असत्यात् शास्त्रात् सत्यस्य ब्रह्मणः प्रतिपत्तिः कथं भवतीति श्रीभाष्ये पृष्टम् । तत्रोक्तं सन्ति चात्र प्रयोगाः विवादाध्यासितं ब्रह्म मिथ्या, अविद्यागत उत्पन्न ज्ञानविषयत्वात् प्रपञ्चगत् । ब्रह्म मिथ्या ज्ञानविषयत्वात् प्रपश्चात्, ब्रह्म मिथ्या असत्यहेतुजन्यज्ञान- विषयत्वात् प्रपञ्चवत् इति । तन्न ब्रह्मणः निर्विशेषत्वात् ज्ञानविषयत्वं हि नास्त्येव । यज्ज्ञेयं सोपाधिकं ब्रह्म, तन्मिथ्यैव । अतः भवदुक्तप्रयोगेषु ब्रह्मपदेन सोपाधिकं ब्रह्म विवक्षितं चेदिष्टापत्तिः । न चेत्, केवले ब्रह्मणि हेतोरपि अभावात् साध्याभावेऽपि न इतिः । अथवा ब्रह्म न मिथ्या फलव्याप्यत्वलक्षणज्ञानविषयत्वाभावात्। यत् फलव्याप्यत्व- स्वरूपज्ञानविषयत्ववद्द्भवति तदेव मिथ्या यथा प्रपञ्चः। (फलव्याप्यत्वं च वृत्तिप्रतिफलितचैतन्यविषयत्वम् ) इति प्रत्यनुमानेन ब्रह्मणो [[120]]
| ? मिथ्यात्वाभावः सिद्ध्यति । किञ्च असत्यस्यापि स्वाप्नस्य हस्त्यादि- विज्ञानस्य परमार्थशुभाशुभप्रतिपत्तिहेतुत्वदर्शनात् असत्यस्य शास्त्रस्य परमार्थभूतब्रह्मप्रतिपत्तिहेतुत्वेऽपि बाधकाभावः ।
सिद्धान्तः
अयमत्र सिद्धान्तः- असत्यात् शास्त्रात् सत्यस्य ब्रह्मणः प्रतिपत्तिः न भवतीति भाष्यकाराः 199 । विवादाध्यासितं ब्रह्म मिथ्या, अविद्यावत उत्पन्नज्ञान- विषयत्वात्-प्रपञ्चगत् इति । ब्रह्म मिथ्या ज्ञानविषयत्वात् प्रपञ्चवत्, ब्रह्म मिथ्या, असत्यहेतुजन्यज्ञानविषयत्वात् इति प्रयोगाः भाष्ये कृताः। अस्मिन् विषये विचारः भाष्यादौ वरीवर्ति । अत्र कृतस्य पूर्णपक्षस्यैन समाधानमुच्यते । ज्ञानविषयत्वरूपहेतुः ब्रह्मणि शुद्धे नास्ति, अतः भवदुक्तहेतुः स्वरूपासिद्धः तेन मिथ्यात्वं साधयितुं न शक्यत इति चेन्न, किं ब्रह्मणि सत्यत्वमस्ति, अतः तत्र मिथ्यात्वसाधने का अनुपपत्तिः भवताम् ? इति प्रश्नसम्भवात्। ब्रह्मणि व्यावहारिकस्य सत्यत्वस्य सत्त्वात् तद्विरोधि तादृशं मिथ्यात्वं नेष्यत इति चेत्, व्यवहारिकस्य ज्ञानविषयत्वस्यापि तत्र सत्वेन स्वरूपासिद्धिविरहेण तेन मिथ्यात्वसिद्धेः । एवं ब्रह्म न मिथ्या फलव्याप्यत्वरूप- ज्ञानविषयत्वाभावात् इति अनुमानमपि न युक्तम्। फलव्याप्यत्वघटित- हेतोरुभयवाद्यसिद्धतया हेत्वसिद्धेः । किञ्च स्वाप्नस्य हस्त्यादिविज्ञान- स्यासत्यस्य परमार्थशुभाशुभप्रतिपत्तिहेतुतया असत्यस्य शास्त्रस्य [[121]]
परमार्थभूतग्रह्मणो ज्ञानं प्रति हेतुत्वं सम्भवतीत्यपि न युक्तम, स्वप्नहस्त्यादेः मिथ्यात्वेऽपि तद्विषयकभ्रमात्मकज्ञानस्य सत्यत्वेन दृष्टान्तस्य विरूपत्वात् । न हि मया स्वप्नवेलायामनुभूतं ज्ञानमपि न विद्यत इति कस्यचिदपि प्रत्ययो जायते । दर्शनं तु विद्यते अर्था न सन्तीतिहि बाधकप्रत्ययः । असत्यात् सत्यप्रतिपत्तिर्न सम्भवति इति शतदूषणीग्रन्थे महता प्रबन्धेनोपपादनं व्यधायि आचार्यैः ।