पर्यवस्यति । कृत्स्नभावात सम्पूर्णगृहस्थधर्मवतो देवानपेक्ष्यैव । अतः श्रुत्यविरोधाच्च यतेरेव सर्वाश्रमिषूत्तमत्वमित्यर्थः ।

  1. ॐ मौनवदितरेषामप्युपदेशात् ॐ ॥

मौनवत् यतित्वस्येव । इतरेषशं अन्याश्रमधर्माणामपि । उपदेशात् “देवा एव ब्रह्मचारिणः” इति (कौण्ठरव्य) श्रुतावुक्तत्वात् । सर्वाश्रमिभ्यो देवानामुत्तमत्वमित्यर्थः ।

॥ 9 ॥ अन्वयाधिकरणम् ॥

  1. ॐ अनाविष्कुर्वन्नन्वयात् ॐ ॥

गुरुः अनाविष्कुर्वन्सभादिषु आविष्कारमकुर्वन्नेव । शिष्येभ्यो विद्यामुपदिशेत् । कुतः अन्वयात् अयोग्यानामपि ज्ञानप्राप्त्या अतिप्रसङ्गरूपयुक्तेरित्यर्थः ।

॥ 10 ॥ ऐहिकाधिकरणम् ॥

  1. ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ॥

अप्रस्तुतप्रतिबन्धप्रस्तुतप्रतिबन्धशब्दोक्तप्रारब्धकर्माभावे । अपरोक्षज्ञानमैहिकं श्रवणादीनां सम्पूर्तिजन्मन्येव भवति । प्रतिबन्धे तु जन्मान्तरे भवति । कुतः तद्दर्शनात् “श्रुत्वा” इति (सौपर्ण) श्रुतौ तथा प्रतिपादनादित्यर्थः ।

॥ 11 ॥ मुक्तिफलाधिकरणम् ॥

  1. ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ॥

एवं यथा ज्ञानेऽनियमः तथा मुक्तिफलानियमः । मोक्षाख्यफलेऽपि ज्ञानिनः तच्छरीरपातानन्तरमेव मोक्ष इति नियमो नास्ति । किन्तु असति प्रारब्धे तद्देहपातानन्तरमेव । सति तु तद्देहान्तरावसाने मोक्षो भवति । ननु कुत एवं कल्प्यत इत्यत उक्तम् । तदिति । तस्यां ब्रह्मसंस्थो इति श्रतौ तस्मिन् ब्रह्मणि अवस्थितस्य । तज्ज्ञानिन इति यावत् । अवधृतेः अमृतत्वमेत्येवेति मोक्षफलावधारणादित्यर्थः । अतः प्रतिबन्धकल्पनेति भावः । उक्तस्य सर्वस्यैतदध्यायार्थस्य प्रसिद्धत्वसूचनार्था द्विरुक्तिः ।

**इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां तृतीयाध्यायस्य चतुर्थः पादः ॥ **

————– —————

चतुर्थोऽध्यायः

॥ 1 ॥ वाङ्मनसाधिकरणम् ॥ ॥

ॐ वाङ्मनसि दर्शनाच्चशब्दाच्च ॐ ॥

वाक् वागभिमानिन्युमापदगृहीता वारुणी सौपर्णी च । मनसि मनोऽभिमानिरुद्रशब्दितशेषे गरुडे च विलीयते । कुतः वाचो मनोऽधीनत्वादिति शेषः । तत्कथम् । दर्शनात् तस्य प्रत्यक्षसिद्धत्वात् । किञ्च शब्दाच्च तथा श्रुतेश्चेत्यर्थः ।

  1. ॐ अत एव च सर्वाण्यनु ॐ ॥

चशब्दोऽप्यर्थः । सर्वाणि दैवतान्यपि । अनु यथाऽनुकूलम् । स्वस्वयाग्येषु देवेषु लीयन्ते । कुतः अत एव “अग्नौ” इति (गौपवन) श्रुतेरेवेत्यर्थः ।

