२४ ब्रह्मणः सगुणत्व-स्थापनम्

पूर्वपक्षः- इदानीं ब्रह्मणः सगुणत्वं कोटिक्रमेण निरूप्यते । वेदान्तेषु कानिचिद्वाक्यानि ब्रह्म गुणविशिष्टं प्रतिपादयन्ति । अन्यानि च कानिचित् तत् निर्गुणम् । एवं चेत् निर्गुणवाक्यानाम- नन्यथासिद्धत्वात् प्राबल्यम्। सगुणवाक्यानां चाविरुद्धविषयान्तरलाभो ध्यानाकार समर्पकत्वरूपोऽस्ति अतः दुर्बलत्वम् इति । किच जर्तिलयवागून्यायेन प्रतियोगिसमर्पकतया सगुणवाक्यानां प्रामाण्यम्। तथाहि - “जर्तिलयवाग्वाणा जुहुयात् गणीधुकयवाग्वा वा, न ग्राम्यान् पशून् हिनस्ति नारण्यान्, अथो खल्गाहुरनाहुतिर्नै जर्तिलाका गवीधुकाश्चेत्यजक्षीरेण जुहोति “200 इति वेदवाक्यम् । तत्र प्रथमं विकल्पेन जर्तिलयवाग्वा गवेधुकयवाग्वा ना होमं विधाय पश्चात् अजक्षीरस्य [[122]] " ने रे। 7- भो 玎 ୩ न ठा す य •

विधानात् ग्राम्यारण्यपशुहिंसारहिततया प्रशस्ता अपि जर्तिलाः गर्नेधुका वा, यदपेक्षया न प्रशस्ताः, तेन पयसा होमः कार्य इति कथितम् । तद्वत् सगुणणाक्ययानां प्रतियोगिसमर्पकतया प्रामाण्यम् इति । सिद्धान्तः- जर्तिलदृष्टान्तो न सङ्गच्छते तत्र हि प्रतियोगिनः ज्ञाताः । अत अपहतपाप्मत्वादयो गुणाः शास्त्रेणैव वेद्याः । किञ्च “प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्” इति न्यायेन श्रुतिः गुणान् अलौकिकान् उक्त्वा किमर्थं निषेधेत्। उपासनेषु उपास्याकारसमर्पकाणि सगुणवाक्यानि इत्यपि न, उपासनविषयत्वे आकाराणामसत्यत्वमिति नियमाभावात्। तथात्वे दृष्टिविधिरिति विभागानुपपत्तिः । सर्वेषामुपासनानां दृष्टित्वापत्तेः । किञ्च उपक्रमाधिकरणन्यायेन 201 सगुणवाक्यानामेव प्राबल्यं वक्तव्यम् । पूर्वपक्षः- ब्रह्मणि गुणा न स्वीकर्तव्याः । लोके हि गुणवत्त्वव्यापकत्वं दोषेषु गृहीतम्। शास्त्रं च प्रत्यक्षोपजीवकम् । पदपदार्थज्ञानस्य प्रत्यक्षादिजन्यत्वात्। न चोपक्रमाधिकरणन्यायेन सगुणवाक्यप्राबल्यम्। यत्रात्यन्तविरोधो नास्ति तत्रैव उपक्रमाधिकरणप्रवृत्तिः, प्रकृते सगुणत्वनिर्गुणत्वयोरस्ति महान् विरोधः, तद्द्वारकश्च तद्बोधकवाक्ययोः। [[123]] अत्र पूर्णाबाधेन नोत्पत्तिरुत्तरस्य हि सिद्ध्यति” इति न्यायेन सगुणवाक्यबाधेन निर्गुणवाक्यैः ब्रह्मणो निर्गुणत्वं बोध्यत इत्येव स्वीकर्तव्यम्। अतः ब्रह्मणो निर्गुणत्वमेव । पेद्धान्तः- | गुणनिषेधं प्रति गुणानामुपजीव्यत्वात् तन्निषेधो न युक्तः । किञ्श्च जर्तिलन्यायः क्रियाविषयकः । अत्र विरोधः वस्तुनि इति भेदः । पूर्वपक्षः- । यदि सगुणवाक्यानां प्रामाण्यं स्वीक्रियते, तदा निर्गुणवाक्यानां वैदिकानामत्यन्ताप्रामाण्यं स्यात् । तेषां प्रामाण्ये, सगुणवाक्यानां पूर्वोक्तरीत्या उपासनेषु अन्वयः । अतो न तेषामत्यन्तमप्रामाण्यम् । किश्च अपच्छेदन्यायेन निर्गुणवाक्यानां परत्वात् सगुणवाक्य- बाधकत्वम् । “पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिद्ध्यति” इति न्यायोऽत्रानुसन्धेयः । सिद्धान्तः- “अथात आदेशो नेति नेति" इति हि परभूतं निर्गुणवाक्यम्। तत्र मूर्तामूर्तप्रपच हि निषिद्ध्यते, न तु ब्रह्म गुणाः । स च प्रपञ्चः प्रमाणान्तरज्ञेयः, शास्त्रेण स निषेद्धुं शक्यते, ब्रह्म तद्गुणाश्च शास्त्रेण ज्ञायन्ते, कथं ते निषेद्धुं शक्यन्ते । [[124]]

