१९ अहङ्कारस्य चिद्-अभिव्यञ्चकत्व-विचारः

यदुक्तं भाष्ये “आत्मनो व्यङ्ग्यत्वे सति घटवत् अननुभूतित्वं 169 स्यादिति तन्न, अनुभूतेरनुभाव्यत्वाभावे अनुभूतित्वमेव न स्यादिति [[106]]

स्वबचोविरोधात् । स्वमते आत्मनो वेद्यत्वस्याभ्युपगमात् । यदुक्तं तत्रैणकरतलस्य रणिकररश्मिप्रतिहतिद्वारा तद्वाहुल्यहेतुत्वमेव न ब्यञ्जकत्वमेवेति कृत्वा रविकराणां स्वाभिव्यङ्ग्यकरतलाभिव्यञ्चकत्वं नास्तीति । तदयुक्तम्-किमिति करतलगत् भूतलस्य रविकररश्मि- प्रतिहतिद्वारा तद्वाहुल्यं न स्यादिति । यदुक्तं - अनुभूतेरनुभाव्य- त्योपगमेऽपि अहमर्थेन न तदनुभवसाधनानुग्रहः सुवचः । सहि अनुभाव्यानुभवोत्पत्तिप्रतिबन्धनिरासेन भवेत् यथा रूपादि- ग्रहणोत्पत्तिविरोधितमोनिरसनेन चक्षुषो दीपादीनाम् । न चेह तथाविधं निरसनीयं सम्भाव्यते, न तावत् संविदात्मगतं तज्ज्ञानोत्पत्तिविरोधि किञ्चिदहङ्कारापनेयमस्ति । अस्ति ह्यज्ञानमिति चेन्न, अज्ञानस्याहङ्कारा- पनोद्यत्वाभ्युपगमात् । ज्ञानमेव हि अज्ञानस्य निवर्तकम् । तन्न, संविदावारकाज्ञाननिवर्तकज्ञानकर्तृत्वेनाहङ्कारस्याहमर्थस्यात्मानुभव- साधनानुग्रहकरत्वसम्भावात् । न च अहङ्कारोऽनुभूतिं नाभिव्यञ्ज्यात्, न हि स्वाश्रयतया अभिव्यङ्गयाभिव्यञ्जनमभिव्यञ्जकानां स्वभाव इति स्वात्मस्थामनुभूतिं कथं सोऽभिव्यञ्ज्यादिति वाच्यम्, प्रदीपादिर्हि दृष्टान्तः स्वस्थमारुण्यमभिव्यनक्ति वा न वा ? यदि अभिव्यनक्ति तदा अहङ्कारेणानुभूतेरात्मस्थतयाभिव्यञ्जने दोषो न भवति । यदि नाभिव्यनक्ति, कथं तदा अरुणो दीप इति प्रतीतिः । अतो नायं नियमो, यत् अभिव्यञ्जकः स्वात्मस्थतयाभिव्यङ्ग्यं नाभिव्यञ्ज्यादिति । [[107]]

