०२ पूर्वोत्तरमीमांसयोर् ऐकशास्त्र्यम्

मीमांसाशास्त्रम् “अथातो धर्मजिज्ञासे” " त्यारभ्य " अनावृत्तिः शब्दात् अनावृत्तिः शब्दादित्येवमन्तं सङ्गतिविशेषेण विशिष्टक्रमम्” इति श्रीभाष्यम् । अत्र प्राचीनवाक्यानि प्रमाणत्वेन भाष्ये प्रदर्शितानि । “विशिष्टक्रम” मितिभाष्यव्याख्यायां टीकायां पूर्वोत्तरमीमांसयोः पूर्वापरभावे सङ्गतिविशेषाः प्रादर्शिषत । तयोः शास्त्र्योः बहुभिः युक्तिभिः एकप्रबन्धत्वं, तत्र बाधकाभावश्च श्रीमद्वेदान्तदेशिकैः मीमांसा-

पादुकादिग्रन्थेषु’ निरूपिते । परन्तु ऐकशास्त्र्ये “पीनरुक्तयप्रभृति विहतिः सावधानैर्विभाव्या ” 4 इति श्रीदेशिकचरणैरभिहितत्वात् अस्माभिः सावधानं तदुपरि प्रसक्ताः शङ्काः निरसनीयाः । अस्मिन् विषये आक्षेपान् प्रथमं सङ्गृह्य प्रदर्शयामः । श्रीमद्भाष्यकारादिभिरुक्तानेव समाधिविशेषान् तदनु प्रतिपादयामः ।

पूर्वपक्ष

अयमत्र पूर्वपक्षः- तथाहि - अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येता चतुर्दश ॥ S इति विद्यास्थानपरिगणनायां मीमांसात्वेन पूर्वोत्तरमीमांस- योरेकशास्त्रत्वं लब्धम् इति वादो न युक्तः । पूर्वोत्तरमीमांसयोः अधिकारिविषयप्रयोजनभेद ेन शास्त्रभेदस्यावश्यकत्वात् । अथातो धर्मजिज्ञासेत्यारब्धस्य जैमिनीयस्य शास्त्रस्य यज्ञादिकर्मचिकीर्षुः स्वर्गादिफलकामी अधिकारी, दर्शपूर्णमासादिः कार्यभूतो धर्मः विषयः, अर्थज्ञानं, तद्द्वारा स्वर्गादिप्राप्तिर्वा फलम् भवति । अथातो ब्रह्मजिज्ञासेत्यारब्धस्य ब्रह्ममीमांसाशास्त्रस्य नित्यानित्यवस्तुविवेकादि साधनचतुष्टयसम्पन्नोऽधिकारी, अकार्यं सिद्धं ब्रह्म विषयः, ब्रह्मज्ञानं, तद्वारा मोक्षो वा फलम् । एवं च अधिकारि-विषय- प्रयोजनभेदेन तयोः शास्त्र्योः भिन्नत्वमेव। यदि मीमांसात्वेन तयोरेकशास्त्रत्वमुच्यते, तदा [[2]]

अङ्गत्वेन षण्णामङ्गानां कुतो नैकविद्यास्थानत्वम्? न च व्याख्येयैक्यात् मीमांसयोरेकशास्त्रत्वमिति शङ्कयम्, तथात्वे षष्णां वेदाङ्गानामपि अङ्गिनो वेदस्यैक्यात् एकत्वं स्यात् । । किश्च “पूर्वोत्तरमीमांसयोर्नास्ति अर्थविरोध” इति श्रुतप्रकाशि- कावचनमपि॰ न युक्तम्। कर्मैण फलप्रदम्, स्वर्ग एव परमपुरुषार्थः, मोक्षो नास्ति, ईश्वरो नास्ति, क्रियापर एव सर्वोऽपि वेदः इति निरूप्यते पूर्वमीमांसायाम्। ईश्वर एव फलप्रदः, मोक्ष एव परमपुरुषार्थः, वेदस्य पूर्वभाग एव क्रियापरः, उत्तरभागः सिद्धपर इति उत्तरमीमांसायां निरूप्यते । एवमादिबह्वर्थविरोधस्य दर्शनात् नास्ति अर्थविरोध इति श्रुतप्रकाशिकावचनं न युक्तम्। अतः पूर्वोत्तरमीमांसयोः विशिष्टैकार्था- प्रतिपादकत्वात् न भिन्नशास्त्रत्वम् । एकार्थश्च धर्मरूपः, स च सिद्धसाध्यभेदेन द्विविधः, साध्यधर्मस्य यागादेः पूर्वभागे, सिद्धधर्मस्य ब्रह्मणश्च उत्तरभागे प्रतिपादनमिति कथनमपि न युक्तम् । यदुक्तं भाष्ये [[66]] प्रतिपिपादयिषितार्थभेदेन’ षट्कभेदात् अध्यायभेदवच्च पूर्वोत्तरमीमांसयोः भेदः “ इति शास्त्रैक्यसमर्थनाय, तदयुक्तम्, न्यायादिशास्त्राणामपि तथैव भेदानापत्तेः । न्यायशास्त्रस्य वेदान्तशास्त्रस्य च प्रधानप्रतिपाद्यभेदस्य सत्त्वात् न तयोरेकशास्त्र- त्वशङ्केति न च वाच्यम्, पूर्वोत्तरमीमांसयोरपि प्रधानप्रतिपाद्यभेदस्य सत्त्वात्। [[3]]

