श्रुतप्रकाशिकायां 2 ब्रह्म परमार्थः अनुवर्तमानत्वात् रज्जुसर्पस्थले रज्जुवत् इत्यनुमानमेवं निराकृतम्। तथाहि - सच्छब्दार्थः प्रमाणसम्बन्धार्हः घटादिपदार्थः । तस्य परमार्थता यदि साध्यते, तदा सिद्धसाधनदोषः । घटादीनां परमार्थत्वस्य श्रीभाष्यकारैः स्वीकारात् । यदि अधिष्ठानतयानुवृत्तस्यार्थान्तरस्य पारमार्थ्यमनेनानुमानेन सिषाधयिषितम्। तदा आश्रयासिद्धिः दोषः, तादृशस्य सत्पदार्थस्य [[68]]
पक्षतया विवक्षितस्य उभयवाद्यसिद्धत्वात् इति । तत्रोच्यते - किं सच्छब्देन यथार्थज्ञानकरणसम्बन्धार्हं वस्तु विवक्ष्यते, उत अयथार्थ - ज्ञानकरणसम्बन्धार्हं वस्तु, यद्वा तदुभयसम्बन्धार्हम् अथवा अन्यतरसम्बन्धार्हं वस्तु । प्रथमपक्षे चक्षुरादेः प्रमाणस्य प्रमाणान्तर सम्बन्धाङ्गीकारेऽनवस्थया प्रमाणसम्बन्धार्ह त्वानङ्गीकारे सच्छब्दवाच्यत्वं न स्यात् । द्वितीयपक्षे रज्जुसर्पस्यापि अप्रमाण- अयथार्थज्ञानकरणसम्बन्धार्हस्य सच्छब्दवाच्यत्वापत्तिः । तृतीये तु असम्भवः, यथार्थज्ञानकरण-अयथार्थज्ञानकरणोभयसम्बन्धवतः वस्तुनः अप्रसिद्धत्वात्। अत्र सम्बन्धार्हत्वमित्यनेन ग्राह्यत्वं विवक्षितं चेत् अधिष्ठानस्य कदापि अयथार्थज्ञानकरणसम्बन्धार्हत्वा- भावात्,रज्जुसर्पस्य च यथार्थज्ञानकरणसम्बन्धाभावाच्च तदुभय- सम्बन्धार्हं वस्तु अप्रसिद्धमिति । चतुर्थे पक्षे रज्जुसर्पस्यापि सच्छब्द- वाच्यत्वापत्तिः । एवं च श्रुतप्रकाशिकायां 122 प्रमाणसम्बन्धार्हत्वं सत्त्वमिति उक्तमयुक्तमेव विकल्पासहत्वात् । घटादेः सत्पदार्थत्वे “सन् घट” इति प्रयोगः घटो घट इति प्रयोगवत् अयुक्तः स्यात् । सत्पदस्य स्वरूपार्थकत्वे घटः सन् इतिवत् घटस्य सन् इति प्रयोगः स्यात् । घटस्वरूपस्येव पटस्वरूपस्यापि सत्पदार्थत्वात् घटः सन् इत्यत्र घटः पटस्वरूपमिति बोधः स्यात् । अस्माभिः सत्तायाः सदतिरिक्तत्वानभ्युपगमात् तथाभ्युपगमे सत्ता- [[69]]
सत्तात्वादिकल्पनापरम्परया अनवस्थानप्रसङ्गात् सर्वत्रानुतं सद्रूपं ब्रौन सत्पदवाच्यम् इति स्वीकृतम् इति सच्छब्दवाच्यस्य, सन् घट इत्पादि प्रतीतिविषयस्य च पक्षत्वसम्भवेन नाश्रयासिद्धिदोषः । एवं चानुमानं निर्दुष्टमेवेति । ननु जगतः कथमसत्यत्वं, जगन्नास्तीति वचनं माता मे वन्ध्येतिवत् व्याहतार्थं किलेति चेन्न, घटेन जलमाहरन्नपि विद्वान् एवं प्रत्येति “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्”123 इति । मृतिका सत्या, घटादिः विकारोऽसत्यः इतिज्ञानं यथा वा