१६ प्रत्यक्त्व-पराक्त्वे

विशिष्टाद्वैतिभिः स्वस्मै भासमानत्वं प्रत्यक्ताम्, परस्मैभा- मानत्वं पराक्ताम् इति प्रत्यक्त्वापराक्त्वयोः स्वरूपे निरूपिते। प्रत्यक्त्वं जीवपरमात्मनोः धर्मः । पराक्त्वं तु अनात्मधर्म इति विवेक इति । स्वस्मै परस्मै इति तादर्थ्ये चतुर्थी । आत्मने आत्मा भासते अतः सः प्रत्यक् । धर्मभूतज्ञानं स्वभिन्नाय आत्मने भासत इति पराक् इति । तदयुक्तम् - आत्मा हि केवलं भासते न तु स्वार्थं वा परार्थं वा । अतः भवदुक्तं लक्षणं न युक्तम् । प्रत्यक्त्वं नाम सर्वान्तरत्वम् प्रति सर्वं देहेन्द्रियादिकं प्रति अतिव्याप्नोतीति प्रत्यक् । अतः स्वस्मै भासमानत्वरूपार्थस्य प्रत्यक्- पदादलाभात् भवदुक्ता व्युत्पत्तिर- समीचीना ।

सिद्धान्तः

अयमत्र सिद्धान्तः- प्रत्यक्त्वं सर्वान्तरत्वमिति अद्वैतिनः। स्वस्मै भासमानत्वरूपं प्रत्यक्त्वं व्युत्पत्तिलभ्यं न भवति इति आक्षेपः । श्रीभाष्यकारानुयायिभिः निरूप्यते यत्-स्वस्मै भासमानत्वं प्रत्यक्त्वम्, परस्मै एव भासमानत्वं पराक्त्वम् । स्वस्मै भासमानत्वं च स्वकर्तृकव्यवहारप्रयोजक- विषयतावत्त्वम् । स्वानुकुलकृतिमत्त्वसम्बन्धेन बुवोधयिषापूर्वक - तत्तद्विषयकव्यवहारं प्रति तत्तद्विषयकज्ञानस्यापृथक्सिद्धितादात्म्या- [[100]]

न्यतरसम्बन्धेन हेतुतया आत्मनिष्टविषयताया जनकतावच्छेदकत्वेन व्यवहारप्रयोजकत्वात् । स्वयम्प्रकाशस्यात्मन स्वव्यवहारहेतुतासिद्धये तादात्म्यसम्बन्धानुप्रवेशः । शुकादिव्यवहारे व्यभिचारवारणाय बुबोधयिषापूर्वकेति । एवं रीत्या प्रत्यक्त्वापरिष्कारः रत्नपेटिकायां 65 कृतः । अयमर्थःव्यवहारः- उक्तसम्बन्धेन आत्मनि वर्तते । तं प्रति तत्तद्विषयक- ज्ञानस्य अपृथक्सिद्धिसम्बन्धेन कारणत्वम् । आत्मस्वरूपज्ञानं तु तादात्म्यसम्बन्धेन आत्मनि वर्तते । अतः स्वव्यवहारं प्रति आत्मा कारणम् । अथवा स्वनिष्ठसंशयाभावप्रयोजकविषयतावत्त्वं स्वस्मै भासमानत्वम् इति अन्यः परिष्कारः । तस्य विवरणं नात्र लिख्यते विस्तरभयात्। एवं च प्रतिशब्दस्वारस्यात् प्रत्येकं प्रत्यक्त्वं विश्राम्यतीति लभ्यते। एतादृशपरिष्कारे न कोऽपि दोषः । धर्मभूतज्ञानं परस्मै आश्रयाय आत्मने भासते । आत्मा तु स्वस्मै भासते अतः आत्मा प्रत्यक् । अधिकं तत्त्वमुक्ताकलापे जीवसरे ।