ब्रह्मणः सर्वशब्दवाच्यत्वे सम्भाविता आक्षेपाः तत्परिहाराश्च॥ भगवद्रामानुजाचार्यैः “चराचरव्यापाश्रयस्तु स्यात्तद्वय- पदेशोऽभाक्तः तद्भावभावित्वात् " 257 इति सूत्रव्याख्याने सर्वे शब्दाः भगवद्वाचकाः, “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि” इति श्रुत्या भगवतः सर्वान्तर्यामित्वप्रयुक्तस्य सर्वशब्दवाच्यत्वस्य प्रतिपादनादिति भाषितम् । तथा जिज्ञासाधिकरणादिभाष्येऽपि विषयोऽयं विशदीकृतः। यथा गोत्ववाची गोशब्दः गोत्वेनापृथक्सिद्धं गोत्वाश्रयः शरीरं, तद-पृथक्सिद्धं चात्मानं च मुख्यवृत्त्या प्रतिपादयति, तथैव सर्वेऽपि शब्दाः स्वस्वाभिधेयापृथक्सिद्धं सर्वेश्वरमपि मुख्ययैन [[183]]
वृत्त्या प्रतिपादयन्ति इति स्थितिः । अस्मिन् विषये प्रमाणभूतानि श्रुतिस्मृतीतिहासवाक्यानि युक्ताश्च तत्र तत्र श्रीभाष्यकारादयः प्रत्यपीपदन् । अस्मिन् हि निबन्धे सर्वेषां शब्दानां ब्रह्मवाचकत्वे सम्भावितान् आक्षेपान् कांश्चित् निरूप्य तत्परिहारं प्रदर्शयामः । एते हि आक्षेपाः । १) सर्वेषां पदानां ब्रह्मरूपैकार्थप्रतिपादकत्वे सर्वेषां पदानामर्थभेदाभावात् पर्यायत्वं स्यात् । २) सर्वपदानां समानार्थकत्वे “ इदं वेदवाक्यं प्रवर्तकम् इदं निवर्तकम्, इदं चोभयभिन्नम् इति व्यवस्थितिः न स्यात् । ३) पदार्थानां परस्परं भेदाभावात् तत्संसर्गबोधात्मकः शाब्दबोधो न स्यात् । ४) सर्वेषां पदानां ब्रह्मणि शक्तिकल्पनमनुभवबाधितम्, नहि केनापि घटादिपदैः ब्रह्मानुभूयते । ५) लोकतः शब्दानां ब्रह्मणि व्युत्पत्त्यभावेऽपि शास्त्रेण शब्दानां ब्रह्मपर्यन्तत्वं व्युत्पद्यन्ते जना इति तु न शङ्कयम्, सहस्रशः श्रुतवेदान्तार्थानामपि पण्डितानां घटादिशब्दश्रवणे ब्रह्मपर्यन्तानुभवस्याभावात्। [[184]]
६) कि “ तत्त्वमसि ” 258 " अयमात्मा ब्रह्म ” 259 इत्यादेः वाक्यात् ज्ञायमानस्य सामानाधिकरण्यस्योपपत्त्यर्थं ब्रह्मपर्यन्तशक्तिकल्पने मुखान्तरेण वृत्तिरियं लक्षणैव स्यात्। [[66]] ७) अपिच “ व्रीहिभिः यजेतेत्यादौ व्रीह्यादिपदस्य ब्रह्मपर्यन्तत्वं भवद्भिः न वक्तुं शक्यम्, ब्रह्मणः यागकरणत्वाभावात् । तथा च विशिष्टे शक्तस्य पदस्य विशेषणभूतव्रीहिमात्रपरत्वे “गौः-नित्येत्यत्र गोपदस्य गोत्वमात्रपरत्व इण लक्षणैग समाश्रयणीया स्यादिति प्रश्नः । ८) सर्वेषां पदानां ब्रह्मरूपैकार्थपरत्वे नानार्थमात्र - स्योच्छेदापत्तिः । ९) उपजीव्य लोकव्युत्पत्तिविरोधः, शास्त्रेण पदानां ब्रह्मपरत्वं कथ्यते, शास्त्रव्युत्पत्तिः लोकाधीना, लोके हि घटादिशब्दाः घटादिमात्रपराः ज्ञायन्ते । य एव लौकिकाः शब्दाः त एव वैदिका इति निर्णीतं लोकवेदाधिकरणे । १०) अभिधानकोशेषु नारायणादिशब्द समभिव्याहारेण घटादिपदानामपि पाठः स्यात्, सर्वेषां शब्दानां भवद्रीत्या पर्यायत्वात् । [[185]] ११) अपि च " तुच्छमसत्”260 इत्यादिपदैः ब्रह्माभि- धीयते