जात्यादिविशिष्टस्यैव वस्तुनः प्रत्यक्षविषयत्वात् जात्यादेरेव प्रतियोग्यपेक्षया वस्तुनः स्वस्य च भेदव्यवहारहेतुत्वम् इति श्रीभाष्यम्। तदपि न युक्तम्। भेदस्य दुर्निरूपत्वात्। भेदो हि न प्रत्यक्षेणोपलभ्यते। न हि शब्दादिषु अनन्तर्भूतं भेदं बहिरिन्द्रियाणि ग्रहीतुं प्रभवन्ति । आन्तरत्वाभावेन भेदः न मानसप्रत्यक्षविषयः । न च घटः पटभिन्नः नामाकारभेदात् कुड्यवत् इत्यनुमानेन भेदः सिद्ध्यतीति वाच्यम्। नामाकारभेदस्य घटपटभेदसिद्ध्यधीनत्वेऽन्योन्याश्रयप्रसङ्गात् । न चोपमानेन भेदः सिद्ध्यतीति वाच्यम्, सादृश्यज्ञानाभावात् । नापि शब्दः भेदसाधकः, अभेदस्यैव शब्देनावगमात् । परः शतं श्रुतिवाक्यानि हि अद्वैतं प्रतिपादयन्ति । न च घटः पटो न इति व्यवहारानुपपत्त्या भेदः (अर्थापत्तिप्रमाणेन ) सिद्ध्यतीति वाच्यम्, भ्रान्तिसिद्धत्वात् तद्व्यवहारस्य । किञ्च घटपटयोः भेदेन घटो न पट इति व्यवहारः, तादृशव्यवहारप्रयुक्तो घटपटभेद इति अन्योन्याश्रयः । न च घटे पट धर्मानुपलब्ध्या पटभेदः घटेऽनुपलब्धिप्रमाणेन सिद्ध्यतीति [[42]] [[40]]
। वाच्यम्, अभावं प्रत्येवानुपलब्धेः प्रमाणत्वात् भेदस्य भावधर्मत्वेना- भावत्वाभावात् । न चाभावस्यापि भेदस्य भावधर्मत्वे न दोष इति वाच्यम् । भागस्य हि अभावो धर्म इति व्याहतम् । न च तोयस्य दाहकत्वाभावरूपोऽभावः धर्म इति प्रसिद्धमेवेति वाच्यम् । जले दाहनिवारकत्वस्यैव सत्त्वात् । दाहनिवारकत्वं हि भाव एव । । एवं घटो नष्ट इति व्यवहारविषयः नाशोऽपि चूर्णत्वापत्तिरूपः भावपदार्थ एव । सर्वस्यापि कार्यजातस्य दृश्यमानो नाशरूपो विकारः स्वकारणरूपेणावस्थानमिति भावरूप एव । अत एव अस्तित्वादयः षडपि भावविकारा एव। किञ्च भेदस्याभावत्वेऽपि न प्रमाणेन सिद्धिः, घटो न पटो भवतीत्यन्योन्याभावस्य घटपटभेदज्ञानप्रयुक्तत्वेन भेदस्यैवान्योन्याभावत्वे आत्माश्रयात्। भेदस्यान्योन्या भावादति- रिक्तत्वेऽन्योन्याश्रयः । घटो न पट इति अन्योन्याभावस्य सिद्धौ तदधीना भेदसिद्धिः, तयोर्भेदे सिद्धे घटो न पट इति अन्योन्याभावप्रतीतिरिति । तस्मात् भेदः प्रमाणेन दुर्निरूपः ।
सिद्धान्तः
अयमत्र सिद्धान्तः- श्रीभाष्यकारैः गोत्वादिरेण भेद इति सिद्धान्तितम् । अयं भेदः प्रत्यक्षादिप्रमाणेन निरूपयितुं न शक्यत इति पूर्वपक्षः । न च शब्दादिषु अनन्तर्भूतं भेदं बहिरिन्द्रियाणि न ग्रहीतुं प्रभवन्ति इति वाच्यम्, [[43]]
गोत्वादीनामेव भेदत्वात् तेषां च बर्हिरिन्द्रियेण ग्रहीतुं शक्यत्वाच्च दोषाभावात् । अत एव भेदः मानसप्रत्यक्षस्यापि विषयः । अत एव घटः पटाद्भिन्नः नामाकारभेदात् कुड्यवत् इत्यनुमानेन भेदो न सिद्धयेदिति प्रश्नो न युक्तः, तादृशानुमानस्य भेदसाधकत्वेनानुक्तत्वात्। शब्दोऽपि भेदसाधकं, “पृथगात्मानं प्रेरितारं च मत्त्वा ” 84 इत्यादेः श्रुतिवाक्यस्य सत्त्वात् । एवमेव घटो न पट इति व्यवहारानुपपत्या भेदः सिद्ध्यत्येव किञ्च भेदस्य भावधर्मत्वेनाभावत्वं न सम्भवतीति कथनमपि न युक्तम् । अभावस्य भावधर्म दोषाभावात् । यदुक्तं नाशस्य भावरूपत्वं तदपीष्टमेव । न च तथापि घटो न पटो भवतीत्यान्योन्याभावस्य घटपटभेदज्ञानप्रयुक्तत्वेन भेदस्यैवान्यो- न्याभावत्वे आत्माश्रय इति वाच्यम्, ज्ञानविषयीभूतभेदस्य अन्योन्याभावस्य चैकत्वेऽपि नात्माश्रयात् । भेदस्तु घटत्वादि रूप एव, स च पूर्वमेव सिद्ध एव । घटः पट न भवतीति व्यवहार एव प्रतियोगि अनुयोगिज्ञानसापेक्षः। न हि घटपटभेदज्ञानेन भेदः सिद्ध्यति, घटज्ञानेन घटः सिद्ध्यतीति वत् तथाकथनस्यायुक्तत्वात्। अत एव भेदस्यान्योन्याभावस्य च परस्परं भिन्नत्वे अन्योन्याश्रय इत्यपि प्रत्युक्तम् । भेदज्ञानेन भेदस्य सिद्धत्वाभावात् । अयं सारः - घटत्वादिरेव भेदः, घट इति ज्ञाने विषयो भवति । परन्तु घटः, न पट इति व्यवहारे पटस्य प्रतियोगिनः ज्ञानमपेक्षितम् । एवं च घटः न पट इति ज्ञानं न [[44]] भेदसाधकं घटत्वादेर्भेदस्य पूर्णमेव सिद्धत्वात्। तस्मात् भेदः प्रमाणेन सुनिरूप एव ।