॥ 2 ॥ मनःप्राणाधिकरणम् ॥

  1. ॐ तन्मन; प्राण उत्तरात् ॐ ॥

तन्मनः पूर्वोक्तमनोऽभिमानी शेषः सुपर्णश्च । प्राणे तच्छब्दितचतुर्मुखे । लीयते । कुतः उत्तरात् “मनः प्राणे” (छां.6-15-1) इत्युत्तरवाक्यादित्यर्थः ।

॥ 3 ॥ अध्यक्षाधिकरणम् ॥

  1. ॐ सोऽध्यक्षे तदुपगमादिभ्यः ॐ ॥

सः चतुर्मुखः अध्यक्षे अधिपतौ परमात्मनि लीयते । कुतः तदुपगमादिभ्यः परमात्मप्राप्त्यादिप्रतिपादकेभ्यः “सर्व” इत्यादिश्रुत्यादिभ्यः इत्यर्थः ।

॥ 4 ॥ भूताधिकरणम् ॥

  1. ॐ भूतेषु तच्छतेः ॐ ॥

विशिष्योक्तेभ्योऽन्येभ्यो देवाः । भूतेषु पञ्चभूतेषु । लीयन्ते । कुतः तच्छतेः “भूतेषु देवाः” इति (बृहत्) श्रुतेश्चेत्यर्थः ।

॥ नैकस्मिन् दर्शयतो हि ॐ ॥

नैकस्मिन् अग्वावेव सर्वे देवा न लीयन्ते । किन्तु यथायोगं सर्वभूतेषु । कुतः हि यस्मात् दर्शयतः “पृथिव्यामृभवः” इति “ऋभवः पृथिव्यामिति” महोपनिपच्चतुर्वेदशिखे च तथा प्रतिपादयतः । तस्मादित्यर्थः ।

॥ 6 ॥ समनाधिकरणम् ॥

  1. ॐ समना चासृत्युपक्रमादमृतत्वञ्चानुपोष्य ॐ ॥

आद्यश्चो नञः समाकर्षणार्थः । “द्वौवावेति” श्रुतिसमुच्चयो द्वितीयः । तथा च लक्ष्मीर्न लीयते । कुतः यतस्तस्याः अनुपेष्य परमात्मानमनुपास्यैव । अमृतत्वं नित्यमुक्तत्वम् । तत्कुतः । असृथ्युपक्रमात् कदाऽपि संसारोपक्रमाभावात् । सोऽपि कुतः यतः समना देशतः कालतः समो ना परमपुरुषो यस्याः सा समना तस्मादित्यर्थः ।

  1. ॐ सूक्ष्मं प्रमरणतश्च तथोपलब्धेः ॐ ॥

प्रकृतेरपि सूक्ष्मं ब्रह्म प्रमाणतः ज्ञानान3न्दादिगुरपरिमाणतश्चाधिकम् । कुतः तथोपलब्धेः “सर्वत” इति (तरश्रु) तथा श्रुतेः । अतोऽपि प्रकृतेः न ब्रह्म साम्यमित्यर्थः ।

  1. ॐ नोपमर्देनातः ॐ ॥

अतः साम्यतदभावयोः साधितत्वात् ।

नोपमर्देन स्वातन्त्ऱ्#ादिगुणाबाधेन । प्रकृतेः परमात्मना नित्यमुक्तत्वादिनैवसाम्यमित्यर्थः ।

  1. ॐ अस्यैव चोपपत्तेरूष्मा ॐ ॥

ऊष्मावत्वानूष्मावत्वप्रतिपादिका “द्विधा हीदम्” इति (सौपर्ण) श्रुतिरप्यस्यैव किञ्चित्साम्यरूपार्थस्यैवोपपत्तेः घटनायोपपादिका भवतीत्यथर्ः ।