सिद्धान्तः

अयमत्र सिद्धान्तः- आत्मनो व्यङ्ग्यत्वे सति घटवत् अननुभूतित्वं स्यात् इति भाष्यम्। तत्र पूर्वपक्षः-अनुभूतेरनुभाव्यत्वाभावे अनुभूतित्वमेव न स्यादिति स्ववचोविरोधः, स्वमते ह्यात्मनो वेद्यत्वाभ्युपगमात् इति तन्नपरमतरीत्या अस्य दोषस्य आपादितत्वात् । करतलस्य रविकरव्यञ्जकत्वमेव नास्ति, किन्तु तद्बाहुल्यहेतु- गमेवेति भाष्यकारैरनुभवानुसारेण कथितम्। भूतलस्यापि रविकर- श्मिप्रतिहतिद्वारा तद्बाहुल्यहेतुत्वमस्त्येण करतलस्य स्वच्छत्वात् तत्र प्रतिहता रश्मयः परावृत्ता द्विगुणिताः सन्तः बाहुल्यं भजन्ते । तथा सर्वत्र भवति । परन्तु अस्वच्छद्रव्ये प्रतिहतिर्भवति चेत् बाहुल्यं न दृश्यते । प्रतिहत्या रश्मिबाहुल्ये प्रमाणं भूतले बहुकालं सूर्यरश्मिपतने औष्ण्याधिक्यमेव। औष्ण्यं तेजोधर्मः, रश्मिप्रतिहतिर्भवति चेत् तेषां परावृत्त्या सङ्ख्याधिक्यं भवति । आकाशे प्रतिहतिर्नास्ति अतः सूर्यादागच्छन्तः रश्मय एव अनुभूयन्ते । अतो भाष्योक्तं युक्तमेव । किा अहमर्थेन आत्मानुभवसाधनानुग्राहकत्वं नाम संविदावरकाज्ञाननिवर्तकज्ञानकर्तृत्वम् इति न युक्तम् । तथा चेत्- अहमर्थः-अन्तः करणावच्छिन्नचैतन्यम्, तस्य यत् वृत्त्यवच्छिन्न- चैतन्यात्मकं ज्ञानं, तेन संविदावरणभूताज्ञानमपैति इति वक्तव्यम्। [[108]]

अद्वैतसिद्धान्तरीत्या अस्य परिष्कारस्य युक्तत्वेऽपि श्रीमद्यामुनाचार्य- श्लोकोक्तरीत्या अभिव्यङ्ग्यत्वं संविदो वक्तुं न शक्यत इति समाधिः । अयं हि श्लोकः शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः । स्वयं ज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् ॥ 170 इति । ग्रन्थेऽस्मिन् चैतन्याभिव्यङ्ग्यत्वं सङ्क्षेपेण निराकृतम् । " न हि स्वाश्रयतया अभिव्यङ्गयाभिव्यञ्जनमभिव्यञ्जकानां स्वभावः’i71 इति नियमस्यानुपपत्तिः प्रदर्शिता पूर्णपक्षे यत् प्रदीपः स्वस्थमारुण्यमभिव्यनक्ति किलेति । यदि नाभिव्यनक्ति दीपः स्वस्थमरुणिमानं तदा अरुणो दीप इति प्रतीतिर्नस्यात् इति । अयं पूर्वपक्षो न युक्तः । न हि दीपगतमारुण्यं प्रदीपेनाभिव्यज्यते ॥ किन्तु प्रभया तस्याभिव्यक्तिः । सिद्धान्ते प्रभाप्रभावतोर्भेदः । अथवा अस्मिन् विषये भाष्यकृतो न निर्भरः । अत एव “ कचिदात्मस्थत- याभिव्यञ्जनमभ्युपेत्य व्यभिचार उक्त " 172 इति अत्र श्रुतप्रकाशिका । “दीपादिषु अनैकान्त्यप्रदर्शनमेव क्वचिदभ्युपगमसूचनम् इति भाव” 173 इति भागप्रकाशिका । | वस्तुतः “अथ क्वचिदपि तन्नास्तीत्याह” 174 इति श्रुतप्रकाशिका “स्वात्मस्थतया भिव्यङ्गयाभिव्यञ्जनमभिञ्जकानां न स्वभाव " 175 इति [[109]]

विषये भाष्यकृतां निर्भर इति स्पष्टयति । एवं चेत् दीपेऽस्य नियमस्य कथं व्यभिचारः वार्यते इति चेत् उच्यते अभिव्यञ्जकत्वमालोकस्यैवेति स्वीकारात् दोषाभावः । दीपः कुत्रापि नाभिव्यञ्जकः । दीपप्रभा दीपस्यारुण्यादिकमभिव्यनक्ति चेदपि स्वीयरूपादिकं नाभिव्यनक्ताति न दोष इति ।