श्रीभाष्यश्रुतप्रकाशिकयोः जिज्ञासाधिकरणे विचारितान् कांश्चिद्विशेषान् अधिकृत्य मतिविशुद्धये प्रातः स्मरणीय श्रीमदय्या- स्वामिपादानुग्रहलब्धज्ञानेन निरूपणं दासेन व्यधायि । दोषाः विद्वद्भिः कृपया क्षन्तव्याः । यदि केचिद्गुणाः सन्ति, त आचार्यप्रसादायत्ता इति निवेद्यते । [[66]] वक्ता श्रोता वचनसमविषयः प्रीयतां वेङ्कटेशः श्रीनारायणयोगीन्द्रैरादिष्टो ग्रन्थशोधने । तद्भक्तया देवनाथोऽहं निबन्धं व्यदधामिमम् ॥ [[208]]