वा न वेति विकल्पः । यद्यभिधीयते, तदा तुच्छमित्येव किञ्चित् न स्यात् । यदि तुच्छादिपदैः ब्रह्म नाभिधीयते, तदा ब्रह्मणः सर्वपद- वाच्यत्वसिद्धान्तभङ्गः। १२) अपिच “ चादयोऽसत्त्वे ” 261 इत्यनुशासनात् चादीनां निपातानां द्रव्यभिन्नवाचित्वमेव लभ्यते। यदि तेषां ब्रह्म रूपद्रव्यवाचकत्वं नाभ्युपगम्यते, तदा ब्रह्मणः सर्वशब्दवाच्यत्वसिद्धान्तः भज्येत, चादीनां निपातत्वाभावप्रसङ्गश्च । यदि ब्रह्म- वाचकत्वं स्वीक्रियते, तदा व्याकरणानु- शासनविरोधः, १३) अपिच “" अचित्तहस्तिधेनोष्ठक् ” 262 इत्यनेन आपूपिकं शाष्कु लिकमिति न स्यात् । चेतनवाचित्वात् प्रवृत्तिनिमित्तमादायाचित्त- वाचित्वोपादानमिति न स्यात् । ब्रह्मणः द्रव्यत्वं चेतनत्वं च “द्रव्याद्रव्यप्रभेदा" दिति वेदान्तदेशिकैः प्रतिपादित एव 263 । [[186]]
१४) द्रव्यप्रमेयादिपदानां साक्षात् घटादिमुखेन च ब्रह्मप्रतिपादकत्वात् शक्तिद्वयकल्पना स्यात् । १५) घटशब्दस्य ब्रह्मपरत्वे घटशब्दार्थस्यैकत्वात् “घटौ घटा” इत्यादौ द्वित्वबहुत्वयोरन्योऽपि बाधितः स्यात् । १६ ) का सर्वेऽपि शब्दा यदि विष्णुवाचकाः, तदा “शिवं प्रस्तुत्य सर्वाणि हवा एतस्य नामधेयानि ” इति आश्वलायनवचनविरोधः स्यात् । १७) अपिच आकृत्यधिकरणे सर्वपदानां विशेषणमात्रपरत्वं सिद्धान्तितमिति व्यक्तिशक्ते- रेवाभावे तन्मुखेन ब्रह्मपर्यन्तत्वं कथं वक्तुं शक्यत इति प्रश्नः । अतः सर्वेशब्दाः ब्रह्म वाचका इति वादः निष्प्रमाणकः सम्प्रदायश्रद्धामात्रविलासित इति । समाधानम् अत्र विशिष्टाद्वैतसिद्धान्ततत्त्वविद एवमाशेरते । सर्वेशब्दाः ब्रह्मवाचकाः केचित् साक्षात् तद्वाचकाः, अन्ये च घटादिशब्दाः भगवतः सर्वान्तर्यामित्वात् तत्परा इति व्यवस्थितिः । इदानीं पूर्वोक्त- [[187]]
सप्तदशाक्षेपाणामपि समाधिर्विधीयते । प्रतिप्रश्नं विशिष्य समाधानलेखेने एकस्यैव समाधानस्य क्वचित् द्वित्रिप्रश्नोत्तररूपत्वेन पुनरुक्तता स्यादिति सिद्धान्तिनामाशयविवरणद्वारा समाधानं विशदीक्रियते । यदुक्तम्- सर्वेषां पदानां ब्रह्मरूपैकार्थप्रतिपादकत्वे पदानामर्थभेदाभावात् पर्यायत्वं स्यादिति तन्न, पर्यायत्वं हि प्रवृत्ति- निमित्तभेदं विना समानार्थप्रतिपादकत्वम्, तत् पटघटपदयोर्नास्त्येव, घटपदस्य घटत्वविशिष्टघटविशिष्टत्वेन ब्रह्मार्थः, पटपदस्य च पटत्वविशिष्टपटविशिष्टत्वेन ब्रह्मार्थ इति प्रवृत्तिनिमित्तभेदः स्पष्टः । यदुक्तम्-पदार्थानां परस्परं भेदाभावात्, तत्संसर्गबोधात्मकः शाब्दबोधः न स्यादिति तदपि न युक्तम् - पदार्थतावच्छेदकभेदात् नीलमुत्पलम् इत्यत्र परमते बोधस्येव सिद्धान्तेऽपि तस्य सम्भवात् । किश्च लौकिकः शाब्दबोधः वक्तृतात्पर्यविषयीभूतः ब्रह्माविषयक एव सम्भवतीति शाब्दबोधस्योत्पत्तौ न बाधकं किश्चित् । यदुक्तम्- सर्वेषां पदानां ब्रह्मणि शक्तिकल्पनमुचितं न भवति, नहि केनापि पुरुषेण घटादिपदैः ब्रह्मानुभूयत इति, तदपि न युक्तम्- ब्रह्मपर्यन्तया गृहीतशक्तिकस्य पुरुषस्य विषयेऽस्या आपत्तेरभावात्, [[188]]
