अनुभवविषयत्वात् ब्रह्मणः नानुभवरूपत्वम्। अनुभवो हि विषयी, विषयविषयिणोस्तु भेदः प्रसिद्ध एवेति नानुभवविषयस्य ब्रह्मणोऽनुभवत्वं भवन्मतरीत्या वक्तुं शक्यते इति श्रीभाष्यकाराः । तन्न युक्तम्। “सत्यं ज्ञानमनन्त " । मिति श्रुतेः ब्रह्मणोऽनुभवत्वं सिद्धमेवा अनुभवो हि ज्ञानम्, ब्रह्मणि ज्ञानस्वरूपत्वमिष्टमेव । तद्विषयत्वं ब्रह्मणो नास्त्येण, अजडस्य परप्रकाश्यत्वाभावात् । अनुभवपदेन ज्ञानागच्छेदकवृत्तिः स्वीक्रियते तद्विषयत्वं ब्रह्मणश्चेत् ब्रह्मणो नानुभवत्वमिति कथनमयुक्तं वृत्तिव्याप्यत्वस्य ब्रह्मणि स्वीकारात् । [[75]]
तादृशविषयिविषयभावस्य स्वीकारे बाधकाभावाच्च । अतः श्रीभाष्यो- क्ताक्षेपः न युक्तः । ब्रह्म चानुभवरूपं नानुभवान्तरविषयः । यदुक्तम्- “अनुभूतेः स्वयम्प्रकाशत्वं यदुक्तं तद्विषयप्रकाशन- वेलायां ज्ञातुरात्मनः तथैन, न तु सर्वेषां सर्वदा तथैवेति नियमोऽस्ति- तु परानुभवस्य हानोपादानादिलिङ्गकानुमानविषयत्वात्, स्वानुभव- स्याप्यतीतस्य अज्ञासिषमिति ज्ञानविषयत्वदर्शनाच्च, अतोऽनुभूतिश्चेत् स्वतः सिद्धेति वक्तुन्न शक्यते, अनुभूतेरनुभाव्यत्वे अननुभूतित्व 34 मित्यपि दुरुक्तम् - स्वगतातीतानुभवानां परगतानुभवानां चानुभाव्यत्वेनाननु- भूतित्वप्रसङ्गात् इति । अनुभूतित्वं नाम वर्तमानदशायां स्वसत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वमिति श्रीभाष्यम् 135 । श्रुतप्रकाशिकायां च- ज्ञानस्य नित्यद्रव्यत्वेन सदा वर्तमानत्वात् वर्तमानदशायामिति निरर्थकमिति शङ्कानिवारणाय विषयप्रकाशनवेलायामित्युक्तं भाष्ये, वर्तमानदशाशब्देन विषयसम्बन्धप्रसरस्य वर्तमानता विवक्षिता 136 - इत्युक्तम् । तत्र विचार्यते । ज्ञानं नित्यद्रव्यम् इति स्वीकृतं विशिष्टाद्वैतिभिः । तैरेण कथं स्वानुभवस्यापि अतीतस्येति, स्वगतातीतानुभवानामिति प्रयुज्येत । नित्येऽतीतत्वस्य बाधितत्वात् । यद्वस्तु पूर्णकालेऽभवत्, इदानीं नास्ति तदेवातीतम् । ज्ञानं हि न तादृशं तन्मते । न च अनुभवस्यातीतत्वं न नित्यद्रव्यस्य, किन्तु तत्प्रसरस्य स एव हि अतीतत्वानागतत्वयोराश्रयः, तद्गतमतीतत्वादि प्रसरविशिष्टे [[76]]
नित्यद्रव्ये उपचर्यते इति वाच्यम्, प्रदीपस्थानीयस्य ज्ञानस्य, प्रभास्थानीयस्य च प्रसरस्य च भवन्मतसिद्धस्य दुरुपपादत्वात्। अन्तः करणमेव प्रदीपस्थानीयं नित्यं द्रव्यं ज्ञानमित्युच्यते इत्यपि न, अन्तःकरणस्य सादित्वेन नित्यत्वस्यायुक्तत्वात्। “तन्मनोऽकुरुत” । इति श्रुतिबलात् अन्तःकरणस्य सादित्वसिद्धेः । न च धर्मभूतं प्रकृतिरेवेति वाच्यम्, प्रकृतेरनादित्वेऽपि जडत्वात् । अत एव जडत्वादपि अन्तःकरणं न ज्ञानद्रव्यम् । [[137]] किञ्च “सत्यं ज्ञानमनन्तमिति” 138 ब्रह्मलक्षणस्य नित्ये धर्मभूतज्ञानेऽतिव्याप्तिः । तस्याद्यन्नित्यं ज्ञानद्रव्यं तदुर्निरूपमेव । कि धर्मभूतं ज्ञानं गुण इति तस्य द्रव्यत्वकल्पनमपि न युक्तम् । जीवेश्वरयोः स्वरूपभूतात्, गुणभूतञ्चान्यदेव धर्मभूतं ज्ञानं नित्यद्रव्य- मिति प्रक्रिया निर्युक्तिका । तस्मात् नित्यं ज्ञानं ब्रह्मैव । यत्तु गुणभूतं ज्ञानं तदनित्यमेव, वृत्तिज्ञानमिति तत् व्यवह्रियते । वृत्तिज्ञान- विषयत्वस्य परानुभवादिषु सत्त्वात् तस्य परानुभवादेः अनुभूतित्वाभाव इष्ट एव । एवं यच्च वृत्तिज्ञानं परानुभवस्वगतातीतादि अनुभवविषयकम्, तदपि वृत्तिज्ञानमेवेति तादृशस्याननुभूतित्वे न किश्चिद्वाधकम् । यदुक्तमनुभूतिलक्षणं “वर्तमानदशायां स्वसत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वम्”139 इति, तत् सुखादौ अतिप्रसक्तम् । सुखं हि [[77]] [[1]]
वर्तमानदशायां स्वाश्रयं प्रति स्वसत्तया प्रकाशते, अप्रकाशमान- सुखसत्ताभावात् । यदा हि सुखं जायते, तदैव तत् प्रकाशते इत्यस्य कोऽर्थः किमनुभूतिः स्वाश्रयं प्रति स्वात्मानं स्वसत्तयैण प्रकाशयति- इत्यर्थः, यद्वा अनुभूतौ जातायां पुरुषे ममानुभूतिर्जातेति या भवति अनुभूतिः पुरुषस्य, सा किं प्रथमानुभूतेर्भिन्ना ? उताभिन्ना ? आद्ये अन्योन्याश्रयः । द्वितीये आत्माश्रयः । अथ यदुक्तम्- अनुभूतेरननुभाव्यत्वं दुरुक्तमिति तदपि न वृत्तिलक्षणानुभूतेः चैतन्यावभास्यत्वरूपमनुभाव्यत्वमस्त्येव । ज्ञान- लक्षणानुभूतेश्च चैतन्यस्य स्वप्रकाशत्वात् अननुभाव्यत्वमेव । चैतन्यस्य स्वप्रकाशत्वात् अननुभाव्यत्वमेव । एवं च स्वानुभव- परानुभवभेदः नास्त्येवेति भाष्योत्तापत्तिरलग्नकतां भजति । एवम् अनुभाव्यत्वानुभवत्वयोः सामानाधिकरण्याभावात् अनुभवस्यानु- भावान्तरविषयत्वेऽपि न अनुभवत्वमपगच्छतीति भाष्यवचनमपि न समीचीनम् । यदुक्तं भाष्ये - अनुभूतित्वं नाम वर्तमानदशायां स्वाश्रयं प्रति स्वसत्तयैव स्वविषयसाधनत्वमिति तदपि न युक्तम् - विषयसाधनत्वं नाम विषयप्रकाशकत्वम् । तच्च विषयप्रकाशजनकत्वम् । विषयप्रकाशश्च विषयानुभवः । एवं चानुभवोऽनुभवजनक इत्यायातम्। तत्र यदि विषयानुभवतज्जनकानुभवयोरेकत्वं तदात्माश्रयः। न हि [[78]]
विषयानुभवः इन्द्रियसन्निकर्षादिकं विना सम्भवतीति सुवचम् । किञ्चा अनुभूतित्वपरिष्कारे स्वाश्रयं प्रतीति कथनमपि न युक्तम् । अनुभूतेः चैतन्यरूपाया अनन्याधारत्वात् । अपि च सङ्कोचणिकासार्हमात्मनः स्वरूपादन्यदेव धर्मभूतं नित्यद्रव्यं ज्ञानं निष्प्रामाणिकम्, सावयवस्य विकारिणः नित्यत्वस्य कुत्राप्यदृष्टत्वात् । यथा धर्मभूतं त्वत्कल्पितं ज्ञानद्रव्यं स्वसत्तयैव विषयमवभासयति, तथा ज्ञानस्वरूप आत्मैव स्वसत्तयैव विषयमवभासयिष्यतीति व्यर्थं ज्ञानद्रव्यकल्पनमिति । ननु " न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते 140 “ एष हि दृष्टा श्रोता …. विज्ञानात्मा पुरुष " 141 इत्यादि श्रुतिबलात् ज्ञानस्वरूपो ज्ञानगुणक आत्मा इति चेन्न, विज्ञातुः स्वरूपभूतायाः विज्ञातेः विपरिलोपो न विद्यत इति प्रथमश्रुतेरर्थात् । द्वितीयश्रुतिः - अन्तः करणादितादात्म्याध्यासेन द्रष्टृत्वादिमानप्यात्मा वस्तुतो ज्ञानस्वरूप इति बोधयति । अतो धर्मभूतज्ञानं निष्प्रमाणकम् । ननु स्वयम्प्रकाशत्वं नाम अनन्यावभास्यत्वे सति स्वेतरसर्वान- भासकत्वं सति कथ्यते, स्वेतरसर्वावभासः नाम स्वेतरसर्ववस्तु- विषयकानुभव एव, तथाच कथमनुभवस्यानुभवजनकत्वं निर्विशेषवादे इति वाच्यम् । स्वप्रकाशशब्दितानुभवः चैतन्यरूपः, सच वस्तुविषयकानुभगं वृत्तिज्ञानरूपं जनयतीति जन्यजनकयोः भेदेन दोषाभावात् । वृत्तिज्ञानं हि न वृत्तिस्वरूपम्, तस्या जडत्वेन विषय- [[79]]
