विश्वास-टिप्पनी
अत्र चलच्चित्रादि श्रीभाष्ये टिप्पन्यां सूचितम्।
आश्रयानुपपत्तिः
अविद्याया आश्रय-तिरोधानकरत्व-स्वरूप– सद्-असद्-अनिर्वचनीयत्व– प्रमाण- निवर्तक-निवृत्तीनाम् अनुपपन्नत्वं श्रीभाष्ये विशदीकृतम्।
तद् अनन्तरं बहुभिः व्याख्यातृभिः महान् विचारः विषये ऽस्मिन् कृतः।
परन्तु अत्र केचिद् अप्रसिद्धाः पूर्वपक्षाः सङ्गृहीताः।
तेषां समाधानं च श्रीभाष्यादि-रीत्यैव लिख्यते।
श्रीभाष्ये ब्रह्मणः स्व-प्रकाशत्वात् विरोधात् नाज्ञानाश्रयत्वम्।
“ज्ञानरूपं ब्रह्म”[^210] इति
ज्ञानस्य स्वरूपभूत-ज्ञानस्य च समान-विषयकत्वात्
प्रमात्मक-ज्ञान-विरोधित्वे स्वरूप-ज्ञानस्य न विरोधित्वम्
इति कथनं न युक्तम्।
किञ्च +++(विषयिणो)+++ ब्रह्मणो ऽननुभाव्यत्वेन
स्वव्यतिरिक्त-ज्ञानविषयत्वं न भवति। +++(विस्तारः??)+++
अतः, ब्रह्म स्व-प्रकाशं स्व-विरोध्य्-अज्ञानाश्रयो न भवति।
न च
ब्रह्म-व्यतिरिक्त-विशेष्यक– मिथ्यात्व-प्रकारक-ज्ञानम् अविद्या-विरोधि,
तन् न ब्रह्म-स्वरूप-समान-विषयकम्
इति वाच्यम्।
यतः तस्य ज्ञानस्य स्वासमान-विषयक-ब्रह्म-याथात्म्याज्ञान-विरोधित्वाभावेन
प्रपञ्च-सत्यत्व-रूपाज्ञान-विरोधित्वम् एव वक्तव्यम्।
तथा च ब्रह्म-स्वरूपाज्ञानं तिष्ठेद् एव।
तथा
ब्रह्म-स्वरूपाज्ञानं नाम
ब्रह्मणः स-द्वितीयत्वम्,
तच् च ब्रह्म-व्यतिरिक्तस्य मिथ्यात्व-ज्ञानेन निवर्तते,
स्वरूपं [[P128]] च स्वानुभव-सिद्धम्
इति कथनम् अपि न युक्तम्,
ब्रह्मणः अद्वितीयत्वं स्वरूपं स्वानुभव-सिद्धम् इति
तद्-विरोधि–स-द्वितीयत्व-रूपाज्ञानस्य तद्-बाधस्य चानुपपत्तेः।
अ-द्वितीयत्वं न स्वरूपम्,
किन्तु ब्रह्मणो धर्म
इति तु वक्तुं न शक्यते,
अनुभूतेर् अनुभाव्य-धर्म-विरहस्य असकृद् उक्तत्वात्।
इति ब्रह्मणः अज्ञानाश्रयत्वानुपपत्तिर् उक्ता।
पूर्वपक्षः
[[P211]]
यद् उक्तं
ब्रह्मणो ऽविद्याश्रयत्वं न सम्भवति,
स्व-प्रकाशत्वेन ब्रह्मणः अविद्या-विरोधित्वाद्
इति, तन् न -
ब्रह्मणो ऽविद्याविरोधित्वम् एव नास्ति।
भास-भेदः
अविद्या चैतन्येन ब्रह्मणावभास्यते।
तथा हि - “तस्य भासा सर्वम् इदं विभाति” इति[^211] श्रुत्या
“ब्रह्म सर्वावभासकम्” इति लभ्यते।
अन्तःकरण-परिणामो घटादिः,
तथा वृत्तिर् अपि घटाद्य्-आकारेणान्तःकरण-परिणाम एव।
अन्तःकरणस्य परिणाम्य्-उपादानम् अविद्या।
जडस्य सर्वस्य अविद्या-तत्-परिणाम-सन्तानस्य प्रकाशः
चैतन्येनैव भवति।
ब्रह्मणो ऽन्यावभास्यत्वं नास्ति,
तथात्वे ऽनवस्था-दोषात्।
अतः तत् स्वयं प्रकाशम्।
तथा चाविद्याया ब्रह्मावभास्यत्वान्
न ब्रह्म अविद्या-विरोधि।
याथात्म्यानुभवो न स्वानुभवसिद्धः
किञ्च
ब्रह्म स्वानुभव-सिद्ध-स्वयाथात्म्यम् इत्य्
अविद्या-विरोधि इत्य्
अपि न सत्,
ब्रह्मणि निर्धर्मके स्वयाथात्म्यानुभव-रूप-विशेषायोगात्।
किञ्च ब्रह्मण एवानुभवत्वात्
तस्य कथं पुनर् याथात्म्यानुभव-रूपम् अनुभवान्तरं स्याद् -
अनवस्था-प्रसङ्गात्।
अतः
“ब्रह्म तु स्वानुभव-सिद्ध–स्व-याथात्म्यम् इति
स्वाज्ञान-विरोध्य् एव।”[^212]
इति भाष्यम् असङ्गतम्। [[P129]]
किञ्च
ब्रह्मणः स्वभावः स्वयम् एव प्रकाशते -
स्वयं-प्रकाशत्वाद्
इति कथनम् अपि न युक्तम्,
ब्रह्म-स्वरूपस्याविद्यावृतत्वेन
तत्-स्व-रूपस्याप्रतीतेः।
अविद्यायाः ब्रह्मणा विरोधाभावात्
आवरणं सम्भवत्य् एव।
प्रमाण-जन्य-ज्ञानम्
न च “ब्रह्माज्ञानस्य किं विरोधि” इति वाच्यम् -
“ज्ञानं ब्रह्मे"ति प्रमाण-जन्यं ज्ञानम् एव विरोधि
इति सिद्धान्तात्।
न च
स्वरूप–प्रमाण-जन्य-ज्ञानयोः समान-विषयकत्वात्
कथम् एकस्य विरोधित्वम् अन्यस्य न
इति वाच्यम्।
अभिज्ञा-प्रत्यभिज्ञयोर् वस्त्व्-ऐक्य-विषयकत्वे समाने ऽपि
प्रत्यभिज्ञाया एव वस्तु-भेद-भ्रम-निवर्तकत्वं,
नाभिज्ञाया
इति अनुभव-सिद्धत्वात्,
तद्-दृष्टान्तेन प्रकृते ऽपि
स्वरूपभूत-ज्ञानस्यानिवर्तकत्वम्
इति वक्तुं शक्यत्वात्।
किञ्च स्वरूपस्य सविषयकत्वं नास्त्य् एव
विषयि-विषय-भावस्यात्यन्त-तादात्म्ये ऽभावात्।
अतः विरोधित्वे
वृत्ति-ज्ञान-निष्ठं विषय-ज्ञानत्वम् एव नियामकम्।
अतो ऽज्ञानस्य ब्रह्मणि वृत्तित्वे
न विरोधः।
वृत्तिज्ञानेन कारणाज्ञान-नाशः
न च
वृत्ति-ज्ञानाद् अज्ञानस्य कथं निवृत्तिः?
यदि न निवृत्तिस्
तदा ऽविद्याया अनिवृत्तिर् एव स्यात्।
यदि निवृत्तिः कारणस्याज्ञानस्य
कथं कार्येण वृत्ति-ज्ञानेन निवृत्तिर्
इति वाच्यम्,
कार्याद् अपि कारणस्य नाशस्य दृष्टत्वात् -
अग्नि-कार्याज् जलाद्
अग्नि-नाश-दर्शनात्,
काष्ठ-कार्याद् अग्नेः काष्ठस्य नाश-दर्शनाच् च,
कार्यान् न कारण-नाश इति नियमाभावात्।
द्वाव् अनुभवौ
“ब्रह्म नास्ति, न भाति” इत्य् अनुभव-सिद्धं ब्रह्माज्ञानं
“ब्रह्माहम् अस्मी"त्य् अनुभवेन बाध्यत एव
ज्ञानाज्ञानयोः समान-विषयकत्वस्य विरोध-प्रयोजकत्वात्। [[P130]]
मिथ्यात्व-ज्ञानस्य निवर्तकत्वम्
यद् उक्तं
ब्रह्म-स्वरूप-व्यतिरिक्तस्य मिथ्यात्व-ज्ञानाद्
ब्रह्म-स्वरूपाज्ञानं तिष्ठति
इति,
तन् न युक्तं -
तस्य ज्ञानस्यापि बाधकत्वात्।
ब्रह्म-व्यतिरिक्तस्य मिथ्यात्व-ज्ञानं,
ब्रह्म-व्यतिरिक्तत्व-ज्ञानाधीनम्,
तच् च वृत्ति-ज्ञान-रूप– ब्रह्म-स्वरूप-विषय-ज्ञानाधीनम्।
एवं च ब्रह्म-स्वरूप-ज्ञानस्य तत्रावश्यकत्वात्,
तेन ब्रह्म-स्वरूपाज्ञानं बाध्यत एव।
अतः श्रीभाष्योक्ताश्रयानुपपत्तिर् नास्त्य् एव
इति।
सिद्धान्तः
ब्रह्माज्ञातृ
अयम् अत्र सिद्धान्तः-
अज्ञानं ज्ञातृत्व-प्रसक्ति-शून्ये ब्रह्मणि न सम्भवति -
ज्ञानाज्ञानयोः समान-विषयकत्वस्येव
समानाश्रयकत्वस्याप्य् आवश्यकत्वात्।
भवन्-मते ब्रह्मणो ऽज्ञानाश्रयत्वेनाभिमतस्य
ज्ञान-आश्रयत्वं न स्वीक्रियते।+++(5)+++
एतद् भाष्ये उत्तरत्र भाषितम्
“विवादाध्यासितम् अज्ञानं
न ज्ञान-मात्र-ब्रह्माश्रयम्, अज्ञानत्वात्,
शुक्तिकाद्य्-अज्ञानवज् ज्ञात्र्-आश्रयं हि तत्” +++(5)+++
इति
“ब्रह्म नाज्ञानास्पदम्,
ज्ञातृत्व-विरहात् घटवत्”[^213]
इति च।
न च
ज्ञानाज्ञानयोः समानाश्रयकत्वं कुतः स्वीकार्यम्
इति वाच्यम्,
अन्यथा देवदत्त-गताज्ञानस्य यज्ञदत्त-गत-ज्ञानेन निवृत्ति-प्रसङ्गात्।
न हि
ब्रह्मणो ऽपि ज्ञातृत्वं कल्पितम् अस्ति
इति वाच्यम्,
अहङ्कारोपहितस्यैव तस्य +++(ब्रह्मणो)+++ ज्ञातृत्वात्,
सुषुप्ति-प्रलयादिषु अहङ्कारापाये ऽपि
चैतन्यस्य ज्ञातृत्वोपगमात्।
अतः ज्ञातृत्व-प्रसङ्ग-शून्ये ब्रह्मणि
नाज्ञानं भवितुम् अर्हति। [[P131]]
ब्रह्मावभास्यत्वेऽपि विरोधः
यद् उक्तं
ब्रह्मणो न विरोधः अविद्यया, तद्-आभास्यत्वाद्
अतो नाश्रयानुपपत्तिर्
इति तत्रोच्यते -
यदि न विरोधः,
तदा “तेजस्-तमसोर् एव”[^214] इति दृष्टान्त-कथनं कथम्?
यदि न विरोधः
कुतः अविद्याया निवृत्त्य्-अर्थं शास्त्राणां प्रवृत्तिः,
ब्रह्मणि तद्-अविरुद्धायाः अविद्या-रूप-शक्तेः सत्त्वे
दोषाभावात्। +++(4)+++
किञ्च वृत्तेः ब्रह्मावभास्यत्वं कथं?
न हि शुद्ध-चैतन्यस्य वृत्ति-विषयकत्वं सम्भवति,
तस्य निर्विषयकत्वात्। +++(4)+++
वृत्त्य्-अवच्छिन्न-चैतन्ये वृत्तिर् विषयश् चेत्
विषय-विषयतावच्छेदकयोर्+++(=??)+++ भेदश् चेद् अनवस्था।
अभेदे आत्माश्रयः।
जडेन निवर्तनम्?
किञ्च वृत्तिर् जडा कथम् अज्ञानं निवर्तयेत्?
न हि वृत्तेः मुख्य-ज्ञानत्वम् इष्यते।
न च
वृत्ति-विशिष्ट-चैतन्यस्यैवाज्ञान-निवर्तकत्वम्
इति वाच्यं -
विशिष्ट-चितो ऽपि जडत्वात्।
उपलक्षित-चित् तु प्रतिबिम्ब-विगमनानन्तरम् एव सम्भवतीति
शुद्ध-चिद्-अविशेषेण तस्या निवर्तकत्वासम्भवः।
अभिज्ञा-प्रत्यभिज्ञा-दृष्टान्तः
किञ्च
अभिज्ञा-प्रत्यभिज्ञा-दृष्टान्तेन
स्वरूप-ज्ञानस्य न निवर्तकत्वम्
इति कथनं न युक्तम् -
अभिज्ञा-प्रत्यभिज्ञयोः विषय-वैलक्षण्य-सत्त्वात्,
कालद्वय-सम्बन्धस्य प्रत्यभिज्ञा-सिद्धस्य च
अभिज्ञायाम् अविषयत्वात्।
न च
अभिज्ञा-द्वयं कालद्वय-सम्बन्धं गृह्णाति,
एवं च अभिज्ञाद्वयानवगतार्थ-विषयकत्वं प्रत्यभिज्ञायां नास्ति चेद् अपि
तस्य ऐक्य-संशय-निवर्तकत्वं दृष्टम्
इति वाच्यम्,
अभिज्ञाद्वये सत्य् अपि
एकस्मिन् वस्तुनि कालद्वय-सम्बन्धो मया ज्ञात
इत्य् अनुभवाभावात्
सत्यां च [[P132]] प्रत्यभिज्ञायां
तथानुभव-दर्शनेनानुभवस्यैवात्र साक्षित्वात्। +++(=??)+++
उक्तं चाचार्यैः-
अभिज्ञायाः प्रत्यभिज्ञा
विशिष्ट-विषया सती।
तद्-अशक्य-भिदा-बाध-
प्रगल्भा, न तथाऽत्र ते॥
इति न्यायसिद्धाञ्जने[^215]।
प्रमाण-जन्यत्व-विशेषः?
