निर्गुणश्रुतीनां सगुणश्रुत्यपेक्षया बलवत्त्वमिति अपच्छेदा- धिकरणन्यायसञ्चारेण प्रतिपादयन्ति अद्वैतिनः । विशिष्टाद्वैतिनस्तु तस्य न्यायस्य नात्र प्रसरः, प्रकृते हि उपक्रमाधिकरणन्यायेन विरोधाधिकरणन्यायेन वा सगुणश्रुतीनामेव प्राबल्यम्, तदनुसारेण निर्गुणश्रुतीनामर्थवर्णनं कार्यमिति प्राहुः । एतत्तत्त्वशुद्धयर्थं तदधिकरणस्वरूपं तत्सञ्चारविषये श्रीभाष्यकारानुयायिनां निर्णया लिख्येते ।
अपच्छेदाधिकरणस्वरूपम्
पूर्वमीमांसायां षष्ठाध्याये पश्चमपादे एकोनविंशमधिकरणम् अपच्छेदाधिकरणम् 268 । तत्र विषयवाक्यं यद्युद्गाता अपच्छिन्द्यात् अदक्षिणं तं यज्ञमिष्ट्वा तेन पुनर्यजेत तत्र तद्दद्यात् यत् पूर्वस्मिन् दास्यन् स्यात्, यदि प्रतिहर्ता, सर्ववेदसं दद्यात्, यदि प्रस्तोता, ब्रह्मणे वरं दद्यात्” इति । अस्मिन् वाक्ये ज्योतिष्टोमे दक्षिणादानात् प्राक् बहिष्पवमानार्थं तद्देशं कच्छं धृत्वा प्रसर्पतामुद्गातृप्रतिहर्तृप्रस्तोतॄणां मध्ये तत्तत्कर्तृकापच्छेदे निमित्ते प्रायश्चित्तविशेषो विधीयते । अपच्छेदो नाम विभागः, तज्जनिका क्रिया था । यदा क्रमेण उद्गातृ- प्रतिहर्त्रेरपच्छेदो भवति, तदा पूर्वोत्पन्ननिमित्तप्रयुक्तं प्रायश्चित्तं कार्यं वा, उत उत्तरोत्पन्ननिमित्तप्रयुक्तं प्रायश्चित्तं कार्यमिति संशयः । [[194]]
पूर्वपक्षः
पूर्वपक्षः- क्रमेण निमित्तद्वयसन्निपाते प्रथमनिमित्तप्रायश्चित्तमेव कार्यम् । असञ्जातविरोधित्वेन पूर्णनिमित्तं बलीयः । तन्निमित्तप्रयुक्त- नैमित्तिकज्ञानं सञ्जातविरोधिद्वितीयनिमित्तकनैमित्तिकज्ञानस्योत्पत्तिं [[66]] नानुमन्यते । उपक्रमपर्यालोचनयैण उपसंहारस्यात्मलाभात् उपक्रमापेक्षया उपसंहारो दुर्बलः । अयमेव असञ्जातविरोधित्वन्यायसारः। तृतीयाध्याये तृतीयपादे प्रथमाधिकरणे तन्नयायो निरूपितः । तथाहि- ज्योतिष्टोमे “प्रजापतिरकामयत” इत्यारभ्य " अग्नेर्ऋग्वेदः” वायोर्यजुर्वेदः-आदित्यात्सामवेदः इत्युपक्रम्यउक्तम्” उच्चैर्ऋचा क्रियते, उपांशु यजुषा, उच्चैः साम्ना” इति। तत्र उच्चैस्त्वादिकं मन्त्रस्यैव धर्मः, न तु वेदस्य । उपसंहारगतस्यापि ऋगादिशब्दस्य अप्राप्तविषय- तु प्रधानविध्युद्देशगतत्वेन प्राबल्यात् । उपक्रमगतस्यापि वेदशब्दस्य तद्विपरीततया दुर्बलत्वमिति मन्त्रो यजुर्वेदे पठितोऽपि उच्चैः प्रयोक्तव्य इति पूर्वपक्षे