भासकत्वायोगात्। वृत्तिज्ञानस्य चैतन्याभिन्नत्वे तयोः जन्यजनक- भावस्योक्तस्य दुरुपपादत्वम् इति दोषः । अत एवमुच्यतेवृत्तिज्ञानं नाम न वृत्तिरेव नापि केवला चित् । किन्तु वृत्तिप्रतिफलितं चैतन्यम् । तच्च विषयचैतन्याभिन्नं सत् प्रत्यक्षमित्युच्यते । एकस्यैन चैतन्यस्योपाधिभेदेन जन्यत्वजनकत्वयोर्न विरोध इति । अस्य प्रश्नस्य प्रकारान्तरेणापि समाधानं भवत्येव । एवं च श्रीभाष्योक्तानुभूति- स्वरूपलक्षणे न युक्ते इति । चैतन्यस्य निर्विषयकत्वखण्डनावसरे भाष्ये यदुक्तम् - निर्विषया काचित् सङ्गिन्नास्ति, अनुपलब्धेरिति तदपि न, किमयं निर्विषय- संविदनुपलम्भः स्वस्य परस्य ना? आद्ये स्वस्यैवाज्ञत्वम् । न द्वितीयः परहृदयस्या प्रत्यक्षत्वात् । न च निर्विषयं ज्ञानमेव न सम्भवतीति वाच्यम्, तत्र हेत्वभावात् । न चानुपलब्धेर्हेतोरेव निर्विषयज्ञान- स्यासत्त्वमनुमीयत इति वाच्यम्, तस्य सविषयज्ञानेऽप्यतिव्याप्तत्वात्- न हि सविषयं ज्ञानमप्युपलभ्यते ज्ञानस्य ज्ञेयत्वाभावस्योक्तत्वात् । किश्च निर्विषयज्ञानाभावमुपलभ्य निर्विषयं ज्ञानं नास्तीत्युच्यते, उत तमनुपलभ्य? । आद्ये अभावज्ञानस्य प्रतियोगिज्ञानपूर्वकत्वात् कथं निर्विषयज्ञानाभावज्ञानं भवेत् । द्वितीये निर्विषयज्ञानाभाव- स्यानुपलब्ध्या निर्विषयज्ञानस्य सिद्धिः । तथा च निर्विषया काचित्संविन्नास्त्येवेत्यसङ्गतम्। [[80]]
सिद्धान्तः
अयमत्र सिद्धान्तः- ब्रह्मणो वृत्तिव्याप्यत्वरूपं ज्ञेयत्वमेवोच्यते, वृत्तिप्रतिफलित- चैतन्यविषयत्वं तु न स्वीक्रियते । अतः ब्रह्मणोऽनुभाव्यत्वेऽपि न विरोध इति पूर्वपक्षे इदं समाधानम् । ब्रह्मणोऽनुभवविषयत्वात् नानुभवरूपत्वम् इति भाष्योक्तिः 142 - अद्वैतप्रक्रियामनुसृत्य । तैः किल स्वप्रकाशस्य चैतन्यस्यानुभवान्तराविषयत्वमुच्यते । न च वृत्तिविषय- त्वमेवोच्यते, न तु अनुभवान्तरविषयत्वम्, अनुभवव्यतिरिक्तस्यानु- भगकार्य व्यवहारानुगुण्यापादकत्वाभावात् । न हि वृत्त्यवच्छिन्न- चैतन्यविषयत्वं ब्रह्मणि भवता स्वीक्रियते, येन शुद्धचैतन्यस्य विशिष्टतया कथञ्चिद्भिन्नतादृशचैतन्यविषयत्वेनानुभवान्तर- विषयत्वमुपपाद्येत । किञ्च जडायाः वृत्तेः कथं चैतन्य विषयकत्वम्? चैतन्यविषयकत्वं किं चैतन्य प्रकाशकत्वम्? किं चैतन्यव्यवहारानु- गुण्यापादकत्वम्? उत चैतन्य गतावरणभञ्जकत्वम्? चैतन्यस्याजडस्य जडया वृत्त्या प्रकाशस्यायुक्तत्वात् । “यतो वाचो निवर्तन्ते " 143 इति श्रुत्या भवद्भिरेव शुद्धचैतन्यस्याव्यवहार्यत्वोक्तेः द्वितीयपक्षोऽपि न युक्तः । चैतन्यगतावरणनिवारकत्वमेव वृत्तेः चैतन्यविषयकत्वम् इति चेत्, तदपि दुर्वचम् । लोके प्रदीपादिना घटादिगतं तमोऽपनीयते, न तु कुड्यादिना इति दृष्टम् । एवं च जडवृत्त्या चैतन्यस्य स्वप्रकाशस्य यदज्ञानकृतमागरणं,तद्गच्छतीति कथनं न युक्तम् । एतदभिप्रायेणैव I [[81]]