घटकरणकोदकाहरणादि क्रियाया निवर्तकं न भवति, तथैव ब्रह्मव्यतिरिक्तं मिथ्या, ब्रह्मैण सत्यमिति जानन्नपि विद्वान् व्यवहरत्येवेति । न च मिथ्यावस्तुनो नास्ति अर्थक्रियाकारित्वं मरीचिकोदकादिकं न केनापि पीयत इति वाच्यं तथानियमाभावात्। रज्जुसर्पः भयादि - अर्थक्रियाकार्येण स्वप्नदृष्टपदार्थानां सुखहेतुत्वं चानुभूयत एव । तस्मात् जगदसत्यमेव । ब्रह्मैव सत्यम् इति ।
सिद्धान्तः
अयमत्र सिद्धान्तः- अनुवर्तमानत्वात् सत् परमार्थः इत्यनुमानं सिद्धसाधनदोषग्रस्तम् । यदि अधिष्ठानस्य सत्पदार्थस्यानुवृत्तस्य पारमार्थ्यमत्र सिषाधयिषितम् । तदा आश्रयासिद्धिः सत्पदार्थस्य [[70]] ब्रह्मैव इत्पादि नुमानं ता मे न् एवम् इति । गा धैन द्रान् रेत्वं त् नं स्य स्य
भवदुक्तस्योभयवाद्यसिद्धत्वात् । इति । अत्र सच्छब्दार्थं विकल्प्य खण्डनं पूर्वपक्षिणा कृतम्। श्रुतप्रकाशिकायां प्रमाणसम्बन्धार्हत्वं सत्त्वमित्युक्तम् ।24। पूर्वपक्षिणा सिद्धान्त्यभिमतं सत्त्वं किं रूपमिति प्रसङ्गात् प्रतिबन्दीरूपेण पृष्टम् । तत्र यथार्थज्ञानकरणसम्बन्धार्हं वस्तु, अयथार्थज्ञान- करणसम्बन्धार्हं वस्तु, तदुभयसम्बन्धार्हम् अन्यतरसम्बन्धार्हं वा वस्तु सच्छब्देन विवक्षितम् इति चतुर्धा विकल्प्य दूषितम् । अतः श्रुतप्रकाशिकोक्तं सत्त्वं विकल्पासहं दुर्वचम् इति पूर्वपक्षसारः । अत्र सिद्धान्तः- श्रुतप्रकाशिकोक्तप्रमाणसम्बन्धार्हत्वम्-प्रमेयत्वरूपम् । तच्च सत्पदार्थत्वेन प्रसिद्धेषु सर्वत्र भवति । अतः अधिष्ठानमात्रे सत्पदार्थत्ववर्णनमयुक्तमिति टीकाभिप्रायः । प्रमाणसम्बन्धार्हत्वं नाम प्रमाणजन्यप्रतीतियोग्यत्वम्, तच्च चक्षुरादीनामपि अस्ति अतो न दोषः । अयं च सत्त्वपरिष्कारः नैयायिकादीनामपीष्टः । एतादृशसत्त्वस्य पक्षताणच्छेदकत्वे, तस्य घटादिष्वपि सत्वात् तत्र सत्यत्वस्य लोकसिद्धत्वात् सिद्धसाधनमिति भावः । किवा सत् परमार्थः अनुवर्तमानत्वात् इत्यनुमानं केवलव्यतिरेकि भवेत्, केवल- व्यतिरेक्यनुमानस्य सिद्धान्ते अनङ्गीकारात् तस्योपयोगो न भवति । केवलव्यविरेक्यनुमानखण्डनं तत्त्वमुक्ताकलापन्यायपरिशुद्ध्यादौ । 25। न च केवल व्यतिरेक्यनङ्गीकारे लक्षणेनेतरभेदानुमानं केवलव्यतिरेकिरूपं कथं भवेदिति वाच्यम्, लक्षणस्यैवेतरभेदत्वेन तेनेतरभेदस्य अनुमेयत्वाभावात्। “मैणम्-लक्ष्मैण भेद इति आचार्योक्तिरत्र 26 भाव्या । [[71]]