सिद्धान्तः - अर्थवादगतोऽपि वेदशब्दोऽनु- पसञ्जातविरोधित्वात्, उपसञ्जातविरोधिनम् ऋगादिशब्दं मुख्यार्थात् प्रच्याव्य वेदे लाक्षणिकत्वं नयति । उपक्रम एवागगतं, प्रजापति- सृष्टाग्न्यादिसृष्टत्वेन वेदानां स्तवनात्, तत्सम्बन्धि किञ्चित् विधित्सितम् इति । तद्विशेषमात्रं विधितः प्राप्तव्यम् इति, प्राप्तार्थमृगादिपदं लक्षणां सहते । अन्यथा उपक्रमोपसंहारयोरेकवाक्यत्वायोगात् इति, [[195]] ऋग्वेदविहितं कर्म उच्चैः कर्तव्यम् इति । एवं च प्रकृतेऽपि उत्तरनैमिकशास्त्रस्य पूर्णनैमित्तिकशास्त्रेण बाधः । अथवा प्रकृते “पशुना यजेत” छागस्य वपाया मेदस" इति वाक्यद्वय इव सामान्यविशेषन्यायो न प्रवर्तते । उभयोः वाक्ययोः मध्ये एकस्याप्रामाण्यमपि न शङ्कयम्, उभयोः वेदवाक्यत्वेनान्यतरस्याप्रामाण्यायोगात् । अपि च अनुष्ठानवेलायां यत् निमित्तगतं पौर्वापर्यं, तत् न शास्त्रार्थनिश्चया- योपयुज्यते, अतोऽपच्छेदद्वयस्य क्रमेण सन्निपाते नैमित्तिकद्वयस्य विकल्प एव इति पूर्वपक्षः । अधिकरण सिद्धान्तः- “पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् ” 269 इति सिद्धान्तसूत्रम् । पूर्णस्योत्पत्तिकाले विरोध्यभावात् असञ्जातविरोधित्वेनोत्पत्तिः सुवचा। उत्तरस्य तु स्त्रोत्पत्तिकाले विरोधिसद्भावात् तदबाधेनोत्पत्त्यनुपपत्त्या पूर्व बाधित्वैवोत्पत्तिरिति अनन्यथासिद्धत्वात् उत्तरस्य प्राबल्यम् । यथाहुः- पूर्वं परमजातत्वात् अबाधित्वैव जायते । पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिद्ध्यति ॥ इति । आहुरत्र सोमनाथयाजिनः 270 “आख्यातप्रत्ययः शक्तिसहकारेणार्थं ब्रूते। आख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणी इति न्यायात् । पूर्वस्मिन् [[196]]
नौमित्तिके सति उतरस्य नैमित्तिकस्यानुष्ठानमशक्यम् । नहि उद्गात्रपच्छेदनिमित्तकं प्रायश्रितम् अदक्षिणयज्ञयजनपूर्णक सदक्षिणयज्ञकरणं सर्ववेदसदानावधिकतत्प्रयोगसमापनरूपप्रतिहर्त्र- पच्छेदनिमित्तकप्रायश्चित्तञ्चैकस्मिन् प्रयोगे प्रवेशमर्हतः । अतः पूर्णाबाधेनोत्तरस्योत्पत्तेरभावात् उत्तरेण शास्त्रेण पूर्वशास्त्रं बाध्यत एव। ज्योतिष्ठोमे " तस्य द्वादशशतं दक्षिणा " 271 इति विहिता द्वादशशतदक्षिणा नैमित्तिकया सर्ववेदसदक्षिणया बाध्यते, ( तच्छास्त्रेण वा नित्यदक्षिणा- विधायकं शास्त्रं