  1. ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ ॥

प्रतिषेधात् ईश्वरस्यान्यसाम्यप्रतिषेधात् । प्रकृतेः देशकालव्याप्त्यादिनापि परमात्मसाम्यं नेति चेन्न । कुतः यतः शारीरात् जीवेनैवेश्­वरस्य साम्यं प्रतिषिध्यते न प्रकृतितः । अत इत्यथर्ः ।

  1. ॐ स्पष्यो ह्येकेषाम् ॐ ॥

हि यस्मात् । एकेषां शाखासु प्रकृतेः अथेति (माध्यन्दिन) समाऽसमत्ववादः स्पष्योऽस्ति तस्मादित्यर्थः ।

  1. ॐ स्मर्यते च ॐ ॥

कृष्णादिभिरुक्तार्थे मत्स्य इति (वाराहे) स्मर्यते चेत्यर्थः ।

॥ 7 ॥ पराधिकरणम् ॥

  1. ॐ तानि परे तथाह्याह ॐ ॥

तानि सर्वाणि दैवतानि चतुर्मुखद्वारा । परे परमात्मनि । लीयन्ते । कुतः हि यस्मात् तथाऽऽह सर्व इति (कौषारव) श्रुतिः तथाऽऽह तस्मादित्यर्थः ।

॥ 8 ॥ अविभागाधिकरणम् ॥

  1. ॐ अविभागो वचनात् ॐ ॥

भगवदिच्छातद्भक्तेच्छानाम् । अविभागो विषयैक्यम् । न तु विरोधः । कुतः वचनात् “एते देवाः” इति (गौपवन) श्रुतेरित्यर्थः ।

॥ तदोकोऽधिकरणम् ॥

  1. ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ ॥

तस्मिन्नुत्क्रान्तिकाले । तदोकोऽग्रज्वलनं तस्य परमात्मनः ओकसः आश्रयभूतस्य हृदयस्याग्रे ज्वलनं भवति । अथ तत्प्रकाशितद्वारः तेन प्रकाशेन विद्योतितमार्गः सन् । देहाज्जीव उत्क्रामति । ननु कथमेतद्युज्यते । विद्यासामर्थ्यात् ज्ञानसामर्थ्यात् । तच्छेषगत्यनुस्मृतियोगाच्च विद्याङ्गप्राप्यस्मरणसाहित्याच्च । किञ्च हार्दानुगृहीतः हृदयस्थभगवदनुगृहीतः सन् याति । कया शताधिकया सुषुम्नानाड्येत्यर्थः ।

  1. ॐ रश्म्यनुसारी ॐ ॥

रश्म्यनुसारी अन्तःस्थितादित्यप्रकाशानुसारी सन् जीवो निष्कामतीत्यर्थः ।

  1. ॐ निशि नेति चेन्न सम्बन्धात् ॐ ॥

ननु निशि आदित्यरश्मीनामभावात् । ज्ञानिनः उत्क्रमणं । नेति चेन्न न स्यादिति चेन्न । कुतः सम्बन्धात् सूर्यरश्मीनां सवर्दा सम्बन्धादित्यर्थः ।

  1. ॐ यावद्देहभावित्वाद्दर्शयति ॐ ॥

यावद्देहभावित्वात् रश्मिसम्बन्धस्य यावच्छरीरभावित्वात् । रात्रावपि ज्ञानिनः उत्क्रमणं युक्तम् । कुतः दर्शयति चो यतः । दर्शयति “संसृष्या” इति (माध्यन्दिनायन) श्रुतिः तथा प्रतिपादयति अत इत्यर्थः ।

  1. ॐ अतश्चायनेऽपि हि दक्षिते ॐ ॥

चशब्दः प्रतिज्ञाद्वयसमुच्चये । अपि दक्षिणे मरणादिति स्मृतिसत्वेऽपि । दक्षिणे अयने दक्षिणायनकाले । ज्ञानिनः उत्क्रान्तिर्युक्ता । कुतः अतः सौररश्मिसहस्रनाडीसम्बन्धस्य तदापि सत्वात् । हि यतः । एवं अतः दक्षिणायनदृष्यान्तेन रात्रावुत्क्रान्त्यभावो न वाच्य इत्यर्थः ।