ननु अनुवर्तमानत्वहेतुकानुमाने सन् घट इति प्रत्यक्षसिद्ध- सत्पदार्थ एव पक्षः घटादेः सत्पदार्थत्वे “ घटः सन्” इति सहप्रयोगानुपपत्तिः, घटस्वरूपस्येव पटस्वरूपस्यापि सत्पदार्थत्वे घटः पटस्वरूपम् इति प्रयोगापत्तिः इति चेन्न, घटादेः सत्पदार्थत्वेऽपि प्रवृत्तिनिमित्तभेदेन घटः सन् सति प्रयोगोपपत्तेः । प्रमाणसम्बन्धार्हत्वं हि सत्पदप्रवृत्तिनिमित्तम्, तच्च घटपदप्रवृत्तिनिमित्तात् घटत्वात् भिन्नमेव । नापि घटः पटस्वरूपमिति प्रयोगापत्तिः, घटपटयोः भिन्नत्वात्, न हि घटः द्रव्यम् पटोऽपि द्रव्यम् इति घटः पट इति प्रयोग आपद्यते । अतो नेयमापत्तिर्युक्ता । सन् घट इति प्रतीतिविषयस्य पक्षत्वमित्यपि न, सन् घट इति प्रतीतिविषयत्वावच्छेदेन पक्षता चेत् तादृशविषयत्व सामानाधिकरण्येन घटे सत्यत्वस्य भवन्मतेऽभावाद् बाधः। अस्मन्मते सिद्धसाधनं च । तादृशविषयत्व सामानाधिकरण्येन सत्यत्वसाधनमिति तु वक्तुं शक्यं सिद्धसाधनादेव। न च सन् घट इति प्रत्यक्षे सन्मात्रं विषयः, घटस्तु न विषयः, स च आविद्यक- प्रमाणाभासेन भासत इति वाच्यम्, श्रीभाष्ये एव प्रत्यक्षस्य सन्मात्रग्राहित्वस्य'27 निरस्तत्वात्। अयं विषयः- संवित्सिद्धौ सङ्ग्रहेण प्रतिपादितः- यौगपद्यक्रमायोगात् व्यवच्छेदविधानयोः। ऐक्यायोगाच्च भेदो न प्रत्यक्ष इति यो भ्रमः 128 ॥ [[72]]
इति । अत्र " यो भ्रम” इति सिद्धान्तप्रतिपादकांशः । व्यवच्छेदः- भेदग्रहणम्। विधानं स्वरूपग्रहणम्। प्रत्यक्षज्ञानस्य एकक्षणवृत्तित्वेन क्रमेण स्त्ररूपभेदोभयविषयकत्वं न सम्भवति । प्रत्यक्षात् पूर्वं प्रतियोगिज्ञानादिरूपकारणाभावेन प्रत्यक्षे भेदविषयकत्वं न सम्भवति, प्रथमं स्वरूपविषयकं प्रत्यक्षमेव भवति, भेदस्तु भ्रान्तिसिद्धः । सद्रूपानुयोगिज्ञानं कारणम् । घटादिरूपभेदज्ञानं कार्यम् । तदुभयं कथमेकस्मिन् क्षणे भवेदिति अद्वैतिनां प्रक्रिया भाष्येऽनूदिता । अत्र समाधानम् - भेदत्वावच्छिन्नविषयताशालिज्ञाने अनुयोगिज्ञानस्य कारणत्वेऽपि घटत्वावच्छिन्नविषयताशालिज्ञाने तस्य हेतुत्वाभावात् उक्तज्ञानात् पूर्वं सन्मात्रविषयकज्ञानस्यानावश्यकत्वात् । न च इतरतादात्म्याध्यांस प्रतिबन्धकतावच्छेदकविषयताश्रयः भेदः, तथा च घटत्वमपि भेदत्वम् एवेति वाच्यम्, तथा सति घटो भेद इत्यनयोः पदयोः पर्यायतापत्तेः । चक्षुराद्ययोग्यधीघटितत्वेन घटे पटभेद इति चाक्षुषप्रत्यक्षानुपपत्तिका । किन्तु प्रतियोग्यवृत्ति अभावत्वमेव भेदत्वम्। “भेदग्रहणेनैणाभेदनिवृत्तिः" इति भाष्यस्य 1 29 तु गृह्यमाणभेदेन प्रतियोग्यभेदस्य वैयधिकरण्यम्, प्रतियोग्यभेदासमानाधि- करणाभावत्वं प्रतियोग्यवृत्त्याभागत्वपर्यवसितं भेदत्वम् इति अर्थः । श्रुतप्रकाशिकायां कथितं भेदलक्षणं व्यावृत्तिबुद्धिहेतुत्वं 130 इति । तदपि उक्तार्थे एव पर्यवस्यति । अतः प्रत्यक्षस्य सन्मात्रविषयकत्वं नास्ति । [[73]]
