११ दृश्यत्व-हेतोर् दुष्टत्वविचारः

जगत् मिथ्या दृश्यत्वात् शुक्तिरजतवत् इत्यनुमानं मिथ्यात्वा- भागवति ब्रह्मणि हेतोः दृश्यत्वस्य सत्त्वात् व्यभिचारदोषयुक्तम्, घटः सन् पटः सन् इति अधिष्ठानस्य सतः प्रपञ्चस्य च एकधीवेद्यत्वात् ब्रह्मण्यपि दृश्यत्वमस्त्येव इति श्रुतप्रकाशिकोक्तं न युक्तम् । ब्रह्मणि दृश्यत्वस्याभावात् । स्वप्रकाशत्वात् ब्रह्मणः तत्र वृत्तिव्याप्यत्वस्य सत्त्वेऽपि फलव्याप्यत्वं नास्तीति हि कथितमेव । न च वृत्तिव्याप्यत्वमेव दृश्यत्वमिति वाच्यम्, वृत्तेः सदावरकाज्ञाननिवर्तकत्वेऽपि वस्तुतः सद्विषयकत्वाभावात् । प्रत्यक्षं सन्मात्रग्राहीतिप्रवादस्यापि तस्य [[64111]]

आवरण भञ्जकत्वे एव तात्पर्यम् । एवं च कथमनैकान्तिकमिति । न च ब्रह्मणोऽदृश्यत्वं कथं सिद्ध्यतीति वाच्यम् । ब्रहा हि अनुभवरूपत्वात् स्वप्रकाशमिति सिद्ध्यति । तस्य स्वप्रकाशत्वात् अदृश्यत्वं सिद्ध्यति । न च ब्रह्मणोऽनुभवरूपत्वे सिद्धे स्वप्रकाश- त्वसिद्धिः, स्वप्रकाशत्वे सिद्धे सति अनुभवरूपत्वसिद्धिरिति अन्योन्याश्रय इति वाच्यम्, ब्रह्मणोऽनुभवरूपत्वस्य स्वप्रकाशत्वस्य च श्रुत्यैण सिद्धत्वात् । “सत्यं ज्ञानमनन्तं ब्रह्म ” 109 इति श्रुत्या अनुभवत्वस्य, तमेव भान्तमनुभाति सर्वम् " 110 इति श्रुत्या स्वयं प्रकाशत्वस्य, “यत्तदद्रेश्यम्”… इति श्रुत्या अदृश्यत्वस्य च ब्रह्मणि सिद्धेः । अत एतत्-त्रितयं साध्यमेन नेति कथमन्योन्याश्रयदोषप्रसङ्गः। न च “यत्तदद्रेश्यम्” इति श्रुत्या ज्ञानविषयत्वसामान्याभावः ब्रह्मणि नोच्यते, किन्तु दृश्यते त्वग्रयया बुद्ध्या " ॥2 इति श्रुत्यन्तरसत्त्वात् ज्ञानविशेषविषयत्वस्य ब्रह्मणि लाभात् ज्ञानविशेषभिन्नज्ञान- विषयत्वाभाव एव “अद्रेश्यं" मित्यनेन लभ्यते, विशेषेण हि सामान्यस्य सङ्कोचः भवत्येव यथा “ मा हिंस्यात् सर्वा भूतानि” - इति सामान्यश्रुतेः, “अग्निषोमीयं पशुमालभेत । ति विशेषश्रुत्या बाध इति वाच्यम्। “दृश्यते त्वग्रचया” 114 इत्यनेन वृत्तिव्याप्यत्वस्यैवोक्तत्वात्। तच्च ब्रह्मणि अज्ञाननाशार्थं स्वीकार्यमेव । अद्रेश्यमित्यनेन फलव्याप्यत्वस्य तत्र निषिद्धत्वेन विरोधाभावः । यदि ब्रह्म संस्कृतबुद्धया [[65]] [[66]] [[112]] |

दृश्यते तर्हि सा बुद्धिः केन दृश्यते-जीवेन चेत् स जीवः केन दृश्यते इति प्रश्नः-ब्रह्मणा चेत्- तद्ब्रह्म केन दृश्यते - संस्कृतबुद्धया, सा बुद्धिः जीवेन दृश्यते, स जीवः ब्रह्मणा दृश्यत इति चक्रकापत्तिः । अतः ब्रह्मणोऽदृश्यत्वमेव । एवं न व्यभिचारः । यदुक्तम् - श्रुतप्रकाशिकायां 15 जीवगताः नित्यत्वादिधर्माः परमार्थभूताः जीवधर्मभूतज्ञानवेद्या इति, तदपि न युक्तम् । जीवस्य निर्धर्मकत्वात् ज्ञानस्वरूपत्वाच्च स्वरूपज्ञानातिरिक्तधर्म- ज्ञानस्याप्रमाणिकत्वात् ।

