०५ ब्रह्मणो निर्विशेषत्वविचारः

ब्रह्म निर्विशेषं न भवतीति प्रतिपादनावसरे भाष्ये निर्विशेषं वस्तु नास्त्येवेति निरूपितम् । तत्र पूर्वपक्षः- किं निर्विशेषस्य वस्तुनः सत्त्वे निर्विशेषं वस्तु नास्ति इति निषिध्यते, उत तस्यासत्त्वे ? [[30]]

कोटिद्वयमपि न सम्यक् । निर्विशेषस्य वस्तुनः सत्त्वासत्त्वयोः तन्निषेधायोगात्। भ्रान्तिसिद्धस्य निर्विशेषत्वस्य निषेधः क्रियते इति कथनमपि न युक्तम्, द्वैतं हि भ्रान्तिसिद्धम्, न निर्विशेषत्वमिति, कथं तस्य निषेधः कर्तुं शक्यते । वेदान्ताः हि द्वैतं भ्रान्तिसिद्धं, अद्वैतं च सत्यं प्रतिपादयन्तीति स्पष्टम् । किश्च विशेषः सविशेषे वस्तुनि वर्तते, उत निर्विशेषे ? निर्विशेषे वस्तुनि विशेषाभ्युपगमः व्याघातादेव न सम्भवति । सविशेषे ब्रह्मणि विशेषो वर्तते चेत् । तत्र विकल्पः- सविशेष इत्यत्र प्रतीयमानविशेषस्य ब्रह्मणि वर्तमान विशेषस्य चाभेदे आत्माश्रयः। भेदे तु स आधार- विशेषणभूतः विशेषोऽपि सविशेषे ब्रह्मणि वर्तत इत्युपेयम् । एवं रीत्या अनवस्था भवति । एवं नित्यत्वादयो विशेषाः सविशेषा वा निर्विशेषा वा । निविर्शेषाश्चेत् निर्विशेषवस्तुसिद्धिरपरिहार्या । तेषां सविशेषत्वे, तद्वत् तद्गतविशेषाणामपि सविशेषत्वमितिरीत्यानवस्था। नित्यत्वादिगत- विशेषाणां निर्विशेषत्वे निर्विशेषवस्तुस्वीकार इति दोषः भवताम् । यदुक्तं श्रुतप्रकाशिकायां " धर्मेण धर्मी सविशेषः, धर्मिणा च धर्मः सविशेषः कस्यचित् धर्मभूतं धर्मिभूतं वा यन्न भवति तन्न प्रामाणिकम् इति तदप्ययुक्तम्-विकल्पासहत्वात्। किं धर्मो धर्मिणि वर्तमानः सन् स्वस्य धर्मिणो वा सविशेषत्वं सम्पादयति, उताधर्मिणि ? नान्त्यः [[31]]

व्याघातात्। धर्मिणि वर्तमानः सन् स्वस्य धर्मिणो वा सविशेषत्वसाधक इति पक्षे " धर्मिणि” इत्यत्र यो धर्मः भासते, तस्य प्रथमान्तधर्म- पदवाच्यादभेदे आत्माश्रयः । भेदे पूर्णगदनवस्था । अतः श्रुत्यादिप्रमाण- सिद्धत्वात् युक्तियुक्तत्वाच्च ब्रह्मणो निविर्शेषत्वं स्वीकार्यमेव । किञ्च प्रत्यक्षादिप्रमाणानां सविशेषविषयत्वात् निविर्शेषवस्तुनि किमपि प्रमाणं नास्तीति भाष्ये कथितमपि न युक्तम्, प्रत्यक्षादीनां प्रमाणानां निर्विशेषे सम्भवात् । तथाहि - सुषुप्त्यादिषु कस्यचिदपि विशेषस्याग्रहणात् निर्विशेषविषयकं प्रत्यक्षं तदानीं स्वीकर्तव्यमेव न च सुषुप्त्यादौ किमपि ज्ञानमेव नास्ति, कुतः तद्विशेषः प्रत्यक्षमिति वाच्यम् । सुप्तोत्थितस्य " न किञ्चिदनेदिषम्” इति स्मरणेन तद्धेतोः निर्विशेषप्रत्यक्षस्यानुमानात् । ब्रह्म निर्विशेषं सुषुप्त्यादिषु ब्रह्मणि कस्यापि विशेषस्यादर्शनात्। यन्नैवं तन्नैवं यथा घटादि, इत्यनुमानमपि निर्विशेषे प्रमाणम्। एवं निर्विशेषं वस्तु प्रतिपादयितुं शब्दोऽपि समर्थ एव । न च ब्रह्म न निर्विशेषं नित्यत्वादिविशेषवत्त्वात् घटवत् इत्यनुमानेन ब्रह्मनिर्विशेषत्वानुमानं प्रतिरोधग्रस्तमिति वाच्यम् । हेतोः सपक्षे घटादौ वृतित्वाभावेन दृष्टान्तासिद्धेः ।

