२१ प्रत्यक्षस्य आगम-बाध्यत्वम्?

’ भेदप्रत्यक्षमागमेन बाध्यत इति स्थितिरद्वैतिनाम् । श्रीभाष्ये- दोषमूलत्वेनान्यथासिद्धिसम्भावनया सकलभेदावलम्बि प्रत्यक्षस्य [[113]] शास्त्रवाध्यत्वमिति कोऽयं दोष इति वक्तव्यं यन्मूलतया प्रत्यक्षस्यान्यथासिद्धिः - अनादिभेदणासनैन दोष इति चेत्, भेदणासनायास्तिमिरादिवद्यथावस्थितवस्तुविपरीतज्ञानहेतुत्वं किमन्यत्र ज्ञातपूर्णम् - अनेनैव शास्त्रविरोधेन ज्ञास्यत इति चेन्न - अन्योन्याश्रणात् -शास्त्रस्य निरस्त निखिलविशेषवस्तुबोधित्वनिश्चये सति भेदणासनाया दोषत्वनिश्रचयः, दोषत्वनिश्वये सति शास्त्रस्य नादृशवस्तु बोधित्वनिश्चय'85 इति कथितम्। तन्न - अन्योन्याश्रयाभावात्। सम्भावितपुरुषदोषतया वेदाः प्रमाणम् इति निश्चयः । तैश्च वेदैः द्वैतासत्यत्वमद्वैतसत्यत्वं च बोधितमिति ज्ञात्वा इदं द्वैतं रज्जुसर्पवत् दोषात् कस्माच्चित् जातमिति निश्चयो भवति । स च दोषः अनादिभेदणासनासहिताविद्यैव । तत एवावगम्यत इति नान्योन्याश्रयः । न च शास्त्रादप्यद्वैतसत्यत्वनिश्वये सत्येव द्वैतमिथ्यात्वनिश्चयः, द्वैतमिथ्यात्वनिश्वये सति अद्वैतसत्यत्वनिश्चय इत्यन्योन्याश्रय इति वाच्यम्। अद्वैतसत्यत्वस्य द्वैतमिथ्यात्वस्य च शास्त्रेणैव बोध्यत्वात् अन्योन्याश्रयाभावात्। किञ्च अपच्छेदन्यायेन परत्वादपि शास्त्रं द्वैतप्रत्यक्षस्य बाधकम्। न च दोषमूलस्य शास्त्रस्य परत्वमकिञ्चित्करमिति वाच्यम् । शास्त्रस्यासाधारणदोषमूलत्वाभावात् । न चोपक्रमाधिकरणन्यायेन परस्यापि शास्त्रस्य पूर्णमेव प्रत्यक्षं बाधकमस्त्विति वाच्यम्, निर्दोषस्यैण [[114]]

पूर्णस्य परबाधकत्वात् । प्रत्यक्षं तु सदोषम् । न चैनं निर्दोषत्वादेव शास्त्रस्य प्रत्यक्षबाधकत्वमस्तु किं परत्वेन इति वाच्यम् । शास्त्रस्य प्रत्यक्षबाधकत्वदाढ्र्चार्थत्वात् ।