॥ 10 ॥ योग्यधिकरणम् ॥

  1. ॐ योगिनः प्रति स्मर्येते स्मार्ते चैते ॐ ॥

चो यतः । एते ब्रह्मचन्द्रगती । योगिनः प्रति ज्ञानकर्मयोगिनः प्रति । स्मर्येते स्मृत्या उच्येते । स्मार्ते च स्वानुस्मतिसाध्ये च । गतीत्यादिना (अध्यात्मे) स्मर्येते । अतस्तयोर्न केवलं कालादिकतत्वमित्यर्थः ।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां चतुर्थाध्यायस्य द्वितीयः पादः ॥

॥ 1 ॥ अर्चिराद्यधिकरणम् ॥

  1. ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥

उत्क्रान्तो ज्ञानी अचिर्रादिना मार्गेण गच्छति । कुतः तत्प्रथितेःप्रस्य “तेऽचिर्षमभिसम्भवन्ति” इति (छां.5-10-1) श्रुतौ तस्यार्थस्य प्रसिद्धत्वादित्यर्थः ।

॥ 2 ॥ वायुशब्दाधिकरणम् ॥

  1. ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ॥

अविशेषविशेषाभ्यां वायोः प्राप्यत्वश्रुतेः उभयपर्यालोचनया वायोः द्वितीयप्राप्यत्वमेवेत्यर्थः ।

॥ 3 ॥ तटिदधिकरणम् ॥

  1. ॐ तटितोऽधि वरुणः सम्बन्धात् ॐ ॥

तटितोऽधि तटित्प्राप्त्यनन्तरं वरुणः प्राप्यः । कुतः सम्बन्धात् वरुणस्य तटित उपरि सम्बन्धादित्यर्थः ।

॥ 4 ॥ आतिवाहिकाधिकरणम् ॥

  1. ॐ आतिवाहिकस्तल्लिङ्गात् ॐ ॥

पूर्वं द्वितीयप्राप्यत्वेनोक्तो वायुरातिवाहिक एव न मुख्यः । कुतः तल्लिङ्गात् । पूर्वप्राप्यत्ववायुशब्दात् । अर्चिषः स इति रपतद्धर्मादेरित्यर्थः ।

  1. ॐ उभयव्यामोहात्तत्सिद्धेः ॐ ॥

सप्तम्यर्थे पञ्चमी । उभयव्यामोहात् पूर्वोक्तवायुरातिवाहिको मुख्यो वा उत्तरोक्तवायुरातिवाहिको मुख्यो वेति सन्देहे । तत्सिद्धेः तेन सिवस्पतित्वविशेषणेन तस्य उत्तरोक्तस्य वायोर्मुख्यत्वसिद्धः नानिर्णय इत्यर्थः ।

॥ 5 ॥ वैद्युताधिकरणम् ॥

  1. ॐ वैद्युतेनैव ततस्तच्छतेः ॐ ॥

ज्ञानी वैद्युतेनैव विद्युत्पतिना वायुनैव ब्रह्म गच्छति । न तु मध्ये ततः वायोरन्यः प्राप्योऽस्ति । कुतः तच्छतेः तस्य वायोरेव “स एनान् ब्रह्म गमयतीति” (छां.4-15-6) ब्रह्मगमयितृत्वश्रुतेरित्यर्थः ।

॥ 6 ॥ कार्याधिकरणम् ॥

  1. ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ ॥

कार्यं उत्पत्तिमच्चर्तुमुखाख्यं ब्रह्म । वायुर्गमयतीति स इति श्रुत्यर्थ इति बादरिराचार्यो मन्यते । कुतः अस्य चतुर्मुखस्यैव । गत्युपपत्तेः प्राप्यत्वोपपत्तेरित्यर्थः ।

  1. ॐ विशेषितत्वाच्च ॐ ॥

यदीति (कौषारव) श्रुतौ प्राप्तव्यब्रह्मणश्चर्तुर्मुखपदेन विशेषितत्वाच्चोक्तं युक्तमित्यर्थः ।

