०३ प्रथमसूत्रार्थविचारः

[[66]] अथातो ब्रह्मजिज्ञासेति प्रथमं सूत्रम् । 34 “ अत्रायमथशब्द आनन्तर्ये भवतीति भाष्यकाराः। कर्मविचारानन्तर्यमथशब्दात् प्रतीयते। एतन्न युक्तम् इति शङ्का । तथाहि - किं कर्मज्ञानं विना ब्रह्मणो ज्ञातुमशक्यत्वात् ब्रह्मजिज्ञासुना कर्मज्ञानाय प्रथमं कर्ममीमांसा कर्तव्या इत्युच्यते? आहोस्वित् ब्रह्मजिज्ञासोः कर्मज्ञानाभावे सति ब्रह्मविचारे नास्ति अधिकार इत्युच्यते ? उत पूर्वमीमांसान्यायानां ब्रह्ममीमांसाशास्त्रे तत्र तत्र सञ्चारदर्शनात् तदवगमाय पूर्वं कर्मविचार इत्युच्यते ? अथवा [[15]]

कर्मभिः शुद्धचित्तस्यैव ब्रह्ममीमांसायामधिकार इति कर्मानुष्ठानार्थं प्रथमं कर्मणिचारः कार्यः इति कथ्यते ? । एषु चतुर्षु कल्पेषु एकोऽपि कल्पोन युज्यते । तथाहि- ब्रह्मणिज्ञानस्य हि न कर्मज्ञानं कारणम् । ज्योतिष्टोमादिकर्मज्ञानविधुराणामपि ब्रह्मज्ञानदर्शनात् । अतः प्रथमः कल्पो न युक्तः । कर्मज्ञानवतामेव हि ब्रह्मविचारेऽधिकार इति द्वितीयः पक्षोऽपि न युक्तः, उपनीतस्य द्विजस्यैव वेदाध्यायेऽधिकार इतिवत् कर्मज्ञानिनामेण ब्रह्मविद्यायामधिकार इत्यत्र प्रमाणाभावात् । कर्मज्ञान- विधुराणामपि ब्रह्मविद्यायां प्रवृत्तेर्दशनाच्च । पूर्वमीमांसान्यायानां तत्र तत्र सञ्चारदर्शनात् ब्रह्मविचारात् प्राक् कर्मविचारः कार्य इति उच्यते चेत् न्यायशास्त्रनिरूपितानां व्याप्त्यादिपदार्थानामेव ब्रह्मविचारे आवश्यकत्वेन ब्रह्मविद्यायाः पूर्वं न्यायशास्त्रमपि अवश्यमध्येयं स्यात् । न हि न्यायशास्त्राध्ययनं वेदान्तशास्त्रस्य पूर्ववृत्तं स्यात्, तच्छास्त्रज्ञान- रहितानामपि वेदान्ताध्ययनस्य दर्शनात् । अपि च वेदानां साङ्गानामध्ययनेन येषां ब्रह्मविषयकापातप्रतीतिर्जाता, त एव कर्मविचारजनितकर्मनिर्णयसहिता अधिकारिण इति वदद्भिः भवद्भिः न्यायशास्त्राध्ययनस्य पूर्णवृत्तत्वस्यानुक्तत्वात् इष्टापत्तिः कर्तुमशक्या । अतः तृतीयः कल्पोऽपि न युक्तः । कर्मभिः शुद्धचित्तानामेव ब्रह्मविद्यायामधिकार इति ब्रह्मविद्याहेतुभूतब्रह्मजिज्ञासाकारण- [[16]]