एवं पूर्वोत्तरमीमांसयोर्भेदः प्रतिज्ञाभेदेनापि सिद्धः । पूर्वमीमांसा- शास्त्रे हि धर्मविचारः प्रतिज्ञातः, उतरमीमांसायां तु ब्रह्मविचार इति सिद्धः शास्त्रभेदः वेदस्य पूर्वकाण्डः, उत्तरकाण्डश्चार्थभेदेन भिन्नग्रन्थौ भवतः । कुतः तदर्थविचारपरयोः शास्त्र्योरेकशास्त्रत्वं, एकप्रबन्धत्वं वा? अयमत्रपूर्वपक्षसारः - स्वप्रतिपाद्यकर्मब्रह्मभेदात्, स्वारम्भक- जिज्ञासासूत्रभेदात्, स्वकर्तृजैमिनिबादरायणभेदात्, स्वाधिकारि- रागिणिरागिभेदात्, स्वप्रयोजनस्वर्गमोक्षभेदात्, स्वमूलप्रमाणवेद- वेदान्तभेदात्, स्वमतानुगर्तिमीमांसकवेदान्तिभेदाच्च पूर्वोत्तरमीमांस- योर्नैकशास्त्रत्वम् । किञ्च विचार्यभूतवेदभागयोः परस्परं प्राबल्य- दौर्बल्यादिविरुद्वधर्मकत्वमपि तयोरभेदे बाधकम् । न हि विरुद्धौ धर्मो एकत्रान्वितः। अतः पूर्वोत्तरमीमांसयोरेकशास्त्रत्वं श्रीभाष्यादिषु प्रतिपादितं न युक्तमिति ।

सिद्धान्तः

अयमत्र सिद्धान्तः- पूर्वोत्तरमीमांसयोरैकशास्त्र्यं प्राचीनानामिष्टं भाष्यकारैरादृतम्। श्रीभाष्ये एव ‘संहितमेतच्छारीकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धि’रिति वृत्तिकारस्य वचनमुदाहृतम् । अयमर्थः विवरणग्रन्थेऽप्यादृतः’। “तत्राथातःशब्दौ प्रथम एव अध्याये प्रथमसूत्रे [[4]]

वर्णितौ। अथेति पूर्वप्रकृतां धर्मजिज्ञासामपेक्ष्य अनन्तरं ब्रह्मजिज्ञासा- प्रारम्भार्थः । अत इति पूर्वनिर्दिष्टस्यैवार्थस्य हेतुतामाचष्टे ब्रह्मजिज्ञासां प्रतीति” इति विवरणग्रन्थः । किमुत शाङ्करभाष्ये ऽपि " एक आत्मनः शरीरेभावादिति सूत्रव्याख्याने “ देहातिरिक्तात्मास्तित्वं शास्त्रप्रमुख एव प्रथमपादे कथितम्, किमर्थमत्र पुनः साध्यत इति प्रश्नं विधाय " सत्यमुक्तं भाष्यकृता, न तु तत्रात्मास्तित्वे सूत्रमस्ति। अत्र स्वयं सूत्रकृदेवाह” इति भणितं शास्त्रैक्यं तदभिमतम् इति द्योतयति । तैरेव पुनः कथितम् “इत एवाकृष्य आचार्येण शबरस्वामिना प्रमाणलक्षणे वर्णितम् । अत एव च भगवतोपवर्षेण प्रथमतन्त्र एव आत्मास्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्याम इत्युद्धारः कृतः । इह चेदं चोदनालक्षणेषु उपासनेषु विचार्यमाणेषु आत्मास्तित्वं विचार्यते कृत्स्नशास्त्रशेषत्वप्रदर्शनाय " इति । इदमपि वाक्यं पर्यालोच्यते चेत् पूर्णमीमांसाशास्त्रस्यैकशास्त्रत्वं तदभिमतम् इति भाति । शास्त्रप्रमुणे, कृत्स्नशास्त्रेत्यादिपदस्वारस्यं चैकशास्त्रत्वे एवास्ति । परिमलेऽपि एकशास्त्रत्वं मनसि निधाय कश्चित् पूर्वपक्षः प्रदर्शितः । एकशास्त्रत्वाभ्युपगमेऽपि अथशब्दस्य कर्मविचारानन्तर्यार्थकत्वं नास्त्येवेति तैः कथितम् । एवं च ऐकशास्त्र्यं स्वीक्रियते चेत् न दोष इत्यायाति । इयं च परिमलपङ्किः ॥ " न चैवं कर्मब्रह्म- शास्त्र्यो रैकशास्र्त्र्याभ्युपगमे ब्रह्मजिज्ञासासूत्रगताथशब्दस्य कर्मणिचारानन्तर्यमर्थः स्यादिति वाच्यम्, भाष्योक्तरीत्या ब्रह्मविचारे [[5]] [[11]]

