श्रीभाष्योक्तभेदस्वरूपपरिशीलनम्॥
जात्यादिलक्षणवस्तुसंस्थानरूपो भेदः “अयं गौ ” रित्यादि प्रत्यक्षे भासत एवेति भेदः सुनिरूप एवेति भाष्यकाराः । तत्रेदं चिन्त्यते संस्थानं जातिरिति पक्षोऽसङ्गतः । न हि सर्वासु जातिः स्वीकार्या । एवं च जातिः संस्थानादतिरिक्तेति सिद्धे तत्तद्गवादौ परस्परं भेदप्रतीतिः जातिविषयिणी इति वक्तुं न शक्यते, उभयत्र वर्तमानायाः जातेरेकत्वात्। तत्र संस्थानरूपो भेदः; गवाश्वभेदस्तु गोत्वादिरूपजातिरूप इति वाच्यम् । भेदस्य जातिरूपत्वे अश्वात् गोः भेदः इतिवत् अश्वात् गोर्जातिरिति प्रयोगप्रसङ्गः । किञ्च आकाररूपत्वे भेदस्य अश्वात् गोः सास्नादिमत्त्वमिति प्रयोगप्रसङ्गः । एवं च संस्थानं, जाति र्वा न भेदः, किन्तु भेदप्रयोजकमेव तत्। यदत्रोक्तं श्रुतप्रकाशिकायां भेदःसुनिरूप एन, कार्योत्पत्यनुरूपत्वं हि कारणस्य सुनिरूपत्वम्, कार्योत्पत्त्या कारणस्य तदनुरूपत्वं सिद्धम् इति तदपि न, घटरूपकार्योत्पत्त्या मृद्रूपकारणस्य कार्योत्पत्त्यनुरूपत्वरूपसुनिरूपत्वदर्शनेऽपि सर्पोत्पत्या रज्जोः अनिर्वचनीयकार्योत्पत्यनुरूपत्वरूपसुनिरूपत्वादर्शनेन व्यभिचारात्। गल्मीकादिदेशान्तरस्थसर्पस्य अयमिति पुरोवर्तितया [[45]]
ग्रहणायोगात् अनिर्वचनीयसर्पोत्पत्तिः रज्जौ सर्पभ्रमस्थले स्वीकार्यैन। किश्च ब्रह्मणः जगद्रूपकार्योत्पत्या कार्योत्पत्यनुरूपरूपसुनिरूपत्वं न दृश्यते । सच्चिदानन्दात्मकब्रह्मणः कथमनृतजडदुःखात्मक- जगदात्मककार्योत्पत्तिः । तस्माद्विचारासहत्वरूपदुर्निरूपत्वस्य भेदे सत्त्वात् भेदः निरूपयितुमशक्य एव । यच्चोक्तं भेदमूलस्य सुनिरूपत्वेन भेदः सुनिरूप एवेति, तदपि न, भेदमूलं हि अज्ञानं, तच्च सदसदनिर्वच- नीयम्, तथाच अज्ञानस्य दुर्निरूपत्वे तन्मूलक्तः भेदः कथं सुनिरूपः ? यदुक्तं - भेदः येन प्रमाणेन बाध्यते तत्प्रमाणजन्यप्रतीतेरपि ब्रह्मभिन्नविषयिण्याः मिथ्याविषयकत्वमेवेति कथं भेदस्य भङ्ग इति। तदपि न, भेदस्य तत्साधकप्रमाणस्य तज्जन्यप्रतीतेश्च ब्रह्मभिन्नत्वेन मिथ्यात्वात् कथं भेदस्य पारमार्थ्यप्रसङ्गः ? न हि भेदो मिथ्या ब्रह्मभिन्नत्वात् रज्जुसर्पवत् इति ज्ञानस्य मिथ्यात्वमात्रेण भेदस्य ब्रह्मभिन्नत्वाभावः स्यात्, येन तस्य सत्यत्वं प्रसज्यते । रज्जुसर्पस्थले अयं सर्प इति प्रतीतेः मिथ्यात्वेऽपि रज्जुसर्पस्य सत्यत्वं किं भवति । अतः भेदो बाध्यत एव । न च मिथ्याभूतेन बाधकज्ञानेन कथं भेदस्य बाध इति वाच्यम् । मिथ्याभूतदण्डज्ञानेनापि रज्जुसर्पस्य बाधदर्शनात्॥