चित्तशुद्धयर्थं कर्मानुष्ठानं कार्यं तदर्थं कर्मनिर्णय आवश्यकः, तत्र कर्मणिचारः हेतुरिति ब्रह्मविद्यातः पूर्वं कर्मविचारः कार्य इति चतुर्थः पक्षोऽपि न युज्यते। अधीतस्वाध्यायेन पूर्वमीमांसाध्ययनशून्येनापि परोपदेशणशात् फलाभिसन्धिं विना कर्म कृतं चेत् चित्तशुद्धिः सम्भवेदिति अस्य क्रमस्यानावश्यकत्वात् । कर्मानुष्ठानस्य कर्मविचारहेतुकत्वं स्वीक्रियते चेदपि, येन केनापि अदृष्टणशेन जातब्रह्मज्ञानेच्छस्य पुरुषस्य वेदान्तशास्त्रे एव प्रवृत्तिरुचिता । न हि तस्य कर्म विचारतन्निर्णर्यादि- क्रमेण ब्रह्मजिज्ञासाप्राप्तिः, तं क्रमं विनैव ब्रह्मजिज्ञासाया लब्धत्वात्। अतः कर्म जिज्ञासुना कर्मविचारस्यावश्यकार्यत्वेऽपि, ब्रह्म जिज्ञासुना कर्मणिचारो न कार्यः । एवं च कर्मविचारस्य पूर्णवृत्तत्वं न युक्तम् । किश्च श्रीभाष्यश्रुतप्रकाशिकयोरनुपपत्तिश्च वर्तते । श्रुतप्रकाशि- काया” मथातःशब्दार्थविवरणे” यदुक्तम् “वेदान्तश्रवणात् पूर्वं शास्त्रान्तरश्रवणेन विना सम्पादयितुमशक्यत्वात् शास्त्रान्तराणा- मनवसरग्रस्तत्वाच्च शास्त्रान्तरसापेक्षाणां नित्यानित्यवस्तुविवेकादीनां पूर्ववृत्तत्वव्युदासः” इति, तन्न युक्तम् । अधीतसाङ्गसशिरस्कवेदस्य हि शास्त्रान्तरश्रवणमन्तरेण नित्यानित्यवस्तुविवेकादयः सम्भवन्त्येव । कथितं श्रीभाष्य एव “अधीतसाङ्गशिरस्कवेदस्याधिगताल्पास्थिर- फलके गलकर्मज्ञानतया सञ्जातमोक्षाभिलाषस्यानन्तस्थिर- फलब्रह्मजिज्ञासाह्यनन्तरभाविनी ” 36 इति । " तद्यथेह कर्मचितो लोकः [[17]]

क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते " 37 इति श्रुतेः कर्मणामलूपास्थिरफलकत्वम्, “न च पुनरावर्तत” 38 इति ब्रह्मज्ञानस्या- नन्ताक्षयफलकत्वं च ज्ञायते इति नित्यानित्यवस्तुविवेकः वेदाध्ययनेनैव सिद्धः । एवं “ शान्तो दान्तः “39 इति शमदमादेः श्रुतत्वात् तत्सम्पत्तिः शास्त्रान्तरश्रवणमन्तरेणापि भवति । एवं च शास्त्रान्तरश्रवणमन्तरेण नित्यानित्यवस्तुविवेकादिकं न भवतीति श्रुतप्रकाशिकोक्तं न युक्तम्। | यदुक्तं श्रुतप्रकाशिकायां “कर्मविचारानन्तरं ब्रह्मविचारस्य कर्तव्यत्वे कर्मणामल्पास्थिरफलत्वनिर्णय सहितानन्तास्थिर- फलापातप्रतीतिरित्ययं विशिष्ट हेतु 40 रिति तदपि चिन्तनीयमेव । कर्मविचारात् प्रागेण श्रुतितः कर्मफलस्य क्षयित्वं ज्ञातमेवेति उक्तत्वात्। कर्मविचारानन्तरं कर्म हि कार्यं, न ब्रह्मविचारः । यदि च कर्मविचारान्तरं ब्रह्मविचारं कृत्वा तन्निर्णयसहितेन कर्म कार्यमिति वाच्यम् । ब्रह्मज्ञानानन्तरं कर्मणोऽनपेक्षितत्वात् । [[41]] यदुक्तं श्रुतप्रकाशिकायां “घटनिष्पत्तेः कुलालादिवत् ब्रह्मविचारस्य कर्मणिचारः पूर्व भावित्वेन नियत"4” इति तदपि न युक्तम्। कुलालाद्यभावे घटानिष्पत्तिवत् कर्मविचाराभावे ब्रह्मविचाराभावासिद्धेः, ब्रह्मविचारं कृतवतापि कर्मकरणार्थं कर्मविचारस्य सुकरत्नेन ब्रह्मविचारस्यापि कर्मणिचारपूर्णभावित्वसिद्धेः। [[18]]