सिद्धान्तः

अयमत्र सिद्धान्तः - श्रीभाष्ये निर्विशेषं वस्त्वेव नास्तीति कथितम्। अत्र पूर्णपक्षः कृतः तथाहि - निर्विशेषस्य वस्तुनः सत्त्वेऽसत्त्वे च तस्य निषेधः कर्तुं [[32]]

न शक्यते । भ्रान्तिसिद्धस्य निर्विशेषत्वस्य निषेध इत्यपि न, द्वैतस्य हि भ्रान्तिसिद्धत्वम्, न तु निर्विशेषत्वस्येति । अत्र समाधानं श्रीभाष्यानुसारिणाम्। निर्विशेषं वस्तु नास्त्येव । द्वैतं भ्रान्तिसिद्धम् इति तु न, द्वैतस्य वेदान्तैः प्रत्यक्षादिप्रमाणेन च सिद्धत्वात् । अद्वैतश्रुतीनां च वास्तविकभेदनिरासकत्वाभावस्य भाष्येऽसकृ- दुक्तत्वाच्च । अत्र विषये वेदान्तदेशिकैरेवं भणितम्” । तथाहि- ब्रह्मणो निर्विशेषत्वमिति धर्मोऽस्ति वा न वा । द्विधापि सविशेषत्वं तद्योगतदयोगजम् ॥ त्वद्वाक्याद्भ्रान्तिसिद्धं तल्लक्षणावृत्त्यनूदितम् । निषेधामोऽभिधाशक्तिः नास्तीति हि निषिध्यते ॥ निर्विशेषा पुरीत्युक्तिःयथैकत्र न तिष्ठति । तथा सर्वप्रयोगश्च विशेषे पर्यवस्यति ॥ इति न्यायसिद्धाञ्जनश्लोकाः । अयं भागः - ब्रह्मणि निर्विशेषत्वमिति धर्मोऽस्ति चेत् ब्रह्मणः सधर्मकत्वं स्यात् । यदि ब्रह्मणः निर्विंशेषत्वमिति धर्मो नास्ति तर्हि तस्य सविशेषत्वं प्रसज्यते। ननु निर्विशेषत्वं निषेधतः पुरुषस्य निर्विशेषत्वप्रमितिरस्ति वा नवा? आद्ये निर्विशेषत्वं सिद्धमेव । द्वितीये निर्विशेषत्वप्रमितेरभावे कथं तदभावरूपस्य तन्निषेधस्य प्रमितिः ? इति चेन्न, निषेधज्ञानस्य हि [[33]]

