१५ संवित्-स्वरूप-विषयकानुपपत्ति-परिहारौ

स्वपरव्यवहारानुगण्यं ज्ञानासाधारणप्रकाशस्य स्वरूपमिति कथितं श्रुतप्रकाशिकायाम् 157 । तदयुक्तम् - व्यवहारानुगुण्यं हि [[94]]

। द्विविधम्- व्यवहारकर्मत्वरूपम्, व्यवहारकर्मत्वं प्रति हेतुत्वरूपं च । प्रथमं घटादिविषयगतम् । द्वितीयं ज्ञानगतमिति स्थिते, कथं स्वपरव्यवहारानुगुण्यं ज्ञानासाधारणप्रकाशस्य लक्षणं भवेत् । न च व्यवहारानुगुण्यं प्रकाशस्त्ररूपं चेत् तदा घटादावतिव्याप्तिः स्यात् । किन्तु स्वपरव्यवहारानुगुण्यमिति निर्वचनं न दुष्टम्, स्वस्य परस्य च व्यवहारकर्मत्वं व्यवहारानुगुण्यम्, तत् प्रति हेतुत्वरूपमेवेति नातिव्याप्तिरिति वाच्यम् । स्वतोऽभासमानस्य घटस्य " भाती " ति व्यवहारकर्मत्वं प्रति ज्ञानस्य हेतुत्वेऽपि, स्वयम्प्रकाशस्य चैतन्यस्य कथं व्यवहारकर्मत्वं, चैतन्यस्य प्रकाशनिरपेक्षत्वात्। यदुक्तं श्रीभाष्ये- सङ्गिदि जडत्वाभावादेः अभावरूपस्य ज्ञानत्वादि भावरूपस्य वा धर्म- स्यानभ्युपगमे तत्तन्निषेधोक्तया किमपि नोक्तं 158 भवेदिति तदपि न- तत्तन्निषेधानधित्वेन ब्रह्मण उक्तत्वात् न शून्यवादप्रसङ्ग इति । न ह्यवधिं विना निषेधो युज्यते यत्र सर्वे धर्मा निषिध्यन्ते, तदधिष्ठानं वस्तु निषेधाधिकरणत्वादेव सिद्धम् । एवं धर्माणां निषेधेन शून्यवादवैलक्षण्यं सिद्धमिति उक्ताक्षेपो न युक्तः । यदुक्तं श्रुतप्रकाशिकायाम्’ 59 - सङ्गित् सती नित्या स्वप्रकाशा एका इत्यादयः शब्दाः किं भिन्नार्थप्रतिपादकाः उताभिन्नार्थप्रतिपादकाः। आद्ये संविदः सविशेषत्वं सिद्धम् । द्वितीये एकेन पदेनालमिति पदान्तरवैयर्थ्यम् इति तदपि न युक्तम् । अभिन्नार्थप्रतिपादकत्वेऽपि [[95]]

तेषां पदानां पदान्तरवैयर्थ्याभावः, “विष्णुः नारायणः कृष्णः”160 इत्यादि शब्दानामिव प्रकृतेऽपि प्रवृत्तिनिमित्तभेदात् । निर्विशेषेऽपि वस्तुनि यागद्व्यवहारं कल्पितान् धर्मान् प्रवृत्तिनिमित्तत्वेन स्वीकुर्मः । यदुक्तं श्रीभाष्ये - सङ्गित् सिद्ध्यति वा न वा ? सिद्ध्यति चेत् सधर्मकता, न चेत् गगनकुसुमादिवत् तुच्छता स्यादिति 161 तदपि न-सिद्धेः किं सिद्धिरस्ति उत न? आद्ये - तस्या अपि सिद्धेः सिद्ध्यन्तर- मित्यनस्था । द्वितीये - सिद्धेः सिद्ध्यभावे तुच्छतापत्तिः इति प्रतिबन्दीसम्भवात् । किञ्च संविदः स्वतः सिद्धत्वं नाम संविद एव सिद्धित्वेन सिद्ध्यन्तराभाव एव । अतो भाष्योक्तो विकल्पो न युक्त इति । न च " सिद्धिरेव संविदिति चेत् कस्य कं प्रतीति वक्तव्यम्, सिद्धिर्हि पुत्रत्वमिन कस्यचित् पुरुषस्य किञ्चिदर्थजातं प्रति सिद्धिरूपतया तत्सम्बन्धिनी सा संवित् स्वयं कथमिवात्मभाव- मनुभवे 12 दिति श्रीभाष्योक्तिः सविशेषामेव संविदं साधयति इति वाच्यम्। सिद्धेः नित्योपलब्धिरूपत्वात् पुत्रत्वादिवत्सप्रतियोगिकत्वाभावात्। अजं नित्यं वस्तु न हि कस्यचित् सम्बन्धि भवति - स्वतन्त्रत्वात् ।