एवं सूत्रस्थस्यातः शब्दस्य वृत्तस्य हेतुभावोऽर्थ इति भाषितं श्रीभाष्ये । नेदं युक्तम्, कर्मविचारस्य ब्रह्मविचारं प्रति दण्डचक्रादेः घटं प्रतीव हेतुत्वासिद्धेः । अतः कर्मविचारगतं हेतुत्वं नातः शब्दार्थः । एवं “ब्रह्मजिज्ञासा” पदविवरणे इच्छाया इष्यमाणप्रधानत्वात् इष्यमाणं ज्ञानमिह विधीयत इति भाषितमपि न युक्तम् । इष्यमाणस्यैव विधेयत्वे इच्छार्थकसन्प्रयोगस्य व्यर्थत्वात् । विचारस्य रागप्राप्तत्व- सूचनार्थं सूत्रे सन्प्रयोग इति तु न युक्तम्, तथात्वे अप्राप्ते शास्त्रमर्थवदिति न्यायेन विचारविधायकशास्त्रस्य व्यर्थत्वापत्तेः । न च ब्रह्मज्ञानस्य प्रीतिरूपत्वेन इच्छाविषयत्वात् सन्प्रत्ययोपपत्तिरिति कथनमपि युक्तम्, विचारात्मकब्रह्मज्ञानस्य प्रीतिरूपत्वाभावात्, फलात्मकब्रह्म- ज्ञानस्याविधेयत्वाच्च । अतो भाष्योक्तं जिज्ञासापदविवरणं न युक्तम् ।

सिद्धान्तः

अगमत्र सिद्धान्तः- [[1]] अथातो ब्रह्मजिज्ञासेति प्रथमं सूत्रम् । ब्रह्मजिज्ञासा अथकर्तव्या अत इति प्रतिज्ञाहेतू ग्राह्यौ । ब्रह्मजिज्ञासा कर्मविचारजनित- कर्मनिर्णयविशिष्टब्रह्मविषयकापातप्रतीत्यानन्तर्यविशिष्टकर्तव्य- ताश्रयः, तादृशापातप्रतीतिविशिष्टत्वात् इति तदर्थः । तादृशप्रतीति- वैशिष्ट्यं च एकक्षणावच्छिन्नैकात्मवृत्तित्वसम्बन्धेन ब्रह्मजिज्ञासायां भवति । अत्र अथातः शब्दयोः सार्थक्यमित्यादिकं श्रुतप्रकाशिकायां [[19]]

