यदुक्तम्- “भेदस्य प्रत्यक्षाविषयत्वे सन्मात्रस्यैव तद्विषयत्वे किमिति अश्वार्थी महिषदर्शनेन निवर्तते ? इति श्रीभाष्ये, तस्येदमुत्तरम् - प्रत्यक्षस्य सन्मात्रग्राहित्वेऽपि आणिद्यकप्रमाणाभासेन गवाश्वादि- द्वैतस्यापि ग्रहणात् दोषाभावात्। व्यवहारस्तु आविद्यकप्रमाणेन भवति, महिषग्रहणं नाम न केवलं सन्मात्रविषयकप्रत्यक्षम्, तत्र अविद्यया [[53]]
महिणस्यापि ग्रहणात् । अतोऽयं प्रश्नो नोचितः । यथा चाक्षुण- प्रत्यक्षेणेदमंशे गृहीतेऽपि आणिद्यकप्रमाणाभासेन सर्पस्यापि ग्रहणाद्भीत्या पलायते तद्वत् इति । यदुक्तम्- प्रतिसंवेदनं भेदस्य सत्त्वात् तस्य भेदस्य विषयभेदं विनाऽसम्भवात्। प्रत्यक्षस्य विशिष्टार्थविषयकत्वमापतितम् इति, तदपि न, उपाधिभेदेनैव संवेदनभेदः, न तु स्वतः । यथा घटाद्युपाधिकृत एव गगनभेदः न तु स्वतः, तद्वत् । तथा च ज्ञानभेदस्यायुक्तत्वात् न प्रत्यक्षस्य विशिष्टविषयत्वम्। न चैवं सर्वेषां संवेदनानाम् एकविषयता- यामेकेनैव संवेदनेनाशेषग्रहणात् अन्धबधिराद्यभावश्च प्रसज्येत - इति वाच्यम्। ज्ञानस्य हि चैतन्यरूपस्यैकत्वात् सर्वेषामितिप्रयोगस्या- सिद्धत्वात् । अगच्छेदकभूतवृत्तिभेदेन संवेदनानेकत्वं तु इष्टमेन । वृत्तिभेदश्च विषयभेदनिबन्धनः । प्रमाणवृत्तेः सन्मात्रविषयकत्वेऽपि अविद्यावृत्तेः भेदणिणयकत्वस्येष्टत्वात् अन्धबधिराद्युपपत्तिः सम्भवत्येव । यदुक्तम्- निर्विशेषसन्मात्रस्य प्रत्यक्षेणैव ग्रहणे तद्विषयागमस्य प्राप्तविषयत्वेनानुवादकत्वमेव स्यात् इति तदपि न युक्तम् - प्रत्यक्षेणैवेत्यस्य कोऽर्थः- किं- इन्द्रियार्थसन्निकर्षजन्यज्ञानेनेति, यद्वा प्रत्यक्षप्रमाणेन्द्रियेण, अथवा अन्तः करणवृत्तिरूपप्रत्यक्षप्रमाणेनेति प्रश्नः । ज्ञानस्य फलरूपत्वेन तेन विषयग्रहणाभावात् प्रथमपक्षो न [[54]] युक्तः । ब्रह्मणोऽतीन्द्रियत्वेन इन्द्रियग्राह्यत्वाभावात् द्वितीयपक्षोऽपि न युक्तः । अन्तःकरणवृत्तिः ब्रह्म गृह्णातीति तृतीयकल्पोऽपि विकल्पासहिष्णुरेण । चक्षुरादिद्वारानिर्गता अन्तः करणवृत्तिः रूपाद्युपहितं ब्रह्मैव गृह्णीयात् । न तु निर्विशेषं ब्रह्म । अनिर्गता अन्तःकरणवृत्तिः प्रत्यक्षशब्देनोच्यते, अतः प्रत्यक्षेण सतो ब्रह्मणो ग्रहणे ब्रह्मविषयागमस्यानुवादकत्वप्रसङ्ग इति चेत्तदपि न सा च वृत्तिः न प्रत्यक्षशब्दवाच्या, सा हि आगमनैवोत्पाद्येति भवति आगमस्य सार्थकतेति श्रीभाष्योक्तं न युक्तम् । यदुक्तम्- भाष्ये सन्मानब्रह्मणः " प्रत्यक्षविषयत्वे तस्य प्रमेयत्वापत्त्या जडत्वादयः स्युः इति, तदपि न, व्यवहारतः प्रमेयत्वस्येव ब्रह्मणि स्वीकारात् । वृत्तिप्रतिफलितचैतन्यरूपं यत् फलं तद्वयाप्यत्वरूपस्यैव प्रमेयत्वस्य ब्रह्मणि निषिद्धत्वाच्च । वृत्तिव्याप्यत्वं हि ब्रह्मणि अज्ञाननाशार्थं स्वीक्रियत इति कथमियमापत्तिः । ननु ब्रह्मणि