सिद्धान्तः

अयमत्र सिद्धान्तः- स्वपरव्यवहारानुगुण्यं ज्ञानासाधारणप्रकाशस्य स्वरूपमिति कथितं चेत्। एवं पूर्वपक्षः कृतः । तथाहि श्रुतप्रकाशिकोक्तमिदमसङ्गतम्। [[96]]

व्यवहारानुगुण्यं द्विविधम्- प्रथमं व्यवहारकर्मत्वरूपम्, द्वितीयम् - व्यवहारकर्मत्वं प्रति हेतुत्वरूपम् । प्रथमं घटादिविषयगतम्, द्वितीयं ज्ञानगतम् इति स्थितौ कथं व्यवहारानुगुण्यं ज्ञानासाधारणप्रकाशस्य स्वरूपं भवेत् । इति । तन्न - श्रुतप्रकाशिकाग्रन्थस्य स्पष्टार्थत्वेन प्रश्नस्यैतस्यासङ्गतत्वात् । चिदचिदशेषपदार्थसाधारणं व्यवहारानु- गुण्यम् 163 इति भाष्यम् । तद्वयाख्यानमेवम् - व्यवहारकर्मत्वरूपं व्यवहारानुगुण्यं ज्ञानविषयसाधारणः प्रकाशः । तादृशप्रकाशं प्रति हेतुत्वरूपं व्यवहारानुगुण्यं ज्ञानस्यासाधारणः प्रकाशः । विषयस्य व्यवहारकर्मत्वेऽपि तत्प्रति हेतुत्वरूपः प्रकाशः ज्ञानस्यैव भवति । अतः न कोऽपि दोषः । तदुपरि एवं निर्णयः कृतः। व्यवहारप्रतिसम्बन्धित्वं व्यवहार- कर्मत्वं चेत् तत् चिदचित्साधारणम् । व्यवहारप्रतिसम्बन्धित्वं प्रति हेतुत्वरूपं व्यवहारानुगुण्यं तु ज्ञानस्यासाधारणम् । ज्ञानं च द्विविधम् -आत्मस्वरूपं धर्मभूतज्ञानं च । आत्मस्वरूपमपि स्वनिष्ठं यत् व्यवहारकर्मत्वं, तत् प्रति हेतुरेव अतः तत्र समन्वयः । धर्मभूतज्ञाने समन्वयः पूणमेवोक्तः । आत्मस्वरूपस्यासाधारणं व्यवहारानुगुण्यं तु प्रत्यक्त्व-अनुकूलत्व-एकत्वविशिष्टस्य स्वस्य यो व्यवहारः, तत्कर्मत्वं प्रति हेतुत्वम्। धर्मभूतज्ञानासाधारणं व्यवहारानुगुण्यं तु स्वपरविषयक व्यवहारप्रतिसम्बन्धित्वं प्रति आनुगुण्यम् इति । एवं च व्यवहार- [[97]]

प्रतिसम्बन्धित्वं प्रति हेतुत्वरूपस्य व्यवहारानुगुण्यस्यैव ज्ञाना- साधारणत्वोक्तेः न श्रुतप्रकाशिकाया अनुपपत्तिः । न च " स्वस्य परस्य " इति कथनमयुक्तम्, जडस्य घटस्य व्यवहारकर्मत्वसम्भवेऽपि चैतन्यस्य स्वप्रकाशस्य कथं व्यवहारकर्मत्वम् अतः स्वस्येति कथनमयुक्तमिति वाच्यम् । स्वप्रकाशत्वस्य स्वाश्रयभिन्ननिरूपितविषयत्वाभाव- व्याप्यत्वाभावात् । स्वप्रकाशस्यापि ज्ञानस्य ज्ञानान्तरविषयत्वं पर्थितमेव । अतो न दोषः ।