कर्मानुष्ठानस्यापेक्षानियमाभावेन तदप्रसक्तेः । न हि ज्वरादिवाजी- करणान्तचिकित्साप्रतिपादकानां वैद्यकसंहिताग्रन्थानामेकग्रन्थत्व- मात्रेण तत्तच्छिकित्साप्रकरणं विचारयिष्यता ज्वरचिकित्सामारभ्य विचारणीयम्” इति । एतावता कर्मब्रह्ममीमांसयोरैकशास्त्र्यं यत् श्रीभाष्यकारैरुक्तम्, तत् अन्येषामपि इष्टमिति लब्धम् । न तु श्रीभाष्यकारैः कल्पितमितियावत् ।

ऐकशास्त्र्ये हेतवः

सङ्गतिविशेषेण विशिष्टक्रममिति श्रीभाष्यं पूर्वोत्तरमीमांसयोः नियतः क्रमविशेषः वर्तत इति प्रतिपादयति । अत्र श्रुतप्रकाशिकायाम् 12- “पाठक्रमः, चेतनानां त्रिवर्गेप्रथमप्राणण्यसम्भवरूपोऽर्थस्वभावः, औपनिषदेषु अङ्गाङ्गिभावप्रतिपादकवाक्येषु यज्ञादिकर्मणः पदार्थत्वेन सम्बन्धः, कासुचिद्विद्यासु यज्ञतदुपकरणादीनां दृष्टिविशेषणत्वोक्तिः, कर्मब्रह्मविद्ययोः दृष्टान्तदान्तिकभागः, विद्याकर्मणोरुत्पाद्योत्पादक- भावात् तच्छेषभूतविचारयोः तत्क्रमभाक्त्वोपपत्तिः, व्याख्यानभूत- मीमांसायां चोत्तरभागस्य पूर्वभागोक्तन्यायसापेक्षत्वं चेति” सङ्गतयः प्रतिपादिताः। एतेषां सङ्गतिविशेषाणां विवृतस्वरूपमत्र न लिख्यते विस्तरभयात् । किञ्चायं ग्रन्थः प्रायः स्पष्टार्थ एव । अनेन पौर्णा - पर्यनियमेनैकशास्त्रत्वमपि सिद्ध्यति । इदानीं पूर्वपक्षस्य समाधानं ब्रूमः- [[6]]

वेदेन करणेन धर्मः प्रमीयते । मीमांसा तत्रेतिकर्तव्यता भवति । अङ्गिनः स्वरूपे तावत् प्रथमभागः कर्मकाण्डः । अतोऽङ्गभूता मीमांसाऽपि प्रथमं कर्मकाण्डे प्रवर्तते । व्याख्येयवेदस्य यः क्रमः तेन क्रमेण मीमांसापि उचिता, अतोऽपि उभयोः मीमांसयोः नियतः क्रमः, एकशास्त्रत्वं च । न च नियतक्रमस्य सत्त्वेऽपि तस्य क्रमस्यै- कशास्त्रत्वव्याप्यत्वमिति कथं सिद्ध्यतीति वाच्यम्, एतादृशक्रमस्य शास्त्रैकत्वं विनानुपपत्तेः । पचपादिकायामपि - अधीतवेदस्या- वश्यकरणीयानि नित्यनैमित्तिककर्माणि तानि अकरणे प्रत्यवाय- जनकानि। अतः प्रथमं तान्येव विचारणीयानि इति प्रत्यपादि । अतः ब्रह्मोपासनस्य कर्मसापेक्षत्वेऽपि ब्रह्मविचारस्य कर्मविचारसापेक्षत्वं नास्ति, एवं च कर्मविचारस्य पूर्ववृत्तत्वं, शास्त्रैक्यं च कथं सङ्गच्छेते इति प्रश्नः परिहृतः । न हि तन्मात्रं कर्मविचारस्य पूर्व भावित्वे हेतुः, किन्तु अन्यैः बहुभिः कथितैः हेतुभिः तस्य पूर्ण भावित्वे सिद्धे अस्यापि हेतुत्वं स्वीक्रियत इति समाधानात् । अथवा कर्मणिचारेच्छा ब्रह्मविचारप्रतिबन्धिका । कथमिति चेत् । इत्थम् - कर्मविचारेऽ- कृते आपाततः कर्मविषयकज्ञानवन्तः पुरुषाः ब्रह्मविचारफले निःश्रेयसेऽनाश्वासं प्राप्ताः स्युः । कर्मणि विचारिते सति तस्य अल्पास्थिरफलकत्वप्रतीतौ सत्यां ब्रह्मविचिचारयिषाप्रतिबन्धक- भूतकर्मणिचिचारयिणाया अपगतौ ब्रह्म मीमांसन्ते पुरुषाः । अतः कर्मविचारः प्रतिबन्धकाभावसम्पादकतयापि ब्रह्मविचारं प्रति हेतुः । [[7]]