  1. ॐ सामीप्यात्तु तद्वयपदेशः ॐ ॥

यतस्तद्वयपदेशः “ब्रह्मवित्” इति (तै.2-1) परब्रह्मप्राप्तिश्रुतिः । सामीप्यात् चतुर्मुखं प्राप्याचिरेण परं प्राप्नोतीति कालसामीप्यादेव । तदनुसृत्यैव प्रवर्तते । अतो न तद्विरोध इत्यर्थः ।

  1. ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिदानात् ॐ ॥

कायर्#ात्यये महाप्रलये । तदध्यक्षेण सह कार्यस्वामिना चतुर्मुखेन सह । अतः चतुर्मुखात् । परं उत्तमं ब्रह्म । ज्ञानी गच्छति । अभिधानात् तथा श्रुतेरित्यर्थः ।

  1. ॐ स्मृतेश्च ॐ ॥

ब्रहम्णेति स्मृतेर्विद्यमानत्वाच्च ज्ञानी चतुर्मुखेन सह परं प्रापनोतीति सिध्यतीत्यर्थः ।

  1. ॐ परं जैमिनिर्मुख्यत्वात् ॐ ॥

ज्ञानी परं ब्रह्मैव प्राप्नोति । न तु कार्यब्रह्म । कुतः मुख्यत्वात् ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वादिति जैमिनिराचार्यो मन्यत इत्यर्थः ।

  1. ॐ दर्शनाच्च ॐ ॥

ज्ञानी परं ब्रह्मैव गच्छति । कुतः तेन श्रवणादिभिः परब्रह्मण एव दृष्यत्वादित्यर्थः ।

14 ॐ न च कार्ये प्रतिपत्त्यभिसन्धिः ॐ ॥

इतोऽपि ज्ञानिनः कार्यब्रह्मप्राप्तिरनुपन्ना । कुत; चो यतः । कायर्#े ब्रह्मणि विषये ज्ञानिनः प्रतिपत्त्यभिसन्धिः । प्रतिपविः उपास्ति; । अभिसन्धिः प्रप्नुवानीतीच्छा नास्ति । अत इत्यथर्ः ॥ 8 ॥

  1. ॐ अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च ॐ ॥

वायुरप्रतीकालम्बनान् व्याप्तोपासकानधिकारिणः नयति परं ब्रह्म गमयति । अन्यान् प्रतीकालम्बनान् प्रतीकशब्दितदेहान्त उपासकान् कार्यब्रह्म नयतीति ““स एनान्” इति (छां.4-15-6) श्रुत्यर्थ इति बादराणाचार्यो मन्यते । कुतः उभयथा च दोषात् । एनां व्यवस्थामनङ्गीकृत्य सर्वेषां एकैकप्राप्त्यङ्गीकारे कार्यब्रह्मपरब्रह्मप्राप्त्यङ्गीकारे कार्यब्रह्मपरब्रह्मप्राप्तिपक्षद्वयोक्तदोषप्राप्तेः । ननु यत्प्राप्तुमभिवाञ्छिति तत्प्राप्नोतीति (पाद्म) वचनात्तत्तदिच्छामात्रेण तत्तत्प्राप्तिसम्भवान्नोक्तव्यवस्थाङ्गीकार्येत्यत आह । तत्क्रतुश्चेति । अनेन स यथा कामो भवति तत्क्रतुः भवतीत्यादि (बृ.6-4-5) श्रुतिः गृह्यते । चशब्दो यत इत्यथर्#े । यतः स यथेति श्रुतिः तत्तत्प्राप्तीच्छामात्रेण तत्तत्प्राप्तिं प्रतिषिध्य तज्ज्ञानोपासनापरोक्षैरेव तत्प्राप्तिं वक्ति । अतस्तत्तदिच्छामात्रेणैव न तत्प्राप्तिः यज्यते इत्यर्थः ॥ 9 ॥