संविदि जडत्वाभावरूपोऽभावधर्मः, ज्ञानत्वरूपभावधर्मो वा ङ्गीक्रियते, संविदो निर्धर्मकत्वात् इति चेत् । सङ्गिदि जडत्वनिषेधेन किमपि न सिद्धं भवेत् । यदि जडत्वविरोधी कश्चित् भावरूपो वा अभावरूपो धर्मः सङ्गिदि न स्वीक्रियते, तर्हि संविदि जडत्वविषयक- ज्ञानप्रतिबन्धाभावात् जडत्वनिषेधेन किं प्रयोजनम्। अयमर्थः - संविद् जडत्वाभावगती इति ज्ञानेन तत्र जडत्वज्ञानं प्रतिबध्यते इति वक्तव्यम्। जडत्वज्ञानञ्च जडत्वाभावप्रकारकचैतन्य ज्ञानेन वा ज्ञानत्वप्रकारक- ज्ञानेन वा प्रतिबध्येत न तु शुद्धचैतन्यरूपाधिष्ठानज्ञानेन । विरोधिधर्माप्रकारकधर्मिज्ञानस्याप्रतिबन्धकत्वात् । अतः संविदि कश्चिद् धर्मःजडत्वविरोधित्वेन स्वीकार्यः इति भाष्याभिप्रायः । न च तत्तन्निषेधावधित्वेन ब्रह्मण एवोक्तत्वात् शून्यवादप्रसङ्गवारणं प्रयोजनमिति वाच्यम् । धर्माणां निषेधेन शुद्धाधिष्ठानस्य कथं लाभ [[98]]

इति प्रश्नसम्भवात् । न च सर्वधर्मनिषेधे निर्विशेषं वस्तु सिद्ध्यतीति सङ्गतम् । तत्र हि जडत्वमपि नास्ति अजडत्वमपि नास्ति इति सिद्धयेत्। लोके परस्परविरोधिभावाभावरहितपदार्थस्याप्रसिद्धत्वात् तादृशा- धिष्ठानसत्त्वे एव सन्देहो जायेत । किश्च सङ्गित् स्वप्रकाशा सती नित्या इत्यादिपदानां पर्यायता स्यात्, अधिष्ठानातिरिक्तधर्मस्य तत्तदर्थत्वेनानभ्युपगमात् इति प्रश्ने व्यवहारिकान् धर्मान् आदाय प्रवृत्तिनिमितभेदसम्पादनं कृतम् । तदपि न युक्तम्- मिथ्याभूतैः प्रवृत्तिनिमित्तैः पर्यायतावारणं नाम पर्यायताङ्गीकारे एव पर्यवस्येत्। मिथ्याभूतशास्त्रात् सिद्धस्य पदार्थस्य मिथ्यात्गवत् । किञ्च यत् कथितम् अजं नित्यं वस्तु न हि कस्यचित् सम्बन्धि भवेदिति समाधानमपि न युक्तम्। अत्र भाष्यकारस्याशयः तत्रैव व्यक्तः हहएतदुक्तं भवति - अनुभूतिरिति स्वाश्रयं प्रति स्वसद्भावेनैन कस्यचिद्वस्तुनः व्यवहारानुगुण्यापादनस्वभावः ज्ञानावगतिसंविदाद्य- परनामा सकर्मकोऽनुभवितुरात्मनो धर्मविशेषः, घटमहं जानामि - इममर्थमवगच्छामिघटमहं संवेद्मि इति सर्वेषामात्मसाक्षिकः प्रसिद्धः। “एतत्स्वभावतया हि तस्याः स्वयम्प्रकाशता भवताप्युपपादिता । अस्य सकर्मकस्य कर्तृधर्मविशेषस्य कर्मत्ववत् कर्तृत्वमपि दुर्घटम् 164 इति” भाष्यग्रन्थेन संविदः नात्मत्वम् इति स्पष्टं ज्ञायते । अत्र च संविदः ससम्बन्धिकत्वं च स्पष्टीकृतम् । [[99]]