“तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा अनाशकेने”‘“ति श्रुतेः वर्णाश्रमधर्माणां वेदनाङ्गत्वमिति भाष्यकाराशयः। तन्न युक्तम्। विविदिषन्तीतिश्रवणात् विविदिषासाधनत्वस्यैव तेषां कर्मणामवगमात्। न च असिना जिघांसतीत्यत्र असेः हननसाधनत्वमेव प्रतीयते, न हननेच्छासाधनत्वम्। तथैव प्रकृतेऽपीति वाच्यम्, असेः हननक्रियां प्रति हेतुत्वस्येव कर्मणां वेदनं प्रति हेतुत्वस्याक्लृप्तत्वात् । ज्ञानेन्द्रियाणि हि ज्ञानक्रियां प्रति हेतवः, न विहितकर्माणि । अतः कर्मणां विविदिषासाधनत्वमेव न तु वेदनसाधनत्वमिति ।
सिद्धान्तः
अयमत्र सिद्धान्तः- I विविदिषन्तीति श्रवणात् कर्मणां विविदिषासाधनत्वमेवा- वगम्यते, न तु विद्यासाधनत्वम् । अतः श्रीभाष्योक्तं न युक्तम् इति पूर्णपक्षो न युक्तः । असिना जिघांसतीत्यत्र’ हननसाधनत्वस्यैव प्रतीतेः, ‘हननेच्छासाधनत्वस्याप्रतीतेः। न चासेर्हननसाधनत्वं क्लप्तम्, प्रकृते इन्द्रियादीनामेव ज्ञानं प्रति हेतुत्वं क्लृप्तम्, न तु विहितकर्मणाम् अतः कर्मणां वेदनसाधनत्वं न युक्तिमदिति वाच्यम्, कर्मणां विविदिषासाध- नत्वस्यापि अक्लृप्तत्वात्। मनोर्नैमल्यद्वारा कर्मणां विविदिषाङ्गत्वमिति चेत्, न । कर्मणां ज्ञानविरोधिपुण्यपापनिरसनद्वारा वेदनोत्पत्तिं प्रति [[27]]
हेतुत्वमित्यस्य सुवचत्वात् । “यश्चोभयोः समो दोष ” इति न्यायागतार इति न च वाच्यम् । श्रुत्यैव कर्मणां विद्याङ्गत्वस्य सिद्धत्वात् । न च विविदिषासाधनत्वमपि श्रुत्यैव सिद्धम्, कि “असिना जिघांसतीति दृष्टान्तपर्यालोचनोत्तरं वेदनसाधनत्वं कर्मणां वक्तव्यम्, विविदिषा- साधनत्वं तु वेदानुवचनेन ब्राह्मणा विविदिषन्तीति श्रुत्यक्षरमात्रपर्या- लोचनया लभ्यत इति वाच्यम्। यज्ञादेः वेदनेच्छासाधनत्वेन विनियोगा- सम्भवात् । तथाहि सर्वेषां यागादौ प्रवृत्तिं प्रति यागादिनिष्ठेष्ट- साधनताज्ञानं कारणम्, तेन ज्ञानेन यागादौ उपाये इच्छा भवति, उपायेच्छां प्रति स्वर्गादिरूपफलेच्छा कारणम्। एवं प्रकृतेऽपि वेदनेच्छायां सत्यां वेदनोपायभूतवेदनेच्छाविषयिणी इच्छा जायत इति वक्तव्यं वेदनेच्छायां जातायामेव वेदनोपायभूतेच्छासिद्ध्यर्थानुष्ठानम् । तस्यां जातायां तदर्थानुष्ठानमपेक्षितं स्यादिति तदनुष्ठानविधिवैयर्थ्यम्। किञ्च वेदनेच्छासापेक्षा वेदनेच्छारूपा विविदिषेति आत्माश्रयः। वेदनेच्छया (फलेच्छया) विविदिषासिद्धयर्थं कर्मानुष्ठानम्, विविदिषार्थक- कर्मानुष्ठानात् वेदनेच्छासिद्धिरिति अन्योन्याश्रयः । अयं विषयः विस्तरेण श्रुतप्रकाशिकायां2 निरूपितः।“तमेतं वेदानुवचनेन - अनाशकेन ” इति श्रुत्या विविदिषां विद्यां गोद्दिश्य यज्ञाद्याश्रमधर्ममात्रविधानाच्च” इति वेदान्तसूत्रमुक्तावल्यां“ब्रह्मानन्दसरस्वत्यः। तत्पूर्वतनाः चित्सुखाचार्या’ अपि “विविदिषन्ति यज्ञेन दानेनेति तृतीयाश्रुत्या विधेयविद्या- [[28]]