एवम् एव
प्रमाण-जन्यत्व–तद्-अभावाभ्यां
स्वरूप-ज्ञान-वृत्ति-ज्ञानयोः विशेष
इति कथनम् अपि न युक्तम् -
शुक्ति-रजत-स्थले
“इदं भास्वर-शुक्लम्” इति प्रमाण-जन्यस्य
साधारणाकार-ज्ञानस्य विरोधित्वादर्शनात्।
कार्येण कारण-निवृत्तिः
अपि च कार्येण वृत्ति-ज्ञानेन
कारणस्याज्ञानस्य निवृत्तिर् अपि न युक्ता।
न च काष्ठाग्नि-दृष्टान्तो युक्तः,
परिणाम्य्-उपादानस्य स्व-कार्येण नाशादर्शनात्।
काष्ठं हि न अग्नेर् उपादानं -
तद् धि निमित्तम् एव।
एवम् अग्नि-कार्येण जलेनाग्नेर् विनाश इत्य् अपि न,
जलस्य हि नाग्निर् उपादानम्।
न च
“अग्नेर् आपः”[^216] इति श्रुति-बलाद्
अग्न्य्-अवस्थस्य प्रधानस्योपादानत्वम् इष्टम् एव
इति वाच्यम्,
यस्माद् अग्नेर् जलस्योत्पत्तिः,
तस्याग्नेर् जलेनानाशात्।+++(5)+++
अतः कार्यात् स्व-परिणाम्य्-उपादानस्य नाशायोगाद् दृष्टान्तासङ्गतिः।
स्वानुभव-सिद्ध-स्वयाथात्म्यम्
स्वानुभव-सिद्ध–स्व-याथात्म्यम् इति भाष्य-वचनस्य
अर्थं विकल्प्य खण्डनं च न युक्तम् एव।
तस्य वचनस्य स्व-याथात्म्य-विषयकः स्वात्मकानुभव इत्य् एवार्थात्। [[P133]]
तिरोधानानुपपत्तिः
व्यवहाराविषयो हि घटादिरज्ञानावृत इत्युच्यते । एवं ब्रह्मापि अस्ति भाति” इति व्यवहाराविषयत्वात् अज्ञानावृतमिति । न च ब्रह्मणः स्वरूपमेव प्रकाशः, घटस्य तु प्रकाशः स्वरूपादतिरिक्तः, एवं च घटस्यानृतत्वेऽपि घटो भवेदेन । ब्रह्मणस्तु प्रकाशः तस्मादनतिरिक्त इति अविद्याया प्रकाशाभावे स्वरूपमेव न भवेदिति वाच्यम् । आवरणस्य नाशपर्यायत्वाभावात्। अत एव “अज्ञानेनावृतं ज्ञानमिति प्रयोगः, न तु नाशितम् इति । वस्तुतः जडस्य घटस्य नागरणम् । किन्तु घटावच्छिन्नचैतन्यस्यैव । एवं च यतः चित्स्वरूपमपि सर्वदा अस्ति भाति इति व्यवहारविषयः न भवति, अतः ब्रह्मणः आवृतत्वं नाम अस्ति भातीति व्यवहारयोग्यत्वनाशे एव पर्यवस्यतीति न प्रकाशनाश इति भाष्योक्तानुपपत्तिः न सङ्गच्छते। अयमर्थः- अविद्यया ब्रा तिरोहितम् इत्यस्य ब्रह्म अस्ति भाति इति व्यवहारविषयो न भवतीत्यर्थः । न च ब्रह्मणि प्रकाश इति धर्मो नास्ति, स्वपरव्यवहारहेतु- प्रकाशत्वं स्वप्रकाशत्वं ब्रह्मणः स्वरूपमेवेति स्वनाशे एव पर्यवस्यति प्रकाशनाशः, प्रकाशपदेन व्यवहारविशेषविषयत्वस्य स्वीकारेऽपि तस्य ब्रह्माभिन्नत्वात् दोषोऽयं भवत्येवेति वाच्यम् । ब्रह्मास्ति भाति इति व्यवहारं प्रति हेतुत्वस्येण ब्रह्म नास्ति न भातीति व्यवहारं प्रति हेतुत्वस्यापि ब्रह्मणि सत्वात्, न तत्तद्व्यवहारहेतुत्वरूपप्रकाशः न ब्रह्मस्वरूपाभिन्न इति स्वीकारात् । न च सुषुप्तौ यस्य कस्यापि [[136]] ’ १
व्यवहारस्याभावात् तदानीन्तनम् अविद्याकृतमावरणं स्वरूपनाशे एव पर्यवस्यतीति वाच्यम् । सुषुप्तौ व्यवहारसामान्याभावस्य चैतन्येनावभास्यत्वात् भास्यस्य सत्त्वात् न भासकनाशः । अतः कथञ्चिदपि स्वरूपनाशस्य न प्रसक्तिः । तस्मात् ब्रह्मणः स्वरूपभूतात् प्रकाशात् अन्यदेवेदं व्यवहारात्मकं स्फुरणमिति न कश्चित् दोष इति सारः ।
सिद्धान्तः
अयमत्र सिद्धान्तः- श्रीभाष्ये या तिरोधानानुपपत्तिरुक्ता सा युक्तैव । न च अस्ति भाति इति व्यवहाराविषयत्वम्, नास्ति न भातीति व्यवहारविषयत्वं वा तिरोधानम्, तत् न स्वरूपानाशे पर्यवस्यति घटादौ अप्रकाशस्य स्वरूपनाशे पर्यवसानाभावादिति वाच्यम्। जडस्य वस्तुनः प्रकाशस्य ज्ञानसम्बन्धरूपत्वात् तदभावे स्वरूपनाशाभावेऽपि ज्ञानान्तर- निरपेक्षप्रकाशरूपे ब्रह्मणि अस्ति, न तु प्रकाशते इति वक्तुमशक्यत्वात्। अत एव प्रकाशाभावः तिरोधानम् इति श्रीभाष्यम् 217 । व्यवहाराभाव- मात्रेणाप्रकाशो न युक्तो निर्णेतुम् । ज्ञातस्यापि वस्तुनः व्यवहाराभावस्य लोके उपलम्भात् । अतः सत्यामिच्छादिघटितसामग्रयां व्यवहार- विषयत्वार्हत्वं प्रकाश इति वक्तव्यम् । तदर्हत्वं च जडे वस्तुनि ज्ञानविषयत्वरूपम्। चैतन्ये तदसाधारणधर्म एव । भवन्मते चैतन्ये र्निधर्मकत्वस्वीकारात् व्यवहारविषयत्वार्हत्वनाशो नाम स्वरूपनाशे [[137]]
पर्यवस्येत्। किञ्च जीवब्रह्मैक्ये सति करणनिरपेक्षमहमिति भानं दृष्टमेव स्वयम्प्रकाशत्वस्थापकं भवति, न जातु कश्चित् नाहमिति विपर्येति, न वा अहमस्मि न वेति सन्देग्धीति हेतोः । एवं च न भाति नास्ति इति व्यवहारविषयत्वमेव ब्रह्मगतमविद्याकृतमावरणम् इति कथं वक्तुं शक्यम्। किञ्च स्वयं प्रकाशे वस्तुनि आवरणम् इति अपि वक्तुं न शक्यम्, प्रकाशे सति अज्ञानसम्बन्धस्य तादृशव्यवहारयोग्यत्वस्याभावात् । किश्च अज्ञानसम्बन्धः न संयोगरूपः, परमार्थ - अपरमार्थयोः सम्योगाभावात् । अज्ञानसम्बन्धरूपावरणघटकः सम्बन्धः विषयि- विषयभावश्चेत् ब्रह्मणि विषयत्वाभावात् अनुपपत्तिः । प्रकाशमानस्य ज्ञानविषयत्वं स्वीक्रियते चेत्, सुखादेः प्रकाशमानस्य साक्षिभास्यत्व- स्थाने अज्ञानभास्यत्वं स्यात् । अहमस्मि वा नवेति संशयस्य, अहं नास्मीति विपर्ययस्य वा प्रसक्तिरपि भवति, यदि अज्ञानविषयत्व- मात्मनि स्वीक्रियते । यदि ब्रह्मणि कदाचित् नास्ति न भातीति व्यवहारविषयत्वं स्त्रीक्रियते, अथवा अस्ति भातीति व्यवहारविषयत्वाभावोऽङ्गीक्रियते इत्युच्यते, तदा ब्रह्मणि सधर्मकत्वं स्यात्, यदि अतिरिक्ततया स धर्मो नाङ्गीक्रियते तदा अस्ति भाति इति व्यवहारविषयत्वनाशः ब्रह्मनाशे पर्यवस्येत्। अतः भाष्योक्ता तिरोधानानुपपत्तिः युज्यते एव । [[138]]
स्वमते शङ्कासमाधाने
सिद्धान्ते नित्यस्य द्रव्यस्य ज्ञानस्य स्वरूपातिरेकेण सङ्कोचणिकासात्मकमवस्थाद्वयमभ्युपेतम्, ततः ज्ञानस्य तिरोधानं नाम कर्मणा तस्य सङ्कोचः, तन्निवृत्तिस्तु प्रसरः स एव प्रकाशः स चानित्यः । अवस्थाद्वयस्या गमापायित्वेऽपि द्रव्यस्य नित्यत्वम् इति श्रुतप्रकाशिका । तत्र पूर्वपक्षः- अवस्थाविकारः, ज्ञानं चावस्थावत् अतः विकारि । यदि ज्ञानस्य सङ्कोचणिकासौ स्याताम्, तदा ज्ञानस्यानित्यत्वं स्यात् । यदि ज्ञानं निरवयणं तर्हि सङ्कोचविकासौ न स्याताम्, यदि सावयवं तर्हि सङ्कोचणिकासयोरुपपत्तावपि नित्यत्वानुपपत्तिः सावयवस्य घटादेरनित्यत्वदर्शनात्। अतः धर्मभूतज्ञानस्य नित्यत्वं न युक्तम् इति । अत्र समाधानं धर्मभूतज्ञानस्य सावयवत्वेऽपि नित्यत्व- स्योपपत्तिः । सावयवायाः प्रकृतेरिव धर्मभूतज्ञानस्य नित्यत्वोपगमे दोषाभावः । न च सावयवत्वे सति धर्मभूतज्ञानस्य प्रत्यात्ममेकत्वं नित्यत्वं च किमर्थं स्वीक्रियेते इति वाच्यम् । " न हि विज्ञातुः विज्ञातेर्विपरिलोपो विद्यते” 218 इति श्रुतिसिद्धत्वात् तन्नित्यत्वस्य । एवमेकत्वमपि श्रौतैकवचनादेव सिद्धम् । एवं च धर्मभूतज्ञानस्य नित्यत्वमेकत्वं च धर्मिग्राहकप्रमाणसिद्धे इति न दोषः ।
अविद्यास्वरूपानुपपत्तिः
ब्रह्मणि अविद्यया प्रपञ्चः कल्पितश्चेत्, अपरमार्थभूता अविद्यापि ब्रह्मणि केनचित् दोषान्तरेण परिकल्पितेति स्वीकारे सोऽपि [[139]]
दोषः परमार्थत्वाभावात् दोषान्तरेण परिकल्पित इति अनवस्था स्यात् इति प्रश्नः भाष्यकारैः 219 कृतः । इयमनवस्थाजीवाज्ञानवादिना अविद्यया । जीवः जीवगताविद्येति बीजाङ्कुरन्यायेन परिहृता । अस्मिन् पक्षे जीवस्यामोक्षात् स्थायित्वं कृतविनाशाकृताभ्यागमप्रसङ्गान्यथानु- पपत्त्या सिद्धं विरुद्धयेत, अतः ब्रह्माज्ञानवादः स्वीकार्यः । तन्मते अविद्यायाः स्वरूपानादित्वं स्वीकृतमतो नानवस्था । न चैवमपि स्वरूपानादेः- जीवस्य कल्पिका अविद्या यथा स्वीक्रियते, तथा स्वरूपानादि अविद्याया अपि मूलदोषान्तरापेक्षा भवतीति वाच्यम् । दुर्घटत्वस्य अविद्याभूषणत्वात् इति । अत्र भाष्यटीकादिषु दुर्घटत्वमविद्याया वक्तुं न शक्यत इति प्रपञ्चितम् । दुर्घटत्वमुपपत्ति- निरपेक्षत्वम्, यद्युपपत्तिनिरपेक्षा अविद्या मुक्तान् परं ब्रह्म चाश्रयेदविद्या । विरोधान्न तत्र तिष्ठति चेत्, किं तर्हि उपपत्त्यनुवर्तिनी अविद्या इत्याद्या युक्तयः दुर्घटत्वनिरासिकाः प्रतिपादिताः 220 । ।
पूर्वपक्षः
अयमत्र पूर्वपक्षः- अविद्या कर्म इति विशिष्टाद्वैतिभिरुच्यते । कर्मणा देहादिप्रपञ्चः देहादिप्रपश्चेन कर्म इति अनवस्थाप्रसङ्गे बीजाङ्कुरन्याय एव भवतामपि शरणम् । यदि कर्मदेहादिप्रपञ्श्चयोः कार्यकारणभावे अनवस्थादोषः प्रवाहानादित्वं तयोः स्वीकृत्य वार्यते, तदा जीवाज्ञानवादिनापि स [[140]] [[7]] f
दोषः प्रवाहानादित्वं जीवाज्ञानयोः स्वीकृत्य वार्यते इति को विशेषः ? न च जीवस्य नित्यत्वं श्रुतिसिद्धं विरुद्धयेत, यदि जीवस्या- विद्याकल्पितत्वमुच्यत इति वाच्यम्, श्रुतिसिद्धजीवनित्यत्वस्य जीवाभिन्नब्रह्मनिष्ठत्वात् । अतः कर्मणो देहः, देहात् कर्मेतिवत् अविद्यातो जीवः, जीवे अविद्येति युक्तम् । न च " अजो ह्येकः " 22 । “अजामेकाम्” इति श्रुतिभ्यां जीवस्याविद्यायाश्चानादित्वं सिद्ध्यतीति तद्विरोध इति वाच्यम् । तत्र प्रवाहानादित्वस्यैव विवक्षितत्वात् । अतो जीवाज्ञानपक्षे न कोऽपि दोष इति । उक्तं च प्राचीनैः " स्वेनैव कल्पिते देशे व्योम्नि यद्वद्घटादिकम् । तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोविदाः ॥ इति जीवाज्ञानयोरनादित्वे उत्पत्तिज्ञप्त्यप्रतिबन्धाच्चान्योन्याश्रयो दोषः न इति च । किश्च अज्ञानान्तःकरणावच्छिन्नचैतन्यलक्षणः प्रमाता स्वाश्रिताज्ञानदोषात् निराश्रयां निर्विषयामनुभूतिम् अनन्ताश्रयामनन्त- विषयां प्रतिपद्यत इति स्वीकारात् निर्विषया निराश्रया स्वप्रकाशा ए चेयमनुभूतिः स्वाश्रयदोषात् अनन्ताश्रयमनन्तविषयमात्मान- मनुभवति इति अद्वैतिसम्मतमिति कृत्वा निरसनं न युज्यते । [[141]]
सिद्धान्तः