सिद्धान्तः
अयमत्र सिद्धान्तः- यदुक्तं-भेदस्वरूपं भाष्यकारोक्तं दुर्निरूपम् इति । तन्न युक्तम्- संस्थानं जातिरिति जात्यादिरेण भेद इति च पक्षो युक्त एव । यद्यपि [[46]]
सर्वासु गोव्यक्तिषु अनुगतं न भवति संस्थानम् अथापि अतिरिक्ता जातिर्न स्वीकार्या । तथापि अर्थानां गोत्वादीनां सुसदृशत्वमेवानु- वृत्तिरिति स्वीक्रियते । सदृशव्यवहारासाधारणहेतुधर्मः सादृश्यम् । निर्दिष्टाकारः पुष्कलश्चेत् सादृश्यं सौसादृश्यं भवति । एवं च अनुगतधीः अनुवृत्तेन सौसादृश्येन भवतीति स्वीकुर्मः । एवं च जातिरतिरिक्ता न स्वीकार्या । न च सौसादृश्येनानुगतधीनियमने अतिरिक्तया जात्यैव तन्नियमनं भवतु इति वाच्यम्। सौसादृश्यस्यानुभवसिद्धस्यानुगत- प्रतीतिनिर्वाहकत्वेऽतिरिक्तजातिस्वीकारस्यानावश्यकत्वात्। न च तर्हि प्रथमेतरगोव्यक्तिषु गवा सुसदृश इत्येव प्रयोगः स्यात्, न तु गौरितिवाच्यम्। तथा प्रयुक्ते दोषाभावात् । व्यवहारगौरवादेव न तथा प्रयुज्यते, गौरिति व्यवहारे हि लाघवमस्ति । न च अग्निसदृशे माणवकेऽग्निशब्दप्रयोग इन द्वितीयादिगोव्यक्तौ गौरिति प्रयोगो गौण इति वाच्यम् । केवलसादृश्यप्रयुक्तो हि व्यवहारः गौणः, प्रकृते तु सौसादृश्यलक्षणानुवृत्तिनिबन्धनव्यवहार इति भेदात् । ननु भेदस्य जातिरूपत्वे अश्वाद् गोः भेद इतिवत् अश्वात् गोः जातिरिति व्यवहारः स्यात्, आकाररूपत्वे भेदस्य अश्वात् गोः सास्नादिमत्त्वम् इति प्रयोगः स्यादिति चेन्न । भेदस्य जातिरूपत्वेऽपि अश्वात् गोः जातिः इति प्रयोगः गोर्भद इतिवत् नास्ति, यत्र भेदत्वेन भेदो बोध्यते तत्रैव पञ्चम्यन्ततया प्रतियोगिवाचकं पदमनुशासन- [[47]]
सिद्धम्" । यत्र जातिरिति पदं प्रयुज्यते । तत्र तस्य पदस्य भेदत्वेन भेदवाचकत्वाभावात् न प्रतियोगिवाचक पदात् पञ्चमी । अत एव भेदस्य जातिस्वरूपत्वे प्रतियोगिनिरपेक्षत्वसापेक्षत्वरूपविरुद्धधर्मयोगः स्वादिति प्रश्नोऽपि समाहितः, प्रतियोगिसापेक्षत्वस्य प्रतियोगिघटित- प्रवृत्तिनिमित्तकशब्दस्वभावाधीनत्वेनार्थरूपभेदहेतुकत्वाभावात् । अभावाभावस्य प्रतियोगिस्वरूपत्वं ये स्वीकुर्वन्ति तेषां मते यथा घटाभावो नास्तीति व्यवहारे प्रतियोगिज्ञानसापेक्षत्वं, “घटोऽस्ति” ति व्यवहारे “घटाभावरूपप्रतियोगिनिरपेक्षत्वं च स्वीक्रियते तद्वत् । ‘प्रतियोगिघटितप्रवृत्तिनिमित्तकशब्दः