बाध्यते) अतः द्वादशशतदक्षिणाविधायकशास्त्रस्य निमित्तरहितप्रयोगविषयकत्वमिति सङ्कोचः कल्प्यते, तथैव परेण नैमित्तिकेन प्रायश्चितेन पूर्वस्य नैमित्तिकप्रायश्चित्तस्य परत्वाविशेषा- देव बाधः, ततश्च पूर्वनैमित्तिकशास्त्रस्य परनिमित्तरहितप्रयोगविषयकत्वं कल्प्यते । यदुक्तम् - अनुष्ठानगतं पौर्वापर्यं शास्त्रार्थनिर्णयस्य कथं हेतुरिति, तदपि अनेन समाहितम् । शास्त्रार्थावधारणवेलायाम् अनुष्ठानकालीनपौर्वापर्यस्यालोचनया प्रायश्चित्तशास्त्र्योः व्यवस्थित- विषयकत्वं कल्प्यत इत्यदोषात् । यत्र एकैकनिमित्तस्य सन्निपातः, तत्र तत्तन्निमित्तकप्रायश्चित्तमनुष्ठेयम्, यत्र तु क्रमेण निमित्त- द्वयसन्निपातः तत्र पूर्णाबाधेनोत्तरस्योत्पत्त्यसम्भवात् द्वितीयनिमित्तकं प्रायश्चित्तमेव कर्तव्यम् इति व्यवस्था । यदुक्तम्- असञ्जातविरोधि- त्वन्यायेन पूर्वनिमित्तकमेव प्रायश्चित्तमनुष्ठेयम् 272 इति, तदपिन, [[197]]
तन्यायनिदर्शनस्थले “अग्नेऋग्वेदोऽजायत" " उच्चैर्ऋचा" इति वाक्यद्वये, द्वितीयवाक्यस्य पूर्णवाक्यैकवाक्यतया स्वार्थबाधकत्वस्य सिद्ध्यनुरोधेन द्वितीयणाक्यस्थ ऋक्शब्दस्य प्रथमवाक्यानुरोधेना- र्थवर्णनं कार्यम्। प्रकृते तथा नास्ति । परशास्त्रजन्यज्ञानस्य पूर्णशास्त्र - जन्यज्ञाननिरपेक्षेणैव स्वार्थबोधकत्वात् । परशास्त्रस्य बाधकत्वं हीत्थं वर्णनीयम् । यत्रापच्छेदद्वय- रूपनिमित्तद्वयं क्रमेण जायते, तत्र पूर्वापच्छेदरूपनिमित्तप्रयुक्त- नैमित्तिकप्रायश्चित्तविधायकशास्त्रमनपेक्ष्य स्वार्थबोधकं द्वितीया - पच्छेदनिमित्तक प्रायश्चित्तविधायकशास्त्रं तज्जनितप्रमितिः वा प्रकृतेऽसञ्जातविरोधित्वन्यायस्याप्रसक्तेः (परविज्ञानहेतुभूतायाः सामग्रचाः पूर्ववाक्यजन्यज्ञानघटितत्वाभावात् पूर्वशास्त्रनिरपेक्षत्वेन परवाक्यस्य प्रमित्युत्पादकत्वात् तन्न्यायाप्रवृत्तिरिति यावत्) पूर्ववाक्यघटितप्रमाणजन्यज्ञानस्य परनिमित्तवत्प्रयोगविषयकत्वांशे मिथ्यात्वं कल्पयति । पूर्णनिमित्तप्रायश्चित्तबोधकवाक्यजन्यज्ञानं परनिमित्तघटितप्रयोगविषयकं चेत् भ्रम इत्यर्थः । न च नित्यापेक्षया नैमित्तिकस्य यथा निमित्तसन्निपाते निरवकाशत्वं तथा प्रकृते नास्ति उभयोरपि प्रायश्चित्तयोरेकैकविषये सावकाशत्वात्, अतः विनिगमनाविरहेण पूर्वापच्छेदनिमित्तक- [[198]]