अयमत्र सिद्धान्तः- कर्मणा देहः देहात् कर्मेत्यत्र बीजाङ्कुरन्यायस्य प्रसरो युज्यत एव । स शास्त्रसिद्धा । जीवाविद्यापक्षः शास्त्रविरुद्धः । न श्रुतौ जीवस्य प्रवाहानादित्वमेवोक्तमिति वाच्यम् । श्रुतौ कुत्रापि प्रवाहानादित्वपरतया नित्यशब्दस्य वा अजशब्दस्य वा प्रयोगाभावात् । किा जीवस्य सादित्वे कृतप्रणाशाकृताभ्यागमप्रसङ्गो भवेत् । कर्म तत्फलभोगयोः बीजाङ्कुरन्यायः सर्ववादिसिद्धः । भाष्यकारैश्च “अनादौ संसारे बीजाङ्कुरवत् हेतुहेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुद्धयत " इति भाषितम् । जीवाज्ञानपक्षे अन्योन्याश्रयादिदोषाः भाष्यकारेण कथिता आरम्भणाधिकरणे 222 । तत्र हि जीवभेदसिद्धौ अविद्याःसिद्ध्यन्ति, तासु सिद्धासु जीवभेदसिद्धिरिति अन्योन्याश्रय उक्तः । बीजाङ्कुरन्यायेना- न्योन्याश्रयवारणं च न भवति, बीजाङ्कुरेषु अन्यदन्यत् बीजमन्य- स्याङ्कुरस्योत्पादकम् । इह तु याभिरविद्याभिः ये जीवाः कल्प्यन्ते, तानेवाश्रित्य अविद्यानां सिद्धिरिति भेदः । एवमन्येऽपि दोषाः जीवाज्ञानवादे प्रदर्शिताः । अपि च अज्ञानान्तःकरणावच्छिन्नचैतन्यरूपे प्रमातरि अविद्या वर्तत इति कथनमपि सिद्धान्तविरुद्धम्। जीवाज्ञानपक्षे तस्योपपत्तावपि ब्रह्माज्ञानपक्षे तथा कथनस्यायुक्तत्वात् भाष्यकारैस्तु ब्रह्माज्ञानस्यैव निराक्रियमाणत्वात्। [[142]]
ननु दुर्घटत्वमविद्याया भूषणम् इति कथनस्यायमर्थः- अविद्यातत्कार्याणां जीवेश्वरजगतां ब्रह्मणि स्थित्ययोगः इति । न च दुर्घटत्वं नामोपपत्तिशून्यत्वं, तत् अविद्याया न सम्भवति उपपत्तिमत्त्वात् अनुपपत्तीनां दर्शितत्वात् इति वाच्यम्, न हि अविद्यायाः ब्रह्मज्ञानबाध्यत्वं प्रपश्चाध्यासहेतुत्वं वा पारमार्थिकत्वं वा दुर्घटम् इति कथ्यते, येन “मुक्तान् ब्रह्म चाश्रयेदविद्या इत्यादि प्रश्नः स्थानं भजेत, किन्तु अनन्तविशेषायाः अनृतजडदुःखात्मिकायाः तस्याः सच्चिदानन्दे ब्रह्मणि अवस्थानं ब्रह्मणः जीवादिभावापादनं च दुर्घटमित्येव कथ्यते । मुक्तौ, सकार्याया अविद्याया न प्रतीतिरिति तदानीं नाविद्यायाः न मुक्तब्रह्माश्रितत्वमिति स्वीक्रियते, वस्तुतः ब्रह्माश्रितत्वमिदानीमपि नास्ति इत्यादिकं परिशीलनीयम् । न च जगतो दुर्घटत्वादेवा- परमार्थत्वमस्तु किम् अविद्याकार्यत्वेन तस्यापरमार्थत्वमिति वाच्यम्, न हि वयं जगतोऽपरमार्थत्वाय तस्याविद्याकार्यत्वं ब्रूमः । किन्तु जगतो दुर्घटत्वादेव । न च दुर्घटजगद्घटनाय अविद्येनदुर्घटाविद्याघटनाय दोषान्तरं स्वीक्रियताम् इति वाच्यम्, अनवस्थादोषात् । अतोऽविद्यैन दुर्घटमात्मानमपि घटयति, जगदपि घटयति इति तस्याः स्वपरनिर्वाहकत्वं स्वीक्रियते । तथा चायं सारः “अविद्याया दुर्घटत्वं भूषणम् इति यदुक्तम्, तद्युक्तमेव । अविद्यायाः अनन्तविशेषरूपायाः निर्विशेषेऽवस्थानं, तस्याः ब्रह्मणि जीवेश्वरजगतां सद्भावापादनं च [[143]] 发 E
दुर्घटम् । अविद्याया ब्रह्मज्ञानबाध्यत्वं न दुर्घटम्, तच्चापपत्तिमत्, अपारमार्थिक्याः तस्याः अधिष्ठानप्रकाशबाध्यत्वस्य स्वीकर्तव्यत्वादिति। एवम् आरम्भणाधिकरणे223 तत्र युक्तिपरम्परया कृतं खण्डनं न लगतीति चेन्न, “दुर्घटत्वमविद्यायाः अस्तु वाऽनुपपत्तिरेण, कार्यकारणयो- र्मायात्मकत्वात्। ॐ गुपपत्तिस्तु मायामुपोद्बलयति । अनुपपद्यमानार्थ- ૩ न्वात् मायाया इति” हि अद्वैतिभिः प्राचीनैः भणितम् । परन्तु दुर्घटत्वं भाष्यकारैः नाविद्यायाः ब्रह्मणि अवस्थानविषये वा, तस्मिन् अविद्याप्रयुक्तकार्याणां प्रतीतिविषये वा प्रतिक्षिप्तम्, तद्व्यतिरिक्त- विषयेऽपि दुर्घटत्वं भवेदेवेति तेषामाशयः । यथा जीवाज्ञानपक्षे " इतरेतराश्रयदोषात् अविद्यायाः जीवे परिकल्पनाभावः, तत्त्वज्ञानोदयात् जीवाज्ञाननाशे जीवस्याविद्याकल्पितस्य नाशो वा न वेति विकल्पने प्रथमे स्वरूपोच्छित्तिलक्षणमोक्षापत्तिः, द्वितीये ब्रह्मभिन्नस्य जीवस्य अवस्थानादनिर्मोक्षप्रसङ्गः, इत्याद्या अंशाः आरम्भणाधिकरणे जीवाज्ञानपक्षे कथिताः। ते चाक्षेपाः दुर्घटत्वमविद्याया भूषणमिति कथनेन वारयितुं न शक्याः, न वा तत्र समाधानान्तरं विद्यते इति भाष्याभिप्रायः। न च ब्रह्माज्ञानवादे एव एवं दुर्घटत्वं कस्मिंश्चित् अंशे स्वीक्रियते, कस्मिंश्चिन्नेति कथितम् इति वाच्यम्, अविद्यायाः ब्रह्माश्रितत्वतत्प्रयुक्तविचित्रावभासभिन्नविषयेऽपि तत्पक्षेऽनुपपत्तेः सद्भावात् । तथाहि अविद्यायाः स्वयं मिथ्यारूपायाः कल्पकदोषान्तरा- [[144]]
पेक्षायामनवस्था। अविद्यायाः ब्रह्माश्रितायाः स्वपरनिर्वाहकत्वे कुतः जगतः स्वपरनिर्वाहकत्वाभावः, कुतोऽविद्याकल्पना इति प्रश्नसम्भवः । अथवा श्रुतप्रकाशिकोक्तरीत्या अधिष्ठानस्यापि स्वपरनिर्वाहकत्वं स्यात् । परं प्रति अधिष्ठानत्वे सिद्धे हि स्वपरनिर्वाहकत्वमिति चेत्, परं प्रति दोषत्वे सिद्धे हि स्वनिर्वाहकत्वं तदेव नास्तीति प्रतिबन्दी सम्भवः इत्यादिकं द्रष्टव्यम्। न च अविद्याविषये यत्र यत्रानुपपत्तिः दृश्यते, तत्र तत्र दुर्घटत्वोक्तया समाधानमिति वाच्यम्, तथात्वे सर्वं सर्वत्र स्वीकार्यं स्यादिति पूर्वपक्षसिद्धान्तपरम्परैण न स्यात् । दुर्घटत्वमविद्याया भूषणमिति पक्षः अद्वैतसिद्धावेव निरस्तः 224 “न चाविद्यायामनुपपत्तिरलङ्कारः। अनुपपत्तिमात्रं नालङ्कारः, सत्त्वादिप्रापकयुक्तावनुपपत्तिः । अन्यथा वादिणचसोऽनवकाशापत्तेः " इति । एवं च भाष्योत्ताविद्यादुर्घटत्व- दूषणमद्वैतसिद्धिकाराणामेवाभिमतमिति तत्रानुपपत्तिर्न प्रष्टव्या । श्रुतप्रकाशिकादिषु 225 अस्मिन् विषये विस्तरो द्रष्टव्यः ।
अनिर्वचनीयत्वानुपपत्तिः
अविद्याया अनिर्वचनीयत्वं न सम्भवतीति प्रतिपादनावसरे भाषितं यत् “अनिर्वचनीयत्वं च किमभिप्रेतम् ? सदसद्विलक्षण- त्वमिति चेत्, तथाविधस्य वस्तुनः प्रमाणशून्यत्वेनानिर्वचनीयतैव स्यात् । एतदुक्तं भवति- सर्वं हि वस्तुजातं प्रतीतिव्यवस्थाप्यम् । [[145]] सर्वा च प्रतीतिः सदसदाकारा । सदसदाकारायास्तु प्रतीतेः सदसद्विलक्षणं विषय इत्यभ्युपगम्यमाने सर्वं सर्वप्रतीतेः विषयः स्यात् " 226 इति । अत्र “सर्वं सर्वप्रतीतेः विषयः स्यादिति ग्रन्थस्य" सदसद्विलक्षणमिति प्रतीतेः सदसद्विषयकत्वं स्यादिति 227 टीका ।
पूर्वपक्षः
अत्रैवं पूर्वपक्षः- सर्वं ज्ञेयं वस्तु प्रतीतिव्यवस्थाप्यम्, ज्ञानसाध्यत्वात् ज्ञेयस्य । नं न प्रतीतिव्यवस्थाप्यम् । ज्ञानस्य प्रतीतिपदवाच्यस्य स्वतः सिद्धत्वात् । न च ज्ञानमपि परतः सिद्धमिति वाच्यम्, तज्ज्ञानसाधकं परं ज्ञेयम् उत ज्ञानम् ? नाद्यः पक्षः, ज्ञानाधीनसिद्धिकस्य ज्ञेयस्य ज्ञानसाधकत्वाभावात्, द्वितीये किं तत् साध्यात् ज्ञानात् भिन्नमुता भिन्नम्? आद्येतस्याप्यन्यत् साधकम्, तस्यापीत्यनवस्था । अभेदपक्षे ज्ञानस्य स्वतः सिद्धत्वं लभ्यते । एवं च प्रतीतिः स्वतः सिद्धत्वात् न बाध्येति सा सती भवति । वस्तु तु बाध्यते अतः सद्भिन्नं भवितुमर्हति । यत् साध्यं तत् बाध्यते यथा घट इति व्याप्तेः साध्यस्य विषयस्य बाध्यत्वसिद्धौ सद्विन्नत्वं प्रतीतिसाध्यायामविद्यायां भवति । अयं घट इतिवत् इदं शशृङ्गमिति प्रतीत्यभावात् । शशशृङ्गं सद्भिन्नं भवति । अविद्यायास्तु प्रतीतिर्भवति, अतः सद्भिन्नापि इयमसती न भवति । अतः बाधप्रतीत्योः सत्त्वात् अविद्या सदसद्भिन्नेति अद्वैतसिद्धान्तः । सदसदाकारत्वं तु न भवति एकस्य वस्तुनः विरुद्धोभयाकाराभावात् । [[146]]
तेजस्त्वतमस्त्वयोरिव सत्त्वासत्त्वयोः एकत्र स्थित्ययोगात् न सदसदाकारणस्तुसिद्धिरिति । न च सदसदाकारप्रतीत्या सदसदाकार- वस्तुसिद्धिरिति वाच्यम्, एकस्याः प्रतीतेः सदसदाकारत्वाभावात् । न हि घटः सन् इति प्रतीतिः घटोऽसन्नितिप्रतीतिश्चैका भवितुमर्हति । एवं सदाकारप्रतीतिः असदाकाराप्रतीतिरिति ज्ञानद्वयं सिद्धम्, तदपेक्षया तृतीयं सदसदाकारं ज्ञानं न भवति । परन्तु तृतीयं सदसद्भन्नाकारं ज्ञानं तु भवत्येव । सदसद्भिन्नमिदमिति प्रतीतेः लोकेऽभावेऽपि " तु मिथ्येद’ मिति प्रतीतेः सार्वजनीनत्वात् सदसद्विलक्षणपदार्थस्य प्रसिद्धिः भवत्येव। पामरोऽपि रज्जुसर्पं सतः सर्पात् असतः शशशृङ्गाच्च विलक्षणं मन्यते। तस्मात् रज्जुसर्पादेः सदसद्विलक्षणत्वमस्ति इति सदसद्विलक्षणं वस्तु प्रमाणशून्यं न भवति । न च अज्ञानं सत् पटः सन् इत्यादिप्रतीत्या अज्ञानादेः सत्त्वमेव सिद्ध्यतीति वाच्यम्, व्यावहारिकसत्ताया एव तत्र विषयत्वात् । वस्तुतस्तु अज्ञानादौ सत्त्वप्रतीतिर्भान्तिरेण, ज्ञानस्यैकस्याबाध्यस्य सत्त्वात् । अतः सदसद्विलक्षणम् अज्ञानं प्रमाणसिद्धमेवेति । अत्र विशिष्टाद्वैतिन एवमाहुः- सदसद्भिन्नं वस्तु नास्त्येव । परस्परविरोधे हि न प्रकारान्तरस्थितिः । नैकतापि विरुद्धानामुक्तिमात्रविरोधतः ॥ [[147]]
इति न्यायेन228 सदसद्भिन्नस्य वस्तुनोऽप्रमाणिकत्वात् । किञ्च “सदसद्भिन्नम् इदम्” इति भवन्मते प्रपञ्चस्य केनचित् प्रमाणेन साधनात् प्रपञ्चस्य सत्त्वमेव सिद्ध्यति । प्रमितिविषयत्वं हि सत्त्वम् । किञ्च नेह नानास्ति किञ्चनेति प्रपञ्चस्य निषेधस्य भवद्भिः कथनात् प्रमितिविषयीभूताभावप्रतियोगित्वरूपमसत्त्वमेव वा स्यात्, न तु सत्त्वाभावासत्त्वाभावोभयम्। न च अविद्यायाः प्रपञ्चस्य च बाध्यत्वात् वा न सत्त्वम्, बाध्यत्वं च ज्ञेयत्वप्रयुक्तम् । ब्रह्मणि ज्ञेयत्वाभावात् न बाध्यत्वमतः सत्त्वम् इति वाच्यम्, भवदभिमताविद्याया उभय- वादिसम्प्रतिपन्नत्वाभावात् प्रपञ्चस्य च ज्ञेयत्वेऽपि बाध्यत्वा- नभ्युपगमात् । न च वियदादिप्रपञ्चः बाध्यः दृश्यत्वात् शुक्तिरूप्यवत् इत्यनुमानेन तस्य बाध्यत्वं सिद्ध्यतीति वाच्यम्, ब्रह्मण्यपि दृश्यत्वस्य सत्त्वात् तस्यापि बाधापत्तेः । ब्रह्मणि परिष्कृतो दृश्यत्वरूपो हेतुः नास्तीति न च वाच्यम्, दृश्यत्वस्वरूपं विकल्प्य तस्य मिथ्यात्व - साधकत्वाभावस्य भाष्यादिषु प्रतिपादितत्वात् । तथा हि ज्ञानविषयत्वं दृश्यत्वमिति पक्षे ब्रह्मणि व्यभिचारः । तस्य फलव्याप्यत्व- रूपज्ञानविषयत्वं नास्तीति चेत्, तस्य हेतोरुभयवाद्यसिद्धत्वात्। चाक्षुषज्ञानविषयत्वं वियदादौ भागासिद्धम् । अशाब्दज्ञानविषयत्व- रूपदृश्यत्वं शब्दैकसमधिगम्येपूर्णादौ असिद्धम् । एतादृशयुक्तया प्रपश्चस्य मिथ्यात्वसाधने ब्रह्म मिथ्या तुच्छान्यत्वात्, शुक्तिरूप्यवत् [[148]]