भिन्नः, अन्य इत्यादिः स्वव्यवहारे प्रतियोगिज्ञानसापेक्षः। जातिशब्दस्तु न तथा, तस्यासाधारणधर्मत्वेन तद्धर्मवाचकत्वात्। न च सुसदृशत्वस्यैव गोत्वरूपत्वे “अयङ्गौः इतिवत् “गणासुसदृशोऽयम्” इति प्रयोगोऽपि समानार्थः स्यात् इति वाच्यम्, समानार्थकत्वस्येष्टत्वात् । लोका हि लाघवपक्षपतिनः अयं गौरित्येव प्रयुञ्जते, न तु गणा सुसदृश इति । अनन्ताचार्यास्तु” शरीरणादे तावद्गोविषयकज्ञानमेव गोत्वं, तच्च गिणयतासम्बन्धेन सर्वासु गोषु वर्तत इति आहुः । तागद्वस्तुविषयकज्ञानस्य कथं स्वरूपतो भानं भवेत्, अपिच तावद्विषयकज्ञानं संसारिणः कथं सम्भवेत्, कथं वा गोत्वस्य प्रतीतिः तस्य भवेत् इति प्रश्नाः तत्पक्षे भवेयुरेव । किश्च श्रीभाष्यस्थस्य “संस्थानं [[48]]
नाम स्वासाधारणं रूपमिति यथावस्तु संस्थानमनुसन्धेयम्” इति ग्रन्थस्य तावद्वस्तुविषयकज्ञानस्य जातित्वे तात्पर्यमिति कथनमपि कथं सङ्गच्छत इति न ज्ञायते । अपिच तावत्त्वस्य दुर्वचत्वात् एवं निर्वचनं कथं तैरुक्तमिति शङ्कयते । अयं हि सिद्धान्तः- अवयवसन्निवेशविशेषो हि संस्थानम्, स च सावयवस्थले जातिः, निरवयवात्मादिस्थले “आत्मा” “रूपम्” “रस” इति प्रतीतिविषयत्वमेव जातिः । तावत्त्वस्य परिष्कारे घटनं न कार्यम् । “ननु यदि संस्थानमेव सामान्यम्, तर्हि रूपरसादिषु कथं निर्वाहः? तव वा कथमुपलक्षणरहितेषु ? तेषु लक्षणमेगोपलक्षणम् इति चेत्- किं तत् ? प्रतीतिरिति चेत्, न-आत्माश्रयप्रसङ्गात्। अस्माकं तु तदेवैकीकरणम् इति नोपद्रवः ॥ ”89 इति न्यायसिद्धाञ्जनग्रन्थस्याय- मेणाभिप्राय इति । ननु " कार्योत्पत्त्यनुरूपत्वं हि कारणस्य सुनिरूपत्वम् इति श्रुतप्रकाशिकावाक्यमनुपपन्नम् । तथात्वे सर्पे रज्जोरनिर्वचनीय- कार्योत्पत्त्यनुरूपत्वादर्शनेन व्यभिचारः । किञ्च जगद्रूपकार्योत्पत्या ब्रह्मणः कार्योत्पत्त्यनुरूपत्वरूपं सुनिरूपत्वं नास्ति । तस्माद्विचारा- सहत्वरूपदुर्निरूपत्वमेव भेदस्येति श्रुतप्रकाशिकोक्तं न युक्तमिति चेत्- उच्यते । प्रथमं श्रुतप्रकाशिकायाः तात्पर्यं पश्यामः। भेदप्रतीतेः कार्यस्य सम्प्रतिपन्नत्वेन भेदप्रतीतेः कारणमपि कल्पनीयम्। “कार्यं हि प्रतीतं [[49]] श्रीभाप्यभावप्रकाशः [[91]] कारणकल्पनायां प्रमाणम् । न पुनः स्फुटावधारितं कार्यं कारण- निरूपणायापह्नवमर्हति इति नीतिविदः " " । कारणनिरूपणं भवेदिति भिया स्फुटं कार्यं नापह्नोतव्यम् इत्यर्थः । मूलं च