कि" परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् " 14 इति श्रुतौ ल्यप्प्रत्ययः “वेदं कृत्वा वेदिं करोति” 15 इत्यत्रेण कर्मविचार- ब्रह्मविचारयोः नियतपूर्वापरीभावं श्रुतिसिद्धं ब्रणीति । अतः “हृदयस्याग्रेऽवद्यति, अथ जिह्वाया”" इत्यत्रेव न क्रमस्यविवक्षा । न च [[16]] यस्य येनार्थसम्बन्धः दूरस्थस्यापि तस्य सः । अर्थतोऽह्यसमर्थानामानन्तर्यमकारणम्॥17 (न्यायभाष्यम्) इति न्यायेन कर्मविचारानन्तर्यस्य श्रुत्युक्तत्वेऽपि न कारणत्वं कर्मविचारस्य ब्रह्मविचारं प्रति सम्भवति, तयोर्विचारयोः परस्परं विरुद्धार्थविषयकत्वात् - इति वाच्यम्, कर्मकाण्डब्रह्मकाण्डयोः भेदाभेदरूपणिरुद्धार्थविषयकत्वस्य भाष्ये निराकृतत्वात् । नित्या- नित्यफलकज्ञानकर्मरूपविरुद्धार्थबोधकत्वमपि न भवति। अधिकारि- भेदेन एकस्यैण कर्मणः अनित्यफलकत्वस्य, ब्रह्मोपासनद्वारा नित्यफलकत्णस्य च स्वीकारे बाधकाभावस्य सूत्रकारैरेवोक्तत्वात्, कर्मणां बोधनस्याङ्गबोधनरूपत्वेन ब्रह्मज्ञानरूपाङ्गिबोधनेऽत्यन्त- मुपयुक्तत्वात् । ननु पूर्वोत्तरकाण्डयोः प्रतिपाद्यभेदात् कथं तदर्थविचारयोः शास्त्रैक्यम् इति चेन्न, पूर्वोत्तरमीमांसयोः प्रतिपाद्यः वेदार्थ एव । अतो [[8]] न प्रधानप्रतिपाद्यभेदः । एकव्याख्येयव्याख्यानरूपत्वात् उभयोरेक- प्रबन्धत्वम् । एकाणयणित्वे सिद्धे पूर्वोत्तरकाण्डयोः कर्मब्रह्मरूपा- वान्तरार्थभेदः पूर्वोत्तरमीमांसयोरेकशास्त्रत्वं न निरुणद्धि । तथा चेत् पूर्वमीमांसाया अपि उपदेशातिदेशरूपार्थभेदेन शास्त्रद्वित्वं स्यात् । यथा पदार्थभेदः वाक्यैकत्वविरोधी तथा अवान्तरार्थभेदः न शास्त्रैकत्वविरोधी । ननु प्रतिज्ञासूत्रभेदः शास्त्रभेदकः, “अथातो धर्मजिज्ञासेति पूर्णशास्त्रे प्रतिज्ञा, अत्र च शास्त्रे अथातो ब्रह्मजिज्ञासेति । एवं च शास्त्रैक्यप्रतिज्ञैक्यापत्तौ तदभावात् तदभाव इति चेन्न, “अथातो ब्रह्मजिज्ञासेत्येवोभयसाघारणप्रतिज्ञा, अथवा अथातो धर्मजिज्ञासेति साधारणप्रतिज्ञा, अथवा प्रतिज्ञाद्वयोगीता अथातो वेदार्थजिज्ञासेति [[18]] प्रतिज्ञा कल्पनीया इति पक्षत्रयमपि श्रुतप्रकाशिकामीमांसापादुकादौ प्रसिद्धम् । पक्षत्रयेऽपि सम्भाव्यमाना अनुपपत्तयः विस्तरेण ग्रन्थेषु परिहृता इति नात्र वितन्यते । ननु पूर्वमीमांसाशास्त्रस्य द्वादशलक्षणात्मकस्य कर्ता जैमिनिः, सङ्कर्षकाण्डस्यापि स एव कर्ता इति कचित् पक्षः, आहत्य षोडशाध्याय्याः जैमिनिः कर्ता, सङ्कर्षः काशकृत्स्नप्रभव इति पक्षे चतुरध्याय्याः कर्ता जैमिनेरन्यः काशकृत्स्रः, ब्रह्ममीमांसाशास्त्रस्य हि कर्ता बादरायण इति [[9]]

