। संविदात्मा अजडत्वादिति अनुमानमसमीचीनम् । तत्र अजडत्वमित्यनेन किं विवक्षितम् ? इति प्रश्नः । यदि स्वसत्ताप्रयुक्त- प्रकाशत्वं तत् इति चेत् दीपादिषु व्यभिचारः । संविदतिरिक्तस्य प्रकाशरूपस्य धर्मस्यानभ्युपगमेन हेतो रसिद्धिः । निर्विशेषं चैतन्यमिति स्वसिद्धान्तविरोधश्ा । अव्यभिचरितप्रकाशसत्ताकत्वमिति तु सुखादिषु व्यभिचरितम्। स्वस्मै भासमानत्वमपि अन्यस्मै अहमर्थाय भासमाने चैतन्येऽसिद्धम् । तस्मात् संविद आत्मत्वमिति कथम् ? इति श्रीभाष्याशयः । तत्र प्रतिविधीयते । - प्रथमपक्षद्वयमपि युक्तम् । स्वसत्ताप्रयुक्तप्रकाशत्वं न दीपे व्यभिचरति । दीपप्रकाशस्य घटादिवत् चक्षुः प्रयुक्तत्वात् । न हि चक्षुषि निमीलिते घट इव दीपोऽपि स्फुरेत् । एवमसिद्ध्यादिरपि न । प्रकाशस्य संविद्धर्मत्वानङ्गीकारात् । प्रकाशो हि सङ्गित्स्वरूपमेव । यद्वा घटस्येव संविदोऽपि प्रकाशः व्यवहार- विषयत्वरूपः स च यावद्व्यवहारमस्त्येव । अजडत्वं नामाव्यभिचरित- प्रकाशसत्ताकत्वमिति द्वितीय पक्षोऽपि युक्त एव । न च सुखादौ अनैकान्त्यम्। प्रकाशशब्देन स्वरूपभूतप्रकाशस्य स्वीकारे सुखादावपि अव्यभिचरितप्रकाशसत्ताकत्वं प्रकाशव्याप्यसत्ताकत्वं भवति चेदपि [[104]]
तस्य पक्षत्वान्न व्यभिचारः । अहमर्थस्यात्मनः संविद्रूपत्वेन संविदन्यत्वाभावात् स्वस्मै भासमानत्वरूपाजडत्वमपि संविदो भवत्येव। वस्तुतः अजडत्वं नाम स्वप्रकाशत्वं, तत् चैतन्ये सम्भवत्येवेति न काप्यनुपपत्तिः । एवं च श्रीभाष्ये खण्डिता रीतिर्न युक्तेति ।
सिद्धान्तः
अयमत्र सिद्धान्तः- संविद आत्मत्वाभावः भाष्य एव विशदं प्रतिपदितः । संविदात्मा अजडत्वात् इत्यनुमाने अजडत्वपदार्थं वितर्क्स तदनुमानं भाष्ये खण्डितम्। तत्र पूर्णपक्षः - स्वसत्ताप्रयुक्तप्रकाशत्वं, अव्यभिचरित- प्रकाशसत्ताकत्वम्, स्वस्मै भासमानत्वं, इति पक्षत्रयमपि युक्तमेव व्यभिचार-असिद्ध्यादिदोषाभावादिति । तत्र समाधानम्-भाष्यकारैः संवित्पदेन अहं जानामीति प्रतीतौ धातुनाभिलप्यं ज्ञानं विवक्षितम् । तथा च स्वसत्ताप्रयुक्तसत्ताकत्वं चेत् अजडत्वं दीपादिषु व्यभिचार एव । न च दीपप्रकाशः स्वसत्ताप्रयुक्तः किन्तु घटादिवत् चक्षुः प्रयुक्त एवेति वाच्यम्, चक्षुः प्रयुक्तत्वेऽपि स्वसत्ताप्रयुक्तत्वस्य दीप- प्रकाशेऽनपायात्। नहि घटादिवत् दीपः स्वप्रकाशाय दीपान्तरमपेक्षते । न च घटादेरपि प्रकाशः तत्सत्ताप्रयुक्तः । न हि घटादिकं विना तद्विषयीकरणम् इति वाच्यम् । प्रमाणातिरिक्तस्वभिन्नसहकार्यन- पेक्षणस्य प्रकृते स्वसत्ताप्रयुक्तत्वपदेन विवक्षणात् । न च प्रयुक्तत्वमत्र [[105]]
व्यापकत्वं दीपप्रकाशस्य दीप सत्ताव्यापकप्रकाशत्वं नास्तीति वाच्यम्, चैतन्यस्याज्ञानेन तिरोधानस्वीकारपक्षे आत्मसत्त्वव्यापकत्वस्य तत्प्रकाशेऽभावात् स्वरूपासिद्धेः । प्रकाशस्य संविद्धर्मत्वानङ्गीकारे स्वरूपासिद्धिः पक्षे संविदि हेतोः स्वसत्ताप्रयुक्तप्रकाशत्वस्याभावात्। प्रकाशस्य सङ्गिद्धर्मत्वस्वीकारस्तु अपसिद्धान्ते दोषे पर्यवसाययेत् । चैतन्यस्य निर्धर्मकत्वस्वीकारात् । एवम् अव्यभिचरितप्रकाश- सत्ताकत्वमिति कल्पोऽपि सुखादौ व्यभिचारसम्पादकः । प्रकाशः- स्वरूपं तद्वयाप्यत्वस्य सुखसत्तायां सत्त्वात् । सुखेऽव्यभिचरित- प्रकाशसत्ताकत्वे सत्यपि तस्य पक्षान्तर्भावान्न व्यभिचार इत्यपि न- तेषां संविद्व्यतिरेकस्य भवता स्वीकृतत्वात् व्यभिचारतादवस्थ्यात् । नापि स्वस्मै भासमानत्वकमजडत्वम्, तस्य सङ्गिदि असिद्धेः । सङ्गित् तु अहमर्थाय हि प्रकाशते । न च अजडत्वं स्वप्रकाशत्वमिति वाच्यम्, अजडत्वस्य स्वप्रकाशत्वरूपस्य स्वीकारेऽपि तेन आत्मत्व- साधनासम्भवात्। धर्मभूतज्ञाने, नित्यविभूतौ च व्यभिचारात्। तयोस्तु स्वप्रकाशत्व मनात्मत्वं च शास्त्रसिद्धम्। अतोऽनुमानस्यास्य भाष्यकृदुक्तं दूषणं युक्तमेव ।