सुषुप्तौ अहमर्थोऽनुवर्तते इति श्रीभाष्यकाराः । “सुखमहम- वाप्सम्” इति प्रत्यवमर्शेनाहमर्थस्य तदानीं सुखित्वं ज्ञातृत्वं च (सुखत्वं ज्ञानत्वं च) ज्ञायत इति श्रीभाष्यम् 7" । तन्न - अनुभवकाले अहमिति प्रतीत्यभावेनाहमर्थाभावात्, अहमर्थत्वेन त्वदभिमतस्य च प्रत्यगात्मनः सुखरूपत्वेन सुखित्वाभावात् धर्मभूतज्ञानस्य च सुषुप्तावभागाज्ज्ञातृत्वाभावाच्च । यदुक्तं श्रुतप्रकाशिकायाम् 177 “न किञ्चिदनेदिषम्” इति अज्ञानसाक्षित्वेन स्थितिं वदता अज्ञानाश्रय- भूताहमर्थोऽभ्युपगन्तव्य इति तदयुक्तम् अज्ञानसाक्षित्वेन सुषुप्तौ प्राज्ञस्यैण स्थितेरुक्तत्वात् । अहङ्कारस्य तथानुक्तत्वात् । यदुक्तं- अहमवेदिषमिति वेदितुरहमर्थस्यानुवृत्तिरिति तदपि नवेदनसमये अहङ्कारे सति अहं वेद्मि इति प्रतीयादेव । ननु सुषुप्तौ अहमर्थविगमो नास्ति, किन्तु ब्राह्मणोऽहं कृशोऽहमित्याद्याकारविगम एवेति । मामप्यहं [[110]]
न ज्ञातवानिति सुप्तोत्थितस्य परामर्शः सुषुप्तौ अहमर्थस्य सत्त्वं, आकारविशेषस्य चासत्त्वमावेदयति इति चेन्न, सुषुप्तौ ब्राह्मणोऽह- मित्याद्यहम्भावो यदि नास्ति, तदा कीदृशोऽहङ्कार इति वक्तव्यम् । अहमर्थस्य प्रतीतेराकारः क इति यावत् । अतोऽहम्पदवाच्यस्य अन्तःकरणावच्छिन्नचैतन्यस्य नानुवृत्तिः सुषुप्तौ ।
सिद्धान्तः
अयमत्र सिद्धान्तः- सुषुप्तावपि अहमर्थोऽनुवर्तत इति श्रीभाष्यकाराः । स्वयम्प्रकाश आत्मा अहमर्थः । स नित्यः तथाच सुषुप्तावपि सोऽस्त्येव । न च अनुभवकाले अहमिति प्रतीत्यभावेन अहमर्थः सुषुप्तौ नास्तीति वाच्यम् । अहमर्थो ह्यात्मा, स्वयम्प्रकाशः स न सुषुप्तिकाले न प्रकाशत इति वक्तुं न शक्यते । धर्मभूतज्ञानविषय एव स्मर्यते इति सुषुप्तिकाले धर्मभूतज्ञानस्य विषयसम्बन्धाभावेन जाग्रद्दशायां विषयस्मरणं न भवति । अतः सुषुप्तौ अहमिति प्रतीत्याभावात् नाहमर्थानुवृत्तिरिति न वाच्यम्। अयं भावः-धर्मभूतज्ञानं स्वप्रकाशं चेदपि विषयप्रकाश- वेलायामेव विषयेण सह स्वमपि विषयीकरोति इति अनुभगबलात् स्वीकर्तव्यम् । न हि जानामीति अभिलापः किन्तु घटं जानामि इत्येव । आत्मा अहमर्थः प्रत्यक्त्ण- एकत्ण-अनुकूलत्वविशिष्टतया स्वप्रकाशः । परन्तु सोऽपि विषयप्रकाशवेलायामेव अहमिति अभिलप्यते । विषयप्रकाशाभावेऽपि अहमर्थः स्वप्रकाश सर्वदा इति विशेषः । अतः [[111]]
