एकविज्ञानेन सर्वविज्ञाननिरूपणप्रसङ्गे ब्रह्मणो जगदुपादा- नत्वात् तस्याः प्रतिज्ञाया उपपत्तिरिति श्रीभाष्ये भणितम् । तन्न समीचीनम् । ब्रह्मणः प्रकृतित्वमेव न सम्भवति । तथाहि- सूक्ष्मचिदचिद्विशिष्टं ब्रह्म स्थूलचिदचित्प्रपञ्चविशिष्टस्य ब्रह्मणः प्रकृतिरित्युक्तौ विकल्पः क्रियते । किं ब्रह्म चिदचितोः प्रकृतिरुत ब्रह्मणः प्रकृतिः? नाद्यः, चिदचितोः सूक्ष्मरूपेण सृष्टेः पूर्वमपि सत्त्वात् ते प्रति ब्रह्मणः उपादानत्वाभावात् । न द्वितीयः स्वस्य स्वहेतुत्वाभावात्। न च विशिष्टं विशिष्टस्य प्रकृतिरिति वाच्यम्, विशेषणविशेष्याभ्यामन्यस्य विशिष्टस्याभावात्, विशेषणं प्रति विशेष्यं प्रति च ब्रह्मणः उपादान- कारणत्वाभावस्य चोक्तत्वात्। अतः ब्रह्मणः परिणाम एव कार्यत्वमिति पक्षोयं न युक्तः । न च ब्रह्मभिन्नस्यासत्यत्वं कारणवादिश्रुतिविरुद्धम्, तत्र मृत्तिकैण सत्यम् इत्यनुक्त्वा “मृत्तिकेत्येव सत्यम्” 190 इति कथनात् [[117]]
विकारजातस्य कारणगतासाधारणाकारेण सत्यत्वमेव लभ्यत इति वाच्यम्, मृद्द्रव्यत्वेन घटादीनां सत्यत्वे ज्ञातेऽर्थात् घटत्वादिना तेषामसत्यत्वप्रतीतेः। एवं निमित्तान्तराणां कालादृष्टादीनां सत्त्वे श्रौतम् “अद्वितीयम्””। इति पदन्निमित्तान्तराभावं कथं बोधयेत्। एवं “एकम् ” 192 इति पदेन अविभक्तनामरूपं कारणावस्थं ब्रह्मोच्यत इति कथनमपि न संयक्, अविभक्तयोः नामरूपयोः ब्रह्मणि सत्त्वे निरुपचरितैकत्य- स्थित्वयोगात्। निरुपचरितैकत्वेऽद्वैतवादानुसारेण सम्भवति सति लाक्षणिकैकत्वस्वीकारायोगाच्च ।
सिद्धान्तः
अयमत्र सिद्धान्तः सूक्ष्मचिदचिद्विशिष्टं ब्रह्म स्थूलचिदचिद्विशिष्टं ब्रह्म प्रति उपादानम् इति आरम्भणाधिकरणे श्रीभाष्यकाराः । न च स्वं स्वस्यैण प्रकृतिरितिकथनं न युज्यत इति वाच्यम्, सत्कार्यवादेऽभेदे एव प्रकृतित्वस्योपादानत्वापरपर्यायस्य सम्भवात् । अवस्थान्तरापत्तिः कार्यता । जीवे स्वभावपरिणामस्य अचेतने स्वरूपपरिणामस्य च स्वीकारात् तद्द्वारा ब्रह्मणि परिणामस्येष्टत्वात् विशिष्टं ब्रह्म कारणम्, तदेव साक्षात् परम्परया वा अवस्थान्तरविशिष्टं कार्यम् इति कथने दोषाभावः । किञ्च स्थूलचिदचित्प्रपञ्चं प्रति ब्रह्मणः सूक्ष्मचिदचिद्विशिष्टत्वेन कारणत्वमितिपक्षोऽपि भावप्रकाशिकायामुपात्तः । किञ्च मृद्द्रव्यत्वेन [[118]]
[[193]] श्रुतिः घटादीनां सत्यत्वं प्रतिपादयन्ती न तेषां मिथ्यात्वं निरूपयति, अपि तु सत्कार्यसिद्धान्तं द्रढयति । तच्च घटशरावादिकं मृत्तिकात्ववत्येव न तु तच्छून्ये इति “मृत्तिकेत्येव सत्यम्” इति वाक्यार्थः । न च घटत्वेन रूपेण घटादीनामसत्यत्वं लभ्यत इति वाच्यम्, मृत्तिकेत्येव इत्यत्र एवकारेण मृत्तिकात्वभिन्नधर्मस्यानिषेधात्। मृत्तिकात्वाभावो हि घटादौ निषिध्यते । एवं च न श्रुतिविरोधः । किञ्च निमित्तान्तराणां कालादृष्टादीनां सत्त्वो “ अद्वितीयम् “194 इत्यनया श्रुत्या कथं निमित्तान्तरसद्भावः निषिद्ध्यत इति शङ्कापि नास्ति । कालस्य निमित्तकारणत्वेऽपि अधिष्ठातृत्वरूपं (कार्योत्पत्त्यनुकूलसङ्कल्प- विशेषाश्रयत्वं) निमित्तकारणत्वं नास्ति । न हि अस्माभिः अद्वितीयपदेन निमित्तान्तरसद्भावो निषिद्ध्यत इत्युच्यते, किन्तु अधिष्ठात्रन्तरसद्भाव एव तत्र निषेध्यः। अतोनानुपपत्तिः । न च अविभक्तयोः नामरूपयोः ब्रह्मणि सत्त्वे निरूपचरितैकत्वायोग इति वाच्यम्, ब्रह्मणि तद्भिन्नानां बहूनां चेतनाचेतनानामपृथक्सिद्धिसम्बन्धेन सत्त्वेऽपि एकत्वस्य विशिष्टैक्यरूपस्य सम्भवात् । न हि स्वरूपैक्यमत्र विवक्षितम् । एकस्य सतः “बहुस्यां प्रजायेयेति95 प्रतिपादितबहुत्वानुगुण्येन, तत्प्रतिसम्बन्धि एकत्वस्य स्वरूपैक्यरूपत्वासम्भावात् । न च बहुत्वस्य ब्रह्मणि असम्भवात् तद्विशेषणेषु चेतनाचेतनेषु अन्वयस्तस्य स्वीकार्यः, एकत्वं च ब्रह्मणि स्वीक्रियते चेत्, कथं पूर्वोत्तरवाक्ययोरेकार्थकत्वं स्यादिति [[119]]
वाच्यम्, एकमित्यनेनैव स्वगत - सजातीय - विजातीय भेदरहितस्य स्वरूपस्य लाभे “अद्वितीयम्” 16 इति पदस्य वैयर्थ्यप्रसङ्गेन “ एकम् " 197 इत्यनेन विशेषणभूत प्रपश्चगतबहुत्वानुरोधि एकत्वस्य विशेषणगतत्वे बाधात्, विशेष्यगतस्य च तस्य विशिष्टगतत्वं विना असम्भवात् । स्वरूपमात्रगतमेकत्वं यदि विवक्षितं प्रथमवाक्ये, तदा सृष्ट्यनन्तरमपि तस्यैकत्वात् बहुस्यामिति वाक्यस्य पूर्वविरोधापत्तिः । एतद्विषये विस्तरः ‘कृत्यधिकरणश्रुतप्रकाशिकादौ 198 ।