श्रीभाष्योक्त-निर्विकल्पक-स्वरूपविचारः श्रीभाष्ये निर्विकल्पकमपि ज्ञानं सविशेषविषयकमेण, निर्विकल्पकमेकजातीयद्रव्येषु प्रथमपिण्डग्रहणम्, सविकल्पकं तु द्वितीयादिपिण्डग्रहणम् इति कथितम् - तदयुक्तम् । प्रथमपिण्डग्रहणवत् द्वितीयादिगोपिण्डग्रहणस्यापि खण्डोऽयं शुक्लोऽयं कृष्णो गौरिति नामजात्यादिविकल्पसहितत्वेन प्रथममेव निर्विकल्पकम्, द्वितीयादिकं सविकल्पकमिति वचनस्यायुक्तत्वात् । यत्र ज्ञाने विकल्पो विषयो भवति तत् सविकल्पकम्, तदन्यत् निर्विकल्पकम् इति शब्दशक्त्यैवन सिद्धत्वात् । विकल्पश्र्ा नामजात्यादिरूपो भेद इति च । अतः एकजातीयद्रव्येषु प्रथमपिण्डग्रहणस्यापि खण्डोऽयमित्याकारकत्वे तस्यापि सविकल्पकत्वापत्त्या तस्य निर्विकल्पकत्वमिति श्रीभाष्योक्तमयुक्तमेव । यदुक्तं श्रुतप्रकाशिकायां संस्कारसचिवं ज्ञानं सविकल्पकम्, तदसचिवं तु निर्विकल्पकमिति तदसमीचीनम् - ज्ञानस्य संस्कारसहकृतत्वे स्मृतित्वस्य, प्रत्यभिज्ञात्वस्य वा प्रसङ्गात् । [[39]]
सिद्धान्तः
अयमत्र सिद्धान्तः - श्रीभाष्ये निर्विकल्पकमपि ज्ञानं सविशेषविषयकमेवेति निरूपितम् । ननु निर्विकल्पकमेकजातीयद्रव्येषु प्रथमपिण्डग्रहणम्, सविकल्पकं तु द्वितीयादिपिण्डग्रहणम् इति यत् भाष्ये कथितम् - तन्न युक्तम् । प्रथमपिण्डग्रहणवत् द्वितीयादिगोपिण्डग्रहणस्यापि खण्डोऽयं शुक्लोऽयं, कृष्णो गौरिति नामजात्यादिविकल्पसहितत्वेन प्रथममेव निर्विकल्पकम्, द्वितीयादिकं सविकल्पकमिति वचनस्या- युक्तत्वात् इति चेन्न, प्रथमत्वद्वितीयत्वादिकमुपलक्षणमेव । खण्डोय- मित्यादि ज्ञानं निर्विकल्पकमेण । यस्मिन् प्रत्यक्षे धर्मे अनुवृत्तत्वमपि भासते, तत्प्रत्यक्षं भवति सविकल्पकम् । तस्याकारः अयमपि गौः अयमपि शुक्लः इत्येव । अतोऽनुवृत्तत्वस्याग्रहणे द्वितीयादिग्रहणमपि निर्विकल्पकमेण । इदं च स्पष्टीकृतं व्याख्यानेषु । अनुवृत्तिश्च पूर्वव्यक्तिवृत्तित्वे सति एतद्व्यक्तिवृत्तित्वम् । तद्रहितं ननु विकल्पो नाम नामजात्यादिरूपो भेद एव, निर्विकल्पकम् भेदाविषयकमर्थात् निर्विशेषविषयकम्, एवं च निर्विकल्पकपदव्युत्पत्त्यैव निर्विशेषविषयकप्रत्यक्षं सिद्धमिति चेन्न, यद्यपि निर्विकल्पकशब्दस्य विकल्पसामान्याभाववानर्थः । तथापि निर्विशेषविषयकज्ञानस्यासम्भवात् प्रथममेव सविशेषविषयक- [[40]]
प्रत्यक्षस्यानुभवाच्च विकल्पविशेषस्य विवक्षितस्याभावेन प्राथमिक- प्रत्यक्ष निर्विकल्पकम् इति व्यवहारः । अतएव भाषितम् “ निर्विकल्पकं [[81]] केनचिद्विशेषेण वियुक्तस्य ग्रहणम्” इति। अल्पधने पुरुषे धनसामान्या- भागवद्बोधकद्ररिद्रशब्दप्रयोगवत् प्राथमिके “ अयं गौरिति ज्ञाने निर्विकल्पकत्वव्यवहार इष्ट एव । ननु श्रुतप्रकाशिकायां संस्कारसचिवं ज्ञानं सविकल्पकम्, तदसचिणं तु निर्विकल्पकम् इति कथितं लक्षणं न युक्तम् । ज्ञानस्य संस्कारसहकृतत्वे स्मृतित्वापत्तेः एवं प्रत्यभिज्ञात्वं वा आपद्यते इति चेन्न, संस्कारमात्रजन्यं हि स्मृतिः, सविकल्पकं तु इन्द्रियसन्निकर्षेण संस्कारसहकृतेन जायमानं कथं स्मृतिः स्यात् । प्रत्यभिज्ञायामपि सविकल्पकत्वमिष्टमेव । न च सर्वाणि सविकल्पकानि तर्हि प्रत्यभिज्ञाः स्युरिति वाच्यम्, प्रत्यभिज्ञायाः सविकल्पकत्वेऽपि विषयविशेष- विशिष्टविषयकसंस्कारस्य तत्र प्रयोजकत्वेन सविकल्पकसामान्यस्य प्रत्यभिज्ञात्वानापत्तेः । कालान्तरदेशान्तरविशिष्टाभेदविषयकः, कालान्तरदेशान्तरसम्बन्धविषयको वा संस्कारः यत्र प्रत्यक्षे सहकारी तद्भवति प्रत्यक्षं प्रत्यभिज्ञा । यत्र विशेषणगतानुवृत्तिविषयकसंस्कारः प्रत्यक्षे सहकारी, तद्भवति प्रत्यभिज्ञेतरसविकल्पकम् । अतः भाष्योक्तं न किञ्चिदपि अनुपपन्नम्। अत्र वेदान्तिभिः प्रतिपादिते निर्विकल्पक स्वरूपे युक्तयः सर्वाः न्यायपरिशुद्ध्यादौ द्रष्टव्याः । तार्किकोक्तं गौरिति [[41]] [[82]]
विशिष्टबुद्धिः विशेषणज्ञानजन्या विशिष्टबुद्धित्वादित्यनुमानं भिन्नसामग्रीवेद्यविशेषणकत्वरूपापोपाधिग्रस्तम् इत्यादिकं तत्र तत्रानुसन्धेयम्।