तस्य तथाऽनुभवस्य सत्त्वात्। तथागृहीतशक्तिकभिन्नस्य तु पुरुषस्य घटादिपदैः ब्रह्मानुभवाभावेऽपि न क्षतिः । यदुक्तम्- सहस्रशः श्रुतवेदान्तानामपि पण्डितानां घटादि- शब्दश्रवणे ब्रह्मपर्यन्तानुभवाभावात् शास्त्रेण ब्रह्मपर्यन्तव्युत्पत्तिः दुष्प्रापेति, तदपि न मनोहरम्, वेदान्तश्रवणेन व्युत्पत्तिः पूर्यत इति हि भाष्यकाराः 264। वेदान्तश्रवणेन ब्रह्मपर्यन्तव्युत्पत्तौ आसादितायामपि लौकिकप्रयोजनानुरोधेन विशेषणमात्रं बुध्यन्ते विद्वांसोऽपि । वक्तुंः तात्पर्यस्य विशेषणभूतचेतनाचेतनयोरेव सत्त्वात् तथैवावगच्छन्ति प्रत्येतारः विद्वांसः, तेन हि बाधाभावोऽपि सम्पद्येत । अन्यथा घटमानयेत्यादौ ब्रह्मस्वरूपे आनयनकर्मत्वाभावात्, घटवेषेण तत्कर्मत्वसत्त्वेऽपि तस्याविवक्षितत्वात् ब्रह्मपर्यन्तबोधे बाधः तात्पर्याविषयत्वं वा स्यात् । यदप्युक्तम्- “तत्त्वमसि " अयमात्मा ब्रह्म इत्यादेर्वाक्यात् ज्ञायमानस्य सामानाधिकरण्यस्योपपत्त्यर्थं ब्रह्मपर्यन्तशक्तिकल्पने इयं वृत्तिः लक्षणैव स्यादिति तदपि न - तथात्वे भोजनप्रकरणानुपपत्त्या लवणत्वरूप शक्यसम्बन्धेन सैन्धवपदस्य लवणबोधकत्वे तत्र लक्षकत्वापत्तेः । न च लवणत्वादिकं शक्यतावच्छेदकं, न शक्यम्, प्रकरणादिकं च तात्पर्यग्राहकम्, न स्वानुपपत्त्या लक्षणासूचकमिति [[189]]
वाच्यम्, एवं चेत् घटादिकमपि न शक्यम्, ब्रह्मण एव शक्यत्वात्, तत्त्वमसि, अयमात्मा ब्रह्म, सर्वं खल्विदं ब्रह्मेति सामानाधिकरण्यं च प्रचुरप्रयोगकृतप्रपञ्श्चमात्रपरत्वशङ्कानिवर्तनेन ब्रह्मपरत्वग्राहकमिति शक्यकथनापत्तेः । न च उपजीव्यलोकव्युत्पत्तिनिरोधः, लोकतो हि घटादिमात्रपरत्व-मवगतमिति वाच्यम्, विकल्पासहत्वात् । किं लोकेन पदस्य घटादिभिन्नब्रह्मपरत्वं निषिद्धम् उत घटादिपरत्वमेव ज्ञातं नाधिकम् इति । नाद्यः, घटादिपदस्य घटादौ शक्तिग्राहकस्य कस्यापि लौकिकप्रमाणस्य ब्रह्मपरतानिषेधकत्वाभावात्। द्वितीयः घटादिपदस्य गेदान्तेन ब्रह्मरूपस्याधिकस्यार्थस्य ज्ञाने बाधकाभावात् । यदपि कथितम्- ग्रीहिभिः यजेतेत्यत्र शाब्दबोधो न स्यात् ग्रह्मणः यागकरणत्वाभावात् । व्रीहिपदस्य विशेषणमात्रपरत्वे विशिष्टवाचकपदस्यविशेषणमात्रपरत्वे लक्षणा स्यादिति, तदपि न, विशिष्टवाचकपदस्य विशेषणमात्रपरत्वे लक्षणाया अभावात् । पदानि हि विशेषणं विशेष्यं चाभिदधतीति एकस्य परित्यागे कथमपरस्य लक्ष्यत्वापत्तिः। गवि नित्यत्वमित्यत्र गोपदस्य विशेषणे गोत्वे लक्षणैन । तथाहि - संसर्गप्रतीत्यनुकूला पदार्थोपस्थितिः व्रीहिभिः यजेतेत्यादौ शक्त्यैव क्रियते । तत्र यागं प्रति करणत्वेनान्वयबोधे व्रीहित्वं प्रति [[190]]
