। मुक्तौ अहमर्थो नानुवर्तत इति अहमर्थविनाश एव मोक्ष इति अद्वैतिभिः स्वीकार्यम् । एवं च स्वनाशरूपमोक्षं कोऽपि न वाञ्छति । अयमर्थ उक्तः श्रीभाष्ये श्लोकरूपेण - [[101]]
अहमर्थविनाशश्चेत् मोक्ष इत्यध्यवस्यति । अपसर्पेदसौ मोक्षकथाप्रस्तावगन्धतः ॥ 166 इति । अत्रोच्यते पतिव्रता नारी भर्त्रा सह स्वर्गसुखार्थ स्वनाशमपि इच्छन्ती गह्रौ पतति । जन्मान्तरे राजाहं भविष्यमीति कृपणः प्रयागे गङ्गायां पतति, तद्वत् चिदाभासोऽहङ्कारोऽपि साक्षित्वेनावशेषाय स्वनाशं वाञ्छति । अतो न दोषः । एवमेव एतत्प्रकरणस्थश्लोकानामपि समाधानं कर्तुं शक्यते । अत्र समाधानान्तरमपि भवति । तथाहि- अहमर्थः-अन्तः करणावच्छिन्नचैतन्यम् । स चाहमर्थः स्वावच्छेद- कान्तःकरणनाशाय प्रयतते, रोगयुक्तः पुरुषः रोगनाशार्थमिव ।
सिद्धान्तः
अयमत्र सिद्धान्तः- भाष्यकारैः “अहमर्थविनाशः मोक्ष इति अद्वैतिभिःवक्तव्यम् । संविदात्मा तदाश्रयतया तदभिव्यञ्जकः अहङ्कारः । स च मोक्षे नानुवर्तते, अज्ञानविकारत्वात्, तत्त्वज्ञानेन समूलस्याज्ञानस्य नाशात्” इति पक्षे अहमर्थविनाशाय कोऽपि प्रयतते वा, इति उपपादनाय श्लोकाः प्रदर्शिताः निरस्ताखिलदुःखोऽहम् अनन्तानन्दभाक् स्वराट् । भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते ॥ अहमर्थविनाशश्चेत् मोक्ष इत्यध्यवस्यति । अपसर्पेदर्सो मोक्षकथा प्रस्तावगन्धतः॥ [[102]]
मयि नष्टेऽपि मत्तोऽन्या काचिज्ज्ञप्तिः भविष्यति । इति तत्प्राप्तये यत्नः कस्यापि न भविष्यति ॥ 167 इत्यादयः श्लोकाः । अत्र पूर्णपक्षः स्वविनाशार्थं पतिव्रता । भर्तृनियोगानन्तरं वह्नौ पतति । जन्मान्तरे राजाहं भविष्यामि इति धिया कृपणः गङ्गायां पतति, तथा अहङ्कारोऽपि स्वनाशे सत्येव साक्षित्वेनावशेषः भवेत् इति स्वनाशं वाञ्च्छति इति अतो न दोष इति । तत्र समाधानम् - दृष्टान्तस्यायुक्तत्वात् । न हि पतिव्रता परस्तात् स्वर्गः भवति इति वह्नौ पतति, साहि पतिमरणानन्तरं जीवनं दुःसहं दुष्करं चेति मत्वा मरणमेव वरमत्र स्थित्यपेक्षया इति विचिन्त्य वह्नौ पतति । भवदुक्तरीतिस्वीकारेऽपि अत्र, स्वर्गे च अनुभोक्ता एक एन अहमर्थावच्छिन्न आत्मा । परन्तु भवद्भिः इदानीम् अहमर्थस्य मोक्षार्थतत्त्वज्ञानम्, फलं तु शुद्धचेतन्यस्य इति कथनेन विरोध एव । तदेव भाष्यकारैः प्रतिपादितम् । मयि नष्टेऽपि मत्तोऽन्या काचिज्ज्ञाप्तिरवस्थिता । इति तत्प्राप्तये यत्नः कस्यापि न भविष्यति ॥ 168 एवं भवदुक्तद्वितीयदृष्टान्तोऽपि परिशीलनीयः । न च तत्रापि शरीरभेदेन अहमर्थभेद इति चेत्, न - अहमेव स्वर्गं पत्या सह अनुभविष्यामि इति निश्चयेन हि पतिव्रता पतति, न तु मदपेक्षया [[103]] अन्योऽहमर्थः अनुभविष्यति इति मत्वा । अतः स्वनाश एव मोक्षश्चेत् कस्यापि प्रवृत्तिर्न भवेत् तत्रेति श्रीभाष्योक्तं युक्तम् ।