  1. ॐ विशेषं च दर्शयति ॐ ॥

चो यतः अन्तः प्रकाशा इति (चतुर्वेदशि) श्रुति; केचनाप्रतीकालम्बनाः केचन प्रतीकालम्बना इति विशेषं भेदं दर्शयति प्रतिपादयति । तस्माच्चोक्तं युक्तमित्यर्थः ॥ 10 ॥

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां चतुर्थाध्यायस्य तृतीयः पादः ।

॥ सम्पद्याधिकरणम् ॥

  1. ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ ॥

ज्ञानी सम्पद्य ब्रह्म प्राप्य । अविहाय ब्रह्मानतिक्रम्य । स्वेन आविभर्#ूतस्वरूपेण अवस्थितः सन् भोगान् भुङ्क्ते । कुतः शब्दात् “स एवं वित्” इति (सौपर्ण) श्रुतेरित्यर्थः ।

॥ 2 ॥ मुक्ताधिकरणम् ॥

  1. ॐ मुक्तः प्रतिज्ञानात् ॐ ॥

स तत्र पर्येतीति श्रुतौ मुक्त एवोच्यते । कुतः प्रतिज्ञानात् मुक्तादन्यस्य दिव्यभोगं प्रतिषिध्य “अहरहः” इति (बृहत्) श्रुतौ मुक्तस्यैव ब्रह्मप्राप्त्या दिव्यभोगोक्तेरित्यर्थः ।

। 3 ॥ आत्माधिकरणम् ॥

  1. ॐ अत्मा प्रकरणात् ॐ ॥

परं ज्योतिः शब्देन आत्मा परमात्मैवोच्यते न सूर्यः । कुतः प्रकरणात् अस्य वाक्यस्य परमात्मप्रकरणत्वादित्यर्थः ।

॥ 4 ॥ अविभागाधिकरणम् ॥

  1. ॐ अविभागेन दृष्यत्वात् ॐ ॥

अविभागेन परमात्मभुक्तभोगान् । क्रमेणैव मुक्तैः भोगाः भुज्यन्ते । कुतः दृष्यत्वात् “यानेवाहम्” इति (चतुर्वेद शि) श्रुतेरित्यर्थः ।

। 5 ॥ ब्राह्माधिकरणम् ॥

  1. ॐ ब्राह्येण जैमिनिरुपन्यासादिभ्यः ॐ ॥

ब्राह्मेण ब्रहम्सम्बन्धिदेहेनैव । मुक्तो भोगान् भुङ्#िक्त । कुतः उपन्यासादिभ्यः ब्रह्मणेति (माध्यन्दिनायन) श्रुतेः । आदिपदोक्तादत्त इति स्मृतेः युक्तेश्चेति जैमिन्याचार्यो मन्यत इत्यर्थः ।

  1. ॐ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॐ ॥

चितिमात्रेण ज्ञानैकस्वरूपदेहेन । मुक्तो भोगान्भुङ्क्ते । कुतः तदात्मकत्वात् । चिन्मात्रदेहस्यैव मुक्तस्वरूपत्वात् । तस्य च संसृत्यहेतुत्वादित्यौडुलोमिराचार्यो मन्त इत्यर्थः ।

  1. ॐ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॐ ॥

एवं डुलोम्युक्तप्रकारस्य । उपन्यासात् “स वा एषः” इति (सौपर्ण) श्रुतावुक्तत्वात् । पूर्वभावात् पूर्वस्मिन् जैमिन्युक्तपक्षेऽपि भावात् प्रमाणसद्भावात् । अविरोधं पक्षद्वयस्याविरोधम् । बादरायणाचार्ये मन्यत इत्यर्थः ।

॥ 6 ॥ सङ्कल्पाधिकरणम् ॥

  1. ॐ सङ्कल्पादेव च तच्छतेः ॐ ॥

चो विरुद्धपक्षव्यावृत्त्यर्थः । सङ्कल्पादेव स्वेच्छानुसारेणैव मुक्ता भागान् भुञ्जते । कुतः तच्छतेः तस्मिन्नर्थे स यदीति (छां.8-2-1) श्रुतेरित्यर्थः ॥