कर्तृभेदात् शास्त्रभेद सति चेन्न, कर्तृभेदस्य शास्त्रभेदकत्वाभवात् । भट्टबाणवामनभट्टरूपकर्तृभेदेऽपि कादम्बरीरूपप्रबन्धैक्यं स्वीक्रियते। धूर्तस्वामिकपर्दिकृतस्य आपस्तम्बसूत्रव्याख्यानस्य व्याख्येयैक्यात् एकप्रबन्धत्वं दृष्टम् । वामनजयादित्यकर्तृकयोः पूर्वोत्तरवृत्त्योश्च व्याख्येयैक्यात् एकव्याख्यानत्वं दृष्टम् । अतः कर्तृभेदेन शास्त्रभेदः प्रबन्धभेदो वा न भवति । ननु पूर्वोत्तरमीमांसयोरर्थविरोधः भवति कर्मैव फलप्रदम्, स्वर्ग एव परमपुरुषार्थः, ईश्वर एव नास्ति, क्रियापर एव सर्वोऽपि वेद इति पूर्वमीमांसाशास्त्रे निर्णीतम्, तद्विपरीतं तु वेदान्तशास्त्रे निरूप्यते, तत् कथं विरुद्धार्थ प्रतिपादकयोः तयोः शास्त्र्योरैक्यम् इति चेन्न, अर्थविरोधस्य” श्रुतप्रकाशिकातत्त्वटीकादिषु विस्तरेण परिहृतत्वात्। अत्र पूर्वपक्षोक्तांशेषु विरोधो नास्तीति सङ्क्षेपेण निरूप्यते। “कर्मैण फलप्रदम्” इति पूर्वमीमांसाव्याख्यातारः यद्यपि लिखन्ति, तथापि श्रुतिः “ तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति ” 20 इत्यादिका देवताया एव फलप्रदत्वं प्रतिपादयति । न च तर्हि पूर्वमीमांसकाः किमर्थं कर्मण एव फलप्रदत्वं वदन्ति, उक्तवाक्यानाम् अर्थवादत्वं च समर्थयन्त इति वाच्यम्, कर्मणि अश्रुतवेदान्तानां श्रद्धाभावनिरासार्थत्वात् तत्समर्थनस्य । " न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते, अपि तु निन्द्रितादितरत् प्रशंसितुम्” इति न्यायेन तथोक्तं पूर्वमीमांसकैरिति [[10]]

श्रुतप्रकाशिका2’ । वेदार्थसङ्ग्रहे 22 च “अश्रुतवेदान्तानां कर्मणि अश्रद्धा माभूदिति देवताधिकरणेऽतिवादाः कृताः” इति अयमेवार्थ उक्तः । तत्पूर्वतनग्रन्थे आगमप्रामाण्ये 23 कथितं यत् “यथैव हि भगवतो जैमिनेःकर्मणः फलोपन्यासः कर्मश्रद्धासंवर्धनाय” इति । एवं च देवताया निराकरणं यथा कर्मणि श्रद्धावर्धनाय तथैव कर्मण एव फलप्रदत्न- मित्युक्तिरपि भवति । एवमीश्वर एव नास्ति इति पूर्वतन्त्रे निरूपितम्, अत्र तु अन्यथा भवति, एवं चार्थविरोध इति प्रश्नस्यापि इदमेव समाधानम्। वेदप्रामाण्यकर्मावश्यकर्तव्यतातिशयतात्पर्यातिशयात् तत्प्रतिपक्षनिराचिकार्णया अन्गारुह्यवादः ईश्वरनिरासोक्तिः इत्यपि समाधानम्। अभिमततरार्थानादरेणापि विपक्षनिरासः जैमिनेरिष्टः । अत्राभिमततरार्थ ईश्वरः । अभीष्टार्थव्ययेनापि जयति क्षेत्रहारिणम् । लब्धक्षेत्रैर्नदुष्प्रापः स्यादर्थ सति निश्चयात् ॥ इति श्लोकोऽत्र प्रमाणीकृतः श्रुतप्रकाशिकायाम्24 । जैमिनेरन्वा- रुह्यवादित्वं कथं सिद्धमिति चेत्, “साक्षादप्यविरोधं जैमिनिः " 25 इत्यादिना सूत्रगणेन जैमिनेः परमात्मतद्गुणाभ्युपगमस्य वेदान्तशास्त्रे स्पष्टत्वात् । एवमेण“आम्नायस्य क्रियार्थत्वात् “2” इति सर्वस्य वेदवाक्यस्य क्रियापरत्वप्रतिपादकानि पूर्वमीमांसासूत्राण्यपि नेयानि । तत्त्वटीकायां तु “जैमिनिसूत्रेषु कुत्रापि देवताविग्रहादेः प्रतिक्षेपः न [[11]]

[[914]] किञ्च" परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् "" इति श्रुतौ ल्यप्प्रत्ययः “वेदं कृत्वा वेदिं करोति” 15 इत्यत्रेण कर्मविचार- ब्रह्मविचारयोः नियतपूर्वापरीभागं श्रुतिसिद्धं ब्रणीति । अतः “हृदयस्याग्रेऽवद्यति, अथ जिह्वाया “1” इत्यत्रेव न क्रमस्यविवक्षा । न च यस्य येनार्थसम्बन्धः दूरस्थस्यापि तस्य सः । अर्थतोऽह्यसमर्थानामानन्तर्यमकारणम्॥17 (न्यायभाष्यम्) इति न्यायेन कर्मविचारानन्तर्यस्य श्रुत्युक्तत्वेऽपि न कारणत्वं कर्मविचारस्य ब्रह्मविचारं प्रति सम्भवति, तयोर्विचारयोः परस्परं विरुद्धार्थविषयकत्वात् इति वाच्यम्, कर्मकाण्डब्रह्मकाण्डयोः भेदाभेदरूपविरुद्धार्थविषयकत्वस्य भाष्ये निराकृतत्वात् । नित्या- नित्यफलकज्ञानकर्मरूपविरुद्धार्थबोधकत्वमपि न भवति। अधिकारि- भेदेन एकस्यैव कर्मणः अनित्यफलकत्वस्य, ब्रह्मोपासनद्वारा नित्यफलकत्वस्य च स्वीकारे बाधकाभावस्य सूत्रकारैरेवोक्तत्वात्, कर्मणां बोधनस्याङ्गबोधनरूपत्वेन ब्रह्मज्ञानरूपाङ्गिबोधनेऽत्यन्त- मुपयुक्तत्वात् । ननु पूर्वोत्तरकाण्डयोः प्रतिपाद्यभेदात् कथं तदर्थविचारयोः शास्त्रैक्यम् इति चेन्न, पूर्वोत्तरमीमांसयोः प्रतिपाद्यः वेदार्थ एव । अतो [[8]]