इति अनुमानेन ब्रह्मणोऽपि मिथ्यात्वं सिद्ध्येत् । न चेदमनुमानं दुष्टम् इति वाच्यम्, प्रपञ्चमिथ्यात्वानुमानस्यापि दुष्टत्वात्। न च स्वप्रकारकधीविशेष्यताव्यापकाभावप्रतियोगित्वं बाध्यत्वं तदेवानिर्वचनीयत्वम्। प्रपञ्चः स्वपदेन ग्राह्यः यत्र प्रपञ्चः प्रतीयते, तत्र सर्वत्रापि प्रपञ्चाभावस्य वर्तमानत्वात् प्रपचे एतादृशबाध्यत्वं सिद्धमेवेति वाच्यम्, वियदादिप्रपञ्चे एतादृशबाधसद्भावे प्रमाणाभावात्। अतः बाध्यत्वात् प्रपञ्श्चस्य सद्भिन्नत्वम् इति न युक्तम् । [[1]] किश्च इदं सदसद्भिन्नम् इति प्रतीतेरभावेऽपि रज्जुसर्पो मिथ्येति प्रत्ययोऽस्ति अतोऽनिर्वचनीयं वस्तु प्रतीतिसिद्धमित्यपि न, शशशृङ्गं मिथ्येत्यपि प्रत्ययोऽस्तीत्यतः तस्यापि सदसद्विलक्षणत्वापत्तेः। अतः मिथ्येति प्रत्ययः भ्रमपर्यायतया प्रयुज्यते, असत्परतया वा प्रयुज्यते इत्येव सम्यक् । शशशृङ्गम्मिथ्येति प्रत्ययस्थले शशशृङ्गस्य मिथ्यात्वं तुच्छत्वापरपर्यायमसत्त्वरूपम् । पुरोवर्तिनि रजतज्ञानं मिथ्येत्यत्र मिथ्याशब्दः भ्रमपर्यायः । न च रजतं मिथ्येति प्रयोगबलाद्रजत- स्यानिर्वचनीयत्वं सिद्ध्यतीति न युक्तम्, तत्र रजतस्य " प्रतीतिकाले- ऽसत्त्वमेव प्रतीयते न तु सर्वदा असत्त्वम् । अत एव लोकाः प्रयुञ्जते “ तद्जतं मिथ्या" इति तत्-पुरोवृत्तित्वेन तत्काले प्रतीयमानं रजतं न इत्येवार्थः । केवलं रजतं मिथ्या इति कदापि न प्रयोगः । न रजतम् [[149]]
इति समान्यतः रजतनिषेधः प्रसिद्धो न । अतः सदसदनिर्वचनीयं वस्तु नास्त्येव ।
भावरूपाज्ञानानुमानविचारः
विवादाध्यासितम् प्रमाणज्ञानं स्वप्रागभागव्यतिरिक्त स्वविषयावरण स्वनिवर्त्य स्वदेशगत वस्त्वन्तरपूर्वकम् अप्रकाशि- तार्थप्रकाशकत्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावत् इत्यनुमानम् भावरूपाज्ञानसाधकं प्रसिद्धम्। भगवद्रामानुजाचार्यास्तु अज्ञानं नाम ज्ञानाभाव इति प्रतिपादयन्ति । अज्ञानस्य अद्वैतिसङ्गतभावरूपत्वं तेषां नाभिमतम् ।
अद्वैतिनां सिद्धान्तः
अद्वैतवेदान्तिनः पूर्वोक्तमनुमानं विवरणग्रन्थोक्तं पुरस्कृत्य भावरूपाज्ञानं सिषाधयिषन्ति।
तन्मतानुसारेण पक्षसाध्यहेतुघटकदलानां सार्थक्यं प्रतिपाद्यते । इदं रजतमिति प्रमास्थले धर्म्यंशप्रमाणवृत्तेः इदमाकारायाः अज्ञानानिवर्तिकायाः वारणाय विवादाध्यासितम् इति। धर्म्यंशप्रमाणवृत्तिः इदमाकारा विशेषाकारा प्रमाणवृत्तिः न भवति । अत्र विशेषाकारप्रमाणवृत्तिरेव पक्षत्वेन विवक्षिता या अज्ञाननिवर्तिका भवति । न च इदमाकारायाः प्रमाणवृत्तेः अज्ञाननिवर्तकत्वं न स्वीक्रियते यदि, तदा कथं तस्याः प्रमात्वमिति वाच्यम्, तस्याः सुखादिप्रत्यक्षवत्
[[150]]
le
भ
प्र.
यथार्थत्वेनैव प्रमात्वव्यवहारात् । सुखादिप्रत्यक्षं हि साक्षिरूपं स्वीक्रियते। साक्षिणोऽज्ञानानिवर्तकतया साक्षिभास्येऽज्ञानासम्भवाच्च सुखादिप्रमा अज्ञाननिवर्तिका न भवति । सुखादिप्रत्यक्षस्य पक्षत्ववारणाय प्रमाणपदं प्रमावृत्तिपरम् । सुखादिप्रत्यक्षं नित्यं साक्षिचैतन्यरूपं न प्रमाणजन्यान्तः करणवृत्तिरूपम् । प्रमाणशब्देन भ्रान्तिभूतज्ञानमपि व्यावर्त्यते । ननु परोक्ष- प्रमामादाय बाधः, अद्वैतिनां पक्षे परोक्षप्रमायाः अज्ञाननिवर्तकत्वं न स्वीक्रियते, अज्ञानं हि विषयाभानापादकम् । तच्च विषयावच्छिन्न- चैतन्यगतम् । विषयो न भाति, न स्फुरति इति व्यवहारजनकम् । परोक्षस्थले अन्तःकरणवृत्तिनिर्गमनस्यास्वीकारात्। परोक्षप्रमा नाज्ञान- निवर्तिका इति अद्वैतसिद्धान्तः । अतः परोक्षप्रमान्तर्भावेण बाध इति चेन्न, परोक्षप्रमायाः विषयावच्छिन्नचैतन्यगताज्ञानानिवर्तकत्वेऽपि प्रमातृगताज्ञाननिवर्तकत्वेन बाधाभावात् । प्रमातृगताज्ञानं हि विषयस्य असत्वापादकं विषयस्य नास्तीतिव्यवहारजनकम् । तन्निवर्तकत्वं परोक्षप्रमायाः अस्तीति न अज्ञानानिवर्तकत्वमिति न बाधः । यदि च इदमाकारायाः धर्म्यंशप्रमावृत्तेरपि तदाकाराज्ञान- निवर्तकत्वं स्वीक्रियते, सर्वं ज्ञानं धर्मिण्यभ्रान्तं प्रकारे तु विपर्ययः [[151]]
इति न्यायात् इदमंशे भ्रमसंशययोरभावात् तदाकारज्ञानं नास्तीति न शङ्कयम्, अनुभवबलात् तत्राज्ञानस्वीकारात् इति विवादास्पदमित्यनेन इदमाकारायाः प्रमाणवृत्तेः व्यावृत्तिर्नयुक्तेति कथ्यते, तदा विवादाध्यासितम् इति व्यर्थमेव । केचित्तु धारावाहिद्वितीयादिज्ञानव्यावृत्त्यर्थं विवादास्पदत्वं विशेषणं देयम् । तत्र प्रथमज्ञानेनैव अज्ञाननिवृत्तौ द्वितीयादिज्ञाने- नाज्ञानस्यानिवर्त्यत्वात् तदंशे बाधवारणाय विवादास्पदमिति प्राहुः। परन्तु प्रायः सर्वैः दार्शनिकैः कालस्य सर्वप्रत्ययवेद्यत्वस्वीकारात् धारावाहिद्वितीयादिज्ञानेऽपि क्षणविशेषस्याधिकस्य विषयत्वात् तदज्ञानस्य निवर्त्यत्वात् न बाध इति व्यर्थमेव तत्पदम् । किमुत वर्धमानोपाध्याया अपि परिशुद्धिप्रकाशे अस्मत्पितृचरणा इति आरभ्य धारावाहिद्वितीयादिज्ञानानां कालविषयकत्वं स्वीकुर्वन्ति । तथापि नृसिंहाश्रमिणः धारावाहिद्वितीयादिज्ञानस्य अज्ञाननिवर्तकत्वं न स्वीकुर्वन्ति । प्रतीतिकरणव्युदासाय ज्ञानशब्दः । अत्र साध्यविशेषणानाम् अनुलोमप्रतिलोमक्रमेण यद्यपि विशदतया अद्वैतग्रन्थेषु दलप्रयोजनं न्यरूपि, तथापि लघुरूपेण श्रीवेदान्तदेशिकैरेवं दलकृत्यमुक्तम् ‘स्वप्रागभावस्वोत्पादकादृष्टस्वोत्पत्तिप्रतिबन्धकादृष्ट स्ववेद्यगतवृत्त्य- [[152]]
भिव्यक्तिप्रागभावाः साध्यविशेषणैः व्यवच्छेद्या” 229 इति । अत्र वस्त्वन्तरशब्दः वैशद्यार्थः । अत्र प्रागभागव्यतिरेक्तेत्येतावता प्रथम- चतुर्थविशेषणफलसिद्धौ पृथग्विशेषणनिर्देशः व्यवच्छेद्यविशेष- व्यञ्जनायेति देशिकचरणाः । ऋजुविवरणेत्वेवमुक्तम्- स्वाकारः प्रागभावश्च करणं संस्कृतिस्तथा । रजतं भ्रान्तिरूपाधीर्निरस्यास्त्वनुलोमतः ॥ 230 पूर्वं ज्ञानं तथाशून्यं करणं वाह्यमान्तरम् । अधर्मः प्रागभावा निरस्याः प्रतिलोमतः ॥ परन्तु अद्वैतसिद्धिकाराः प्रथमेन प्रागभावव्युदासः चतुर्थेना- त्यन्ताभावव्युदासः इति कथयन्ति231 । अत्र कश्चन प्रश्नः जडस्याज्ञानं न स्वीक्रियते, अजडायाः चितस्तु अज्ञानसाक्षित्वेन भानं न स्वीक्रियते, तथा च आग्रियमाण- स्यैवाभावात् आवरणं कथं निरूप्यत इति ? अयमर्थः - अज्ञानस्य अज्ञानपरिणामादेः रजतादेः साक्षिभास्यत्वं स्वीक्रियते । अज्ञानभासकं साक्षि अपि भासत एव, स्वप्रकाशत्वात् । अतः आव्रियमाणमेवासिद्धम् इति कथमागरणोपपादनम् इति ।
समाधानम्
तत्र समाधानम् - साक्षिचैतन्यस्य येन रूपेण भानं भवति. तदन्यरूपेण आवृतत्वमङ्गीकार्यम् । साक्षिचैतन्यमस्ति भवतीति न [[153]]
व्यवह्रियते, अतः अस्तित्वादिरूपेण साक्षिचैतन्यस्यावृतत्वं स्वीकार्यम् । यदि च साक्षि अस्तित्वादिरूपेणापि भासत इति स्वीक्रियते, तदा साक्षिणः स्वीकारस्य इतरदार्शनिकानामपि आवश्यकत्वात् तत्स्वीकारे विवाद एव न भवेत् । अप्रकाशितार्थप्रकाशकत्वमिति हेतुः । तत्र धारावाहिक - द्वितीयादिषु अनैकान्त्यपरिहाराय अप्रकाशितार्थशब्दः । आलोकमध्या- रोपितदीपव्यगच्छेदाय अन्धकारोक्तिः । तत्रापि द्वितीयादि- प्रभाव्यवच्छेदाय प्रथमोत्पन्नशब्दः । इन्द्रनीलादिप्रभाव्यवच्छेदाय प्रदीपशब्दः ।
हेतुविषये विशिष्टाद्वैतिनामाक्षेपः
अप्रकाशितार्थप्रकाशकत्वम् इति हेतुं विमृशन्ति 232 वेदान्त- देशिकचरणाः। तथाहि-प्रकाशकत्वं नाम किमिति प्रश्नः । यदि ज्ञानत्वं प्रकाशकत्वं तदा तत् प्रदीपप्रभायां दृष्टान्ते नास्तीति दृष्टान्तस्य साधनवैकल्यं स्यात्। सर्वसपक्षव्यावृत्तत्वात् असाधारणोऽयं हेतुः स्यात् । यदि ज्ञानकरणत्वं प्रकाशकत्वं तदा पक्षे प्रमाणज्ञाने तदभावेन स्वरूपासिद्धिः स्यात् । किञ्च दृष्टान्ते प्रदीपप्रभायामपि ज्ञानकरणा- नुग्राहकत्वमेव, न ज्ञानकारणत्वमिति दृष्टान्ते साधनवैकल्यमपि स्यात् । यदि ज्ञानकरणानुग्राहकत्वं प्रकाशकत्वम्, तदा स्वरूपासिद्धिः दोषः [[154]] [[76]] (S अ च
स्यात् । यदि ज्ञानहेतुत्वमात्रं प्रकाशकत्वम्, तदा स्वरूपासिद्धिः, इन्द्रियान्तर्भावेण व्यभिचारश्च दोषः । यदि च प्राकट्यहेतुत्वं प्रकाशकत्वम्, तदा प्रकटत्वानङ्गीकारपक्षे स्वरूपासिद्धिः दोषः (साधनाप्रसिद्धिरेव प्रचीनैः स्वरूपासिद्धिरित्युच्यते) तदङ्गीकारेऽपि दृष्टान्ते साधनवैकल्यं दोषः, न हि दीपप्रभायाः प्राकट्यहेतुत्वं स्वीक्रियते । यदि च प्रकाशकत्वं नाम सामान्यतः साक्षाद्वा परम्परया वा विषयव्यवहारानुगुण्यहेतुत्वमिति स्वीक्रियते, तदा इन्द्रियान्तर्भावेण व्यभिचारः स्यात् । अतोऽप्रकाशितार्थप्रकाशकत्वरूपहेतुघटकं प्रकाशकत्वं दुर्वचमिति। अपि च इयमनुमितिर्यदि अप्रकाशितार्थरप्रकाशिका भवेत् तदा स्वविषयीभूतं यदज्ञानं तदावारकाज्ञाननिवर्तकत्वे तस्या अनुमितेः, अज्ञानावारका-ज्ञानस्यापि प्रकाशे अज्ञानान्तरनिवृत्तिस्त्रीकारेण अनवस्था स्यात् । यदि पुनः तदेवाज्ञानं स्वात्मानमपि तिरस्करोति इति अज्ञानान्तरसाधनं नास्तीति कथ्यते, तदा तेनैवानुमानेना- ज्ञाननिवृत्तिप्रसङ्गः । तथा सति अज्ञानप्रकाशकानुमितेः अज्ञानावारकाज्ञाननिवर्तकत्वं कथमिति व्याहतिर्भवेत् । यदि च इयमनुमितिः स्वविषयाज्ञानावारकाज्ञानं न निवर्तयति, तदा एतदनुमित्यन्तर्भावेण व्यभिचारापत्तिः यदि च साप्यनुमितिः पक्ष इतिपक्षान्तर्भावेण न व्यभिचार इति कथ्यते, तदा अंशतो बाधः । [[155]] यदीयमनुमितिरप्रकाशितार्थप्रकाशिका न भवति, तदा सामानाधिकरण्येन स्वरूपासिद्धिः । यदि अप्रकाशकत्वमेव अस्या अनुमितेः स्वीक्रियते, तदा अस्याः अप्रमात्वमेव स्यात् इति । एवं श्रीवेदान्तदेशिकाशयः सङ्गृहीतः ।