प्रायश्चितविधायकशास्त्रजन्य प्रमितिः परनिमित्तकप्रायश्चित्तबाधक- वाक्यजन्यज्ञानविशेष्यकपूर्वनिमित्तवत्प्रयोगविषयकत्वप्रकारक- ज्ञानस्य भ्रमत्वं कुतो नापादयतीति वाच्यम्, तादृशज्ञानरूपस्य धर्मिणः पूर्वनिमित्तोपनिपातवेलायां नियमेन उपस्थित्यभावात् " तज्ज्ञानं पूर्वनिमित्तवत्प्रयोगविषयकमिति ज्ञानं भ्रम इति कल्पनस्य दुःशकत्वात्। परनिमित्तोपनिपातवेलायां तु पूर्वनिमित्तकप्रायश्चितविषयकज्ञानं परनिमित्तवत्प्रयोगविषयकमिति धर्मिज्ञानस्य सत्त्वात् तद्विशेष्यक- भ्रमत्वकल्पना युक्तैव । परनिमित्तवत्प्रयोगः पूर्णनिमित्तक - प्रायश्चित्तघटितः इति वा धर्मिज्ञानस्याकारः । न च परनिमित्तोप- निपातानन्तरमेव पूर्वज्ञानेन द्वितीयज्ञाने मिथ्यात्वं कल्प्यते, तत्र हि नियमेन धर्मिज्ञानस्य सम्भवात् पूर्वेणैव परस्य बाधः इति वाच्यम्, परनिमित्तोपनिपातानन्तरं यत्र पूर्ववाक्यघटितप्रमाणस्य विस्मरणम्, तत्र पूर्वप्रमाणजन्यप्रमित्या उत्तरज्ञाने भ्रमत्वकल्पनायोगात् । तत्र पूर्वप्रमाणस्मरणकल्पने तु गौरवम् । अस्मन्मते तु यत्र दैववशात् । i पूर्वप्रमाणस्मरणम्, तत्र परेण पूर्वस्य बाधः, यत्र न पूर्वप्रमाणस्मरणम्, तत्र परशास्त्रस्यैव प्रवृत्तिरिति परप्राबल्यमक्षतमेव । अत्र कानक्रमः खण्डदेवाचार्यैः प्रदर्शितः 273 । परनिमित्तोपनिपाते तन्निमित्तकविषयक- वाक्यार्थज्ञानं पूर्वविज्ञानस्मरणं च ततः परज्ञानस्य तेन सह विरोधज्ञानं, ततः तेनापेक्षाबुद्ध्यात्मकेन विनश्यदवस्थेन चतुर्थक्षणे पूर्वविज्ञानस्य भ्रान्तित्वकल्पना इति । [[199]]
ननु पूर्वापरापच्छेदयोः क्रमभावित्वे सति पूर्वापच्छेदसम्भवेना- न्यथाकर्तव्यो यागः परापच्छेदेन तद्विपरीततया कर्तव्यो भवतीति न युज्यते बदरीफले कालभेदेन रक्तत्वश्यामत्वयोः सत्त्वेन तद्विषयकयोः क्रमिकज्ञानयोः प्रमात्वस्येव प्रकृते प्रायश्चित्तद्वयस्य विषयस्य एकप्रयोगेऽभावात् तद्विषयकज्ञानयोः प्रामाण्याभावप्रसङ्गात् इति चेन्न, निमित्तद्वयगतिप्रयोगे पूर्णशास्त्रस्य प्रामाण्याभावेऽपि तन्मात्र - निमित्तकप्रयोगे तच्छास्त्रस्य प्रामाण्यात् । सूत्रार्थस्तुप्रकृतिगत्-यथा प्राकृतस्यप्रकृतिवत् विकृतिः कर्तव्या इति अतिदेशेन प्राप्तस्य कुशादेः “शरमयं बर्हिर्भवति” इति विकृतौ विहितेन शरादिना बाधेन दौबल्यम्, तथा पूर्वापरनिमित्तकयोः तद्विषयकशास्त्र्योः वा मध्ये पूर्वस्य नैमित्तकस्य तच्छास्त्रस्य वा दौबल्यम्। तदयं सङ्क्षेपतः निरूपितोऽधिकरणार्थः । श्रुतौ न्यायसञ्चारविमर्शः वेदान्तवाक्यैः कर्मप्रतिपादकवाक्यानि, तथा वेदान्तवाक्येष्ठोव निर्गुणवाक्यैः सगुणवाक्यानि अपच्छेदन्यायेनैव बाध्यन्ते इति पूर्वपक्षः-