प्रतियोगिज्ञानसापेक्षत्वमेव न तु प्रतियोगिप्रमितिसापेक्षत्वम्। गगनारविन्दं नास्तीति ज्ञानस्य गगनेऽरविन्दाभावविषयकत्वमिति तार्किकवत् न स्वीक्रियते इत्यन्यदेतत् । तथैव “निर्विशेषम् ” इति वाक्यात् भ्रान्तिसिद्धं लक्षणावृत्त्या अनूदितं निर्विशेषं निषिध्यते। अत्र व्याख्यानम्”- यदि व्यधिकरणधर्मावच्छिन्नाभावः स्वीक्रियते, तदा निर्विशेषं नास्तीति वाक्यात् विशेषाभावावच्छिन्नाभागः प्रतीयेत। तत्र अभावनिष्ठायां प्रतियोगितावच्छेदकतायां विशेषत्वावच्छिन्नं स्वप्रतियोगितानिरूपकत्वसम्बन्धेनावच्छेदकं विशेषाभावावच्छिन्ना- भावनिरूपितविशेषाभाववन्निष्ठप्रतियोगितायां विशेषाभावोऽ- वच्छेदकः, तदभावनिष्ठावच्छेदकतायां विशेषत्वावच्छिन्नस्य स्वनिष्ठ- पतियोगितानिरूपकत्वसम्बन्धेन व्यधिकरणत्यावच्छेदकत्वम्। यधिकरणधर्मावच्छिन्नाभागस्याप्रसिद्धत्वे व्यधिकरणधर्मावच्छिन्ना- गच्छेदकताकप्रतियोगिताकात्यन्ताभावस्याप्रामाणिकत्वे वा निर्विशेषं नास्तीति वाक्यात् विशेषत्वम् अभावप्रतियोगितावच्छेदकं न भवतीत्येव बोध्यते । उभयथापि निर्विशेषं नास्तीति वाक्यात् विवक्षितार्थस्य बोधे न काचिदनुपपत्तिः । लक्षणामूलकं भ्रान्तिज्ञानं निर्विशेषमितिवाक्याधीनं प्रसिद्धम् । वयं तु विशेषत्वावच्छिन्न प्रतियोगिताकत्वप्रकारका- भावविशेष्यकज्ञानं प्रमितिर्नभवतीति ब्रूमः । “निर्विशेषा पुरी” इति श्लोकार्थस्तु स्पष्टः । 34श्रीभाप्यभावप्रकाशः ननु तथापि विशेषः सविशेषे वस्तुनि वर्तते, उत निर्विशेषे इति विकल्पः, निर्विशेषे विशेषो न भवत्येव । सविशेषे विशेषश्चेत् आधारतावच्छेदकस्याधेयस्य चाभेदे आत्माश्रयः, तयोर्भेदे अनवस्था इति चेन्न, विशेषः निर्विशेषे नास्ति, विशेषविशिष्टेऽपि नास्ति, किन्तु तदुपलक्षिते तत् वर्तत इत्येव स्वीकुर्मः । तथाहि - यदि विशेषः स्वविशिष्टवृत्तिः स्यात् तदा स्ववृत्तिः स्यात् इत्यपि अत्राधिकतया प्रष्टुं शक्यते । समाधानं तु इदमेव विशेषस्य विशेषोपलक्षितवृतित्वमेव स्वीक्रियत इति दोषाभावः । न च स्वस्य स्वोपलक्षितवृत्तित्वे स्ववृत्तित्वं स्यादिति आपादयितुं शक्यते । आपाद्यस्य स्ववृत्तित्वस्यानिष्टत्वेऽपि आपाद्यापादकयोः स्ववृत्तित्व स्वोपलक्षितवृत्तित्वयोः व्याप्तिर्नास्ति । अतः विशेषस्य तदुपलक्षिते ब्रह्मणि सत्त्वस्वीकारे न व्याघातः, नापि आत्माश्रयानवस्थे । ननु तथापि नित्यत्वादयः विशेषाः संविशेषा वा न वा? ते यदि निर्विशेषाः तर्हि निर्विशेषं वस्तु प्रसिद्ध्यत्येवेति श्रीभाष्यविरोध एन । तेषां सविशेषत्वे तद्गतविशेषाणामपि प्रमेयत्वादेन सविशेषत्वप्रसक्तौ अनवस्थेति चेन्न श्रुतप्रकाशिकायां 74 समाधानस्योक्तत्वात् । धर्मेण धर्मी सविशेषः, धर्मिणा च धर्मोहि सविशेषः इति ह्युक्तमेव । तथाहि - धर्मः कुत्रचित् भवति न वा, कुत्रचित् भवति चेत् तद्वस्तुसम्बन्धित्वरूपो विशेषः तत्र भवत्येव । [[35]]