श्रीरङ्गरामानुजमुनिप्रदर्शितो दोषः
श्रीमद्रङ्गरामानुजमुनयः दोषान्तरं प्रदर्शयन्ति233 । तथाहि जडविषयकज्ञानमात्रे अस्यानुमानस्य व्यभिचारः । जडविषयकज्ञानं हि अप्रकाशितार्थप्रकाशकमपि न अज्ञाननिवारकम्, जडस्य हि आवरणं नास्ति, जडं हि प्रकाशप्रसक्तिशून्यम्, नाज्ञानमावरणमपेक्षते । न च घटादेः जडस्य आणारकाभावेऽपि घटावच्छिन्नचैतन्यस्यागारकमञ्ज्ञानं सम्भवतीति वाच्यम् । घटविषयकज्ञानस्य घटावच्छिन्नचैतन्या- वारकाज्ञाननिगर्तकत्वस्य भिन्नविषयत्वेनासम्भवात् । न च घटादिज्ञानमपि घटावच्छिन्नचैतन्यविषयकमेवेति तस्य ज्ञानस्य घटावच्छिन्नचैतान्याज्ञाननिवर्तकत्वमिष्टमेवेति वाच्यम्। “न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ” 234 इति श्रुत्या ब्रह्मणः चक्षुर्ग्राह्यत्वाभावस्योक्तत्वात्। एवं च घटज्ञानं ब्रह्मविषयकमिति वक्तुं न शक्यते । किञ्च सर्वज्ञानानां ब्रह्मविषयकत्वे घटोऽस्ति इत्यादि- ज्ञानानामपि ब्रह्मविषयकत्वात् तस्यापि अविद्यानिवर्तकत्वप्रसङ्गः। [[156]]
न च ब्रह्ममात्रविषयकं ज्ञानमेवाविद्यानिवर्तकम् इति तस्य नाविद्यानिवर्तकत्वप्रसङ्ग इति वाच्यम्। तथात्वे दण्डी देवदत्तः इति विशिष्टज्ञानस्य विशेष्याज्ञाननिवर्तकत्वानुपपत्तेः ।
श्रुतप्रकाशिकाप्रदर्शितः दोषः
श्रुतप्रकाशिकायां तु अस्यानुमानस्य दोषकथनावसरे भाष्योक्तं विरुद्धत्वमेवं निरूपितम् । 235 यदीदमनुमानं स्वविषयावरणा- ज्ञानान्तरसाधकंस्यात्, तदज्ञानं ब्रह्मस्वरूपाच्छादकं सिषाधयिषितम- ज्ञानमावृणोति, तथा चाज्ञानावृतं ब्रह्माज्ञानं ब्रह्मणा न साक्षात्क्रियते । अपरमार्थस्याप्रतीयमानस्य कार्यकरत्वायोगात् अज्ञानकल्पना निष्फला स्यात् । तिरोधानरूपकार्यार्थं हि तत्कल्पना । यदि असाक्षात्कृतमेव अज्ञानं कार्यकरम्, तदा सत्तया कार्यकरं सत् काचादिवत् न ज्ञाननिवर्त्यं स्यात् । यदि चाज्ञानान्तरं न साध्यते तदा अनैकान्त्यं दोषः इति । एवं श्री भाष्ये नव प्रतिप्रयोगाः प्रदर्शिताः236 । यैः प्रयोगैः अज्ञानस्य | स्वरूपं, ब्रह्माश्रितत्वं, ज्ञानविषयावरणत्वं, ज्ञाननिवर्त्यत्वमित्यादिकं खण्डितम्।
अद्वैतिनां समाधानम्
अद्वैतवेदान्तिनः विशिष्टाद्वैतिभिरुक्तस्य प्रधानस्य दोषद्वयस्य एवं समाधानं विदधति । तत्र दोषद्वयमेतत् - अज्ञानेपि अनभिमता- [[157]]
ज्ञानान्तरसाधनात् विरुद्धत्वं हेतोः - इति प्रथमः दोषः । द्वितीयस्तु - अप्रकाशितार्थप्रकाशकत्वरूपहेतुः न निर्वक्तुं शक्यते इति । प्रथमकोटौ साध्यकोटौ वस्त्वन्तरेत्यत्र अन्तरपदं वैशद्यार्थमिति यदुक्तं विशिष्टद्वैतिभिः तत् निराक्रियते तैः वस्त्वन्तरपदं प्रमानिवर्त्य- जन्यभ्रममादाय अर्थान्तरतावारणाय । अन्यत् वस्तु वस्त्वन्तरम् । अत्र वस्तुपदेन जन्यभ्रमो विवक्षितः । तद्भिन्नं वस्तु स्वाभिमतमज्ञानम्। अतः वस्त्वन्तरपदं सार्थकमेव । यदुक्तम्- यदीयमनुमितिः पक्षान्तर्भूता तदा अस्या अनुमितेः अज्ञाननिवर्तकत्वाभावात् बाधः । यदीयं पक्षानन्तर्भूता तदा तत्र साध्याभाववत्याम् अप्रकाशितार्थप्रकाशाकत्वसत्त्वात् व्यभिचार इति तन्न-न हि अज्ञानस्वरूपमत्र साध्यते, अपि तु तस्य भावत्वमेव । अज्ञानस्वरूपं साक्षिभास्यम्, तन्न अनुमानेन साधनीयम्। अज्ञानगतो यो धर्मः ज्ञाननिवर्त्यत्वभावत्वादिकः सः न साक्षिणा गृह्यते, स धर्मः अज्ञानावृतो भवति । तथा च अज्ञाने ये धर्माः साक्षिणा न गृह्यन्ते तत्रानुमानं प्रवर्तते । तथा च बाधव्यभिचारौ न स्तः । एतावता किमुक्तमिति चेत् - अज्ञानस्य यत् स्वरूपं तत् साक्षिभास्यम् “अत्र च साक्षिवेद्यस्य अज्ञानस्य प्रमाणैरभावव्यावृत्तिः प्रदर्श्यते इति न तस्य प्रमाणवेद्यत्वप्रसङ्गः।” इति हि विवरणवाक्यम् 237 । अत इयमनुमितिः [[158]]
अप्रकाशितार्थप्रकाशिका अज्ञानगताभावव्यावृत्यादिग्राहिका च भवतीति न तदनुमित्यन्तर्भावेण व्यभिचारः। साध्यसाधनयोरुभयोरपि सत्त्वात् । न वा बाधः । यश्च द्वितीयो दोषः - अप्रकाशितार्थप्रकाशकत्वं दुर्वचमिति । तत्र हेतुघटकं प्रकाशकत्वं प्रकाशकपदवाच्यत्वम् अप्रकाशविरोधित्वं वा वक्तव्यम्। न च प्रकाशकपदवाच्यत्वं नामकरणवशात् कस्मिंश्चित् पुरुषेऽपि वर्तत इति तत् न ज्ञानालोकमात्रवृत्ति इति वाच्यम्, अप्रकाशितार्थविषयकं प्रकाशकपदवाच्यं हि ज्ञानालोकव्यतिरिक्ते न सम्भवतीति दोषाभावात् । अथवा अप्रकाशितत्वं नाम न प्रकाशत इति व्यवहारगोचरत्वं तादृशाप्रकाशविरोधित्वमेव प्रकाशकत्वमिति विवक्षितम् । अतो यो विकल्पः कृतः शतदूषण्यां श्रुतप्रकाशिकायां च स दोणाधायको न भवत्येव तथाहि-उक्तं विवरणे 238" ज्ञानप्रकाश्यत्वात् अज्ञानविरोधित्वात् अन्यदेव आलोकप्रकाश्यत्वं” तमोविरोधित्वं नामेति । अयं भावः प्रमाज्ञाने अज्ञानविरोधित्वम् आलोके तमोविरोधित्वं चात्यन्तं भिन्नम्। अतः पक्षदृष्टान्तयोरप्रकाशितार्थप्रकाशकत्वमत्यन्तविसजातीयम् इति तन्न हेतुरिति । पूर्वपक्षिशङ्कायाम् इदं विवरणं समाधानरूपेण प्रवृत्तम्। प्रकाशकत्वस्य विजातीयत्वेऽपि अप्रकाशविरोधित्वरूपप्रकाशकत्व- स्योभयसाधारण्यात् न दोष इति । [[159]]
अद्वैतदीपिकायां लाघवेन जन्यसविकल्पकाजन्यचाक्षुष- घटप्रमाज्ञानं पक्षः, पक्षीभूतप्रमादृष्टान्तीभूतालोकयोरन्यतरत्वं हेतुरिति च कथितम् । लघुचन्द्रिकाकारास्तु239 बाह्याबाह्यवृत्तिरखण्डधर्मः प्रकाशकत्व- रूपः अनिर्वचनीयः स्वीक्रियते, यथा वैशेषिकैः वेगभावनास्थिति- स्थापकरूपबाह्याबाह्येषु संस्कारत्वं स्वीक्रियते, तथात्रापि भवितु- मर्हतीति आहुः । अतः विकल्पे ज्ञानत्वं वा, ज्ञानकरणत्वं वा, ज्ञानकरणानु- ग्राहकत्वं वा प्रकाशकत्वपदेन विवक्षितमिति विकल्प्य यानि दूषणानि दत्तानि तानि न सम्भवन्ति । अपि च प्राकट्यहेतुत्वमिति प्रकाशकत्वनिर्वचनमपि अस्माभिः स्वीक्रियत एव । प्राकट्यं चानावृतत्वापरपर्यायमुद्भूतत्वमेव । नृसिंहाश्रमिणः विशिष्टाद्वैतिभिरनुक्ताः कोटीरपि लिखित्वा परिहरन्ति । ते हि प्रकाशकत्वमित्यनेन किं तमोनिवर्तकत्वम्, आवरणनिवर्तकत्वम्, अज्ञानान्धाकारान्यतरनिवर्तकत्वम्, प्रकाशशब्दवाच्यत्वमिति चतस्रः कोटीरधिकतया निवेशयन्ति । तमोनिवर्तकत्वपक्षे अज्ञानान्धकार- योरनुगततमस्त्वाभावात् दोषः। आवरणनिवर्तकत्वरूपप्रकाशकत्व- पक्षे साध्यावैशिष्ट्यम्, अतः अज्ञानान्धकारान्यतरनिवर्तकत्वपक्षोऽपि [[160]]
न युक्तः । प्रकाशकपदवाच्यत्वं यदि प्रकाशकत्वम्, तदा गोशब्द- वाच्यत्वेन पृथिव्यां शृङ्गित्वसाधनं स्यादिति पूर्वपक्षं विधाय तैरेवं समाहितम् - अप्रकाशितार्थप्रकाशकत्वं नाम एतद्विषयावरण- समयावृत्तित्वे सति तन्निवर्तकत्वम् । न च आवरणनिवर्तकत्वं, आवरणपूर्वकत्वमित्येतदुभयं प्रकृते साध्यत इति साध्याविशेषो हेतोरिति वाच्यम्, साध्यसिद्धेः पूर्णम् आवरणनिवर्तकत्वरूपहेतोः सामान्यतः सिद्धिसम्भवात्। रूपादिचाक्षुषज्ञानाभावे तस्मिन् संशयादिजनकतद- ज्ञानरूपावरणस्य तत्सत्त्वे तदभावस्यानुभवासिद्धत्वेन भावरूपा- ज्ञानात्मकावरणनिवर्तकत्वज्ञानाभावेऽपि सामान्यतः आवरण- निवर्तकत्वस्य सिद्धिः भवत्येवेति । नृसिंहाश्रमिणस्तु धारावाहि- द्वितीयादिज्ञानानाम् अज्ञाननिवर्तकत्वं न स्वीकुर्वन्ति परन्तु अद्वैत सिद्धिकारास्तत्रापि तत् स्वीकुर्वन्ति इति विशेषः ।
विशिष्टाद्वैतिनाम् अभिप्रायः
यदुक्तं श्रीभाष्ये “अज्ञानेपि अनभिमताज्ञानान्तरसाधनेन विरुद्धत्वात् हेतोरि”24°ति तत् युक्तमेव । तथाहि - शतदूषण्यामुक्तः अनवस्थादिदोषः प्रदर्शित एव । भाष्यस्यान्योऽप्यर्थः सम्भवति । विरोधो हि अप्रकाशितार्थप्रकाशकप्रमासामान्यं विषयावरणाज्ञानपूर्वकम्, [[161]]
अज्ञानसाधकज्ञानमप्रकाशितार्थप्रकाशकम् प्रमा च, तथापि विषयावरणाज्ञानपूर्वकं न भवतीति कथनेन स्पष्टः । किश्च अज्ञानं साक्षिभास्यम् इत्युक्त्वा तस्याज्ञानस्यानुमानवेद्यत्वमुच्यते । न हि साक्षिभास्ये सुखादौ विवादोऽस्ति । न च अज्ञानं सिद्धमेव तस्य भावत्वादिकं यत् साक्षिभास्यं न, तदेवात्र साध्यते इति वाच्यम्, एवं चेत् अज्ञानं पक्षीकृत्य तत्र भावत्वादि साधनापेक्षया एतादृशप्रयासस्य व्यर्थत्वात् । अपि च साक्ष्यधीनभानस्य अहं न जानामीत्याकारतया तत्र भावत्वविधानायोगः । प्रत्यक्षस्य नञादिघटितवाक्यस्य च अभावसाधकत्वे एव स्वारस्यसत्त्वात् भावरूपत्वं कथमज्ञानस्य वक्तुं शक्यम् । अतः अपूर्णमेव भावरूपाज्ञानमत्र साध्यम्, तथात्वे पूर्वोक्तबाधव्यभिचारौ । अनुमितिविषयाज्ञानस्य स्वयमाच्छादितत्वे किश्चित्करत्वाभावेन तत्स्वीकारस्य वैयर्थ्यम् । अपि च साक्षिभास्यत्वमज्ञानस्य किं ज्ञानाभागत्वेन, रूपान्तरेण वेति विकल्पः । ज्ञानाभावत्वेन चेत्, भावरूपाज्ञानं न सिद्धयेत् । रूपान्तरेण चेत्, न जानामीति अभिलापायोगः । एवं जडविषयकज्ञानस्य प्रमाणरूपस्य जडस्य अप्रसक्त- प्रकाशत्वात् आवरणशून्यत्वेन तस्य ज्ञानस्य अप्रकाशितार्थ - [[162]] i [[1]]
प्रकाशकत्वरूपहेतुमतः अज्ञाननिवर्तकत्वाभावात् बाधः, तस्यापक्षत्वे च जडप्रकाशस्य ततः प्रागजातत्वेना प्रकाशितार्थप्रकाशकत्व- रूपहेतुसत्वात् व्यभिचार इत्यादि भावप्रकाशिकोक्तं दूषणमपि ग्राह्यम्। किञ्च वृत्तिज्ञानस्य घटावच्छिन्नचैतन्यविषयकत्वं न युक्तम्, घटोऽस्ति भाति - इत्येवं सत्ताभानादिरूपस्य ब्रह्मणः, स्वयम्प्रकाश- त्वादेव व्यवहारसम्भवात् वृत्तिज्ञानस्य घटमात्रविषयकत्वस्यैव पर्याप्तत्वात् । एवं च वृत्तेः घटैकविषयकत्वात् अज्ञानस्य च ब्रह्मविषयकत्वात् न वृत्तिज्ञानस्य तन्निवर्तकत्वसम्भवः । ननु प्रमाणज्ञानपदेन ब्रह्मसाक्षात्कारवृत्तिमात्रं पक्षतया स्वीक्रियते, अप्रकाशितार्थप्रकाशकत्वं नाम अप्रकाशितपरमार्थ- प्रकाशकत्वमिति परिष्क्रियते । अतः घटोऽस्ति इत्यादि जडविषयकं ज्ञानमादाय न बाध इति चेत्, न ब्रह्ममात्रविषयकश्रवणमननादौ ब्रह्माधिकविषयस्याभावात् अप्रकाशितार्थप्रकाशकत्वहेतोरसिद्धिः । किञ्च परमार्थवस्तुनः स्वेन सर्वदा प्रकाशितत्वात् अप्रकाशितत्वासिद्ध्या हेतौ अप्रकाशितेति व्यर्थम्। दृष्टान्तस्य प्रदीपप्रभायाः अपरमार्थघटादि- मात्रप्रकाशकत्वात् दृष्टान्ते साधनवैकल्यं दोषः । एवं ब्रह्मसाक्षात्कारः स्वनिवर्त्यवस्त्वनाच्छादितविषयकः वृत्तिज्ञानत्वात् घटादिज्ञानवत् इति सत्प्रतिपक्षोऽपि भवति । [[163]]
