१० मिथ्यात्वानुमानविचारः

श्रीभाष्ये घटादयः विशेषा अपरमार्था व्यावर्तमानत्वात् रज्जुसर्पवत् इत्यनुमानेन मिथ्यात्वसिद्धिमाशङ्क्य व्यावर्तमानत्वं नापरमार्थत्वसाधकम् इति निरूपितम् । तथाहि - यस्मिन् देशे यस्मिन् [[59]]

काले यस्य भावः प्रतीतः तस्मिन्नेव देशे काले तस्याभावः प्रतीतश्चेत् द्वयोर्ज्ञानयोरेकत्र विरोधात् बलवतो बाधकत्वमन्यस्य बाध्यत्वं च भवतीति अनुवृत्त्यभावरूपव्यावर्तमानत्वमात्रं नापारमार्थ्यं साधयति इति । तत्रोच्यते - तथासति एकस्मिन् काले रज्जुसर्पयोः ज्ञानाभावेन प्रगलरज्जुज्ञानेन दुर्बलसर्पज्ञानस्य बाध इति वक्तुमशक्यत्वात् रज्जुसर्पोऽपि सत्यः स्यात् । न हि भ्रमकाले रज्जुज्ञानमस्ति प्रमाकाले वा सर्पज्ञानम्। यदुक्तम्- यस्मिन् देशे यस्मिन् काले यस्य भावः तस्मिन् देशे तस्मिन् काले तस्याभावो यदि प्रतीयते तर्हि स तस्य बाधक इति तदप्यसमीचीनम्। तस्य तदभावज्ञानेनैव बाध इति नियमायोगात् । नागस्य भावान्तरेणापि बाधस्य दर्शितत्वाच्च । निशि स्थाणुं पुरुष ति भ्रान्तः पुरुषः प्रातः तमेव स्थाणुं दृष्ट्वा पुरुष इति निशायामहं भ्रान्तोऽसानि इति प्रत्येति, तत्र न भ्रमप्रमयोरेककालिकत्वमिति कालनियमायोगाच्च । न च निशि जातः स भ्रमः प्रातरभावात् स्थाणुत्वसाक्षात्कारो वर्तत इति वाच्यम्। मध्यकाले अनन्तज्ञानानां जातत्वान्नष्टत्वाच्च तैर्भ्रमज्ञानस्य बाधोऽवश्यं वाच्य इति । न हि पूर्णज्ञानमबाधित्वा उत्तरज्ञानं स्वरूपलाभं भजते । कि बाध्यबाधकभावे भवतु नाम विवादः, बाधितस्य व्यावृत्तौ तु नास्ति विवादः, अव्यावृत्तौ बाधितत्वस्यैवासिद्धेः । तथा च व्यवर्तमान- [[60]]

त्वमात्रस्य कथमपारमार्थ्याहेतुत्वम् ? न हि व्यावृत्तममिथ्याभूतं कापि दृष्टम् । यच्चोक्तं श्रुतप्रकाशिकायां साध्यस्य मिथ्यात्वस्य मिथ्यात्वे जगतः सत्यत्वं भवेत्, अमिथ्यात्वे नाद्वैतसिद्धिरिति 104 तदपि न युक्तम् । जगन्मिथ्यात्वस्य व्यावहारिकसत्यत्वे सिषाधयिषिते इष्टापत्तिः । जगन्मिथ्यात्वस्य वस्तुतः सत्यत्वं नास्त्येवेति । अयं भागः- जगन्मिथ्यात्वं व्यावहारिकसत्यमद्वैतिनामिष्टमेव । जगन्मिथ्यात्वस्य परमार्थत्वं न वक्तुं शक्यते, अद्वैतश्रुतिविरोधात् । परमार्थतः जगत एवाभावे कथं तन्मिथ्यात्वस्य स्थितिः, कथं च तत्सत्यत्वासत्यत्व- विचारः । एवं च श्रुतप्रकाशिकोक्तदूषणमलग्नकम् ।

सिद्धान्तः

अयमत्र सिद्धान्तः जगदपरमार्थः व्यावर्तमानत्वात् इत्यनुमानेन जगतोऽपरमार्थत्वं सिद्ध्यति इति पूर्वपक्षस्य श्रीभाष्यकारैः वर्तमानत्वमात्रं नापरमार्थत्व- साधकम्, यस्मिन् देशे यस्मिन् काले यस्य भावः प्रतीतः, तस्मिन्नेव देशे काले तस्याभावः प्रतीतश्चेत् द्वयोः ज्ञानयोरेकत्र विरोधात् बलवतो बाधकत्वमन्यस्य बाध्यत्वं च भवतीति कथितम् । तेषामभिप्रायः । तत्र पूर्णपक्षितं यत् एकस्मिन् काले रज्जुसर्पयोः ज्ञानाभावेन प्रबलरज्जुज्ञानेन दुर्बलसर्पज्ञानस्य बाध इति वक्तुमशक्यत्वात् [[61]]