॥ 7 ॥ अनन्याधिपत्यधिकरणम् ॥

  1. ॐ अत एव चानन्याधिपतिः ॐ ॥

चशब्दो विरुद्धशङ्काव्यावतर्कः । अनन्याधिपतिः मुक्तः स्वोत्तमस्वकीयान्याधिपतियुक्तो न । कुतः अत एव सत्यसङ्कल्पत्वादेवेत्यर्थः ।

॥ 8 ॥ अभावाधिकरणम् ॥

  1. ॐ अभावं बादरिराह ह्येवम् ॐ ।

प्राकृतदेहाभावमङ्गीकृत्य चिन्मात्रदेहेन मुक्तस्य भोगोऽस्ति । एवं बादरिराचार्यो मन्यते । कुतः हि यस्मात् । अभावं प्राकृतशरीराभावम् । “अशरीरो वाव” इति (कौण्ठरव्य) श्रुतिराह । तस्मादित्यर्थः ।

  1. ॐ भावं जैमिनिविंकल्पाम्नात् ॐ ॥

जैमिनिः मुक्तानां भावं चिन्मात्रतिरिक्तदेहसद्भावं मन्यते । कुतः विकल्पाम्नानात् विकल्पस्योभयविधदेहस्याम्नानात् । चितावाऽचिता (उद्दालक) श्रुत्या प्रतिपादनादित्यर्थः ।

  1. ॐ द्वादशाहवदुभयविधं बादरायणोऽतः ॐ ॥

बादरायणः उभयविधं प्राकृतदेहभावाभावाख्यम् । मतं स्वमतं मन्यते । कुतः अतः प्रमाणसद्भावात् । कथमेतद्युज्यते । द्वादशाहवत् यथा द्वादशाहात्कः क्रतुरहीनसत्रोभयात्मकः तथैवेत्यर्थः ।

  1. ॐ तन्वभावे सन्ध्यवदुपपत्तेः ॐ ॥

सन्ध्यवत् यथा स्वप्नावस्थायां बाह्यदेहाभावेऽपि भोगसम्बन्ध; तद्वन्मुक्तावपि । तन्वभावेऽपि प्राकृतदेहाभावेऽपि । उपपत्तेः भोगस्य युक्तत्वात् देहाभावपक्षो युज्यत इत्यर्थः ।

  1. ॐ भावे जाग्रद्वत् ॐ ॥जाग्रद्वत् यथा जाग्रदवस्थायाम् । देहसद्भावेऽपि गोगसम्भवः । तद्वन्मुक्तावपि । भावे प्राकृतदेहसद्भावेऽपि भोगो यज्यत इत्यर्थः ।

  2. ॐ प्रदीपवदावेशस्तथा हि दर्शयति ॐ ॥

प्रदीपवत् यथा प्रदीपस्य दीपिकादिप्रवेशः तद्गततैलादिभोगः काष्र्ण्याद्यभोगश्च । तद्वन्मुक्तानामावेशः जडशरीरप्रवेशः । तत्र साधुभोगानुभवः दुःखाद्यननुभवश्चास्ति । कुतः हि यस्मात् । “तीणर्#ो हि” इति (बृ.6-3-22) श्रुतिः । तथा दर्शयति तथा प्रतिपादयति । तस्मादित्यर्थः ।

  1. ॐ स्वाप्ययसम्पत्त्वयोरन्यतरापेक्षमाविष्कृतं हि ॐ ॥

“स्वर्गे लोके” इति (कठ.1-12) वाक्यं स्वाप्ययसम्पत्त्योरन्यरतरापेक्षं अन्यतरविषयः । कुतः हि यस्मात् । अस्य चात्र पिता अपि तेति (बृ.6-3-22) श्रुत्या सुप्तिमुक्तिविषयत्वं आविष्कृतं प्रकटीकृतम् । तस्मादित्यर्थः ।