भाष्यकारैः भवन्मतरीत्या ब्रह्मणोऽनुभवरूपस्यानुभवान्तरविषयत्वे- ऽननुभूतित्वं स्यादित्युक्तम् । उत्तरत्र तैरेव स्वमतरीत्या ज्ञानस्य स्वप्रकाशत्वं ज्ञानान्तरविषयतान्न विरुणद्धि इति “स्वगतातीतानुभवाना 44- मित्यनेन प्रतिपादितम् । ” किश्च मिथ्याभूतया वृत्त्या सत्यस्य चैतन्यस्यावच्छेदोऽपि न सम्भवतीति प्रागेवोक्तम् । यच्चोक्तम्-अनुभूतेः धर्मभूतज्ञानरूपायाः भाष्यकारमते नित्यत्वात् कथं स्वगतातीतानुभवानामित्युक्तम्। इदानीमवर्तमानत्वे सति पूर्वकालवृत्ति यत् तदेव हि अतीतम्, तादृशमतीतत्वं नित्यस्य ज्ञानस्य कथं सम्भवेदिति । तदपि न युक्तम् - अस्मन्मते ज्ञानस्योत्प- त्तिनाशौ नाम तत्प्रसरणस्योत्पत्तिनाशावेण । अयं च विषयः भाष्यकारैरेव बहुवारमुक्तः । धर्मभूतज्ञानस्य नित्यत्वमपि न दोषाय । तन्नित्यत्वस्य “जानात्येवायं पुरुष’145इत्यादिश्रुतिसिद्धत्वात्। न च सत्यञ्ज्ञानमित्यादि- ब्रह्मलक्षणस्य धर्मभूतज्ञानेऽतिव्याप्तिरिति वाच्यम् । विकाररहितत्व- घटितस्य ब्रह्म लक्षणस्य विकारिणि धर्मभूतज्ञानेऽसत्त्वादति- व्याप्त्यभावात् । न चान्तः करणस्य “ तन्मनोऽकुरुते 146 ति श्रुत्या सादित्वात्, तत्स्थानीयस्य धर्मभूतज्ञानस्य कथं नित्यत्वमिति वाच्यम्। धर्मभूतज्ञानस्य श्रुतिसिद्धत्वेनान्तःकरणस्य च कल्पितत्वेन अन्तःकरणस्थानीयत्वस्य धर्मभूतज्ञानेऽसम्भवात् । अपिच [[82]]
धर्मभूतज्ञानमनादीति श्रुत्यैव सिद्धम् । न च कथं धर्मभूतज्ञानस्य द्रव्यत्वम्? तस्यात्मगुणत्वात् इति वाच्यम्, धर्मभूतज्ञानस्य गुणत्वं हि नित्यात्माश्रयत्वतच्छेषत्वनिबन्धनम् । वस्तुतः द्रव्यत्वमेव तस्य । अवस्थाश्रयत्वं हि द्रव्यलक्षणम्। सङ्कोचणिकासरूपावस्थावत्त्वस्य ज्ञाने सत्त्वात् तस्य द्रव्यत्वमस्त्येव । एवं च धर्मभूतज्ञानस्य नित्यत्वेऽपि तद्गतप्रसरणापेक्षया तत्तदवस्थाविशिष्टस्य ज्ञानस्य “ज्ञानमुत्पन्नम् ” “ज्ञानं नष्टम्” इति व्यवहारविषयत्वम् इति सारः । अतः स्वगतातीतानुभवानां परानुभवानां चानुभवान्तरवेद्यत्वकथनं स्वप्रकाशस्य ज्ञानस्य ज्ञानान्तरवेद्यत्वं विना न सम्भवतीति । अनुभूतिलक्षणं ज्ञानस्वयम्प्रकाशत्ववादिनां मते “वर्तमान- दशायां स्वसत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वम् " 147 इति, स्वसत्तयैव स्वविषयसाधनत्वमिति सर्ववादिसम्प्रतिपन्नतया च कथितं श्री भाष्ये । तत्र प्रथमलक्षणस्य सुखादौ अतिव्याप्तिरुक्ता पूर्वपक्षिणा । वर्तमानदशायां सुखादिकं स्वसत्तामात्रेण स्वाश्रयाय प्रकाशते, न तु सुखादिकं स्वाश्रयं प्रति भानार्थं ज्ञानमपेक्षते प्रकाशाव्यभिचरित- सत्ताकत्वात् सुखादेः । अत्र सिद्धान्तः- सत्यं सुखादिकं सत् न प्रकाशत इति नास्ति। तथापि ज्ञानलक्षणस्य नातिव्याप्तिस्तत्र । ज्ञानमेव हि अनुकूलमानन्द इति भाष्यानुसारेण सुखादिकमपि ज्ञानस्यावस्थाविशेष एव । एवं चावस्थाविशेषविशिष्टज्ञानस्यैव सुखत्वात् तत्र लक्षण समन्वय इष्ट एव । [[83]]