प्रमेयत्वादिकं वस्तुतो नास्ति चेत् केन कल्पितं तदिति प्रश्ने अज्ञानेनेति वक्तव्यम् । तच्चाज्ञानं ब्रह्मणोऽभिन्नं न भिन्नं वेति संशयः। ब्रह्माज्ञानयोरभेदे ब्रह्मणो जडत्वापत्तिः । तयोर्भेटे गति अज्ञानप्रतियोगिको भेदः किं भन्ने ब्रह्मणि वर्तते, उताभिन्ने इति विकल्पः । प्रथमे आत्माश्रयदोषः द्वितीयेभेदरहितब्रह्मणि भेद इति व्याघातः । इति चेदुच्यते - अज्ञानं हि भिन्नत्वाभिन्नत्वाभ्यां दुर्निरूपम्। [[55]]
अज्ञानं शक्तिः । शक्ति शक्तिमतोर्न भेदः, नाप्यभेदः । । अतो पूर्वेक्तविकल्पधारा न युक्ता । ननु भेदस्य दुर्निरूपत्वमुक्तम् । तथाऽभेदोऽपि दुर्निरूप एव । किमभेदो ब्रह्मणः स्वरूपम् । उत धर्मः, आद्ये प्रतियोगिनिरपेक्ष- व्यवहारप्रसङ्गः, न तु तथाव्यवहारोऽस्ति, किन्तु प्रतियोगिसापेक्ष एव ॥ “ब्रह्मणा भवत्यभेदी” इति व्यवह्रियते । अभेदो धर्म इति पक्षे ब्रह्मणः सविशेषत्वमागच्छति इति भेद इवाभेदोऽपि दुर्निरूप इति चेन्न, अभेदस्य दुर्निरूपत्वेऽपि दोषाभावात् । न वयम्मभेदं साधयामः किन्तु भेदं निषेधामः। श्रुतिरपि “नेह” नानास्ति किञ्चनेति भेदमेव निषेधति । एवं च भेदस्य दुर्निरूपत्वात् श्रीभाष्यकारोक्तयुक्तयः न तिष्ठन्ति ।
सिद्धान्तः
अयमत्र सिद्धान्तः- श्रीभाष्यकारैः सन्मात्रातिरेकिवस्तुसंस्थानरूपजात्यादिलक्षणो भेदो यदि प्रत्यक्षेण न गृहीतः, तदा बह्वयोऽनुपपत्तयः प्रदर्शिताः । तदुपरि पूर्वपक्षः कृतः यत् प्रत्यक्षस्य सन्मात्रग्राहित्वेऽपि आणिद्यक- प्रमाणाभासेन गवाश्वादिद्वैतस्यापि ग्रहणात् अश्वार्थिनः महिषदर्शनेन निवृत्तिर्न भवति इति । तत्रोत्तरम् - यदि गवाश्वादिद्वैतज्ञानम् आणिद्यक- प्रमाणाभासेनैव भवति न तु तत् प्रमात्मकम्, तर्हि अश्व इति प्रत्यक्षं “नायमश्व इति ज्ञानेन न विरुद्धेयत । अश्वप्रत्यक्षानन्तरमपि “नायमश्व [[56]]
इति ज्ञानस्य भवितुमर्हत्वात् । इदं रजतमिति ज्ञानाभासानन्तरं नेदं रजतमिति ज्ञानवत् । नच " अयमश्वः ” “ नायमश्व" इति ज्ञानद्वयमपि प्रमाणाभासजन्यं चेदपि व्यावहारिकबाध्यबाधकभावोऽस्त्येव इति वाच्यम् । व्यावहारिकस्य बाध्यबाधकभावस्य अप्रयोजकत्वात् । उभयोरपि ज्ञानयोः व्यवहारिकसत्तास्वीकारे कथं बाध्यबाधकभाव इति प्रश्नस्य सम्भवाच्च । वास्तविकस्य बाध्यबाधकभावस्य सविशेषविषयक- प्रत्यक्षस्वीकारं विना वक्तुमशक्यत्वात् । किञ्च सतः तदध्यस्तभेदस्य च युगपद्गहणासम्भवः भाष्ये एव प्रदर्शितः । [[1]] यदुक्तमुपाधिभेदेनैव संवेदनभेद इति तदपि न । तत्तदुपाधि- विशिष्टमपि वस्त्वेकमेव, नहि घटाकाशः मठाकाशाद्भिद्यते, नापि घटाकाशः शुद्धाकाशाद्भिद्यते । तथात्वे तत्तत्क्षणविशिष्टघटानां शुद्धघटाद्भेदप्रसक्तौ, परस्परं च भेदप्रसक्तौ एकत्वेनानुभवसिद्धाया अपि घटव्यक्तेरेकत्वं न स्यादिति क्षणिकत्ववाद आश्रितः स्यात् । अत एव तार्किकाः विशिष्टस्य शुद्धादनतिरेकं वदन्ति, स्पष्टमिदं गदाधरीये सिंहलक्षणसार्वभौमपरिष्कारविवरणे । एवम् अवच्छेदकभूतवृत्तिभेदेन संवेदनबहुत्त्वकथनमपि न भवत्येव । एवं सन्मात्रब्रह्मणः प्रत्यक्षविषयत्वे तस्य प्रमेयत्वेन जडत्वादयः स्युः इति भाषितमपि युक्तमेव । न च व्यवहारतः प्रमेयत्वमिष्टमेवेति वाच्यम्, तर्हि ब्रह्मणानुभाव्यत्वे अनुभूतित्वाभावप्रसङ्ग इति [[57]]