॥ 9 ॥ जगद्वयापाराधिकरणम् ॥

  1. ॐ जगद्वयापारवर्जम् ॐ ॥

मुक्तः जगत्सृष्ययादिव्यापारवर्जं यथा भवति तथा सर्वान्कामानाप्नोतीत्यर्थः ।

  1. ॐ प्रकरणादसन्निहितत्वाच्च ॐ ॥

चशब्दः साध्यसमुच्चये । “सर्वान् कामान्” इति (ऐ.आ.2-5-4) श्रुतौ जीव उच्यते । कुतः प्रकरणात् अस्य वाक्यस्य जीवप्रकरणत्वात् । तथा च न तत्रासङ्कोचेन जीवस्य सर्वकामभोग उपयुज्यते । किन्तु सङ्कोचेनैव । कुतः असन्निहितत्वात् जीवानां जगद्वयापारसामर्थ्यविदूरत्वादित्यर्थः ।

  1. ॐ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॐ ॥

मुक्तानां जागदैश्वर्यमस्तीत्यङ्गीकार्यम् । कुतः प्रत्यक्षोपदेशात् “ता योवेद” (तै.उ.1-5) इति श्रुत्या स्फुटं मुक्तस्याखिलदेवतापूज्यत्वस्य प्रतिपादनादिति चेन्न । कुतः आधिकारिकमण्डलस्थोक्तेः अत्र वाक्ये मुक्तहिरण्यगर्भस्यैव मुक्तस्वस्वाधिकारनियुक्तदेवतासमूहपूज्यत्वाभिधानादित्यर्थः ।

  1. ॐ विकारावर्ति च तथाहि दर्शयति ॐ ॥

चो नञोऽनुकर्षणार्थः । मुक्तानां विकारावर्ति । विकारं संसारमावर्तयतीति विकारावतिर् । संसारविषयकव्यापारो न । कुतः “इमम्” इति (छां.4-15-6) श्रुति; तथा दर्शयति प्रतिपादयति तस्मादित्यर्थः ।

॥ 10 ॥ स्थित्यधिकरणम् ॥

  1. ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ ॥

मुक्तस्य एकप्रकारेणैव अवस्थितिः न तु वृद्धिह्रासौ स्तः । कुत; यतः स एषः इत्यादि (जाबाल) श्रुतिः स्थितिमेकप्रकारेणैव अवस्थानमाह । न केवलमेतावत्किन्तु प्रत्यक्षानुमाने च ज्ञानिप्रत्यक्षकारणाभावलिङ्गे चैवं श्रुत्युक्तार्थम् । दर्शयतः ज्ञापयतः । अत इत्यर्थः ।

  1. ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ ॥

अन्यत्राविशेषं विना भोगमात्रस्य विशेषे सत्यपि मुक्तस्य साम्यशब्दितैकप्रकारोक्तिरूपलिङ्गात् न भोगविशेषः तद्बअद्धयादौ कारणमिति न मुक्तो वृद्धयादिमानित्यर्थः ।

॥ 11 ॥ अनावृत्त्यधिकरणम् ॥

  1. ॐ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॐ ॥

मुक्तस्यानावृत्तिपुनरावृत्तिः नास्ति । कुतः शब्दात् “न च पुनरावर्तते” इति (छां.8-15-1) श्रुतेरित्यर्थः ।

द्विरुक्तिरुक्तार्थस्यैवमेवेत्यवधारणार्था ।

मन्मानसाम्बुजस्थेन हरिणा चेक्षयाञ्जसा ।

भूतिदायकया कृष्णः प्रीयतां कमलालयः ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमद्रघुनाथतीर्थपुज्यपादानां शिष्येण जगन्नाथयतिना कृतायां ब्रह्मसूत्रदीपिकायां चतुर्थाध्यायस्य चतुर्थः पादः ॥ 4 ॥ 4 ॥

————- ———–

]