रज्जुसर्पोऽपि सत्यः स्यादिति । तन्न यद्देशयत्कालवृत्तित्वप्रकारक रज्जुज्ञानं तद्देशतत्कालवृत्तित्वप्रकारकमेण सर्पज्ञानं बाधकं भवति इति भाष्याशयात् । रज्जुसर्पज्ञानयोरेककालवृत्तित्वाभावेऽपि बाध्यबाधकभावः भवति । अतः तस्य वाक्यस्यान्यार्थं परिकल्प्य खण्डनं न युक्तम्। अपि च यत्भावस्य भावान्तरेणापि बाधो भवति इति दृष्टान्तकथनपूर्वकं निरूपितम् । तत्रापि इष्टापत्तिरेण । भाष्ये “तस्याभावः प्रतिपन्न इत्यत्र, ‘तदवृत्तिधर्मोऽपि” विवक्षितः । किच तस्याभाव इत्यस्य विरुद्ध धर्म इत्येवार्थः, अभावस्यापि भावान्तरत्वं हि सिद्धान्तितम्। अत एव हि शुक्तित्वज्ञानात् रजतं बाध्यत इत्युच्येत । अपि च अव्यावृत्तौ बाधितत्वस्यैवासिद्धेरितिकथनमपि न युक्तम्। न ह्यनेन व्यावर्तमानत्वस्य केवलस्य मिथ्यात्वव्याप्यत्वं सिद्धयेत्। अनेन हि बाधितत्वाभावव्याप्यत्वम् अव्यावर्तमानत्वे सिद्ध्यति, अर्थात् बाधितत्वव्यापकत्वं व्यावर्तमानत्वे लभ्यते चेत् व्यावर्तमानत्व- सामान्यस्य मिथ्यात्वव्याप्तत्वं कथं भवेत् । धूमव्यप्यस्य आद्रेन्धन- सम्योगस्य वह्निव्याप्यत्वेऽपि वह्नेः धूमव्याप्यत्वं यथा नास्ति, तथा । किश्च साध्यस्य मिथ्यात्वस्य मिथ्यात्वे जगतः सत्यत्वं भवेत्, अमिथ्यात्वे जगतः सत्यत्वं भवेत् इति श्रुतप्रकाशिका 105 । उक्तोऽयमर्थः [[62]]

वेदान्तदेशिकैः106 विशदतया जगत् मिथ्या इति या प्रतिज्ञायाः सा प्रतिज्ञापि यद्यर्थः, तदा मिथ्याभूतप्रतिज्ञाजन्यमिथ्याभूतज्ञानविषयस्य जगन्मिथ्यात्वस्यापि मिथ्यात्वात् अभीष्टसिद्धिः न स्यात् । यदि सा प्रतिज्ञा न मिथ्या, तदा तदन्तर्भावेन व्यावर्तमानत्वहेतोर्व्याभिचारः । मिथ्यात्वस्य मिथ्यात्वे मिथ्यात्वं जगतः बाधितं भवेत्, सत्यत्वस्य सत्यत्वे सत्यत्वं स्थापितं भवेत् । मिथ्यात्वं यदि ब्रह्मस्वरूपम्, तदा दोषः प्रसिद्ध एव । यदि न ब्रह्मस्वरूपं तदा तत् मिथ्यात्वं सत्यं चेत् द्वैतापत्तिः, असत्यं चेत् मिथ्यात्वम्, मिथ्यात्वस्य मिथ्यात्वमुक्तमिति जगत्सत्यत्वापत्तिः- इयं रीतिः विशिष्टाद्वैतिनाम् । अत्र पूर्वपक्षः जगन्मिथ्यात्वं व्यावहारिकम्, अतः तस्य मिथ्यात्वमिष्टमेव । न च तेन जगतः सत्यत्वापत्तिरिति चेन्न, मिथ्यात्वस्य मिथ्यात्वं नाम मिथ्यात्वाभावः स च सत्यत्वमेवेति कथं जगतः सत्यत्वापत्तिः नास्तीत्युच्यते । न च जगत एव मिथ्यात्वे कथं तत्र सत्यत्वासत्यत्वयोः विचार इति शङ्कयम्, तस्य मिथ्यात्वे कुत्र मिथ्यात्वस्य साधनम् ? न हि असत्ये शशशृङ्गे द्रव्यत्वं साध्यते पृथिवीत्वात् । न च शशशृङ्गं तुच्छम्, जगत् सदसद्भिन्नमिति वाच्यम्, सत्त्वासत्त्वयोरिव एकत्र सदसद्भिन्नत्वस्यापि असत्वात् । अतः श्रुतप्रकाशिकोक्तं युक्तमेव । आचार्यैः 107- [[63]]

व्यावृत्तिमात्रात् यदि तत् सतोऽप्येतत् प्रसज्यते । सत्त्वं घटस्येहेदानीं नास्तीत्यादिनिरूपणात् ॥ तच्चेत् तद्देशकालादौ नापोढं तत् समं घटे । सदेव घटदेशश्चेत् नान्यथैवोपलम्भनात् ॥ इति श्लोकद्वयेन व्यावर्तमानत्वस्वरूपं विकल्प्य तस्य मिथ्यात्वसाधकत्वं नास्तीति (न्या.सि) प्रतिपादितम्। व्यावृत्तिमात्रम्- किश्चिन्निष्ठाभावप्रतियोगित्वम् । द्वितीयश्लोकेन यस्मिन् देशे यस्मिन् काले इत्यादिकं व्यावर्तमानत्वं शङ्कितम् । अधिकमेतदनुमानविषये श्रुतप्रकाशिकातत्त्वटीकयोर्द्रष्टव्यम् 108 ।