सिद्धान्तः
अयमत्र सिद्धान्तः- सगुणनिर्गुणवाक्ययोः विरोध एव नास्ति, निर्गुणमित्यादि श्रुत्या हि हेयगुणनिषेधस्यैव स्पष्टं प्रतीयमानत्वात्। भाषितं भगवता सगुणनिर्गुणवाक्ययोः विरोधाभावात् अन्यतरस्य मिथ्याविषयता- ८८ [[200]]
श्रयणमपि नाशङ्कनीयम् 274 इति । तयोः विरोधोऽस्तीति चेदपि अपच्छेदन्यायो न प्रवर्तते । “अपच्छेन्यायो हि अनियतविरोध पौर्वा- पर्यविषयः । उद्गातृप्रतिहर्भोरुभयोरपच्छेदनियमो नास्ति, तत्रापि क्रमेणापच्छेदोऽप्यनियतः । क्रमनियमे तु सर्वस्वदक्षिणाकत्व अदक्षिणाकत्वरूप विरोधनियमः । उभयोरप्यपच्छेदे तस्य क्रमभावित्वे उद्गात्रपच्छेदः पूर्वभावी, इतरस्तु चरमभावीति वा विपर्ययेणेति वा नियमोऽपि नास्ति । सगुणनिर्गुणवाक्यविरोधस्तु स्वरूपप्रयुक्तः, विधिनिषेधरूपतया नियतपौर्वापर्यश्च । अतो विरोधाभ्युपगमेऽपि अनियतविरोधपौर्वापर्यविषयोऽपच्छेदनयो नात्र प्रवर्तते 275 इति श्रुतप्रकाशिकायां स्पष्टीकृतम् । [[1]] विरोधाधिकरणन्यायो यत्र प्रर्वतते, तत्र हि विरोधः पौर्वापर्यञ्च नियते । यथा-“औदुम्बरी स्पृष्ट्वोद्गायेत्” इति प्रत्यक्षश्रुतेः “औदुम्बरी सर्वा वेष्टयितव्या” इति स्मृतेश्च पौर्वापर्यं नियतम् । श्रुतिः निरपेक्षतया स्वार्थं प्रतिपादयति, स्मृतिश्च स्वमूलभूतश्रुत्यनुमानसापेक्षत्वेन स्वार्थप्रतिपादनेन मन्दगतिः, अतः पौर्वापर्यं नियतम् । तथा औदुम्बरीस्पर्शनसर्ववेष्टनयोः विरोधोऽपि नियतः । अतः उत्तरशास्त्रानुदय एव । तथा च सगुणनिर्गुणवाक्ययोः विरोधाभ्युगमेऽपि विरोधा- धिकरणन्यायात् सगुणशास्त्रप्राबल्यमेव स्थितम् । अथवा उपक्रमा- धिकरणन्यायेन सगुणशास्त्रस्य बलवत्त्वम् 276 । यथा- “प्रजापतिः [[201]]