विशदं वरीवर्ति। अत्र पूर्वपक्षे स्थिता अंशाः पूर्वग्रन्थानुसारेण समाधीयन्ते । कर्मविचारस्य कथं ब्रह्मविचारं प्रति हेतुत्वम्? पूर्णपक्षे चतुर्धास्मिन् विषये विकल्पःकृतः। कर्मविचारस्य ब्रह्मविचिचारयिषा- प्रतिबन्धकाभावसम्पादकतया उपयोग इति पूर्वमेवोक्तम्। “अशोधित- कर्मस्वरूपाः पुरुषाः कदाचित् आपातवाक्यार्थक्षोभितहृदयाः निःश्रेयसे ब्रह्मविचारफले कथश्चित् अनाश्वासं दध्युः” इति उत्तमूर्” स्वामिनः । एवं च ब्रह्मविचिचारयिषाप्रतिबन्धकीभूतकर्मविचिचारयिषानिवर्तकः कर्मविचार इति प्रतिबन्धकीभाव सम्पादकतया कर्मविचारः ब्रह्मविचारं प्रति हेतुः । किञ्च श्रुतिरेव “परीक्ष्य लोकान् कर्मचितानू" …. इत्यादिना तयोः पौर्वोपर्यं प्रदर्शयति । किश्च पाठक्रमादयः ये सङ्गतिविशेषाः श्रुतप्रकाशिकायामुक्ताः 47 तेऽपि अत्र ग्राह्याः कर्मविचारस्य ब्रह्म विचारस्य च नियतपौर्वापर्ये । कर्मज्ञानवतामेव ब्रह्मविचारेऽधिकार इति कल्पस्य निराकरणं न युज्यते। कर्मज्ञानविधुराणां ब्रह्मविचारासम्भवात् । न च उपनीतस्यैव वेदाध्यायेऽधिकार इतिवत् कर्मज्ञानिनामेव ब्रह्मविद्यायामधिकार इत्यत्र प्रमाणं नास्तीति वाच्यम्, कर्मविज्ञानविधुराणां ब्रह्मविद्याया असम्भवात् । भाष्ये बहुवारं कर्मकाण्डविचारितन्यायानां ज्ञानस्य [[20]]

ब्रह्मविद्यायामुपकारस्य दर्शितत्वात् । न च न्यायशास्त्रनिरूपितानां व्याप्त्यादिपदार्थानां ब्रह्मविचारे आवश्यकत्वेन ब्रह्मविद्यायाः पूर्वं न्यायशास्त्रमपि अवश्यमध्येयमिति स्यादिति वाच्यम्। व्याख्येयभूत- वेदस्यैकत्वेन यथा नियमेन पूर्वमीमांसाश्रवणं, तथा नियमेन न्यायशास्त्राश्रवणम् इति भेदसत्वात् । किञ्च सर्वेषामपि द्वादश- लक्षणार्थानां यथा वेदान्तश्रवणेऽपेक्षा, न तथा शास्त्रान्तराणाम् । किञ्च श्रुतिरेव “परीक्ष्य लोकान् कर्मचितान् 8… इत्यादिना तयोः पौर्वापर्यं प्रदर्शयति । ननु कर्मानुष्ठानस्य चित्तशुद्धिः फलम्, तथा शुद्धचित्तानां ब्रह्मविचारे अधिकार इति प्रथमतः कर्मविचार : कार्य इति कल्पो न युक्तः अधीतस्वाध्यायेन पूर्वमीमांसाध्ययनशून्येनापि परोपदेशवशात् फलाभिसन्धिं गिना कर्म कृतं चेत् चित्तशुद्धिः सम्भवेदिति अस्य क्रमस्यानावश्यकत्वात् इति चेन्न, कर्मानुष्ठानानन्तरं ब्रह्मविचार इति अस्माभिरनुक्तत्वात्। ननु “शास्त्रान्तरश्रवणसापेक्षत्वं नित्यानित्यवस्तुविवेकादीनां कथितं श्रुतप्रकाशिकायाम् “, तन्न युक्तम् - नित्यानित्यवस्तु- विवेकादीनामधीतसाङ्गसशिरस्कवेदस्य शास्त्रान्तरश्रवणमन्तरेणैव सम्भवात् इति चेन्न । “ इदं वस्तु नित्यम्, इदं वस्त्वनित्यम्” इति विवेकः वेदान्तग्रवणात् प्रागसिद्धः । वेदान्तशास्त्रे हि आत्मादेः नित्यत्वं [[21]]