न प्रधानप्रतिपाद्यभेदः । एकव्याख्येयव्याख्यानरूपत्वात् उभयोरेक- प्रबन्धत्वम् । एकाणयवित्वे सिद्धे पूर्वोत्तरकाण्डयोः कर्मब्रह्मरूपा- वान्तरार्थभेदः पूर्वोत्तरमीमांसयोरेकशास्त्रत्वं न निरुणद्धि । तथा चेत् पूर्वमीमांसाया अपि उपदेशातिदेशरूपार्थभेदेन शास्त्रद्वित्वं स्यात् । यथा पदार्थभेदः वाक्यैकत्वविरोधी तथा अवान्तरार्थभेदः न शास्त्रैकत्वविरोधी। ननु प्रतिज्ञासूत्रभेदः शास्त्रभेदकः, “अथातो धर्मजिज्ञासेति पूर्वशास्त्रे प्रतिज्ञा, अत्र च शास्त्रे अथातो ब्रह्मजिज्ञासेति । एवं च शास्त्रैक्यप्रतिज्ञैक्यापत्तौ तदभावात् तदभाव इति चेन्न, “ अथातो ब्रह्मजिज्ञासेत्येवोभयसाधारणप्रतिज्ञा, अथवा अथातो धर्मजिज्ञासेति साधारणप्रतिज्ञा, अथवा प्रतिज्ञाद्वयोनीता अथातो वेदार्थजिज्ञासेति [[18]] प्रतिज्ञा कल्पनीया इति पक्षत्रयमपि श्रुतप्रकाशिकामीमांसापादुकादौ प्रसिद्धम् । पक्षत्रयेऽपि सम्भाव्यमाना अनुपपत्तयः विस्तरेण ग्रन्थेषु परिहृता इति नात्र वितन्यते । ननु पूर्वमीमांसाशास्त्रस्य द्वादशलक्षणात्मकस्य कर्ता जैमिनिः, सङ्कर्षकाण्डस्यापि स एव कर्ता इति कचित् पक्षः, आहत्य षोडशाध्याय्याः जैमिनिःकर्ता, सङ्कर्षः काशकृत्स्रप्रभव इति पक्षे चतुरध्याय्याः कर्ता जैमिनेरन्यः काशकृत्स्रः, ब्रह्ममीमांसाशास्त्रस्य हि कर्ता बादरायण इति [[9]]

कर्तृभेदात् शास्त्रभेद सति चेन्न, कर्तृभेदस्य शास्त्रभेदकत्वाभावात् । भट्टबाणवामनभट्टरूपकर्तृभेदेऽपि कादम्बरीरूपप्रबन्धैक्यं स्वीक्रियते। धूर्तस्वामिकपर्दिकृतस्य आपस्तम्बसूत्रव्याख्यानस्य व्याख्येयैक्यात् एकप्रबन्धत्वं दृष्टम् । वामनजयादित्यकर्तृकयोः पूर्वोत्तरवृत्त्योश्च व्याख्येयैक्यात् एकव्याख्यानत्वं दृष्टम् । अतः कर्तृभेदेन शास्त्रभेदः प्रबन्धभेदो वा न भवति । ननु पूर्वोत्तरमीमांसयोरर्थविरोधः भवति कर्मैव फलप्रदम्, स्वर्ग एव परमपुरुषार्थः, ईश्वर एव नास्ति, क्रियापर एव सर्वोऽपि वेद इति पूर्णमीमांसाशास्त्रे निर्णीतम्, तद्विपरीतं तु वेदान्तशास्त्रे निरूप्यते, तत् कथं विरुद्धार्थ प्रतिपादकयोः तयोः शास्त्र्योरैक्यम् इति चेन्न, अर्धगिरोधस्य" श्रुतप्रकाशिकातत्त्वटीकादिषु विस्तरेण परिहृतत्वात्। अत्र पूर्वपक्षोक्तांशेषु विरोधो नास्तीति सङ्क्षेपेण निरूप्यते । “कर्मैण फलप्रदम्” इति पूर्वमीमांसाव्याख्यातारः यद्यपि लिखन्ति, तथापि श्रुतिः “ तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति ” 20 इत्यादिका देवताया एव फलप्रदत्वं प्रतिपादयति । न च तर्हि पूर्वमीमांसकाः किमर्थं कर्मण एव फलप्रदत्वं वदन्ति, उक्तवाक्यानाम् अर्थवादत्वं च समर्थयन्त इति वाच्यम्, कर्मणि अश्रुतवेदान्तानां श्रद्धाभावनिरासार्थत्वात् तत्समर्थनस्य । “न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते, अपि तु निन्द्रितादितरत् प्रशंसितुम्” इति न्यायेन तथोक्तं पूर्वमीमांसकैरिति [[10]] |