सुनिरूपमेव, कार्योत्पत्यनुरूपत्वमेव कारणस्य सुनिरूपत्वम् । एवं च भेदप्रतीतेः कारणं विषयका सुनिरूप इति भेदः सप्रमाणक एव । यदि भेदप्रतीतेः विषयो नास्तीत्युच्यते, तदा प्रपञ्चवाध्यत्वविषयकज्ञानस्यापि विषयो नास्तीति वक्तुं शक्येत, तथात्वे (तत्र विषयानङ्गीकारे) प्रपञ्चपरमार्थता स्यात् । अत्र श्रुतप्रकाशिकायां भेदप्रतीतेः सकारणकत्वं भेदस्य तादृश- प्रतीतिविषयत्वं साधितम् । तत्र नानुपपत्तिः । रज्जुसर्पस्थलेऽनिर्णच- नीयसर्पोत्पत्तिं विनैवान्यथाख्यातिवादिभिः निर्वाहः क्रियते । न च वल्मीकस्थसर्पेण कथम् इन्द्रियसम्बन्ध इति शङ्कयम्, ज्ञानलक्षणा- प्रत्यासत्त्या तदुपपादनात् । न च ज्ञानलक्षणाप्रत्यासत्तिस्वीकारे अनुमानमात्रोच्छेदप्रसङ्गः पर्वतस्येन्द्रियसन्निकृष्टत्वात्, तत्र विशेषणतया उपनीतस्य गह्वयादेः भानसम्भवादिति वाच्यम्। नैयायिकैः हि “पर्वतो वह्निमान्” इत्यनुमितौ वह्निसामान्यं विधेयतयोच्यते, तत्र ज्ञानलक्षणाप्रत्यासत्या यो वह्निः पूर्वं गृहीतः स एव विशेषणतया भायात् । न तु वह्निसामान्यम् । एवं च सा प्रत्यासतिः स्वीकार्यैन । श्रीभाष्यकारसम्मतसर्वज्ञानयथार्थत्वपक्षेऽनिर्वचनीयरजतोत्पत्तेः सुतरामनावश्यकत्वम् । एवमेव ब्रह्मणः अनृतजडपरिच्छिन्न- [[50]]
कार्योत्पत्यनुरूपत्वं नास्तीति प्रसङ्गः श्रीभाष्यपक्षे न लगति परिणामवादस्यैव प्रकृते स्वीकृतत्वात् विशिष्टस्य ब्रह्मणः कार्यत्वं कारणत्वं चेति पक्षे कारणस्य कार्योत्पत्यनुरूपत्वरूपसुनिरूपत्व- मस्त्येव। एवं भेदमूलमज्ञानम्, तस्य दुर्निरूपत्वे तन्मूलकः भेदोऽपि दुर्निरूप इति कथनमपि विशिष्टाद्वैतिसिद्धान्ते न युक्तम् । भवदभितस्याज्ञानस्यानङ्गीकारात् । ननु भेदबाधकप्रमाणजन्यप्रतीतिः ब्रह्मभिन्नविषययिणी, अतः न मिथ्याविषयिणीति कथं भेदस्य भङ्ग इति श्रुतप्रकाशिका" न युक्ता, भेदस्य तत्साधकप्रमाणस्य तज्जन्यप्रतीतेश्च ब्रह्मभिन्नत्वेन मिथ्यात्वात् कथं पारमार्थ्यप्रसङ्गः। रज्जुसर्पस्थले “अयं सर्प इति प्रतीतेः मिथ्यात्वेऽपि रज्जुसर्पस्य सत्यत्वं किं भवति । अतः भेदो बाध्यत एवेति चेन्न, मिथ्याविषयकस्य " अयं सर्प" इति ज्ञानस्य हि भवन्मते व्यवहारिकसत्ता स्वीक्रियते । सर्पस्य हि तन्त्र प्रतिभासिकसत्ता । अतः भवन्मतरीत्यैन सर्पस्य मिथ्यात्वं सिद्ध्यति । परन्तु प्रकृते भेदोऽपि व्यवहारिकः, तद्वाधकज्ञानं च व्यवहारिकमिति । उभयोः समसत्ताकत्वात् भेदस्य मिथ्यात्वं कथं साधयितुं शक्यते । न च भेदो मिथ्या ब्रह्मभिन्नत्वात् रज्जुसर्पवत् इति ज्ञानस्य मिथ्यात्वमात्रेण न हि भेदस्य ब्रह्मभिन्नत्वाभागः स्यादिति वाच्यम् । यद्विषयकं ज्ञानं मिथ्या तद्विषयस्यापि मिथ्यात्वमिति व्याप्तेः । इयं च व्याप्तिः शशशृङ्गविषयक- [[51]]