गिगदादे श्रनित्यत्वं प्रतिपाद्यते । अतः वेदान्तश्रवणे सिद्धे नित्यानित्यवस्तुविवेकः । नित्यानित्यवस्तुविवेकेन वेदान्तश्रवणम् इत्यन्योन्याश्रयः। ननु शास्त्रान्तरश्रवणसापेक्षत्वं हि श्रुतप्रकाशिका - यामुक्तं तत् कथमिति चेन्न, यदि वेदान्तश्रवणेन नित्यानित्य- वस्तुविवेको न सम्पाद्यते, तदा साङ्ख्यादिशास्त्रेण स सम्पादनीय इति तात्पर्यात् । तथा च विपरीतविवेकापत्तिः । वियदादयः वेदान्तशास्त्रे हि अनित्याः प्रतीयन्ते, न तु वैशेषिकादिशास्त्रे । साङ्ख्यास्तु ब्रह्मणो वा तन्नित्यत्वस्य वा विषये किमपि न वदन्ति । किञ्च यदि नित्यानित्यवस्तुविवेकः हितोपदेशिपित्रादिवचनेनैव पूर्वं सिद्ध्यति, तदा वेदान्तश्रवणहानिः, न यदि पूर्वं सिद्ध्यति तदा नित्यानित्य- वस्तुविवेकस्य न वेदान्तश्रवणसाधनत्वमिति श्रुतप्रकाशिकाशयः । " न च वेदाध्ययनेनैव कर्मणामल्पास्थिरफलकत्वं, ब्रह्मज्ञानस्य चानन्ताक्षयफलकत्वं लब्धम्। तादृशलब्धिरेव नित्यानित्यवस्तुविवेकः, वेदे “अन्तवदेवास्य तद्भवति” 50 “ न च पुनरावर्तत 51 इति वाक्यद्वयं वर्तत एवेति वाच्यम् । वेदाध्ययनेनापाततः तथा प्रतीतावपि विवेकशब्दार्थस्य निर्णयस्यानुत्पत्तेः । स च निर्णयः वेदान्तश्रवणेन साङ्ख्यादिशास्त्रश्रवणेन वा भवति, प्रथमेन तु सम्भवन् विवेकः वेदान्तश्रवणहेतुर्नभवेत्। द्वितीयेन सम्भवति चेत् विपरीतो भवेदिति टीकाशयः । एवमेव “ शान्तो दान्त” 52 इति श्रुतेः शास्त्रान्तरश्रवण- [[22]]

मन्तरेणापि शमादिसाधनसम्पत् सिद्ध्यति इति पूर्वपक्षोऽपि न युक्तः, आपातप्रतीतेरनुपयोगात् । निर्णयरूपायाः प्रतीतेः वेदान्तश्रवण- सम्पाद्यत्वात् ततः प्रागसम्भवात् । अपिच वेदाध्ययनेन शमदमादेः वेदने विविदिषायां वा कश्चिदुपयोगोऽस्तीति ज्ञायेत, न पुनः शमदमादिकमेव सम्पद्येत। अतोऽस्मिन् विषयेऽपि टीकोक्तं युक्तमेव । ननु कर्मविचारात् प्रागेण वेदाध्ययनेन कर्मफलस्य क्षयित्वं ज्ञातमिति कर्मविचारजन्यकर्माल्पास्थिरफलकत्वनिर्णयसहिता- नन्तस्थिरफलापातप्रतीतिः विशिष्ट हेतुरिति टीकावचनं कथं युक्तम् इति वाच्यम् । साङ्गवेदाध्ययनेनापाततः कर्मणः क्षणिफलकत्वादेः ज्ञातत्वेऽपि तन्निर्णयस्य कर्ममीमांसापेक्षत्वात्। अत एव श्रुतिः “परीक्ष्य लोकान् कर्मचितान्” –नास्त्यकृतः कृतेनेति । न च कर्मविचारानन्तरं कर्म एव हि कार्यं, न ब्रह्मविचारः । यदि च कर्मविचारानन्तरं ब्रह्मविचार एव कार्य इत्युच्यते, तदा कर्मविचारविधिः व्यर्थः स्यात् इति वाच्यम् । कर्मविचारस्य रागप्राप्तत्वेन विधेयत्वाभावात् । “कृत्स्नापातप्रतीतौ किमिति कृतधियः कृत्स्नचिन्तां न कुर्युरितिसारावल्युक्तरीत्या 4 एकप्रबन्धस्य वेदस्याध्ययनेनापातार्थप्रतीतौ सत्यां कर्मभागभा विचार्यते, ब्रह्मभागो न विचार्यत इति कथम् ? । प्रबलादृष्टप्रतिबन्धक- गशात् केचित् ब्रह्मणिचारमकृत्यैव फलाभिसन्धिना सह काम्यं कर्मानुतिष्ठन्तु नाम, तथापि कर्मविचारब्रह्मविचारयोः नियतक्रमे न [[23]]