एवम् अप्रकाशितार्थप्रकाशकत्वम् प्राकट्यहेतुत्वरूपं यदुक्तम्, तत्र प्राकट्यानङ्गीकारे तत् दुरुक्तम् । प्राकट्यं न उद्भूतत्वं तच्चानावृतत्वमेवेति वाच्यम्। आवरणस्यासिद्धतया हेत्वसिद्धेः। अत एव एतद्विषयावरणसमयावृत्तित्वे सति तन्निवर्तकत्वमिति अप्रकाशितार्थप्रकाशकत्वनिर्वचनमपि न युक्तम् । आवरणस्यासिद्धौ तद्घटितहेतोरसिद्धेः । न च सामान्यतः आवरणनिवर्तकत्वं, आवरणपूर्वकत्वं च सिद्धमिति भावरूपाज्ञानमेवात्र साध्यमिति न दोष इति वाच्यम्, चाक्षुषादिज्ञानेन सामान्यतः आवरणनिवृत्तेः लोकसिद्धत्वाभावात् तदुदाहरणस्यैवायुक्तत्वात् । यदुक्तं प्रकाशकत्वं प्रकाशकपदव्यपदेश्यत्वम् इति तत् इन्द्रियादिषु अनैकान्त्यदोषापादकत्वात् निरस्तम् । न च प्रकाशक- पदव्यपदेश्यत्वम् प्रकाशत इति व्यवहारहेतुत्वम् इति तदिन्द्रियादिषु नास्तीति न व्यभिचार इति शङ्कयम् । प्रकाशो हि नाम अर्थपरिच्छेदः, व्यवहारानुगुण्यापादनम्, तत्तु ज्ञानस्यैव । अतः प्रकाशकपद- घटकप्रकृतिप्रत्ययनिर्वचनेन ज्ञानस्यैव प्रकाशकत्वं लभ्यत इति दृष्टान्ते साधनवैकल्यं दोषः । यदि च परम्परया व्यवहारयोग्यतापादकेऽपि प्रकाशकपदव्यपदेशो भवेत् । तदा इन्द्रियान्तर्भावेण व्यभिचारः । [[164]]
अपि च प्रकाशकपदवाच्यत्वं यदि प्रकाशकत्वं तदा पृथिव्याः शृङ्गित्वं गोपदवाच्यत्वात् साध्यताम्। न चानुकूलतर्कसत्त्वासत्त्वाभ्यां विशेषोऽस्तीति वाच्यम्, उभयत्र अनुकूलतर्काभावात् । तदुक्तम्- पक्षदृष्टान्तानुगतम् प्रकाशत्वं न विद्यते । शब्दसाम्येन चेत् पृथ्व्याः गोत्वात् शृङ्गं समापतेत् ॥ इति अपि च प्रकाशकत्वं नाम अप्रकाशविरोधित्वम् इति पक्षोऽपि न युक्तः, प्रकाशशब्दार्थे विचार्यमाणे तन्मध्य एव तस्य निवेशात् । किश्च अप्रकाशविरोधित्वं ज्ञानालोकसाधारणम् इति वचनमपि न सम्भवति, अप्रकाशो हि विषयित्वाभावः तद्विरोधित्वं विषयता- निरूपकत्वं, तच्च ज्ञान एव न तु आलोकेऽपि । यदि च विषयता- सम्पादकत्वं प्रकृते अप्रकाशविरोधित्वम्, तदा विषयतासम्पादकानि इन्द्रियाणि आदाय व्यभिचारः । अपि च विवरणीयानुमाने अज्ञानान्तरं यदि न साध्यते तदा प्रकाशप्रतिबन्धकनिवारकत्वमुपाधिः प्रदीपप्रभायां हि स्वप्रागभाव- व्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकत्वं वर्तते, प्रकाशप्रतिबन्धकनिवारकत्वमपि वर्तते इति साध्यव्यापकत्वम्, प्रकृतानुमितेरज्ञानान्तरपूर्वकत्वाभावे तदन्तर्भावेण साधनाव्यापकत्वं चेति । [[165]] [[1]] केचित्तु यदुक्तं श्रीभाष्ये अज्ञानेऽप्यनभिमताज्ञानान्तरसाधनेन हेतोः विरुद्धत्वमिति । अत्र हि विरुद्धत्वं “सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध” इति न्यायसूत्रलक्षितमेव । अज्ञानानुमितेः स्वविषयावरका- ज्ञानपूर्वकत्वेऽज्ञानेनावृतस्य मूलाज्ञानस्य साक्षिभास्यत्वं न स्यात् । ब्रह्मस्वरूपाच्छादकं सिषाधयिषितमज्ञानं स्वयमावृतं चेदज्ञानान्तरेण, कथं प्रतीयेत । कथं वा अज्ञानान्तरावृतमज्ञानं कार्यकरं स्यादिति, तन्न युक्तं न हि ब्रह्मस्वरूपाच्छादकाज्ञानस्य सिषाधयिषितस्या- वारकमज्ञानम् अज्ञानानुमितिनिवर्त्यं स्वीक्रियते । न च तथात्वे भागरूपाज्ञानानुमानस्य व्यभिचारदोषः, अप्रकाशितार्थप्रकाशक- त्वरूपहेतोः तादृशवस्त्वन्तरपूर्वकत्वाभाववत्यामनुमितौ सत्त्वादिति वाच्यम् । तद्भिन्नत्वस्य हेतुविशेषणत्वेन व्यभिचारस्य वारणात् । अथवा अज्ञानसाधकानुमितेरपि अज्ञानान्तरपूर्व-कत्वमभ्युपगम्यते, स्वीक्रियते च अज्ञानानृतत्वं ब्रह्मस्वरूपाच्छादकस्याज्ञानस्य । न तावता तस्याज्ञानस्य साक्षिभास्यत्वानुपपत्तिः । यथा अज्ञानावृताः घटादयः साक्षिणा भास्यन्ते । उच्यते हि “सर्वं हि वस्तु ज्ञाततया अज्ञाततया वा साक्षिचैतन्यस्य विषय " 241 इति । अज्ञानावृतस्य घटादेः ब्रह्मणा भानस्वीकारेणैव घटो न भाति इति प्रतीतिः । तथैव अज्ञानान्तरेणा- वृतमप्यज्ञानं साक्षिणा भास्यत एव । घटादिकम् अज्ञानानृतत्वेन विशेषाकारेण न भासते । प्रमाणज्ञानशब्दितं वृत्त्यवच्छिन्नचैतन्यं [[166]] [[7]]
तदज्ञाननिवारणद्वारा निशेषरूपेण घटादिकं प्रकाशयतीति सिद्धान्तस्थितिः। एवं च अज्ञानेऽप्यनभिमताज्ञानान्तरसाधनेन हेतोः सिद्धान्तविरुद्धार्थसाधकत्वापत्तिरिति श्रीभाष्योक्तं न युक्तम् । दृष्टान्तेऽपि प्रदीपप्रभा विशेषाकारेणार्थजातं तमोनिरसनद्वारा प्रकाशयति । प्रदीपप्रभातः पूर्वमपि अन्धकारावृताः पदार्थाः सामन्यतो भान्त्येव अतः श्रीभाष्योक्तदूषणमलग्नकम् इत्याहुः ।
सिद्धान्तः
अयमत्र सिद्धान्तः- श्रीभाष्योक्तं विरुद्धत्वं द्विविधम् । सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति न्यायसूत्रम् 242 । ब्रह्मस्वरूपाच्छादकस्याज्ञानस्या- ज्ञानान्तरेणावृतत्वपर्यवसानं स्वसिद्धान्तविरुद्धम् । किञ्च अज्ञानं साक्षिभास्यमिति स्वीकृत्य तत्रानुमानसाध्यत्वकथनम् । न हि साक्षिभास्यसुखादिकं स्वसिद्ध्यर्थमनुमानमपेक्षते । अत्रान्योन्या- श्रयोऽपि श्रीउनेउत्तमूस्वामिभिः अस्यानुमानस्याज्ञानगत- भावत्वमात्रसाधकत्वपरत्वे प्रदर्शितः । अज्ञानस्य साक्षिभास्यत्वनिश्चये अस्यानुमानस्य भावरूपत्वमात्रसाध्यकत्वनिश्चयः, “अनुमानस्य तन्मात्रसाधकत्वनिश्चये सत्येव हेतोरज्ञानांशासाधकत्वेन निर्दुष्टत्वनिश्चयात् भागरूपत्वसिद्ध्या साक्षिभास्यत्वनिश्चय इति परस्पराश्रयः”243 इति । यदुक्तं समाधानम् अज्ञानस्याज्ञानेनावरणेऽपि [[167]]
न दोष इति, तदपि न, अज्ञानस्याज्ञानान्तरावृतत्वे कथं ब्रह्मणा भानं स्यात् । अज्ञानस्य सिषाधयिषतस्याच्छादितत्वात् । न च अज्ञानानृतघटादेरिण अज्ञानान्तरावृतस्य प्रकृतसाध्यभूतस्याज्ञानस्यापि साक्षिभास्यत्वमिति वाच्यम् अपसिद्धान्तात् । प्रकाशशून्यघटादेः जडस्य हि नाज्ञानेनागरणं स्वीक्रियते तैः । घटावच्छिन्नं चैतन्यं हि अज्ञानेनाग्रियते तन्मते । न च प्रकृतेऽपि ब्रह्मस्वरूपाच्छादक- भूताज्ञानावच्छिन्नं चैतन्यमेव अज्ञानान्तरेणान्रियत इति वाच्यम्, तथात्वे साध्यभूताज्ञानस्य कार्यकरत्वायोगात् । साध्यभूता ज्ञानस्य कार्यकरत्वायोगात्। यथा वा न अज्ञानावृतं घटावच्छिन्नं चैतन्यं “ घटो भाति” इत्यादिव्यवहारार्हम्, तथा अज्ञानावच्छिन्नं चैतन्यमपि स्वयमज्ञानावृतं चेत् न व्यवहारक्षमं भवेत् । इदमेव श्रुतप्रकाशिका - भिप्रेतम् । यच्चोक्तमज्ञानानृतघटादेरिव तदावृतस्याज्ञानस्यापि साक्षिभास्यत्वं भवत्येवेति, तदपि न युक्तम् । घटोऽज्ञानावृतश्चेत् “ घटो न भाति, घटं न जानामि " इति साक्षिणि अज्ञानावच्छेदकतया प्रतीयते । अज्ञानमज्ञानावृतं चेदपि साक्षिणि भासत इति तुल्यरीत्या वक्तुं न शक्यम्, तथानुभवाभावात् । अनुभवो हि तत्राप्रसिद्धः अनुभवो यदि कथञ्चित् तथोच्यते तदा अज्ञानकल्पनाया अनवस्था स्यात् । अतोऽज्ञानावृतमप्यज्ञानं भासत इति न सम्यक् । यथा अन्धकारे सामान्यतः पदार्थाः प्रतीयन्ते, प्रदीपप्रभया ते एव पदार्थाः विशेषाकारेण [[168]]
ज्ञायन्ते, तथा अज्ञाने पदार्था घटादयः सामान्यतो ज्ञायन्ते, प्रमाणज्ञानेन तु विशेषरूपेण ज्ञायन्त इति दृष्टान्तसङ्गमनं यदुक्तम् । तदपि न युक्तम् । चैतन्यस्याज्ञानस्य च विरोधाभावं वदतां मते दीपप्रभान्धकारदृष्टान्तस्यासम्भवात् । तथाहि - ब्रह्मस्वरूपज्ञानम्- अविद्यावभासकम् । भासकस्य ब्रह्मणः तदाभास्यस्य चाज्ञानस्य विरोधो नास्ति । अत एव ब्रह्मणोऽज्ञानेनावरणमेवाङ्गीक्रियतेऽद्वैतिभिः, न तु नाशः । विरोधे सति नाश्यनाशकभाव एव स्यात् । अतः दृष्टान्तदाष्टन्तिकवैषम्यम् । तमसो दीपप्रभायाका विरोध एवास्ति । भासकस्यभास्यस्य च विरोधाभावश्चेत् तुल्यरीत्या प्रमाणज्ञानस्य तन्निरसनीयस्याज्ञानस्य च विरोधाभागः स्यात् । अनुमिति रूपवृत्तिज्ञानेनाज्ञानस्यावभास्यत्वात् अवभासकावभास्ययोः विरोधाभावस्य भवतोक्त त्वात् । न चाज्ञानं न वृत्तिज्ञानवेद्यम् । किन्तु ब्रह्मस्वरूपभूतसाक्षिगेद्यमेव, तस्याभावभिन्नत्वरूपं भावत्वमेवा- नुमितिरूपवृत्तिज्ञानविषय इति प्रमाणज्ञानस्याज्ञानस्य च विरोध एवेति दीपप्रभातमोरूपदृष्टान्तसाम्यमिति वाच्यम् । तथा दृष्टान्त दान्तिकभावस्योपपपादनेऽपि उक्तरीत्या अन्योन्याश्रयस्यापरिहारात्।
पुनः शङ्का
श्रीभाष्ये ज्ञानस्यैवार्थप्रकाशकत्वं न तु प्रदीपप्रभायाः तत्त्वम् इत्युक्तम्। तन्न युक्तम्। आलोकस्यापि प्रकाशकत्वेन लोकैः व्यवहारात्। [[169]]
“आलोकादेणास्माकं घटज्ञानं जातम्” इति अनुभवः वर्तते । उक्तं च भगवता गीतायाम् । यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ । इति सूर्यकृतो 244 लोकस्य प्रकाशो नाम व्यवहारजनकत्वमेव । सूर्ये उदिते हि सर्वो लोकः स्वं स्वं व्यवहारमनुतिष्ठति । अयं घटोऽयं पट इति प्रत्येति । एवं च ज्ञानभिन्नस्यार्थप्रकाशकत्वं भगवदभिमतम् इति ।
सिद्धान्तः
अयमत्र सिद्धान्तः सूर्यस्यालोकस्य वा यत् ज्ञानजनने उपकारकत्वं तद्भाष्ये स्पष्टमेण प्रतिपादितम् । न हि गीतायां ज्ञानस्य यादृशमर्थव्यवहारजनकत्वम्, तादृशं सूर्यस्यास्तीति कथितम् । एकविधं व्यवहारजनकत्व- मुभयोःनास्तीति सर्वसम्प्रति-पन्नम् । ज्ञानस्य तत्त्वं साक्षात् इन्द्रियाणां, आलोकस्य च परम्परयेति अनुभवसिद्धम्। ततः भाष्यस्य रीतिरुचितैन ।
अभावभिन्नत्वमेव साध्यमिति?