ज्ञानस्य भ्रमत्वे तस्य विषयसाधकत्वाभावात् शशशृङ्गस्य मिथ्यात्वात् तत्र गृहीता । ज्ञानस्य मिथ्यात्वं भ्रमत्वमिति कृत्वा इयं व्याप्तिः प्रदर्शिता । एवमेव स्फटिके रक्तत्वभ्रमेण तत्र रक्तत्वं न सिद्ध्यतीत्यपि सार्वलौकिकम् । अतः भेद बाधकप्रमाणजन्यप्रतीतेः मिथ्यात्वे भेदबाधस्य विषयस्य मिथ्यात्वं स्यादिति टीकोक्तं युक्तमेव । अयमत्र सारः - गोत्वे तदितरभेदश्चेत् स गोत्वस्वरूपः (अधिकरणस्वरूपः) गवादौ तदितरभेदः गोत्वस्वरूपः । श्रीवेदान्तदशिकैः सङ्ग्रहोऽत्र विषये कृतः- “यस्मिन् यद्दर्शने येषामध्यासो नोपपद्यते । तस्य भेदः स तेभ्यः स्यात् तदुक्तिस्तु विवक्षया ॥ “93 अयमर्थः- शुक्तौ शुक्तित्वदर्शने सति रजतादितादात्म्याध्यासो नोपपद्यते। सः शुक्तित्वरूपधर्मः तेभ्यः- रजतादिभ्यः तस्यशुक्तिपदार्थस्य भेदः स्यात् । यदि गोत्वादिकमेव भेदः स्यात्, तदा गोत्वे गृहीते गौरिति व्यवहारवत्, भिन्न इति व्यवहारोऽपि स्यादिति वाच्यम्। प्रतियोगि- निरूपिताकारे भिन्नशब्दस्य व्युत्पन्नत्वात् तदाकारविवक्षायां भिन्न इति व्यवहारः, अन्यथा घट इति व्यवहार इति विभागात् । तस्मिन् तदितरभेदो नामतस्मिन् तदितरतादात्म्याध्यासप्रतिबन्धकता- [[52]]
गच्छेदकप्रकारताश्रयो धर्मः । गोत्वे इतरभेदव्यवहारस्थले गोत्न- स्वरूपमेव तदितरभेदः । न च गोत्वम् इति ज्ञानं स्वरूपतो गोत्व- विषयकं कथं (गोत्वं) इदं कुड्यमित्यादितादात्म्याध्यास- प्रतिबन्धकमिति वाच्यम् । स्वरूपतो गोत्वविषयकज्ञानस्यापि इतरतादात्म्याध्यासप्रतिबन्धकत्वस्वीकारात् । तदनुसारेण भेद- परिष्कारस्य कार्यत्वात् । न चैवं सति गोत्वमश्वाद्भिन्नमिति व्यवहारानुपपत्तिः, गोत्वे गोत्वरूपस्याश्वभेदस्यासत्वात् इति वाच्यम्। गोत्वस्य स्वपरनिर्वाहकत्वेन गोत्वे गोत्वस्य भेदत्वेन वृत्यभ्युपगमात् । स्वसम्बन्धित्वे आत्माश्रयस्तु अगत्या स्वीक्रियते । यथा प्रमेयत्वे प्रमेयत्वस्य गोत्वाभावस्य गोत्वाभावे वृत्तौ । स्पष्टं चेदं 24 बौद्धाधि- कारशिरोमणिग्रन्थे। भेदस्वरूपनिर्वचने अन्योन्याश्रयादिप्रसङ्गपरिहारौ श्रुतप्रकाशिकादिषु विशदं निरूपितौ ।