हानिः । तादृशाः पुरुषाः पूर्वमीमांसाया अध्ययनमपि मध्ये त्यक्त्वा कर्मणि प्रवर्तमाना दृश्यन्ते । नापि ब्रह्मज्ञानानन्तरं कर्मानपेक्षितमिति पूर्वपक्षो युक्तः । अनभिसंहितफलेनानुष्ठितेन धर्मेण पापं गच्छति, तदा ब्रह्मज्ञानस्योपासनात्मकस्य निष्पत्तिरिति कर्मणां मोक्षोपायभूतोपासन- निष्पत्तौ सन्निपत्योपकारकतयाङ्गत्वं वदतां पक्षे ब्रह्मज्ञानानन्तरमवश्यं कर्मापेक्षा भवत्येव । ननु “ घटनिष्पत्तेः कुलालादिवत् ब्रह्मविचारस्य कर्मविचारः पूर्ण भावित्वेन नियत” इति यदुक्तं टीकायां तन्न युक्तम् । तयोः कार्यकारणभावाभावादिति चेन्न, ब्रह्मविचारं प्रति कर्मविचारस्य प्रतिबन्धकाभावसम्पादकतया प्रयोजकत्वस्य पूर्णमेवोक्तत्वात् । अत एव यस्य येनार्थसम्बन्धः दूरस्थस्यापि तस्य सः । अर्थतो ह्यसमर्थानामानन्तर्यमकारणम्॥ इति न्यायेन पूर्वापरीभावे सत्यपि “हृदयस्याग्रेऽवद्यति अथजिह्वाया”57 इत्यादौ हृदयाग्राणदानादीनां यथा कार्यकारणभावो नास्ति, तथा प्रकृते हेतुहेतुमद्भावो नास्तीति शङ्का निराकृता । कि पूर्वोक्तसङ्गतिविशेषाणां परिशीलने कर्मविचारस्य अवश्यं पूर्ववृत्तत्वमिति निर्धायत एव। अतः हेतुहेतुमद्भावाभावेऽपि न क्षतिः, वस्तुतः हेतुहेतुमद्भावः सूत्रकारैरेन दर्शित इति टीकोक्तं युक्तमेव । [[24]] ननु यदि कर्मणिचारः ब्रह्मविचारहेतुः तर्हि लोके बहवः कर्ममीमांसाध्ययनं विनैव ब्रह्मविचारं कुर्वन्तो दृश्यन्ते इति व्यभिचार इति वाच्यम्। देशिकचरणैरत्र समाधानस्याभिहितत्वात् ॥ प्राप्ते तुर्ये युगेऽस्मिन् परिमितबलधीप्राणतद्विघ्नदृष्ट्या कालक्षेपाक्षमत्वात् कतिचन कृतिनः शीघ्रमन्ते रमन्ते इति तत्सूक्तिः 58। अयमाशयः- ज्ञानशक्त्यादीना मस्मिन् युगे न्यूनत्वात् पूर्वमीमांसाश्रवणेन विलम्बो माभूत्, कदाचित् एतदध्ययनानन्तरं वेदान्तश्रवणं न सम्पद्येत मध्ये विघ्नो भवेदिति धिया शीघ्रमेण वेदान्तश्रवणं कुर्वन्ति इति तदर्थः । पूर्वोक्तकार्यकारण- भावव्यभिचारशङ्कायाः कथं वारणम् इति प्रश्नस्येदमुत्तरम् । इयं हि शङ्का कर्मणिचाररूपहेत्वभावेऽपि ब्रह्मविचाररूपफलसिद्धिरिति व्यतिरेकव्यभिचार इति । इदं समाधानम् । न हि ते कर्मविचारमकृत्यैन ब्रह्मविचारं कुर्वन्ति । किन्तु ब्रह्मविचारस्य अत्यन्तोपयोगिनोऽंशान- धीत्यैव ब्रह्मविचारं कुर्वन्ति । अथवा मेधावित्वात् ब्रह्ममीमांसा- श्रवणकाले एव येषां पूर्वमीमांसान्यायादीनामपेक्षा, तान् गुरुमुखादधीयत इति । न च तथा सति कथं ब्रह्मविचिचार- यिणाप्रतिबन्धकाभूतायाः कर्मविचिचारयिषायाः कर्मविचार - मन्तरेणापगम इति वाच्यम्, सङ्क्षिप्ततया पूर्वं कर्मविषयक विचारस्य करणेनैव तत्सम्पत्तेरुपगमात् । न च तथा सति सर्वेऽपि तथैव कुर्युः किं पूर्णस्य पूर्णकाण्डस्य विचारेण इति वाच्यम् । रागात् स्वरसतः [[25]]