ननु अनुभूतिः स्वाश्रयं प्रति स्वसत्तयैव प्रकाशत इत्यनेन यदि स्वाश्रयं प्रति स्वरूपं स्वसत्तयैव प्रकाशयति इत्युच्यते तदा कर्मकर्तृभावविरोधः । एकस्य कर्मत्वकर्तृत्वे वक्तव्ये इति यावत् । ते च विरुद्धे एकत्र न सम्भवत इति " कर्मकर्तृव्यपदेशाच्च ” 48 इति सूत्रकारेणैव प्रादर्शि । किञ्च ग्राह्यस्य ज्ञानस्य काले ग्राहकं ज्ञानं न भवितुमर्हति, ज्ञानोत्पत्त्यनन्तरमेव ज्ञानरूपविषयग्राहकस्य ज्ञानस्य कर्तुरुत्पत्तेः, यदा ज्ञानविषयकग्रहकर्तोत्पन्नः (ज्ञानान्तररूपः) तदा विषयरूपं ज्ञानं नष्टम्, क्षणिकत्वात् एवं च विषयस्याभावे कं प्रकाशयेत् तज्ज्ञानम् इति प्रश्नोऽपि भवति । यदि च अनुभूतौ जातायां पुरुषः ममानुभूति- जति स्वत एव प्रत्येति इत्यर्थः स्वीक्रियते, तदा विकल्पः, किं साऽनुभूतिः प्रथमानुभूतेर्भिन्ना उताभिन्ना, आद्ये अन्योन्याश्रयः । द्वितीये आत्माश्रयः इति चेन्न, एतादृशविकल्पाना मनवसरग्रस्तत्वात् । अनुभूतिपदेनात्र प्रसरणविशेषविशिष्टं धर्मभूतज्ञानं गृह्यते, वर्तमानदशायामिति कथनस्य तदानीमेवान्वयसम्भवात् । तज्ज्ञानं यदा भवति तस्य घटमहं जानामीत्याकारकत्वात् घटज्ञानं ज्ञानान्तर- निरपेक्षमेण प्रकाशत इति सिद्ध्यति । न हि प्रथमं " अयं घटः " अनन्तरं " घटमहं जानामीति क्रमः वेदान्तिनामिष्टः । किन्तु प्रथममेव ज्ञानं जायमानं स्वाश्रयाय प्रकाशमानं जायते । अहं जानामीति आकाराभिलापः ज्ञानस्य स्वाश्रयं प्रति प्रकाशमानत्वद्योतनार्थः । अत्र [[841]]
न अन्योन्याश्रयात्माश्रययोरापत्तिः सुतरामसङ्गता। यदि विषयज्ञानाधीना अनुभूतिविषयकधीः तदधीनं चेत् विषयज्ञानं तदा अन्योन्याश्रयः, तथोच्यते, विषयं च स्वं च विषयीकुर्वदेव ज्ञानं जायत इति हि प्रक्रिया। न च स्वस्मिन् स्वविषयकत्वं कथम्, विषयिविषयभावस्य भेदनियतत्वात् । अत एव स्वयम्प्रकाशत्वमस्माभिः अनन्याधीन- प्रकाशत्वमित्येणोच्यत इति वाच्यम्, स्वस्य स्वविषयकत्वे बाधकाभावात्। न हि विषयिविषयभावः सम्योगादिवत् द्विष्ठ एवेति निर्बन्धः । अत एव ज्ञानलक्षणविषयकज्ञानस्य सर्वविषयकत्वमिव स्वविषयकत्वमपि सर्वैः स्वीकृतम् । अत एव ईश्वरस्य सर्वज्ञस्य ज्ञानं सर्वविषयकं सत् स्वमपि विषयीकिरोतीति वक्तव्यम् । परन्तु धर्मभूत- ज्ञानस्य स्वव्यतिरिक्तविषयेण द्रव्यगुणादिना सम्योगसम्युक्ता - श्रयणादिकं यथायथं सम्बन्ध इति सिद्धान्तः । ननु स्वानुभवपरानुभगभेदस्यैवाभावात् कथं परानुभवस्य ज्ञानान्तरविषयत्वमस्ति “ आचार्यस्य ज्ञानवत्त्वमनुमाय हि शिष्यः 149 प्रवर्तत इति ग्रन्थसङ्गतिरिति चेन्न, संविन्नानात्वस्य युक्तिसिद्धत्वात् । शास्त्रेणापि संविदां परस्परं भेदः सिद्ध एव। “चेतनः चेतनानाम् 150, इति श्रुतौ बहुवचनं संविन्नानात्वसाधकम्। भाष्ये अनुत्पन्नेयमनुभूतिः आत्मनि नानात्वमपि न सहते इति पूर्वपक्षं विधाय महता प्रबन्धेन तन्नानात्वं विशदीकृतम् । [[85]]