[[1]] श्रीभाप्यभावप्रकाशः किञ्च जगन्नास्तीति वचनं माता मे वन्ध्येतिवत् व्याहतार्थमिति सिद्धान्तिभिरुक्तमपि युक्तमेव । न च “वाचारम्भणं विकारो नामधेयम् मृत्तिकेत्येव सत्यम्” 131 इति श्रुत्या घटादीनामसत्यत्वं जानन्नपि घटादिना उदकारणादि व्यवहारं करोति, तद्वत् जगतः असत्यत्वं जानन्नपि जगत् इति व्यवहरति इति वाच्यम्, भवन्मते घटादेः व्यवहाराप्रयोजकमिथ्यात्वं तच्छ्रुत्या बोध्यत इति अस्वीकारात् विदुषः घटादिना जलाहरणादिप्रवृत्तौ विरोधाभावात् । अस्मन्मते तस्या श्रुतेः विकारमिथ्यात्वं नार्थः । अतोऽस्मन्मतानुसारेण तु नायं दृष्टान्त उपपद्यते । जगतस्तु व्यावहा- रेकसत्तावतः भवन्मतरीत्या मिथ्यात्वं वक्तुं शक्यत इति प्रष्टुराशयः । न च व्यावहारिकसत्तावतः जगतः पारमार्थिकसत्ताभावरूप- मिथ्यात्वमुच्यत इति न विरोध इति वाच्यम्, व्यावहारिकसत्त्वपदार्थस्य निर्वक्तुमशक्यत्वात् । तथाहि - व्यवहारदशायामबाध्यत्वं हि व्यवहारिकसत्त्वम्। तच्च किं व्यवहारकालिको यो बाधः तदविषयत्वम् उत व्यवहारकालिकं यदबाध्यत्वं तद्वत्त्वम्? आद्ये व्यवहारकालिकबाधे विषयः प्रातिभासिक एवेति तादृशबाधाविषयत्वं ब्रह्मण्यपि भवतीति तस्य व्यावहारिकसत्ताप्रसङ्गः । द्वितीये अबाध्यत्वं नाम बाध्यत्व- सामान्याभावः, स च जगति तत्त्वज्ञानबाध्ये नास्त्येव । एवं च व्यवहारकालिकत्वविशिष्टं यत् अबाध्यत्वं तत् जगति दुर्वचम् । बाध्यत्व प्रतियोगिकाभावस्तु शुक्तिरजतेऽपि भवेत् । रज्जुसर्पनिष्ठ- [[74]] बाध्यत्वस्य शुक्तिरजतेऽभावात् । अतः जगत् परमार्थतः सदित्येव स्वीकार्यम् । श्रुतिश्च " कथमसतः सज्जाये " 132 तेति जगत् सत्त्ववेन निर्दिशति । किश्च मिथ्यावस्तुनोऽर्थक्रियाकारित्वं नास्तीत्युक्तम् अपि युक्तम्। न च रज्जुसर्पस्य भयादिकार्यकरत्वं सर्वाभ्युपगतम् इति वाच्यम् । अनिर्वचनीयसर्पोत्पत्तेः तत्रास्वीकारात् । तत्र हि सर्पज्ञानमेवार्थ - क्रियाकारि, नान्यत् । तज्ज्ञानं सत्यमेव। स्वप्नदृष्टपदार्थानां सत्यत्वेन तेषां सुखादिहेतुत्वेऽपि न विरोधः। तेषामसत्यत्वमतेऽपि तज्ज्ञानस्यैव सत्यस्यार्थक्रियाकारित्वोपगमान्नानुपपत्तिः। अतः भाष्याद्युक्तं युक्तमेव ।