सिद्धान्तः

अयमत्र सिद्धान्तः- भाष्ये शास्त्रस्य निरस्तनिखिलविशेषवस्तुबोधित्वनिश्चये सति भेदवासनायाः दोषत्वनिश्चयः, तस्या दोषत्वनिश्चये सति शास्त्रस्य तादृशवस्तुबोधित्वनिश्चय इति अन्योन्याश्रय उक्तः । 186 शास्त्रेण द्वैतासत्यत्वम् अद्वैतसत्यत्वं च बोधितम् । द्वैतं च निर्दोषशास्त्रबाधितं दोषादेव जातं रज्जुसर्पवत् इति निश्चयो भवति इति अन्योन्याश्रयो न भवति इति पूर्वपक्षः- अत्र समाधानम् - भाष्योक्तान्योन्याश्रयस्वरूपं हि इदम् । तथाहि शास्त्रेण निर्विशेषवस्तुनि सिद्धेतद्विपरीतसंस्कारस्वरूपायाः भेदणासनायाः दोषत्वकल्पना, भेदणासनायाः दोषत्वे सति भेदवासनामूलकात् प्रत्यक्षात् प्रबलेन शास्त्रेण निर्विशेषाद्वैतसिद्धिरिति शतदूषण्यामन्योन्याश्रय उक्तः । अयमन्योन्याश्रयः भवन्मते वारयितुं न शक्यते । प्रथमतः वेदा असम्भावितदोषाः, अतः स्वतः प्रमाणम् इति ज्ञानेऽपि प्रत्यक्षस्य भेदणासनामूलकत्वं यावत् न ज्ञातं तावत् निर्दोषतया ज्ञातोऽपि वेदः निर्विशेषं बोधयितुं न शक्नोति । अतः भाष्योक्तान्योन्याश्रयः शतदूषण्यां स्पष्टीकृत 187 इति ज्ञातव्यम् । द्वितीयोन्योन्याश्रयो नास्ति, भाष्येऽपि नोक्तः । अतस्तादृशान्योन्या- भागस्यासत्त्वेऽपि न क्षतिः । [[115]]

न चापच्छेदन्यायेन शास्त्रं द्वैतप्रत्यक्षं बाधत इति वाच्यम्, अत्रापच्छेदन्यायानगतारात् । अनियतविरोध पौणापर्यस्थले हि अपच्छेदन्यायप्रसरः । पौर्वापर्यं विरोधा पूर्वाप्रामाण्यमेव । नियमान्नास्ति यत्रासावपच्छेदनयो भवेत् ॥ इति प्राचीन श्लोकः इममर्थं द्रढयति । न च परत्वादपि शास्त्रं प्रत्यक्षं बाधत इति वाच्यम्, परत्वमेव यदि केवलं बाधप्रयोजकम् माध्यमिकमर्यादया त्रय्यन्तानामपि बाध्यत्वापत्तेः । न च द्वयोर्ज्ञानयोः विरोधे सावकाशत्वादन्यथासिद्धं बाध्यम्, अनवकाशत्वात् अनन्यथासिद्धं बाधकम् । अवकाशश्चा- विरुद्धविषयान्तरलाभः अप्रमाणकोटिनिवेशो वा । अत्राप्रमाण- कोटिनिनेशो भवति, स च कारणदोषरूप एव, तथा चान्यथासिद्धं प्रत्यक्षं शास्त्रेण बाध्यते इति वाच्यम्, प्रत्यक्षस्य भेदणासना- मूलकत्वकथने अन्योन्याश्रयस्य पूर्णमेवोक्तत्वात् । न हि लोके भेदवासनादोष इति व्यवहारः । अन्योन्याश्रय एवम् आचार्यैः प्रदर्शितः188- शास्त्रेण निर्विशेषत्वे सिद्धे स्यात् भेदणासना । दोषः, तद्दोषभावे च सिद्धे स्यात् निर्विशेषधीः ॥ इति । [[116]]

अयमेवाभिप्रायः- प्रत्यक्षत्वादेव द्वैतप्रत्यक्षम् अप्रमाणम् इति वक्तुं न शक्यम्। “इदं शास्त्रम्-एतच्चासम्भाव्यमवानदोषम् । प्रत्यक्षं तु सम्भाव्यमानदोषम् - इति केनावगतं त्वया ” 189 इत्यारभ्य भाष्यकारैः विषयोऽयं निरूपितः । एवं रीत्या चक्रकदोषनिरूपणमपि ग्रन्थेषु प्रदर्शितम्। विस्तरेणापच्छेदन्यायविचारः प्रबन्धेऽस्मिन् करिष्यते ।