अहमिति यदाभिलापः तत्पूर्वक्षण एव अहमर्थप्रकाश इति न मन्तव्यम् । सर्वदा स प्रकाशते । सुषुप्तावपि स प्रकाशत एव । अयमर्थः “अत्रायं पुरुषः स्वयञ्ज्योतिः “178 इति श्रुतिसिद्धोऽपि । न च " सुखित्वं ज्ञातृत्वं च ज्ञायत " 179 इति भाष्यमनुपपन्नम्, प्रत्यगात्मनः सुखरूपत्वेन सुखित्वाभावात्, धर्मभूतज्ञानस्य सुषुप्तावभावेन ज्ञातृत्वाभावाच्च इति वाच्यम्, अस्य प्रश्नस्य टीकायामेव समाहितत्वात् । “स्वस्मै स्वयमनुकूलमित्यानुकूल्यप्रतियोगित्वाभिप्रायेण सुखित्वमित्युक्तम् । स्वस्मै भासमाने आत्मनि भासनप्रतिसम्बन्धित्वरूपप्रत्यक्त्वाभिप्रायेण ज्ञातृत्वमित्युक्तम्” न तु धर्मभूतज्ञानस्फुरणात् ” 180 इति टीका । अतो भाष्यस्य सुखत्वं ज्ञानत्वं ज्ञायत इत्येवार्थः । अर्थविशेषद्योतनाग मतुबर्थप्रत्ययान्तत्वेन निर्देशः । । श्रुतप्रकाशिकायां " न किञ्चिदवेदिषम्” इति अज्ञानसाक्षित्वेन कस्यचित् स्थितिः स्वीकार्येति अहमर्थानुवृत्तिः भवद्भिरपि वक्तव्येति कथितम् 181 । तद्युक्तमेव । न चाज्ञानसाक्षित्वेन सुषुप्तौ प्राज्ञ एवोच्यते, न तु अहमर्थ इति वाच्यम्, “ न किञ्चिदहमवेदिषम्” इति इदानीन्तन- प्रतीतौ अज्ञानाश्रयतया अहमर्थ एव स्वीक्रियते, तस्याज्ञानस्य सुषुप्तिकालेऽपि सत्त्वे तदाश्रयतया कथमन्यो वक्तुं शक्यते । अहमर्थ एव तथा वक्तव्य इति आपादने तात्पर्यात्। न हि तदीयप्रक्रियामनुसृत्य टीकाकृद्भिः तथोक्तमिति । यदुक्तं वेदनसमये अहमर्थस्य सत्त्वे “अहं [[112]]
वेद्मीति तदानीं प्रतीयादिति, तन्न विषयप्रकाशवेलायामेव अहं वेद्मीति - प्रत्ययस्य सत्त्वात्। वेद्मि” इत्युल्लेखः स्तु धर्मभूतज्ञानस्यैव । सुषुप्तौ । ब्राह्मणोऽहमित्यहं भावो यदि नास्ति तदा कीदृशोऽहम्भाव इति प्रश्नोऽपि नोचितः । सुषुप्त्यनन्तरं “ मामप्यहं न ज्ञातवान् ” इति परामर्शः सुषुप्तिकाले ब्राह्मणत्वाद्याकारविशिष्टतया अहमर्थस्फुरणं नास्ति इति, अहमर्थः यैः धर्मैः (प्रत्यक्त्व - अनुकूलत्व - एकत्नैः) विशिष्टतया स्वप्रकाशः, तद्विशिष्टतया परामर्शश्च सुषुप्तौ स्वप्रकाशस्याहमर्थस्य सत्त्ववे प्रमाणम्। सुखं-आत्मस्वरूपं तदानीं भासते । न हि इदानीन्तनसुखं तस्य प्रत्यवमर्शस्य विषयः, उक्तं च वेदान्तदेशिकैः अगायं मधुरं मन्दमगामित्येवमादिषु । माधुर्यादिवत् अत्रापि सुखं भाति तदातनम् ॥ 182 इति । अस्मिन् विषये विस्तरः श्रुतप्रकाशिकादिषु । अत्र केचिदेव पूर्वपक्षाः सङ्गृहीताः, समाहिताश्च । अहमर्थविगमः सुषुप्तावपि नास्ति, मोक्षदशायामपि नास्ति। वामदेवादीनामपि अहम् “इत्येवानुभवः” । “तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे “अहम्मनुरभवम्”183 इत्यादि- श्रुतिरत्र प्रमाणम्। वामदेवादयः ब्रह्मात्मभावापरोक्ष्यनिर्धूतकल्मषाः, न मुक्ताः । एवं मुक्तानामपि " अहम् अन्नादः " 184 इत्येवानुभवः ।