पूर्वपक्षः- शास्त्रप्राप्तस्य शास्त्रेण निषेधो युज्यते । यथा “ सप्तमे पदे जुहोति ” 202 इति वाक्येन “ आहवनीये जुहोति ” इति शास्त्रं बाध्यते । तद्वत् शास्त्रप्राप्तगुणानां शास्त्रेण गुणाभावप्रतिपादकेन बाधो युज्यत एव च । सिद्धान्तः- बाध्यमानस्य नात्यन्ताप्रामाण्यम् । आहवनीये जुहोति इति वाक्यस्य पदहोमव्यतिरिक्तविषयकत्वमेव । उपात्तविशेषव्यतिरिक्तविषये सङ्कोचः विरोधपरिहाराय सामान्यशास्त्रस्य चेत् उत्सर्गापवादन्यायः । तथाच निर्गुण वाक्यानामुपात्तगुणविशेषव्यतिरिक्तहेयगुणविषये सङ्कोचः, तथा च निर्गुणवाक्यानां हेयगुणरूपगुणविशेषाभाव- परत्वमेव । अपच्छेदन्यायोऽपि प्रकृते नावतरति । नियतत्वात् प्रकृते पौर्वापर्यस्य । पूर्वपक्षः- | शास्त्रप्राप्तस्य शास्त्रेणैव बाधः सम्भवति, न प्रमाणान्तरेण । प्रकृतेऽपि आहवनीयपदहोमदृष्टान्तः सम्भवति । यथा गा आहवनीयशास्त्रस्य पदहोमव्यतिरिक्तविषये प्रवृत्तिरिति न तच्छास्त्रस्य नात्यन्तमप्रामाण्यम्, तद्वत्प्रकृते सगुणवाक्यानां ध्यानादिषु सार्थक्यम् [[125]]

इति नात्यन्तवैयर्थ्यम्। किञ्च गुणविशिष्टब्रह्मणः शुद्धब्रह्मणश्च परस्परं भिन्नत्वात् सगुणब्रह्मण उपास्यत्वविधानात्, निर्गुणब्रह्मणः तदविधानात् श्रुत्योः विरोधो नास्तीत्यपि वक्तुं शक्यते । सिद्धान्तः- [[1]] सगुणवाक्यानां ध्याने एवोपयोगः इत्यत्र प्रमाणं नास्ति । न हि भेदश्रुतौ सर्वत्र ज्ञानवाचिपदसमभिव्याहारोऽस्ति । किच सगुणनिर्गुणवाक्येषु उपहितानुपहितब्रह्मणः प्रतिपादनमिति व्यवस्थायां नियामकन्नास्ति।नच “निर्गुणम्”203 इति श्रुतिः स्वरसतः गुणरहितमेव प्रतिपादयेत्, “मनोमयः प्राणशरीर”204 इति श्रुतिः स्वारस्येन सगुणमेव प्रतिपादयेदिति, स्वारस्यमेवास्यां व्यवस्थायां नियामकमिति वाच्यम्, वस्तुनि विकल्पायोगात् एकस्यैव ब्रह्मणो गुणविशिष्टत्वतदभावयोः विरुद्धत्वात् । अतः श्रुतिद्वयस्य सामञ्जस्यं शरीरशरीरिभाग- बोधकश्रुतिबलेनैवोपपादनीयम् । अपि च विशिष्टशुद्धयोः भेद इत्यपि न युक्तम् । विशिष्टस्य शुद्धादतिरिक्तत्वे तत्तत्क्षणविशिष्टवस्तूनां परस्परं भेदेन क्षणभङ्गवादप्रसङ्ग इति गदाधरभट्टाचार्यैः 205 प्रतिपादितत्वात् । पूर्वपक्षः- ब्रह्मणो निर्गुणत्वं “तत्त्वमसि ” 206 “ जगच्च सः " 207 इति चेतनाचेतनयोः ब्रह्मणा सहाभेदबोधकश्रुतिस्मृतिभ्यां सिद्ध्यति । [[126]]

, तथाहि - अयं सामानाधिकरण्यव्यपदेशः बाधायां भवति, चोरः स्थाणुरित्यत्रेव । एवं च चेतनाचेतनयोः ब्रह्मतादात्म्ये सिद्धे सति ब्रह्मगुणानामपि चेतनाचेतनान्तर्गतत्वात् ब्रह्मतादात्म्यं वक्तव्यं भवति । न च “जगच्च स” इति स्मृतिः जगतः ब्रह्मतादात्म्यं बोधयति, नाचेतनत्वाविशेषेऽपि ब्रह्मगुणानामिति वाच्यम् “सर्वं खल्विदं ब्रह्म" 208 ३ इति श्रुतौ सर्वशब्देनाविशेषेण ब्रह्मगुणानामपि लाभात् । सिद्धान्तः- “सर्वं खल्विदम्”209 इति श्रुतौ सर्वशब्देन ब्रह्मगुणानां सङ्ग्रहो नास्ति तदुपरि “ तज्जलान्” इति हेतुनिर्देशेन नित्यानां ब्रह्मगुणानां ग्रहणासम्भवात् । तत्र ब्रह्मशब्दस्यैव गुणविशिष्टं ब्रह्मार्थः । किञ्च सन्दंशन्यायेन सगुणवाक्यानां मध्ये प्रयुक्तस्य निर्गुणवाक्यस्य गुणविशेषाभागवद्द्बोधकत्वमेव न तु गुणसामान्यरहितबोधकत्वम्। किश्च ब्रह्म गुणशून्यं दोषशून्यत्वात् इत्यनुमानेन निर्गुणत्वं सिद्ध्यतीतिशङ्कापि न भवति, एतदनुमानस्य धर्मिग्राहकमानेन श्रुतिवाक्येन बाधात्। अतः ब्रह्म सगुणमेव । महतां सकाशे श्रुतोयं वादोऽत्र किञ्चित् परिष्कृत्यप्रस्तुतः॥ [[127]]