प्राधान्येन व्रीहीणाम् उपस्थितिरपेक्षिता, सा शक्त्यैव सम्पाद्यते । विशेष्यभूतब्रह्मापेक्षया प्राधान्येनापस्थितिस्तु नापेक्षितेति न लक्षणादरः। गवि नित्यत्वमित्यत्र तु स्वातन्त्र्येण गोत्वोपस्थितिः शक्त्या कर्तुमशक्या । अन्वयप्रतियोगितावच्छेदकप्रकारकपदार्थोपस्थिते रेवान्वयबोधाङ्गत्वात् लक्षणां विना गोत्ने गविनित्यत्वमित्यादौ पदार्थोपस्थित्यभावात् । यच्चाभिहितम् - सर्वेषां पदानां ब्रह्मरूपैकार्थपरत्वे नानार्थ- मात्रोच्छेदः स्यादिति तदपि न - विशेषणभेदमात्रं निमित्तीकृत्य पूर्णव्युत्पत्तिरहितानां पुरुषाणां नानार्थत्वव्यपदेशस्य केषुचित् पदेषु इष्टत्वात् । तान् एव मनसि निधाय पूर्णव्युत्पत्तिका अपि कानिचित् पदानि नानार्थकानीति व्यपदिशन्ति । विशेषणानि चात्र घटपटादीनि । यदुक्तम्- अभिधानकोशेषु “ विष्णुर्नारायणः कृष्ण ” इति प्रकरणे घटादिशब्दानामपि पाठः स्यादिति, तदपि न, लोकव्युत्पादनाय प्रवृत्तत्वात् कोशादेः । लोकाश्च घटपटादिनैव व्यवहरन्तीति प्रसिद्धमेव। प्रथमं घटपटादीनि प्रवृत्तिनिमित्तानि, परमात्मैव शक्यार्थ इति ज्ञानं तेषां नास्तीत्यन्यदेतत् । न हि कोशादिष्वेव सर्वं व्युत्पाद्यमिति नियमः । घटः स्वरूपेण सन्नपि परात्मना असन् भवति । ब्रह्म ब्रह्मत्वेन सदपि अनृत परिच्छिन्न जडत्वाद्यात्मना असत् इति असच्छब्देन [[191]]
ब्रह्मणोऽभिधाने न किमपि बाधकम् । अत एव " असद्वा इदमग्र आसीदितिनिर्देशः। “शशशृङ्ग" मिति तु वाक्यम्, तदर्थत्वाभावेऽपि ब्रह्मणो न दोषः । खपुष्पादिपदानामपि कथञ्चिदर्थवत्त्वं निरूपयन्ति मीमांसकाः तत्सिद्धिपेटिकायाम् 265 । किश्च चादयोऽसत्वे इति अनुशासनविरोधोऽपि न । निपातानां द्योतकत्वेन वाचकत्वाभावात् ब्रह्मणः तदवाच्यत्वेऽपि न क्षतेः । निपातानां वाचकत्वपक्षेऽपि न क्षतिः, साक्षात् परमात्मविषयकप्रतीतेः ‘नेपातेना नुत्पन्नत्वात्। (असत्त्वं-अद्रव्यम्) अपि च “अचित्तहस्तिधेनोष्ठक् " 266 इति सूत्रेण आपूपिकं शाष्कुलिकम् इति प्रयोगो न स्यात् ब्रह्मणः चेतनत्वात् इति पूर्वपक्षोऽपि न युज्यते, अपूपादिपदानां साक्षादचित्तवाचित्वात् । अन्तर्यामितया हि तानिपदानि चेतनं परमात्मानमभिदधति। अतो न ’ आपूपिकम् ” इति प्रयोगस्यानुपपत्तिः । द्रव्यप्रमेयादिशब्दानां साक्षात् घटादिमुखेन च ब्रह्मप्रति- पादकत्वात् शक्तिद्वयकल्पना स्यादिति प्रश्नोऽपि न युक्तः, नानार्थकत्व- परिहारेणैवास्य प्रश्नस्य समाहितत्वात् । घटौ घटा इति द्विवचनबहुवचनयोरुपपत्तिः विशेषणमात्रपरत्वेन घटौ इत्यादि प्रयोगाणां विशेषणे घटादौ द्वित्वादेरन्वयेन दोषाभावात् । [[192]]
एवं शङ्करशब्दस्याद्वारकतया रुद्रपरत्वेऽपि अन्तर्यामितया विष्णुपरत्वेन दोषाभावः । आकृत्यधिकरणस्य व्यक्तिपर्यन्तपरत्वं तत्त्वमुक्ताकलापादिषु 26 व्यक्तमिति नात्र विशदीक्रियते । तथा च सर्वे शब्दाः भगवद्वाचका इति श्रुतिस्मृत्याद्यनुसारेण भगवद्रामानुजाचार्यैः स्थापितं युक्तमिति । [[193]]