कथनविरोधापत्तेः व्यवहारतोऽनुभूतित्वाभावस्य सत्त्वे बाधकाभावात्। न च अनुभाव्यत्वं यत् निषिद्ध्यते तत् फलव्याप्यत्वरूपम्। फलं च वृत्तिप्रतिफलितचैतन्यम्, तद्विषयत्वं जडस्यैण भगति, न तु स्वतः प्रकाशरूपे ब्रह्मणि इति वाच्यम् । वृत्तिव्याप्यत्वे ब्रह्मणः सविशेषत्वप्रसङ्गात् । न च वृत्तिव्याप्यत्वं नाम न वृत्तिविषयत्वम्, किन्तु वृत्तिप्रयुक्तागरणभङ्ग एव, नातो ब्रह्मणः सविशेषत्वप्रसङ्ग इति वाच्यम्। आवरणभङ्गस्य चैतन्यनिष्ठत्वे सविशेषत्वापातात् । तस्य चैतन्याभिन्नत्वेऽपि चैतन्यस्वरूपस्य तस्य सर्वदा विद्यमानत्वेन वृत्तिव्याप्यत्वकल्पनाया निरर्थकत्वापातात् । ब्रह्मणि अज्ञाननाशार्थं हे वृत्तिव्याप्यत्वमिष्यते, तस्य नाशस्य पूर्णमेव सिद्धौ किमर्थं नत्स्नीकारः । किञ्चाविद्याकार्येण वृत्तिपदार्थेनाविद्याकार्यस्यावरणस्य भङ्ग इत्यपि नोचितम् । अयं विषयो वक्ष्यते । यच्चोक्तम् अज्ञानं ब्रह्मशक्तिः, तत् ब्रह्मणो भिन्नाभिन्नत्वाभ्यां दुर्निरूपम्। शक्तिशक्तिमतोर्न भेदः, नाप्यभेदः इति, तदपि न, परस्परविरोधे हि न प्रकारान्तरस्थितिः । नैकतापि विरुद्धानामुक्तिमात्रविरोधतः ॥ १ इति उदयनाचार्यैरुक्तरीत्या भिन्नत्वाभिन्नत्वाभ्यामतिरिक्तस्य पक्षस्य दुरुपपादत्वात् । न च शक्तिशक्तिमतोः भेदाभेद इति वाच्यम्, [[58]]
व्यतिरेको गन्धवत् तथाहि दर्शयति 100 इति व्याससूत्रेण धर्मधर्मिणोः भेदस्यैव लाभात् । ननु यो यदव्यभिचारी स तदभिन्न इति न [[66]] नियमः । धूमवह्नयोर्व्याभिचारात् - इति वदन् कैयटोद्योतकारो 1015 पि गुणगुणिनोः भेदं प्रतिपादयति । एवं शक्तिशक्तिमतो र्भेदाभेदौ न भगत इति समन्वयाधिकरणभाष्ये भास्करमतनिराकरणप्रसङ्गे स्पष्टमुपपादितम्। 102 मणिकारैरपि भेदाभेदवादः भृशं निराकृतः 103। अविद्याब्रह्मणोः भेदाभेदे ब्रह्मणि अविद्येतिवदविद्या ब्रह्म इति सामानाधिकरण्येनापि प्रयोगः स्यात्। यथा शुक्लः पटः, पटस्य शुक्लं रूपम् इति प्रयोगद्वयेन हि भेदाभेदवादिभिः गुणगुणिनोर्भेदाभेदौ स्वीक्रियेते, तथा प्रकृतेऽपि भेदाभेदोपपादनार्थं तथाविधप्रयोगद्वयं स्वीकार्यं स्यात् । एवम् अभेदोऽपि नेति चेत् । तद्व्यतिरिक्तस्य इति कथनमपि न युक्तम् । भेदोऽपि न स्वीक्रियते, अभेदोऽपि नेति चेत् तद्व्यतिरिक्तस्य तृतीयस्याभावात् किमपि नोक्तं भवतीति श्रीभाष्यकाराभिप्रायः । एवं सङ्क्षेपेण पूर्वपक्षः समाहितः। अतो भाष्योक्तानुपपत्तय उपपद्यन्त एवेति ।