अन्योन्याश्रयात्माश्रययोरापत्तिः सुतरामसङ्गता। यदि विषयज्ञानाधीना अनुभूतिविषयकधीः तदधीनं चेत् विषयज्ञानं तदा अन्योन्याश्रयः, न तथोच्यते, विषयं च स्वं च विषयीकुर्वदेव ज्ञानं जायत इति हि प्रक्रिया । न च स्वस्मिन् स्वविषयकत्वं कथम्, विषयिविषयभावस्य भेदनियतत्वात् । अत एव स्वयम्प्रकाशत्वमस्माभिः अनन्याधीन- प्रकाशत्वमित्येवोच्यत इति वाच्यम्, स्वस्य स्वविषयकत्वे बाधकाभावात्। न हि विषयिविषयभागः सम्योगादिवत् द्विष्ठ एवेति निर्बन्धः । अत एव ज्ञानलक्षणविषयकज्ञानस्य सर्वविषयकत्वमिव स्वविषयकत्वमपि सर्वैः स्वीकृतम् । अत एव ईश्वरस्य सर्वज्ञस्य ज्ञानं सर्वविषयकं सत् स्वमपि विषयीकिरोतीति वक्तव्यम् । परन्तु धर्मभूत- ज्ञानस्य स्वव्यतिरिक्तविषयेण द्रव्यगुणादिना सम्योगसम्युक्ता - श्रयणादिकं यथायथं सम्बन्ध इति सिद्धान्तः । [[66]] ननु स्वानुभवपरानुभवभेदस्यैवाभावात् कथं परानुभवस्य ज्ञानान्तरविषयत्वमस्ति “ आचार्यस्य ज्ञानवत्त्वमनुमाय हि शिष्यः 149 प्रवर्तत इति ग्रन्थसङ्गतिरिति चेन्न, संविन्नानात्वस्य युक्तिसिद्धत्वात्। शास्त्रेणापि संविदां परस्परं भेदः सिद्ध एव । “चेतनः चेतनानाम् 150" इति श्रुतौ बहुवचनं सङ्गिन्नानात्वसाधकम्। भाष्ये अनुत्पन्नेयमनुभूतिः आत्मनि नानात्वमपि न सहते इति पूर्वपक्षं विधाय महता प्रबन्धेन तन्नानात्वं विशदीकृतम्। [[85]]
ननु तथापि स्वसत्तयैव स्वविषयसाधनत्वमिति द्वितीयलक्षणं न युक्तम्। तत्र विषयसाधनत्वपदार्थस्य निर्वक्तुमशक्यत्वात्। विषय- साधनत्वं विषयानुभवजनकज्ञानत्वं चेत् तत्र जन्यजनकानुभव- योरेकत्वं यदि, तदा आत्माश्रयः, यदि तयोः ज्ञानयोर्भेदः तदा असिद्धिः प्रथमानुभवस्य इन्द्रियसन्निकर्षादिजन्यत्वेन द्वितीयानुभवजन्य- त्वासिद्धेरिति चेन्न, विषयसाधनत्वमित्यस्य विषयप्रकाशं प्रति परम्परया हेतुत्वमित्युक्तौ इन्द्रियेषु तद्भवतीति वक्तुं शक्यते । इन्द्रियाणि हि ज्ञानद्वारैव विषयप्रकाशकानि । अत्र विषयसाधनत्वमित्यनेन विषयगत व्यवहारकर्मत्वसम्पादकत्वं विवक्षितम्, तत् परम्परया इन्द्रियेषु भवतु नाम स्वसत्तया तादृशविषयप्रकाशकत्वं ज्ञानस्यैव । इन्द्रियाणि हि ज्ञानद्वारैण विषयं प्रकाशयन्ति । नास्मिन् परिष्कारे विषयानुभवजनक ज्ञानत्वं विषयसाधनत्वपदेन विवक्षितम् । यद्यपि विषयसाधनत्व- मित्येव लक्षणं भवितुमर्हति विषयगतव्यवहारानुगुण्यापादनस्य इन्द्रियादिषु अभावात्, तथापि तत् परम्परासम्बन्धेन इन्द्रियेषु भवतीति तद्वारणार्थं स्वसत्तयेति । स्वाश्रयं प्रतीति परानुभव व्यावृत्त्यर्थं प्रयुक्तम्। वर्तमानदशायामिति अतीतानुभवव्यावृत्तिः । अत्र विशेषेण दलकृत्यानि श्रुतप्रकाशिकादौ 151 द्रष्टव्यानि । वर्तमानदशायां स्वाश्रयं प्रति स्वसत्तयैव प्रकाशमान- त्वमनुभूतित्वमिति भाष्यम् 152 । अत्र प्रकाशमानत्वं नाम व्यवहारा- [[86]]