यदि धर्मः कुत्रापि न भवति, तस्य विशेष इति व्यवहार्यत्वमेव न भवति । किञ्चित्सम्बन्धित्वाभावे व्यावर्तकत्वाभावात् तस्य धर्मस्य विशेषरूपतैव न स्यात् । एवं च श्रुतप्रकाशिकोक्तं कथमसङ्गतं स्यात् ? एवं च यत्- पृष्टं धर्मिणि वर्तमानः सन् धर्मः धर्मिणः सविशेषत्वं साधयति वा इत्यादिकम्, तत् सर्वमस्थाने । गौः गोत्वेन सविशेषः । गोत्वं च आश्रयेण गोव्यक्तया सविशेषम् इति नियमस्य तार्किकादिभिरपि स्वीकृतत्वात्। धर्माणां सविशेषत्वं सम्यक् सर्वार्थसिद्धौं 75 प्रतिपादितम्। अतः निर्विशेषं किमपि वस्तु नास्त्येव । तथाहि - केचित् धर्माः सधर्मका अतो न दोषः । यत्र अनवस्थाभयात् धर्मान्तरं नेष्यते, तत्र निमित्तान्तरनिरपेक्षतया तज्ज्ञानं व्यवहारका भगतः । यथा गोज्ञानव्यवहारयोः निमित्तं गोत्वं, तथा गोत्वधीव्यवहारयोः न किमपि निमित्तमपेक्षितम्। स्वपरनिर्वाहकत्वात् गोत्वस्यान्यापेक्षा नेत्युक्त्वा सर्वार्थसिद्धौ “समानाधिकरणस्येव व्यधिकरणस्यापि व्यावर्तकत्वात् इत्थम्भावत्वं सिद्ध्यति” इत्यादिग्रन्थेन " पटस्य शुक्लत्वम्" इत्यादिषु धर्मस्य शौक्लयादेः स्वेतरनिष्ठात् व्यावृत्तिधीहेतुः धर्मी भवति ( तस्य धर्मी विशेष इति मूलम् ) इति कथितम् । अनेन ज्ञायते यत् निर्विशेषं वस्तु किमपि नास्ति इति । गोत्वादिकमपि समानाधिकरणप्रयोगे गोरूपवस्तुसम्बन्धित्वरूपविशेषनिरपेक्षं स्वधीव्यवहारौ जनयति इति कथनं तस्य गोरूपवस्तुसम्बन्धित्वरूपविशेषनिरासको न । [[36]]

तत्त्वमुक्ताकलापे" विशेष ” पदं व्यावर्तकपरतया प्रयुक्तम् । विशेषपदस्य धर्ममात्रार्थकत्वं स्वीकृत्य पूर्वपक्षिणा प्रश्नः कर्तुं न शक्यते । अतः पूर्वपक्षेऽपि विशेषपदं व्यावर्तकपरमेव । किच धर्म इति पदं विशेषं | बोधयत्येव । न च प्रमेयत्वं धर्मः, तत् विशेषो न भवेदिति वाच्यम् । तुच्छत्वशङ्कावारकत्वेन तस्य धर्मस्यापि विशेषत्वात् । तस्मात् निर्विशेषमिति वस्तु न प्रसिद्धमिति भाष्योक्तिर्युक्तैव । ननु सुषुप्त्यादिषु कस्यापि वस्तुनोऽग्रहणात् निर्विशेषं वस्तु प्रसिद्धमेवेति चेन्न। सुषुप्त्यादिषु ज्ञानस्यैवाभावात् निर्विशेषविषयक- ज्ञानसत्वे प्रमाणाभावात् । " न किञ्चिदनेदिषम्” इति परामर्शो हि वेदनाभावविषयक एव, न तु वेदनविशेषविषयकः । सुषुप्त्यादौ ज्ञानं नास्तीत्यत्र किं प्रमाणं - इति न प्रष्टव्यम्, सुप्तोत्थितस्य स्मरणाभावात् । प्रायणनरकक्लेशादिप्रतिबन्धकाभावेऽपि योऽस्मरणनियमः सः, ज्ञाना- भावमेव साधयेदिति विवृतं” श्रुतप्रकाशिकायाम् । न च सुषुप्तौ निर्विशेषविषयकं ज्ञानं भवति, तत्र विषयस्य निर्विशेषत्वात् न स्मरणं सुप्तोत्थितस्य, न हि निर्विकल्पकं स्मरणजनकमिति तार्किकैरपि स्वीकृतमिति शङ्कयम्। सुषुप्तौ ज्ञानजनकस्येन्द्रियादिव्यापारस्याभावे ज्ञानमेव न जातम् इत्येव निश्चयात् । अनुभवविरुद्धनिर्विशेष- विषयकज्ञानस्य कल्पनासम्भवात् । अपि च ब्रह्म निर्विशेषम्, सुषुप्त्यादिषु ब्रह्मणि कस्यापि विशेषस्यादर्शनात् । यन्नैवं तन्नैनं यथा घटादि [[37]]