प्रवृत्तेः निवारयितुमशक्यत्वात् । फलतो वैषम्यस्य स्वीकाराच्च । न हि सम्यग् कर्मविचारपूर्वकं ब्रह्मविचारकाणां, अन्येषां चैकरूपं फलं युक्तिसिद्धम् । अतो न व्यभिचारः । न चायं सिद्धान्तोऽर्धजरतीय- न्यायमनुसरति, केचित् कर्मविचारं कृत्वैव ब्रह्मविचारकुर्वन्ति केचित्तु नेति इति वाच्यम्, औचित्यस्थापितत्वात् अस्य क्रमस्य । ननु तथापि " इच्छाया इष्यमाणप्रधानत्वात् इष्यमाणं ज्ञानमिह विधीयत इति भाष्यं” चिन्तनीयम्, यदि इष्यमाणमेव विधेयम् । तर्हि ‘केमिति सन्प्रयोगः कृतः सूत्रकृतेति चेन्न, नात्र ज्ञानस्य अप्राप्तप्राप्तिरूपं गेधानम्, किन्तु रागतः प्राप्तत्वरूपं तत् । ज्ञानशब्देन विचाररूपं ज्ञानमुच्यते । रागतः प्राप्तस्य विचाररूपस्य ज्ञानस्यानारम्भणीयतायां शङ्कितायाम् आरम्भणीयत्व ज्ञापनमज्ञातज्ञापनमिह विधिरिति श्रुतप्रकाशिका । प्रमितिरूपस्य ज्ञानस्य विधातुमशक्यत्वात् विचार एव विधीयते । तावता सन्प्रयोगः किमर्थ इति प्रश्नस्य किमुत्तरमिति चेन्न, विचारस्य रागप्राप्ततत्वसूचनायैव सूत्रकारैः तथा निर्देशात् । श्रुतावपि " निदिध्यासितव्य” इत्यत्र दर्शनसमानाकारस्योपासनस्य विधानेऽपि तदुपासनं प्रीतिकारितं भवेदिति प्रदर्शनार्थं सन्नन्तनिर्देशः कृतः । प्रीतिकारितत्वे हि भक्तिरूपता । सन्प्रयोगविषये विचारः श्रीभाष्यव्याख्यानादिषु द्रष्टव्यः । अतः श्रीभाष्योक्तं युक्तमेव । विचारस्य प्रीतिरूपत्वाभावेऽपि प्रीतिविषयत्वं विचारस्यास्त्येव । प्रीतिरिच्छा । अतः विचारस्य प्रीतिरूपत्वं नास्ति इति प्रश्नो न युक्तः । [[26]]