अभावभिन्नत्वमेव साध्यमिति पक्षपरिशीलनम्॥ श्रीभाष्ये उक्तानुमानस्य व्यभिचारदोष उक्तः । अज्ञान- विषयकानुमितौ अज्ञानान्तरपूर्णकत्वाभाववत्यामप्रकाशितार्थ- प्रकाशकत्वरूपहेतोर्वृत्तेः। तत्र समादधति अद्वैतिनः - अस्यामनुमितौ नाप्रकाशितं किचित् प्रकाश्यते । तथा च साध्याभाववत्यां तस्यां [[170]] [[41]] AD [[1]]
हेतोरप्यभावात् न व्यभिचारः । इयं हि अनुमितिः नाज्ञानविषयिणी, किन्तु साक्षिचैतन्यसिद्धाज्ञानेऽभावभिन्नत्वमात्रावगाहिनी । एवं चेयमनुमितिः भावत्वविधेयिकेति । तस्य व्यभिचारदोष इति । न चात्रानुमतौ अभावभिन्नत्वरूपमप्रकाशितं प्रकाश्यत इति व्यभिचार एवेति वाच्यम्, अभावविवेकावारकाज्ञानसत्त्वेन तन्निवर्तकत्व- स्यानुमितौ सम्भवेन व्यभिचाराभावात् । इयं युक्तिः भावप्रकाशि- कायामनूदिता। एवं च भावरूपाज्ञानानुमाने 245 न व्यभिचार इति । अत्र श्रुतप्रकाशिका 246 एवं चेत् चक्रकप्रसङ्गः । तथाहि- धर्मभूतज्ञानभिन्नेन स्वरूपचैतन्येन साक्षिरूपेणा ज्ञानसिद्धिः प्रथमम्, ततः साक्षिचैतन्ये भासत अज्ञानं, न तु प्रकृतानुमितिसाध्यं तत् इति अभावभिन्नत्व साध्यकत्वमेव प्रकृतानुमानस्येति न व्यभिचारदोष इति प्रकृतानुमानप्रामाण्यसिद्धिः अनुमानप्रामाण्येन ततः अज्ञाने भावत्वसिद्धिः, भावत्वविशिष्टाज्ञानसिद्धावेव ज्ञातुरपि अज्ञानकल्पित- त्वेनानित्यत्वे तद्भिन्भेन साक्षिचैतन्येनाज्ञानानुभवसिद्धिरिति चक्रकापत्तिः। अज्ञानकल्पितत्वं ज्ञातुः किमर्थं श्रुतप्रकाशिकायामुक्तमिति प्रश्ने उच्यते । ज्ञानविशिष्टो हि ज्ञाता । आगन्तुकधर्मभूतज्ञान- विशिष्टस्याहमर्थस्याज्ञानकल्पितत्वेना गन्तुकत्वेनानाद्यज्ञानभासकतया नित्यं चैतन्यं स्वीकर्तव्यम् इति सूचयितुं ज्ञातुरपि तत्कल्पितत्वादित्युक्तं टीकायाम्। ज्ञातुः अज्ञानकल्पितता धर्मभूतज्ञानस्याज्ञानप्रकाशत्वाभावे युक्तितयोक्तेति यावत् । [[171]]
अत्र भावप्रकाशिकायां कश्चित् प्रश्न उद्भावित : 247, समाहितश्च । तथाहि अज्ञानस्य भावतया सिद्धिः धर्मभूतज्ञानभिन्नसाक्षिचैतन्यसिद्धौ नापेक्षिता । साक्षिचैतन्यं हि नाज्ञानभासनार्थमेव स्वीक्रियते, सुखादिभासकत्वेन तत्सिद्धिसम्भवात् । किञ्च “ मामन्यं च न जानामीति साक्षिचैतन्येनाज्ञानस्य सिद्धौ साक्षिणो अहमर्थप्रकाश- भिन्नत्वसिद्धिरपि नापेक्षिता । न हि अयं घट इति ज्ञानेन घटस्य सिद्धौ घटज्ञानस्य देहान्तःकरणात्मधर्मत्वादिविवेकोऽपि अपेक्षित इति । अतः भावरूपाज्ञाने सिद्धे एव अहमर्थधर्मभिन्नचैतन्यस्य साक्षिणः सिद्धिरिति न वक्तुं शक्यत इति कथं श्रुतप्रकाशिकायां दोष उक्त इति चेत्, सत्यम्, तस्याः प्रक्रियायाः परैरुपन्यस्तत्वात् तद्रीतिमनुसृत्य टीकाकारैः दोष प्रदर्शित इति । एवम् अभावविविक्तत्वरूपं भावत्वमेतदनुमानसाध्यमिति पक्षः टीकाकारादिभिरेण विमृष्टः ॥ [[172]]
निवर्तकानुपपत्तिः, निवृत्त्यनुपपत्तिश्च
निवर्तकानुपपत्तिः, निवृत्त्यनुपपत्तिश्च
श्रीभाष्यकाराशयः
निवर्तकानुपपत्तिः- श्रीभाष्यकाराशयः निर्विशेषब्रह्मज्ञानात् अविद्यानिवृत्तिर्भवतीति अद्वैतिनः तन्न युक्तम्- सर्वाण्यपि वेदान्तवाक्यानि “ वेदाहमेतं पुरुषं महान्तम्, आदित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति ” 248 इत्यादीनि सविशेषब्रह्मज्ञानादेव मोक्षं प्रतिपादयन्ति । न च “तत्त्वमसि249 इत्यादि महावाक्यमखण्डार्थपरं तद्वाक्यजन्यात् स्वरूपमात्रविषयकज्ञानात् अविद्यानिवृत्तिर्भवतीति वाच्यम् । तत्र हि तत्पदं जगत्कारणत्वादिगुणविशिष्टमभिधत्ते । पूर्वं “सदेव सोम्येदमग्र आसीत् 250 तदैक्षत बहुस्यां प्रजायेयेति प्रभृतिभिः वाक्यैः सर्वकारणत्वसर्वज्ञत्वसर्वशक्तित्वादिविशिष्टस्यैव ब्रह्मणः प्रतिपादनात् । तत्समानाधिकरणत्वपदेन अचिद्विशेषविशिष्ट- जीवशरीरकं ब्रह्माभिधीयते । न हि विशेषणपरित्यागेन स्वरूप- मात्रलक्षणा पदद्वयस्य युक्ता, तथात्वे “भिन्नप्रवृत्तिनिमित्तानामिति सामानाधिकरण्यलक्षणहान्यापत्तेः 251 । नापि सोऽयं देवदत्तः इति वाक्यदृष्टान्तेन तथा शङ्का, तत्रापि विशेषणपरित्यागा-भावात् । न हि देशकालान्तरसम्बन्धस्य वर्तमानकाल एतद्देशसम्बन्धस्य च विरोधः, एकस्मिन् एव वस्तुनि कालभेदेन देशभेदसम्भवात् । अतः निर्विशेष- ब्रह्मज्ञानाद् अविद्यानिवृत्तिरिति नोपपद्यते । [[173]]
वेदार्थसङ्ग्रहदिशा निवर्तकानुपपत्तिः
श्रीभाष्यकाराः निवर्तकानुपपत्तिविषये भाष्योक्ता युक्तारनूद्य ततोऽन्या अपि युक्ताः वेदार्थसङ्ग्रहे प्रदर्शयन्ति 252 । तथाहि - निखिल भेदनिवर्तकम् -अद्वैतज्ञानं श्रुत्या जायत इति स्वीकर्तव्यम् । श्रुतिश्च ब्रह्मव्यतिरिक्तत्वेना विद्यापरिकल्पितत्वात् मिथ्याभूता बाधकज्ञानं नोत्पादयितुमर्हति । दुष्टकरणजन्यं रज्जुसर्पज्ञानं हि दुष्टकारणजन्येन ज्जुरियं न सर्पः इति ज्ञानेन न बाध्यते । रज्जजुसर्पज्ञानभये सति कनचित् भ्रान्तेन पुरुषेण रज्जुरियं न सर्प इत्युक्तेऽपि अयं भ्रान्त इति ज्ञाते सति तद्वचनं रज्जुसर्पज्ञानस्य बाधकं न भवति, भयं च न निवर्तते। किश्च निवर्तकज्ञानस्य, ज्ञातुः तत्सामग्रीभूतस्य शास्त्रस्य च ब्रह्मव्यतिरिक्तस्य यदि बाध्यत्वमुच्येत, तदा प्रपञ्चनिवृत्तेर्मिथ्या- त्वमापततीति प्रपञ्चस्य सत्यत्वं स्यात्, स्वप्नदृष्टपुरुषवाक्या- वगतपुत्रादिमरणस्य मिथ्यात्वेन पुत्रादि सत्यत्ववत् इति । इदमप्यनुमानं तत्र प्रयुक्तम् - तत्त्वमस्यादिवाक्यं न प्रपञ्चस्य बाधकम् भ्रान्तिमूलत्वात्, भ्रान्तप्रयुक्त रज्जुसर्पबाधकवाक्यवत् इति । न च स्वप्ने भये सति स्वप्नकाल एवायं स्वप्न इति ज्ञाते सति तदानीमेव भयं निवर्तते, तद्वदत्रापि भवतीति वाच्यम् । स्वप्नदशायामेव अयं स्वप्न इति बुद्धेरपि स्वप्नत्वं यदि दृश्यते । तदा भयस्यानुवृत्तिदर्शनात् न लाभः ॥ [[174]]
ननु शास्त्रं यद्यपि अविद्यापरिकल्पितं तथापि शास्त्रजन्यज्ञानं निर्विशेषं ब्रह्म बोधयति, पश्चात्तनबाधादर्शनाच्च । निर्विशेषं ब्रह्मेतिस्थिरं भवतीति चेत्, न - पश्चात्तनबाधादर्शनमेण यदि विषयसत्यत्वे प्रयोजकम्। तदा शून्यमेव तत्त्वमिति वाक्येन ब्रह्मणोऽपि बाधितत्वात् ब्रह्मापि मिथ्या भवेत् । तत्र हि पश्चात्तनबाधादर्शनं विद्यत एव । यदि तद्वाक्यं भ्रान्तिविजल्पितमतः न विषयसत्यत्वे प्रमाणमिति मन्यते, तदा वेदवचनमपि भ्रान्तिकल्पितमिति कः तयोर्विशेषः ।
श्रुतप्रकाशिकादिशा निवर्तकानुपपत्तिः
श्रीभाष्ये तत्त्वमस्यादि वाक्यं सविशेषणस्तुविषयकज्ञानं जनयतीति निरणायि । अत्र दृष्टान्त उक्तः । श्रुतप्रकाशिकायाम् - यथा- शुक्ला शोभनाक्षी मदीया पूर्णशृङ्गा घटोनी गौः, तामानयेत्यत्र विशेषणविशिष्टमेव वस्तु परामृश्यते तच्छब्देन, तथा प्रकृतेऽपि (तत्त्वमसीत्यत्र) तच्छब्देन सविशेषणमेव ब्रह्म परामृश्यते । नच गौः तिष्ठति, तामानयेत्यत्र आनयनकर्मत्वं शुद्धाया गोरेन, न तु स्थितिविशिष्टायाः, तद्वत् प्रकृतेऽपि शुद्धमेव परामृश्यते - इति वाच्यम्। आनयनकर्मत्वसमकालं स्थितेः बाधितत्वेऽपि पूर्णकालीन - स्थितिवैशिष्ट्यस्य विशेषणत्वे बाधकाभावात् । पूर्णकालीनस्थिति- वैशिष्ट्यं च स्थित्यधिकरणकालसम्बन्ध एव । स चाबाधित एव । अत [[175]] एव अपवरके घटोऽस्ति तमानयेत्यत्र घटत्वविशेषणं परित्यज्य मृन्मात्रं तच्छब्देन न परामृश्यते। अतः तच्छब्देन सद्विद्यायां ये आकारा उक्ताः, तेषां सर्वेषां परमार्शो भवतीति कथं निर्विशेषब्रह्मणः परामर्शो युज्यते ।
वेदान्तदेशिकाशयः
निवर्तकानुपपत्तिविषये वेदान्तदेशिकाशयः I
श्रीमद्वेदान्तदेशिकाः निवर्तकाज्ञानस्वरूपं पञ्चधा विकल्प्य खण्डयन्ति । तथाहि किमिदमद्वैतज्ञानं ब्रह्मस्वरूपभूतात् ज्ञानाद्भिन्नम्। (२) उताभिन्नम् (३) यद्वा भिन्नाभिन्नम् (४) उतानु- भयात्मकम् (५) उतानिरूपणीयेतिकर्तव्यता- विशेषः । इदं हि निवर्तकज्ञानं ब्रह्मस्वसरूपात् भिन्नमिति - आद्यकल्पो न युक्तः । यदि ब्रह्मभिन्नं निवर्तकज्ञानं निर्विषयकमिष्यते तदा ज्ञानत्वं न स्यात् । वृत्तिरूपं ज्ञानं सविषयकमिति हि भवतां सिद्धान्तः । यदि सविषयकं तत्, विषयः क इति विवेचनीयम्; यदि ब्रह्मस्वरूपमेण निवर्तकज्ञानविषय इत्युच्यते, तदा आत्मस्वरूपस्येव तदन्यूनान - तिरिक्तविषयकस्य वृत्तिज्ञानस्यापि निवर्तकत्वं स्यात् । अस्मिन् विषये विस्तरो दृश्यते शतदूषण्याम् 253 । अभिज्ञाप्रत्यभिज्ञादृष्टान्तोऽपि विचारितः। यदि अविद्याविशिष्टं ब्रह्म विषय उच्यते तदा साक्षिप्रत्यक्षवत् भ्रमोपकारकत्वमेव तस्य स्यात्, न तु तन्निवर्तकत्वम्। साक्षिप्रत्यक्षमपि स्वप्रकाशात्मक मणिद्याप्रकाशकञ्च । यदि [[176]]