इत्यनुमानमपि निर्विशेषस्यानुभवविरुद्धत्वात् न युक्तम् । न च “ निर्विशेषम्” नाम विशेषसामान्याभाववत्, तथा च केवल- व्यतिरेक्यनुमाने विशेषसामान्याभावरूपसाध्यस्य प्रसिद्धिः नापेक्षितेति वाच्यम्। केवलव्यतिरेक्यनुमानस्य सिद्धान्तेऽनङ्गीकारात् । स्पष्टमिदं न्यायपरिशुद्धौ अनुमानप्रकरणे 78 । एवं शब्दोऽपि निर्विशेषं वस्तु प्रतिपादयितुं न समर्थः । न च वेदान्तवाक्यानि निर्विशेषं वस्तु प्रतिपादयन्त्येवेति वाच्यम् । ब्रह्मणः वाचामगोचरत्वस्य भवद्भिरुक्तत्वात् लक्षणया निर्विशेषं वस्तु बोध्यत इत्यपिन। शक्यसम्बन्धस्य वा स्वबोध्यसम्बन्धस्य वा लक्षणास्वरूपस्य शुद्धे ब्रह्मणि वक्तुमशक्यतया लाक्षणिकब्रह्मबोधस्य दुर्गचत्वात् । न च वाक्ये शक्तेरभावेऽपि " तत्त्वमसि ” इतिवाक्यजन्यबोध- विषयसम्बन्धस्य ब्रह्मणि सत्त्वात् तद्वाक्यात् लक्षणया ब्रह्म बोध्यत एवेति वाच्यम् । निर्विशेषे तस्मिन् सम्बन्धरूपस्य विशेषस्याभावात् । " शब्दस्य तु विशेषेण सविशेष एव वस्तुनि अभिधानसामर्थ्यम्, पदवाक्यरूपेण प्रवृत्तेः। प्रकृतिप्रत्यययोगेन हि पदत्वम् । प्रकृतिप्रत्यय- योरर्थभेदेन पदस्यैव विशिष्टार्थप्रतिपादनमवर्जनीयम् । पदभेदश्चार्थ- भेदनिबन्धनः । पदसङ्घातरूपस्य वाक्यस्यानेकार्थसंसर्ग- विशेषाभिधायित्वेन निर्विशेषवस्तु प्रतिपादनासामर्थ्यात् न निर्विशेषवस्तुनि शब्दः प्रमाणम् ” ” ” इति भाष्यं स्पष्टमेव शब्दस्य [[38]] [[79]]

निर्विशेषबोधकत्वं नास्तीति प्रतिपादयति । अत्र काचित् शङ्का पदभेदश्चार्थभेदनिबन्धन इति कथम्? वीप्सास्थले अर्थाभावात् इति ? समाधानम्-तत्रापि तात्पर्यभेदादर्थभेदोऽस्त्येवेति। अतः निर्विशेषवस्तु न प्रसिद्धम् इति भाष्यकारोक्तं युक्तमेव ।