श्रुतप्रकाशिका 2" । वेदार्थसङ्ग्रहे 22 च “अश्रुतवेदान्तानां कर्मणि अश्रद्धा माभूदिति देवताधिकरणेऽतिवादाः कृताः” इति अयमेवार्थ उक्तः । तत्पूर्वतनग्रन्थे आगमप्रामाण्ये 23 कथितं यत् " यथैन हि भगवतो जैमिनेःकर्मणः फलोपन्यासः कर्मश्रद्धासंवर्धनाय” इति । एवं च देवताया निराकरणं यथा कर्मणि श्रद्धावर्धनाय तथैव कर्मण एव फलप्रदत्व- मित्युक्तिरपि भवति । एवमीश्वर एव नास्ति इति पूर्वतन्त्रे निरूपितम्, अत्र तु अन्यथा भवति, एवं चार्थविरोध इति प्रश्नस्यापि इदमेव समाधानम्। वेदप्रामाण्यकर्मावश्यकर्तव्यतातिशयतात्पर्यातिशयात् तत्प्रतिपक्षनिराचिकार्षया अन्वारुह्यवादः ईश्वरनिरासोक्तिः इत्यपि समाधानम्। अभिमततरार्थानादरेणापि विपक्षनिरासः जैमिनेरिष्टः । अत्राभिमततरार्थ ईश्वरः । अभीष्टार्थव्ययेनापि जयति क्षेत्रहारिणम् । लब्धक्षेत्रैर्नदुष्प्रापः स्यादर्थ सति निश्चयात् ॥ इति श्लोकोऽत्र प्रमाणीकृतः श्रुतप्रकाशिकायाम् 24 । जैमिनेरन्वा- रुह्यणादित्वं कथं सिद्धमिति चेत्, “साक्षादप्यविरोधं जैमिनिः " 25 इत्यादिना सूत्रगणेन जैमिनेः परमात्मतद्गुणाभ्युपगमस्य वेदान्तशास्त्रे स्पष्टत्वात् । एवमेण“आम्नायस्य क्रियार्थत्वात् “2” इति सर्वस्य वेदवाक्यस्य क्रियापरत्वप्रतिपादकानि पूर्वमीमांसासूत्राण्यपि नेयानि । तत्त्वटीकायां तु “जैमिनिसूत्रेषु कुत्रापि देवताविग्रहादेः प्रतिक्षेपः न [[11]]

साक्षात् श्रूयते, अर्वाचीनैरेव तानि सूत्राणि देवताविग्रहादेः निरासकतया व्याख्यातानि ” 27 इति कथितम् । सूत्रेषु तावदेतेषु पूर्वपश्चिमपक्षयोः । देवताणिग्रहादेः न प्रतिक्षेप्यत्वसूचनम् ॥ (२१४) इति तत्त्वटीका। अयमर्थः (उत्तमूर्) वीरराघवाचार्यस्वामिभिः विस्तरेणोपपादितः 28 । एवमन्या अपि अर्थविरोधविषयकशङ्काः मूलग्रन्थेषु निराकृताः। ननु पूर्वोत्तरमीमांसयोरधिकारिभेदोऽपि वर्तते । ब्रह्ममीमांसायां विरागी अधिकारी कर्ममीमांसायां च सरागोऽधिकारी, तथा चाधिकारि- भेदादपि शास्त्रभेद इति चेन्न, वेदार्थनिर्णयकामस्य मीमांसाया- मधिकृतत्वात् । तथाहि साङ्गसशिरस्कवेदाध्ययनं विधिप्राप्तम्, यद्यपि वेदाध्ययनं वेदाख्याक्षरराशिग्रहणमात्रप्रयोजनकम्, तदापि अङ्गानामध्ययनेन अधीतवेदोऽध्येतुरापातप्रतीतिं जनयति । आपातप्रतीतिर्नाम संशयविपर्ययसहा प्रतीतिः । आपातप्रतीतिः संशयविपर्ययौ नातिवर्तत इति प्रतीतार्थनिर्णयाय मीमांसते पुरुषः । एवं च वेदार्थनिर्णयकाम एवात्राधिकारी । तत्र व्याख्येयक्रमात मीमांसत इति नात्र सरागविरागरूपाधिकारिभेदस्य प्रसक्तिः । न च 29 परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्। नास्त्यकृतः कृतेनेति श्रुतिः [[12]]