| वरुणायाश्वमनयत् । स्व स्त्रां देवतामार्च्छत् । स पर्यदीर्यत । स एतं वारुणं चतुष्कपालमपश्यत् । तन्निरपत्" इत्यादिवाक्यस्थले । तत्र उपक्रमानुरोधेन उपसंहारस्थग्रहधातोः दाने लक्षणा क्रियते । अन्यदप्युपक्रमाधिकरणं पूर्णमेव " अग्रऋग्वेद” इति विषयवाक्य- विचाररूपं लिखितम् । एवं च उपक्रमाधिकरणन्यायेन पूर्वस्य सगुणवाक्यस्यैव प्राबल्यम् । अपच्छेदन्यायस्यात्र यदि प्रवृत्तिः स्यात् तदा पौर्वापर्यस्य विरोधस्य चानियमोऽपेक्षितः । तयोश्च नियतत्वात् नात्र तन्यायः प्रवर्तते । उक्तं च प्राचीनैः- पौर्वापर्यं विरोधश्च पूर्वाप्रामाण्यमेवच । नियमान्नास्ति यत्रासावपच्छेदनयो भवेत् ॥ [[66]] [[66]] इति । न्यायसुदर्शने तु “ अविशेषेण सर्वान् गुणान् निषेद्धु- मुपक्रान्तः " 277 निर्गुणमित्यादिवाक्यविशेषः “ अपहतपाप्मा " इत्यादिविशेषनिषेधवशात् गुणविशेषनिषेधे पर्यवस्यति इति प्रतिपादितम् । अयमत्र सारः- “निर्गुणम्” 278 इति श्रुतिः सङ्कोचं विना गुणसामान्यनिषेधपरा, असङ्कुचितनिर्वाहे सङ्कोचेन हेयगुणमात्रनिषेधपरतया तस्या [[202]]
निर्वाहस्यानुचितत्वात्। तर्हि सगुणभूतीनां प्रमाणत्वाभावः प्रसज्येतेति न शङ्कयम्, अपच्छेदन्यायेन तासां बाधितत्वात् । तासां बाधेऽपि उपासनासु आकारसमर्पकतया साफल्यं भवेदेव । अपच्छेदन्याय- निदर्शनेऽपि परनिमित्तरहितप्रयोगे पूर्वनिमित्तप्रयुक्तप्रायश्चित्तशास्त्रस्य प्रामाण्यसम्भवस्य दर्शितत्वात्। न चापच्छेदनयावतारः प्रकृते नास्तीति वाच्यम्, अपच्छेदस्थले प्रमाणपौर्वापर्यस्य निमित्तपौर्वापर्य - मात्राधीनत्वात्, प्रकृतेऽपि अनन्यापेक्षसगुणशास्त्रस्य, निषेध्य- प्रसङ्गसापेक्षनिर्गुणशास्त्रस्य च पौर्वापर्यसम्भवात्। प्रमाणपौर्वापर्यं यत्र निमित्तयोः क्रमसन्निवेशेन जन्यं पूर्वापरीभावापन्नं नौमित्तिक प्रायश्चित्तद्वयविषयानुसन्धानद्वयं तत्र विवक्षितम् । एवं रीत्या अग्नीषोमीयपशुवाक्यहिंसानिषेधवाक्यस्थले नापच्छेदन्यायप्रवृत्तिः, तत्राग्नीषोमीयपशुहिंसाविधायकवाक्यस्य सर्वथा अप्रामाण्य- प्रसङ्गेनापच्छेदन्यायाप्रसरात्। प्रकृते चोपासनाविधिषु सगुणवाक्यानां समन्वयेन तद्वाक्यानां बाधितत्वेऽपि न वैयर्थ्यम्। अतोऽत्रापच्छेद- न्यायस्य प्रसर इति पूर्वपक्षः । सिद्धान्तस्तुसगुणनिर्गुणवाक्यविषये उत्सर्गापवादन्याय एव प्रवर्तते । उभयोः शास्त्र्योः वस्तुतो विरोध एव नास्ति। निषेध्यविधेययोर्भेदेन विषयव्यवस्थापनं “निर्गुणम्” इत्यत्र गुणशब्दस्य गुणविशेषपरत्वे एव उपपद्यते । न चासङ्कुचितनिर्वाहे सति सङ्कोचोऽनुपपन्न इति शङ्कयम्, विरोधाभावेऽसङ्कोचा- [[203]]