सिद्धान्तः

अयमत्र सिद्धान्तः- जगत् मिथ्या दृश्यत्वात् शुक्तिरजतवत् इति मिथ्यात्वानुमानं श्रुतप्रकाशिकायां निराकृतम् । तत्र हि मिथ्यात्वाभाववति ब्रह्मणि दृश्यत्वस्य सत्त्वात् व्यभिचार इति । तत्र पूर्णपक्षः - ब्रह्मणि दृश्यत्वमेव नास्तीति कथं व्यभिचारः । ब्रह्मणि वृत्तिव्याप्यत्वस्य सत्त्वेऽपि फलव्याप्यत्वं नास्ति । इदं च पूर्वपक्षिभिः विशदीकृतम्। तथा च कथं व्यभिचारः श्रुतप्रकाशिकायामुक्त इति चेन्न वृत्त्यवच्छिन्नचैतन्य- विषयत्वस्य दृश्यत्वरूपत्वम्, तादृशविषयत्वमेव हेतूक्रियत इति न युक्तम् । लोके वृत्तिः चैतन्यमिति उभयोरनुभवाभावात् । अतो हेत्वप्रसिद्धिः। पारमार्थिकस्य चैतन्यस्यातात्त्विकवृत्त्या अवच्छिन्नत्वं [[66]]

न सम्भवति । न हि अध्यासाधिष्ठानभावातिरिक्तः सम्बन्धः मिथ्यार्थ- सत्यार्थयोरस्ति । वृत्तिः जडा न ज्ञानं विषयीकरोतीति चेत्, ज्ञानमेव विषयीकरोतीति अपि लोके दृष्टम् । अतः वृत्तिप्रतिफलितचैतन्यविषयत्वं वृत्ति-अवच्छिन्नचैतन्यविषयत्वपर्यवसितं न हेतुर्भवितुमर्हति । एवं च दृश्यत्व मित्यस्य सामान्यतो ज्ञानविषयत्वमित्यर्थो वक्तव्यो भवति, तच्च ब्रह्मणि वर्तत इति व्यभिचारः कथितः श्रुतप्रकाशिकायाम्"" । न च दृश्यत्वं नाम शब्दाजन्यवृत्तिविषयत्वम् - प्रत्यक्षस्य सन्मान - विषयकत्वपक्षे शब्दाजन्य प्रत्यक्षविषये ब्रह्मणि मिथ्यात्वाभावात् व्यभिचारः । न चावरणभङ्ग एव प्रत्यक्षेण क्रियत इति न सतः प्रत्यक्षविषयत्वमिति वाच्यम् । तदतिरिक्तस्य विषयिविषयभावस्य प्रत्यक्षे भवतामनिष्टत्वात् । अत्र यत् पूर्वपक्षितम्- श्रुप्रकाशिकायां जीवगताः नित्यत्वा- दिधर्माः परमार्थभूताः जीवधर्मभूतज्ञानवेद्या इति कथितं न युक्तम् । जीवस्य निर्धर्मकत्वात् ज्ञानस्वरूपत्वाच्च स्वरूपज्ञानातिरिक्तधर्मज्ञानस्य अप्रामाणिकत्वाच्च इति । तत्रोच्यते - धर्मभूतज्ञानं श्रुत्या सिद्ध्यति । “जानात्येवायं पुरुषः”।17“न हिं विज्ञातुः विज्ञातेर्विपरिलोपो विद्यते” 118 इत्यादि श्रुतिबलात् नित्यं धर्मभूतज्ञानं सिद्ध्यति । " हि द्रष्टा श्रोता — विज्ञानात्मा पुरुष 1 19 इति श्रुतिरपि अत्र प्रमाणम् । जीवस्य ज्ञानस्वरूपत्वं चेष्टमेव। जीवस्य निर्धर्मकत्वं न युक्तम्। पूर्वोक्तश्रुतिभिः चेतनस्य सधर्मकत्वस्यैवावगमात् । [[67]]

शतदूषण्याम् - दृश्यत्वं’ 20 ( १ ) किं चाक्षुषत्वम् (२) प्रत्यक्ष- ज्ञानविषयत्वं वा (३) ज्ञानविषयत्वं वा (४) उत दृग्व्यतिरिक्तत्वम् (५) अथवा यत्किञ्चिदन्यत् - इति पञ्चधा विकल्प्य प्रथमपक्षे वाय्वादिषु चाक्षुषत्वरूप हेतोरभावेन भागासिद्धिः, द्वितीयकल्पेऽपि आकाशे हेतोरभावेन भागासिद्धिः ज्ञानविषयत्वमात्रस्य पर्याप्तत्वे प्रत्यक्षेति व्यर्थविशेषणम्। तृतीये ब्रह्मणि व्यभिचारः, ज्ञानविषयत्वं ब्रह्मणि नास्तीति वक्तुं न शक्यते । ब्रह्मवेद ब्रह्मैव भवतीति बहुश्रुत्यादिविरोधात्। चतुर्थे परामार्थिकस्य दृग्व्यतिरेकस्य प्रपोऽनभ्युपगमेन साधनविकलत्वम्। ब्रह्मणो दृश्यत्वं नास्तीति मध्ये शङ्कामुद्भाव्य तस्य दृश्यत्वमुपपादितम्। अतः दृश्यत्वानुमानं न युक्तमिति श्रुतप्रकाशि- कायामुक्तं युक्तमिति ।