नुगुण्याश्रयत्वम् । स्वाश्रयं प्रतीत्यत्यस्य स्वसमानकर्तृकेत्यर्थः । स्वसत्तयैवेत्येवकारेण स्वसत्तेतराप्रयोज्यत्वं व्यवहारानुगुण्ये लभ्यते। तथा च स्वाश्रयकर्तृकस्वसत्ताप्रयुक्ततदितराप्रयोज्य व्यवहारानुगुण्या- श्रयत्वमिति लक्षणं लभ्यते । अत्र स्वाश्रयं प्रतीत्यनुपादाने घटादावतिव्याप्तिः । घटादेः स्वसत्ताप्रयुक्तप्रकाशमानत्ववत्त्वात् । एवं वर्तमानदशायाम् इत्यनुपादाने अतीतानुभवेऽतिव्याप्तिः । एवंरीत्या दलप्रयोजनानि वर्णनीयानि । अत्रेदं चिन्त्यते । चिन्ताक्रम इत्थम् । प्रश्नः- । ननु घटादावतिव्याप्तिवारणाय स्वाश्रयं प्रतीति व्यर्थम् । घटादेः स्वसत्ताप्रयुक्तप्रकाशमानत्वाभावेनैव वारणात्। समाधानम्- व्यवहारं प्रति व्यवहर्तव्यसत्ता कारणम् । स्वानुकूलकृति- मत्त्वसम्बन्धेन व्यवहारं प्रति व्यवहार्यस्य स्वसमानकालिकत्वसम्बन्धेन कारणत्वम् । अथवा स्वानुकूलज्ञानविषयत्वसम्बन्धेन व्यवहारं प्रति व्यवहार्यस्य तादात्म्यसम्बन्धेन कारणत्वमिति स्वीकारात् घटादेरपि तादृशकारणत्वसम्भवात् अतिव्याप्तिः सम्भवतीति युक्तं स्वाश्रयं प्रतीति दलम् । प्रश्नः- स्वसत्तयैवेति एवकारोऽस्ति। तेन स्वसत्तेतराप्रयोज्यत्वं लभ्यते इत्युक्तम्। घटादेः स्वसत्तेतरज्ञानप्रयोज्य व्यवहारानुगुण्याश्रयत्वात् वारणसम्भवे किमर्थं स्वाश्रयं प्रतीतिदलम् ? [[87]]
समाधानम्- स्वेतरज्ञानाप्रयोज्यत्वं यदि एवकारेण विवक्ष्यते, तदा घटादेः तादृशाप्रयोज्यत्ववत्त्वात् अतिव्याप्तेः प्रसक्तौ युक्तमेव स्वाश्रयं प्रतीति दलम्। प्रश्नः- एवं सति असम्भवः । अनुभूतेः यः प्रकाशः, तस्य स्वसत्ताव्यति- रिक्तईश्वरात्मकज्ञानप्रयोज्यत्वात् । ईश्वरस्य ज्ञानरूपस्य सर्वं कार्यं प्रति कारणत्वात्। एवं च ज्ञानघटितैवकारार्थस्य निवेशे स्वाश्रयं प्रतीति दलस्य वैयर्थ्यमेव स्यात् ? समाधानम्- स्वेतरज्ञाननिष्ठासाधारणकारणतानिरूपकत्वाभाव एव स्वसत्तयैवेत्यत्र एवकारार्थः। एवं च नासम्भवः। स्वसत्ताव्यतिरिक्तेत्यनेन ईश्वरस्वरूपज्ञानस्य ग्रहणेऽपि तस्य प्रकाशं प्रति असाधारण- कारणत्वाभावात् तादृशाप्रयोज्यत्वोपपत्तेः। प्रश्नः- एवं च घटेतरघटविषयकज्ञाननिष्ठासाधारणकारणतानिरूप- कत्वस्यैव प्रकाशे सत्त्वात् घटेऽतिव्याप्तिवारणसम्भवे स्वाश्रयं प्रतीतिव्यर्थं स्यात् ? [[88]]
समाधानम्- स्वसत्तयेत्यत्र तृतीयार्थः प्रयुक्तत्वम् । तच्च व्यापकत्वरूपम् । एवं च स्वसत्ताव्यापकं व्यवहारानुगुण्यमिति पर्यवस्यति । व्यापकत्वतात्पर्यग्राहक एवकारः । तथा च यो घटविशेषः दृश्यमानः सन्नेव उत्पद्य नष्टः, तत्रातिव्याप्तिवारणार्थं स्वाश्रयं प्रतीतिविशेषणम्। अयं चिन्ताक्रमः श्री उवे N. S. R. स्वामिनां मुखात् श्रुतः । ननु अनुभूतेरनन्याधारत्वात् अनुभूतिलक्षणे स्वाश्रयं प्रतीति कथंयुज्यत इति चेन्न, भाष्यकारैः हि ज्ञानस्य सविषयकस्येदं लक्षणमुक्तम्। परमते अनुभूतेः ब्रह्मस्वरूपायाः सविषयकत्वाभावात् कथमेतल्लक्षणस्य तत्रारोपः, अनुक्तोपालम्भो हि स्यादिति चेन्न, अनुभूत्यतिरिक्तज्ञानस्य तन्मतेऽनभ्युपगमात्, वृत्तिप्रभृति अवच्छेदक कल्पनस्यायुक्तत्वात्, सिद्धस्यानुभूतिपदार्थस्यैव सविषयकत्वं वक्तव्यम्, तस्यैव सविषयकत्वप्रयुक्त स्वरूपनानात्वादिकं वक्तव्यम् इत्यादिकथने भगवद्भाष्यकाराणां तात्पर्यात्। अतः भवदभिमतानुभूतेः सविषयकत्वे कथनीये सति तस्य जानामीति प्रत्ययसिद्धायाः अहमर्थाश्रितत्वं वक्तव्यं भवेदिति धिया “स्वाश्रयं प्रति" इति प्रयुक्तम्। न च धर्मभूतज्ञानस्य सङ्कोचविकासरूपणिकारणतः सावयवस्य कथं नित्यत्वम्। यत् सावयवं तदनित्यमिति व्याप्तेः इति वाच्यम् । [[89]]