भागस्येष्टत्वेऽपि विरोधस्य प्रकृतेऽनिवार्यत्वात् सङ्कोचस्यादोषत्वात् । अपच्छेदन्यायस्तु अनियतविरोधपौर्वापर्यविषय इति भाट्टदीपिकादिषु स्पष्टमेवेति तन्न्यायो नात्र प्रवर्तते । सगुणनिर्गुणशास्त्र्योः गिरोधो नास्ति । गिरोधे स्वीकृते विरोधाधिकरणन्यायः, उपक्रमाधिकरणन्यायो वा भवेत्, तदानीं परस्यैव शास्त्रस्याप्रामाण्यं स्यात् । अत्र तु सामान्यशब्दस्य " निर्गुणम्" इत्यत्र गुणशब्दस्य विरोधपरिहाराय उपात्तविशेषरूपसत्यसङ्कल्पत्वादिभिन्नविषये सङ्कोचरूपः सर्गापवादन्यायो भवति । तत्त्ववेदनस्यैव मोक्षहेतुत्वात्, भक्तिरूपापन्नोपासनस्यैव तोपायत्वात् तस्य च सगुणविषयकत्वावश्यं भावात् सगुणशास्त्रस्य मिथ्याविषयकोपासनपरत्वनिरूपणमपि असङ्गतम्। न चाद्वैतशास्त्रस्य ब्रह्मस्वरूपमात्रपरत्वात् न सगुणशास्त्रसापेक्षत्वम् इति नियत- सापेक्षत्वाभावात् कथमुपक्रमाधिकरणन्यायप्रसरः श्रुतप्रकाशिका - यामुक्त इति वाच्यम् । प्रपश्चाभावत्वेन ब्रह्मणो बोधनस्य निर्गुण- वाक्येनासम्भवे प्रपञ्चबाधासिद्धेः सर्वसत्यत्वापत्तेः । अतोऽद्वैतशास्त्रं द्वैतशास्त्रपूर्वकमेव प्रवर्तत इति स्वीकार्यम् । एवं पूर्णात्परबलीयस्त्वं तत्र नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ॥ [[204]]
इति वार्तिकमपि श्रुतप्रकाशिको क्तमर्थमुपो द्वलयति । एतत्सर्वमभिप्रेत्य श्रीमद्वेदान्तदेशिकैरभ्यधायि । “अपच्छेदनयात् पूर्वं त्याज्यम् इति चेत्-तस्यानियतविरोधपौर्वापर्यविषयत्वात् । नियमे हि विरोधनयात् परानुत्पत्तिरेव । न च विषयव्यवस्थया विरोधपरिहारे सति अन्यतरात्यन्तबाधकापच्छे दन्यायागतारो युक्तः । गुणनिषेधवचसामुत्सर्गापवादन्यायेन विहितमङ्गलगुणव्यति- रिक्तविषयत्वात् श्रूयमाणे हेयगुणनिषेधे पर्यवसानात् । उक्तं च तत्त्वसारे-279 यद्ब्रह्मणो गुणशरीरविकारजन्म कर्मादिगोचरबिधिप्रतिषेधवाचः । अन्योन्यभिन्नविषया न विरोधगन्धर्महन्ति तन्न विधयः प्रतिषेधबाध्याः इत्यादि ॥ इति ।
प्रत्यक्षप्राबल्यविषये
प्रत्यक्षप्राबल्यविषयेऽपच्छेदन्यायसञ्चारः शास्त्रप्रत्यक्षयोः बाध्यबाधकभावविषयेऽपच्छेदन्यायस्य सञ्चारोऽस्तीति पूर्वपक्षीकृत्य नात्र तन्न्यायः प्रवर्तत इत्याहुः व्यासतीर्थाः। श्रीभाष्यानुयायिनस्तु अपच्छेदन्यायस्य शास्त्रविषये एव सञ्चारमापाद्य तन्यायस्याप्रवृत्तिं निरणयन् । श्री. उ. वे. उत्तमूरुस्वामिनः प्रत्यक्षादि प्राबल्यमेवापच्छेदन्यायात् सिद्ध्यतीति प्रतिपादयन्ति । 