अनुभूतेर् निर्धर्मकत्वविचारः-
अनुभूतिः न दृश्यधर्मवती दृशित्वात् - यत् दृश्यधर्मवत् तन्न दृशिः इत्येकमनुमानम् । धर्माः न दृशिवृत्तयः दृश्यत्वात् इति [[91]]
द्वितीयमनुमानम् । तत्र श्रीभाष्यकाराः प्रथमानुमानमेवं खण्डयन्ति तथाहि- स्वाभ्युपेतैः प्रमाणसिद्धैः नित्यत्वस्वयम्प्रकाशत्वादिभिः धर्मै बाध155 इति । न हि नित्यत्वादयःसंवेदनमात्रं ततो भिन्नत्वात् । न हि नित्यत्वस्त्रम्प्रकाशत्वैकत्वादीनाम् एकमेव संवेदनं स्वरूपमिति वक्तुं शक्यते। अतः अनुभूतिः न दृश्यधर्मगतीति - अनुमानमसङ्गतमेवेति। अत्रोच्यते - अनुभूतिरनुभाव्यधर्मरहितैव । यो धर्मो येन दृश्यते स तस्य धर्मो न भवत्येव । यथा चक्षुषा दृश्यमानं रूपं न चक्षुर्धर्मः, किन्तु घटादेरेव धर्मः। न च देवदत्तः स्वगतं शौक्लयादिकं पश्यत्येवेति वाच्यम्, शौक्ल्यादीनां देहधर्मत्वात् दैवदत्तस्य च देहाद्भिन्नत्वात् । एवं सुखादयः मनोधर्माः मनोभिन्नेन पुरुषेण दृश्यन्त इति तत्रापि उक्तनियमस्य नानुपपत्तिः। एवं च स्वधर्मः स्वेन न गृह्यत इति स्थितौ अनुभवे विद्यमानत्वेन भवदभिमताः नित्यत्वादयः केन गृह्यन्ते? न तावत् तदाश्रयेनानुभवेन, व्याघातात् । नापि अनुभवभिन्नेन, अनुभवभिन्नस्य जडत्वात्। तस्मात् यदि नित्यत्वादयोऽनुभूतिधर्माः, तदा वेद्या न भवन्त्येव, वेदितुरभावात् । यदि अवेद्या अपि धर्माम् इष्यन्ते, तदा शशशृङ्गादयोऽपि स्वीक्रियन्ताम् । अतो नास्त्यनुभूतेः कोऽपि धर्मः । एवं चानुभूतिरनुभाव्यधर्मरहितेति युक्तमेन । न च तर्हि अनुभूतिः नित्या इत्यादिव्यवहारेण तत्र नित्यत्वादयः धर्माः सिद्ध्यन्तः कथं वार्यन्त इति वाच्यम्। तेषाम् अनुभूतिवृत्तित्वेन मायाकल्पितत्वात् परमार्थतोऽनुभूतिधर्मत्वाभावात् । [[92]]
सिद्धान्तः
अयमत्र सिद्धान्तः- अनुभूतिः न दृश्यधर्मवती दृशित्वात् इत्यनुमानं नेच्छन्ति सिद्धान्तिनः। स्वाभ्युपेतैः प्रमाणसिद्धैः नित्यत्व स्वयम्प्रकाशत्वादिभिः धर्मैः बाधः प्रथमानुमानस्य । न हि नित्यत्वस्वयम्प्रकाशत्वादीनां संवेदनेनाभेदो भवेत् । तथात्वे तदभिन्नाभिन्नस्य तदभिन्नत्वम् इति न्यायात् नित्यत्वस्वयम्प्रकाशत्वयोरपि अभेदः स्यात् । स च केनापि न स्वीक्रियते। अतः अनुभूतिः न दृश्यधर्मवती दृशित्वात्, यन्नैवं तन्नैवं यथा घट इति अनुमानं न युक्तमिति विशिष्टाद्वैतिनः । अत्र पूर्वपक्षः- यो धर्मो येन दृश्यते स तस्य धर्मो न भवत्येव यथा चक्षुषा दृश्यमानं घटीयं रूपं घटस्यैव धर्मो न चक्षुषः । न च स्वगतधर्माः शौक्लचादयः देवदत्तेन गृह्यन्त इति वाच्यम्। शुक्लत्वादीनां देहधर्मत्वात्, देवदत्तस्य च देहाद्भिन्नत्वात्। एवं मनोधर्माः सुखादयः मनोभिन्नेन पुरुषेण गृह्यन्ते, तथा च अनुभूतौ नित्यत्वादयः सन्ति चेत् केन गृह्येरन् ते? न तदाश्रयानुभूत्या, व्याघातात् । नान्येनानुभवेन द्वितीयानुभव- स्याभावात् । अतः नित्यत्वादयः मायाकल्पितवृत्त्यैव ज्ञायन्त इति वक्तव्यम्। नित्यत्वादयःवेद्यत्वात् नानुभूतिधर्माः इति स्थितौ अनुभूतिः न दृश्यधर्मगती, दृशित्वात् इत्यनुमानं युक्तमेवेति चेत्, न- अस्मिन्ननुमाने वाग्विरोध- असिद्धि-बाध-सिद्धान्त-विरोधानां दोषाणां प्रसक्तेः । तथाहि - अनुभूतिः अनुभाव्यधर्मरहिता, अनुभूतित्वात् । [[93]] संविदि निर्धर्मकत्वं साधयता वादिना तत्र अनुभूतौ साध्यस्य अनुभाव्यधर्मरहितत्वस्य च वृत्तित्वं यदि स्वीक्रियते, तदा निर्धर्मकत्वरूपसाध्यस्य बाधः, स्ववाग्विरोधश्च - अनुभूतिः अनुभाव्यधर्मरहिता इति वदन् अनुभूतेः अनुभाव्यधर्मरहितत्वरूपधर्मं स्वीकरोति तथा अनुभूतित्वरूपधर्मं च स्वीकरोतीति वाग्विरोधः । यदि सङ्गिदि पक्षे अनुभाव्यधर्मरहितत्वरूपसाध्यं, अनुभूतित्वरूपहेतुश्च नास्तीत्युच्यते तदा पक्षे साध्याभावात् बाधः हेत्वभावाच्च स्वरूपासिद्धिः। स्वसिद्धान्तसिद्धे अनुभूतित्व-अनुभाव्यधर्मरहितत्वे, ‘योः पक्षेऽनङ्गीकारे सिद्धान्तविरोधका दोषः 156 । किश्च भवतां सिद्धान्ते हेतुत्वेन साध्यत्वेनाभिमता ये धर्माः ते अनुभूतिस्वरूपात् अतिरिक्ता वा नवा, अतिरिक्ताश्च सत्याः वा मिथ्या वा। सत्यत्वे हेतुसाध्ययोः, तयोः पक्षे सत्त्वेऽसत्त्वे वा पूर्वरीत्या दोषाः भवन्ति । साध्यसाधनरूपा धर्माः मिथ्या इति चेत् । अनुभूतित्वस्य साधनस्य, अनुभाव्यधर्मरहितत्वस्य च मिथ्यात्वात्, अनुभूतित्व- विरुद्धस्य जडत्वस्य, अनुभाव्यधर्मरहितत्वविरोधिनः अनुभाव्यधर्म- स्यानित्यत्वादेः प्रसक्तेः । अत इदमनुमानं न युक्तमेव ।