प्रकृतिः सावयवेति कश्चित् पक्षोऽस्ति, तत्पक्षे सावयवाया अपि प्रकृतेर्नित्यत्वाङ्गीकारो यथा तथा प्रकृतेऽपि भवतु इति समाधान - सम्भवात्। न च प्राकृतपदार्थेषु तथा भवतु अप्राकृतपदार्थे तु धर्मभूतज्ञाने कथमेतत् इति वाच्यम् । अप्राकृतनित्यविभूतेरिव सावयवस्य धर्मभूतज्ञानस्य नित्यत्वसम्भवात् । धर्मभूतज्ञाननित्य-त्वस्य धर्मिग्राहकश्रुतिसिद्धत्वात् तत्र प्रश्नान्तरानुत्थितेा । ये च ज्ञानस्वरूप आत्मैव सर्वं विषयीकरोति वृत्तिविशिष्टा सती इति वदन्ति तेषामेव क्लेशःव्यापकस्यात्मनः सविषयकत्वं निर्धर्मकस्य तस्य विषयिताख्यधर्मो वा कथमुपपादयितुं शक्यत इति । तत्र श्रुत्यनुग्रहः नास्तीति अधिकोऽपि दोषः। भाष्यकारैः न निर्विषया संवित् काचिदस्ति अनुपलम्भात् 53 इति कथितम्। तत्र पृच्छ्यते - किमयं निर्विषयक संविदनुपलम्भः स्वस्य वा परस्य वेति । आद्ये स्वस्याज्ञत्वापत्तिः द्वितीये परहृदयस्या- प्रत्यक्षत्वादिति चेन्न, निर्विषयकसंविदनुपलम्भो हि भाष्यकारैः गगनकुसुमादीनामनुपलम्भवत् उक्तः । तत्र न कश्चिद्दोषः । न हि यन्नास्त्येव तदज्ञत्वं सर्वज्ञत्वाभावप्रयोजकं 154 वदन्ति विपश्चितः । असतोऽनुपलम्भः सर्वज्ञत्वानुगुणो भवति । गगनकुसुमं नास्ति, अनु- पलब्धेरिति कथनं योग्यानुपालब्धिपूर्वकाभावप्रमानिबन्धनं यथा तथा प्रकृतेऽपि इति मन्तव्यम् । अत्र “ परहृदयस्याप्रत्यक्षत्वात्” इति प्रयोग [[90]] |
एव न युक्तः । न हि ज्ञानं हृदयनिष्ठम् । किन्तु आत्मनिष्ठम् । भगन्मतरीत्या नृत्यवच्छिन्न चैतन्यरूपं ज्ञानम् अनन्याधारं वा । अतो भाष्यश्रीसूक्तिः युक्तैन । यदुक्तमत्र ज्ञानस्य ज्ञेयत्वाभावात् सविषयकं ज्ञानमपि नोपलभ्यत एवेति तदपि नशुद्धचैतन्यस्य ज्ञेयत्वाभावेऽपि वृत्त्यवच्छिन्नचैतन्यस्य ज्ञेयत्वावश्यकत्वात् । यदुक्तन्निर्विषयज्ञाना- भावमुपलभ्य निर्विषयं ज्ञानं नास्तीति उच्यते वा, उत तमनुपलभ्येति विकल्प्य आद्ये, प्रतियोगिनिरूपणाधीननिरूपणत्वादभावज्ञान- स्याभावज्ञानं न सिद्धयेत्। द्वितीये निर्विषयज्ञानस्यार्थात् सिद्धिरिति, तदपि न युक्तम् । निर्विषयज्ञानं हि नोपलब्धम्, तेन निर्विषयज्ञानाभावः प्रमितः, स चाभावः निर्विषयज्ञानं नास्तीति अभिलप्यते । अतः कात्रानुपपत्तिः । निर्विषयज्ञानं नास्तीति प्रत्ययव्यवहारौ गगनारविन्दं नास्तीति प्रतीति व्यवहारतुल्यौ । स च व्यवहारः अत्रैव निबन्धे उपपाद्यते। न हि निर्विषयज्ञानाभावज्ञानमस्तीत्यत एव निर्विषयज्ञान- रूपप्रतियोगिनः ज्ञानं स्मृतिरूपं पूर्वं नास्तीति उच्यते, न वा अभावप्रतीत्यनुबन्धि उल्लेखेऽपि प्रतियोगिज्ञानस्य कारणता । व्यवहारे हि व्यवहर्तव्यज्ञानं कारणम्, व्यवहर्तव्यः प्रकृते निर्विषयकज्ञानाभावः स च ज्ञात एव । एवं च भाष्ये अनुपपत्तिः कापि नास्त्येव ।