280 तथाहि- [[205]] , अद्वैतश्रुतितः द्वैताभावबोधस्य जननेऽपि द्वैतं न निवर्तते । पुनर्व्यवहारार्थतया प्रत्यक्षं सगुणशास्त्रं च प्रवर्तते तच्च अद्वैतश्रुतिनिरपेक्षमेण द्वैतं बोधयत्, अद्वैतश्रुतिं परत्वादपच्छेदनयेन बाधेत । न चाद्वैतश्रुतितात्पर्यज्ञानदशायां प्रत्यक्षादेरप्रामाण्यस्य निश्चितत्वात् अप्रमाणतया निश्चितेन प्रत्यक्षादिना कथमद्वैतशास्त्रस्य बाध इति वाच्यम्, प्रत्यक्षादेरप्रमाणत्वस्यानिश्चयात् । प्रत्यक्षा- द्वैतशास्त्र्योः कतरस्य प्रामाण्यमिति निश्चयार्थं हि अपच्छेदन्यायो ``वेचार्यते । न चाभावस्य प्रतियोगिनिरूपणाधीननिरूपणत्वात् भेदग्राहिप्रत्यक्षापेक्षया अद्वैतशास्त्रमेण परमिति वाच्यम् । परत्वस्य सापेक्षत्वप्रयुक्तत्वाभावात् । अन्यथा अपच्छेदन्यायनिदर्शनस्थले पूर्वात्तरयोः निमित्तयोः तन्निमित्तकप्रायश्चित्तशास्त्र्योः वा परस्परं सापेक्षत्वाभावात् परत्वप्रतिपादनानुपपत्तेः। सापेक्षत्वेन परत्वं चेत्, निरपेक्षत्वे एवापच्छेदन्यायः प्रवर्तत इति कथनमयुक्तं भवेत् । ननु नियतसापेक्षत्वेऽपि अपच्छेदन्यायो भवेदेव । अतोऽपच्छेदन्यायोऽनियतविरोधपौर्वापर्यविषय एवेति कथनं न युक्तम्। अत एव नित्यनैमित्तिकस्थले नैमित्तिकस्य नित्यसापेक्षत्वात् परेण पूर्वबाध उपपद्यते इति चेन्न, “सप्तदश वैश्यस्य” इत्यादेः नैमित्तिकस्य [[206]]
साप्तदश्यस्य पश्चदश सामिधेनीरनुब्रूयादितिविहितनित्यपाश्चदश्यादि सापेक्षत्वाभावात् तस्मात् पश्चात् ज्ञातत्वे परत्वम् इत्येव सम्यक् । एवं च द्वैतप्रत्यक्षस्य परत्वात् तेनाद्वेतश्रुतिर्बाध्यत एव । न चैवं पुनः पुनः द्वैतप्रत्यक्ष- द्वैतश्रुति - अद्वैतश्रुतीनां प्रवर्तने कस्यापि परत्वं दुर्निर्णेयमिति कथमपच्छेदनयात्-द्वैतप्रत्यक्षसगुणशास्त्र्योः प्राबल्यम् इति वाच्यम्, निरपेक्षत्वविशिष्टपरत्वेन द्वैतप्रमाण एवापच्छेदन्याय- प्रवर्तनस्योचितत्वात् । एवं रीत्या श्री. उ. वे. उत्तमूस्वामिनः द्वैत- प्रत्यक्षादेरपच्छेदनयेन प्राबल्यं निरूपयामासुः । 281 वस्तुतस्तु द्वैताद्वैतश्रुतिविषयेऽपच्छेदनयस्य प्रवृत्तिमाशङ्कय तत्र तन्न्यायः न प्रवर्तते तयोः श्रुत्योर्विरोधाभावात्, विरोधे सति विरोधाधिकरणन्यायेन उपक्रमाधिकरणन्यायेन वा सगुणश्रुतेरेव बलीयस्त्वम् इति श्रुतप्रकाशिकाया रीतिः । [[207]]