करणत्वेन यज्ञादेः प्रतिपादनादिति । तस्मात् व्रीहिभिर्यजेत - इत्यादौ इन करणशरीरनिर्वर्तकतया च यज्ञादीनां करणत्वं यज्ञेनेति तृतीयाश्रुत्या निश्चीयत” इति स्पष्टमेण वेदनसाधनत्वं कर्मणाम् अभ्यदधुः । तत्त्वटीकायामेवं कथितम्” - तथाहि यज्ञादीनां विविदिषासाधनत्वं न स्वीकार्यम् । “विविदिषन्ति यज्ञेन दानेन ” इत्यस्य सन्निधौ” मनसैवानुदृष्टव्यम्”67 इति विशदं वेदनं विहितम् । तथैव " एतमेव विदित्वा मुनिर्भवति” इति वेदनमेव स्तुतम् । अतो विधिस्तुतिविषयस्य वेदनस्यैव अङ्गानि विधातव्यानि “ विविदिषन्ती” त्यत्र । न तु विधिस्तुत्यविषयस्य विविदिषायाः । एवं यथा यागेन स्वर्गं जिगमिणतीत्यत्र स्वर्गगमनसाधनत्वस्यैव यागे प्रतीतिः, न तु गमनेच्छासाधनत्वस्य, तथा प्रकृतेऽपि वेदनसाधनत्वमेव प्रतीयते इति । न च असिना जिघांसतिवाक्यं नात्र दृष्टान्तः, तत्र असेर्हननेच्छा- साधनत्वं बाधितं प्रकृते तथा इच्छासाधनत्वं कर्मणां न बाधितम् इति वाच्यम् । इच्छां प्रति ज्ञानस्यैव कारणत्वात् कर्मणां कारणत्वस्य बाधितत्वेन युक्तिविरुद्धत्वात् । किञ्चात्माश्रयादिकमपि प्रत्यादि । तथा चक्रकमपि भवति - ( फलभूत) वेदनेच्छागिरहे विविदिषा- कामनाया असिद्धिः, वेदनेच्छायाः सत्त्वे विविदिषारूपाया तस्याः सत्त्वात् तदर्थं कर्मानुष्ठानं व्यर्थम्। तथाच वेदनेच्छया विविदिषाकामना, तया यज्ञाद्यनुष्ठानं तेन विविदिषोत्पत्तिरिति चक्रकप्रसङ्गः । [[29]]
तत्त्वटीकायाम् अयमर्थ एवं श्लोकेन " सङ्गृहीतः साध्येच्छया विना कापि साधनेच्छा न सिद्ध्यति । अतो विविदिषार्थत्वायोगात् विद्यार्थता त्विह ॥ ( ३१५) न च यज्ञादीनां न वेदनाङ्गत्वं सम्भवति । ज्ञानाङ्गभूतशमादि- प्रत्यनीकस्वरूपत्वात् । शमादिः इन्द्रियोपरतिरूपः, यज्ञादिस्तु इन्द्रियव्यापाररूपः कथं तयोरेककार्ये उपकारकत्वम् इति वाच्यम् । वस्तुविरोधस्याभावात्। इन्द्रियव्यापारोपरमरूपः शमः अविहिताप्रति- षिद्धनिषिद्धविषयकः । कानिचन कर्माणि न श्रुतिविहितानि, नापि निषिद्धानि । तदुभयकर्मभ्यः इन्द्रियव्यापारनिवृत्तिः शमः । यज्ञादिश्च विहितविषये इन्द्रियव्यापाररूपः । एवं विषयभेदेन विरोधाभावात् यज्ञादीनां वेदनाङ्गत्वे न विरोधः । एवं कर्मणां वेदनाङ्गत्वे नित्यानित्यसंयोगगिरोधप्रसक्तिरिति शङ्कापि विनियोगपृथक्त्वेन नित्यत्वानित्यत्वयोःयज्ञादिकर्मसु सम्भवात् वार्यते । अतः श्रीभाष्य- कारोक्तं कर्मणां वेदनसाधनत्वं युक्तमेव । अधिकमन्यत्र विवेचितम्।