गिरागस्यैव ब्रह्मजिज्ञासायामधिकारित्वं वदति इति वाच्यम् । एतादृशाधिकारस्य न्यायशास्त्रेऽपि सत्त्वेन शास्त्रभेदकत्वाभावात् । तथाहि - न्यायशास्त्रे हि तत्त्वज्ञानकामोऽधिकरोति, परन्तु तत्र तत्र अध्यायार्थस्य भिन्नत्वात् तत्तदर्थज्ञानकामानाया अवान्तराधिकारत्वं स्वीक्रियते । यथा पञ्चमाध्यायस्य 30 जातिनिग्रहस्थानप्रतिपादकत्वेन तत्तत्त्वनिर्णयकामोऽधिकारी । तावता पञ्चमाध्यायस्य न पृथक् शास्त्रत्वम् । तथैण पूर्वमीमांसायामेव शेषत्वस्वरूपप्रकारज्ञानकामः तृतीयाध्यायेऽधिकारीति कथमवान्तराधिकारः शास्त्रभेदकः स्यात् ? । न च पूर्वमीमांसादिषु अवान्तराधिकाराः न परस्परं विरुन्धते, प्रकृते सरागत्वविरागत्वयोः परस्परं विरुद्धत्वात् तदधिकारिकशास्त्र्योरपि भेद एवेति वाच्यम्, सरागत्वस्याधिकारत्वाभावात् । तथाहि - वेदार्थ- निर्णयकामोऽधिकारी मीमांसाशास्त्रे । नित्यपुरुषार्थकामनावान् वा भवतु तथा । ‘अक्षय्यं ’ वै चातुर्मास्ययाजिनः सुकृतं भवति”31 “अनन्तं हवा अपारमक्षय्यम्”32 इत्यादि श्रुतिभिः कर्माण्येव कानिचित् नित्यं फलं ददतीति अगगच्छति । तत्तत्त्वनिर्णयाय कर्मविचारं करोति । कर्मणोऽक्षय्यफलकत्वं नास्तीति निश्चित्य तत्र वैराग्येण व्याख्येय- क्रमेणोत्तरकाण्डार्थनिर्णयाय तत्र विचारं करोति । एवं स्थिते कोऽपि विरोधः नास्ति । एवं च सराग एव कर्मविचारेऽधिकरोतीत्यसङ्गतम्। परीक्ष्य लोकान् कर्मचितान् इत्यत्र परीक्ष्येति विरोधात् । सराग- [[13]]

छोदधिकारी कथं तस्य निर्वेदस्य प्रसक्तिः, इच्छायाः ज्ञातव्यज्ञानेन शान्तत्वात् । ननु कर्मणां स्वर्गादिकं प्रयोजनं ज्ञानस्य च मोक्षः प्रयोजनम् इति कथं तत्तदुपायबोधकयोः शास्त्र्योरेकत्वमिति चेन्न एवं चेत् तत्तत्प्रकरणप्रतिपाथकर्मणां भेदेन पूर्णकाण्डात्मकणेदस्यापि नानाप्रबन्धत्वापत्तेः । ननु पूर्वोत्तरमीमांसाव्याख्येयभेदात् व्याख्यानभूतशास्त्र- योरपिभेद इति वाच्यम्, वेदवेदान्तयोः भेदाभावात् । तथा केनापि तत्वात् । एवमेण स्वमतानुणर्तिमीमांसकणेदान्तिभेदात् शास्त्रभेद म्यप्यसङ्गतम्, ब्रह्मणेदनमाप्रयाणादनुवर्तमानं भक्तिरूपापन्न- दिध्यासनरूपमनभिसंहितफलवर्णाश्रमणिहितकर्मानुगृहीतं मोक्षसाधनमिति सिद्धान्ते पूर्णमीमांसोक्तरीत्या कर्मणामणश्य- ज्ञातव्यत्वेन मतभेदस्वीणाभावात् । ये तु फलाभिसन्धियुक्तं कर्मानुतिष्ठन्ति, ते मोहात्तथा कुर्वन्ति । पण्डितोऽप्यातुरः कचिदपध्येषु प्रवर्तते । निषिद्धेष्वपि किं नेयं काम्यं प्राज्ञेऽपि सम्भवेत् ॥ (२४४) इति तत्त्वटीकाग्रन्थः " वेदान्तशाखज्ञा अपि काम्यं कर्मानुतिष्ठन्ति इति प्रतिपादयति । [[14]] ननु विचार्यभूतवेदभागयोः परस्परं प्राबल्यदुर्बलत्वे भवतः यथा भेदप्रतिपादककर्मकाण्डोऽभेदप्रतिपादकोत्तरभागात् दुर्बलः । इमे प्राबल्यदुर्बलत्वे विरुद्धौ धर्मो कथमेकप्रबन्धस्य वाक्ययोः सम्भवत इति चेन्न, समस्तस्य वेदस्य अहरहरनुष्ठीयमानणर्णाश्रमधर्मानु- गृहीतभगवदुपासनतत्फलतदुपास्यस्वरूपगुणगणप्रतिपादकत्वेन विरोधस्यैवाभावे कुतः प्राबल्यदुर्बलत्वप्रसक्तिः ? अयं सारः- सूत्रकारादिप्राचीनग्रन्थकर्तृसम्मतत्वात् पूर्वोत्तरमीमांसयोरेकशास्त्रत्वं नियतः पूर्वापरीभागः द्वयोः मीमांसयोरेकशास्त्रत्गे नियामको भवति । अत्र केचित्पूर्वपक्षाः सङ्गृहीताः विस्तरस्तु श्रुतप्रकाशिकादिषु इति विरम्यते ।