ब्रह्मव्यतिरिक्तमेव निवर्तकज्ञानविषय इष्यते तदापि न निस्तारः, निवर्तकज्ञानस्य भ्रमरूपस्य भ्रमनिवर्तकत्वाभावात्, न हि शुक्तिरजतज्ञानमेव रजतज्ञानं निवर्तयति । यदि ब्रह्मव्यतिरक्तिस्य मिथ्यात्वमेव निवर्तकज्ञानविषयः, तदापि दोष एव । न हि अधिष्ठानयाथात्म्यग्रहणमन्तरेण ब्रह्मव्यतिरिक्तस्य मिथ्यात्वं ग्रहीतुं शक्यते । अधिष्ठानस्य हि याथात्म्यं दुर्ग्रहमेव भवत्पक्षे । अत्र कश्चन सङ्ग्रहश्लोकः शतदूषण्यामुक्तः- मिथ्यात्वस्य तु मिथात्वे मिथ्यात्वं बाधितं भवेत् । सत्यत्वस्य तु सत्यत्वे सत्यत्वं स्थापितं भवेत् ॥ निवर्तकज्ञानमिदं ब्रह्मस्वरूपात् अभिन्नमिति द्वितीय- विकल्पोऽपि न युक्तः तथा सति स्वरूपस्य नित्यत्वेन सर्वदा निवर्तकज्ञानस्य सत्त्वापत्त्या संसाराभावप्रसङ्गः । तृतीयपक्षस्तु भेदाभेदपक्षः । स तु भेदाभेदस्य परस्परविरुद्धस्य एकस्मिन् अस्त्री- कारादेव निरस्तो भवति । निवर्तकज्ञानमिदं ब्रह्मभिन्नं न, नापि ब्रह्माभिन्नमिति चतुर्थकल्पोऽपि न युज्यते, परस्परविरोधे हि न प्रकारान्तरस्थितिरितिन्यायेन उभयविलक्षणस्य वस्तुन एवाप्रसिद्धेः । निवर्तकज्ञानमिदमनिरूपणीयेतिकर्तव्यताविशेष इति पक्षस्तु प्रमाणपदवीमेन नाधिरोहति । एवमादिरीत्या शतदूषणीग्रन्थः निवर्तकानुपपत्तिं निरूपयति । [[177]]
अपि च निवर्तकज्ञानं स्वयमविद्याकल्पितं निर्गच्छति वा नगा ? यदि निर्गच्छति, तदा निवर्तकज्ञाननिवृतेः पूर्वं निवृत्तनिवर्तकज्ञानात् अविद्यानिवृत्त्यनन्तरमपि अविद्यान्तरं निवर्तकज्ञानसम्पादकं किश्चित् स्यात् । यदि निवर्तकज्ञानं न निर्गच्छति, तदा तज्ज्ञानहेतुभूता ‘चिदविद्या स्थायिनी स्वीकार्या स्यात् । निवर्तकानुपपत्तिविषये एव सङ्ग्रहोऽकारि श्री उत्तमूर स्वामिभिः- निर्विशेषब्रह्मज्ञानं नाविद्यानिवर्तकम् । न हि धर्मिमात्रज्ञानेनाविद्यानिवृत्तिः कापि दृष्टा । किन्तर्हि ? विशेषधर्म- विशिष्टधर्मिज्ञानेनैव।निर्विशेषब्रह्मज्ञानस्य स्वयम्प्रकाशब्रह्मतुल्यत्वात् न प्रपञ्चनिवर्तकत्वम्, यदि ब्रह्मस्वरूपमनिवर्तकं तदा तत्समान- विषयकं वृत्तिज्ञानमपि न निवर्तकमेव । यदि ब्रह्मस्वरूपेमव निवर्तकम् इति कथ्यते, तदा अविद्यैव न स्यात् । तदर्थं ब्रह्मणः स्वयम्प्रकाशत्वं परित्यज्य जडत्वमास्थीयते चेत् महती हानिः । तमेवं विद्वानमृत इह भवति इत्यादिवाक्यं हि सविशेष ब्रह्मज्ञानमेवाविद्यानिवर्तकमिति प्रतिपादयति ।
निवृत्त्यनुपपत्तिः
श्रीभाष्योक्ता निवृत्त्यनुपपत्तिः - अद्वैतज्ञानं प्रपां निवर्तयतीति अद्वैतिनः। सा निवृत्तिः नोपपद्यत इति विशिष्टाद्वैतिनः । [[178]]
बन्धो हि पारमार्थिकः । तस्य बन्धस्य ब्रह्मात्मैकत्वज्ञानेन निवृत्तिर्नभवति । पारमार्थिकपदार्थस्य ज्ञानबध्यत्वं नहीष्टम् । बन्धो हि पुण्यापुण्यरूपकर्मनिमित्तकदेहानुप्रवेशप्रयुक्तसुखदुःखा- नुभवरूपः कथं मिथ्येति वक्तुं शक्यते । निवृत्त्यनुपपत्तिविचारशेषतया निवर्तकज्ञानस्य निवृत्तिमपि विचारयन्ति भाष्यकाराः । 254 तथाहि - इदं निवर्तकज्ञानं कथं निवर्तते? इदं निवर्तकज्ञानं सर्वं बन्धं विनिवर्त्य क्षणिकत्वात् स्वयमेव निवर्तत इति तु न-निवर्तकज्ञानस्य, तदुत्पत्तेः तद्विनाशस्य च काल्पनिकत्वेन विनाशतद्विषयभ्रमभ्रमाश्रयादीनां कल्पनार्थमविद्यान्तरमाश्रयणीयम् । तथा चानवस्था । यदि च निवर्तकज्ञानविनाशः ब्रह्मस्वरूपमेवेति कथ्यते तदा ब्रह्मस्वरूपस्य निवर्तकज्ञानविनाशरूपस्य सर्वदा सत्त्वेन निवर्तकज्ञानमेव नोत्पद्यते । किञ्च यदिदं निवर्तकज्ञानं भवति, तस्य ज्ञाता कः ? स यदि मिथ्यारूपः, तदा तस्यापि निषेधज्ञानकर्मत्वात् तदाश्रयत्वं न स्यात् । यदि ब्रह्मस्वरूपमेव ज्ञातृ तदा ब्रह्मणो निवर्तकज्ञानाश्रयत्वं ब्रह्मस्वरूपं वा, अध्यस्तं वा? ब्रह्मस्वरूपं ज्ञातृ इति पक्षे अस्मत्पक्षाविशेषः । यदि ब्रह्मस्वरूपे ज्ञातृत्वमध्यस्तमित्युच्यते, तदा अध्यासहेतुभूता विद्यान्तरकल्पना कार्या । सााविद्या निवर्तकज्ञानाविषयतया तिष्ठत्येव । [[179]]
निवर्तकज्ञानान्तरस्वीकारे तस्यापि ज्ञाता कः ? ज्ञातृत्वं किं रूपमित्यादिप्रश्नेनानवस्था स्यात् । अपि च यदि अविद्याया निवर्तकज्ञानं स्वनिवर्त्यभूताविद्यामिन ब्रह्मव्यतिरिक्तत्वाविशेषात् स्वाश्रयज्ञातारं च निवर्तयतीति कथ्यते, तदापि न निस्तारः- “ भूतलव्यतिरिक्तं सर्वं देवदत्तेन छिन्नमिति अस्यामेव च्छेदनक्रियायां विषयभूते छे छेदनक्रियायाः, तदाश्रयस्य चानुप्रवेश इव भवद्वचनमुपहास्यम् । 25 अपि च स्वनाशहेतुभूतनिवर्तकज्ञाने स्वयं कर्ता न भवति अध्यस्तो ज्ञाता। स्वनाशस्यापुरुषार्थत्वात् । यदि च अध्यस्तज्ञातृनाशः ब्रह्मस्वरूप एवेति तन्नाशस्य पुरुषार्थत्वमुच्यते, तदा ब्रह्मणः ज्ञातृनाशरूपस्य नित्यत्वेन भेददर्शनाविद्यानाशादीनां च कल्पनमेव न स्यात् । एवं भाष्योक्ता निवृत्त्यनुपपत्तिः ।
श्रुतप्रकाशिकादिशा
श्रुतप्रकाशिकादिशा निवृत्त्यनुपपत्तिः- बन्धस्य पारमार्थिकत्वेन तस्य ज्ञानेनानिवृत्तिरिति श्रीभाष्यग्रन्थं व्याचक्षाणाः श्रीसुदर्शनभट्टाः एवं लिखन्ति । प्रपञ्चो हि प्रतीतिमात्रसिद्धः भवन्मते। तस्य हेतुहेतुमद्भावनियमोऽनुपपन्नः अर्थक्रियाकारित्वमुत्पत्तिमत्त्वं च परमार्थस्यैव भवति । न च पदार्थानाम् अर्थक्रियाकारित्वमुत्पत्तिमत्त्वं च मिथ्या, तेन अपारमार्थिकस्यापि [[180]] 低 स. के P
बन्धस्य तयोः सत्त्ववे न दोष इति शङ्कयम्, ज्ञानागाध्ययोः तयोः मिथ्यात्वस्यानिरूपणात् । किञ्च प्रपञ्चस्य मिथ्यात्वे पापकरणेऽपि न प्रायश्चित्तस्यापेक्षा स्यात् । प्रपञ्चो मिथ्येति बुद्धेरेव पर्याप्तत्वात् । अपि च तत्त्वज्ञानं हि मोक्षोपायः यथावस्थितवस्तुविपरीतविषयस्य भगदभिमतस्य च ज्ञानस्य बन्धविवृद्धिरेव फलं स्यात् ।
शतदूषणीरीत्या
शतदूषणीरीत्या निवृत्त्यनुपपत्ति विचारः॥ निवृत्त्यनुपपत्तिविषये श्रीमद्वेदान्तदेशिकैः विशदं न्यरूपि 256 शतदूषण्याम्। सङ्ग्रहेण तामनुपपत्तिं तद्दिशा प्रतिपादयामः। अद्वैतिभिः निश्शेषाविद्यानिवृत्तिरद्वैतज्ञानात् भवतीत्युच्यते । तत्र प्रश्नः किं सा अविद्यानिवृत्तिः अध्यासरूपा वा न वा ? यदि अविद्यानिवृत्ति- रध्यासरूपेत्युच्यते, तदा अध्यासरूपायाः तस्या हेतुभूताविद्यापि स्थिरा स्यात् । न हि दोषमन्तरेण अध्यासो भवतामिष्टः । यदि अविद्यानिवृत्तिर्नाध्यासरूपा । तदा विकल्पः किं सा अविद्यानिवृत्तिः ब्रह्मस्वरूपा तद्विन्ना वा ? यदि ब्रह्मस्वरूपा तदा ब्रह्मस्वरूपस्य नित्यत्वात् नित्यं मोक्षप्रसङ्गः । ब्रह्मस्वरूपभिन्नं तु किमपि वस्तु सत्यभूतं भवतां नेष्टम् । न च घटप्रागभावध्वंसस्य घटस्वरूपत्वमिव अविद्यानिवृत्तेरपि ब्रह्मस्वरूपत्वमिष्टमेवेति वाच्यम् । तथात्वे स्वप्रागभावानन्तरत्वस्य घट इव ब्रह्मण्यपि स्वाज्ञानानन्तरत्वापातात् ब्रह्मणः कादाचिकत्वप्रसङ्गात् । [[181]]
ननु अविद्यानिवृत्तिर्न सती ब्रह्मव्यतिरिक्तत्वात् । न च सदसद्विलक्षणा, सदसदविलक्षणत्वे अविद्यानिवृत्तेः व्याघातात् । अतः परिशेषात् अविद्यानिवृत्तेरसत्त्वमेव स्वीकार्यम् । अविद्यानिवृत्तेरसत्त्वे नित्यमविद्यासद्भावप्रसङ्गः । न च घटध्वंसस्यासद्रूपत्वेऽपि घटादेः कादाचित्कत्वात् अविद्याध्वंस्या- सद्रूपत्वेऽपि अविद्यायाः कादाचित्कत्वमुपपद्यत इति चेन्न, पटांसस्यासद्रूपत्वाभावात् । सहि अभावात्मकोऽपि तत्कालीनतया प्रमाणतः सिद्धः । अन्यथा घटनित्यत्वस्यापि दुर्गारत्वात् ॥ यदि अविद्यानिवृत्तिः चतुष्कोटिविनिर्मुक्तेत्युच्यते माध्यामिक- पक्षप्रवेशः स्यात् । न च यक्षानुरूपो बलिरिति न्यायेनायं न दोष इति वाच्यम्। तन्न्यायस्यात्राप्रसरात् । आनुरूप्यमविरोधित्वमेवेति न च वाच्यम् । तदा सदसदनिर्वचनीयाज्ञाननिवृत्तेरपि अनिर्वचनीयत्वप्रसङ्गः एवमादिरूपेण निवृत्त्यनुपपत्तिः विशदीकृता श्रीवेदान्तदेशिकैः। सङ्क्षेपेण वयमत्र निरदिशाम । अत्रेयं शङ्काणतरति - अविद्यानिवृत्तिरूपपद्यत एव । अविद्यात्वेनाणिद्याज्ञाने सति सुखादिषु मिथ्यात्वबुद्धौ सत्यां तद्भावनादार्त्स्न्येन क्वचिदपि प्रवृत्त्यभावे कर्माभावात् मुक्तिः सिद्ध्यतीति न निवृत्त्यनुपपत्तिः । इति । [[182]]
r तत्र समाधानम् - सर्वस्य मिथ्यात्वं वदतां पक्षे सर्वस्यापि शुक्तिज्ञानेन रजतनिवृत्तिवत् तत्त्वज्ञानेन युगपत् विनिवृत्तेरेव युक्तत्वात्। किञ्चाविद्यानिवृत्तिरियं कार्या वा नगा, यदि कार्या तदा मिथ्या वा नवा ? प्रथमे किमिदं मिथ्यात्वम् ? प्रतीयमानत्वे सति बाध्यमानत्वमिति चेत् जातायाः निवृत्तेः प्रतीतितद्बाधः तदुपायः तत्र कर्ताचेति सर्वमाविद्यकमङ्गीकार्यमिति कथमविद्यानिवृत्तिः । सत्यत्वे तु द्वैतापत्तिरेव । यदि अविद्यानिवृत्तिः न कार्या- इत्युच्यते तदा तत्त्वज्ञानतदर्थायासादिकं व्यर्थं स्यात् । अतः अविद्यानिवृत्तिर्नोपपद्यते ।