०१ प्रस्तावना

॥ श्रीः ॥ ॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीभाष्यभावप्रकाशः ॥ वाग्देवीप्रभृतिर्यस्य विभूतिर्णागधीशितुः । जिह्वाग्रे गुरुवर्याणां विलसन्तं तमाश्रये ॥ श्रीभाष्ये श्रुतप्रकाशिकायां च विशिष्टैक्यप्रतिपादनार्थं विचारा उपस्थापिताः। तत्र प्रसङ्गात् मतान्तरप्रस्तावः बहुत्र कृतः । तत्र मतान्तरानुवादः समीचीनोक्तोनेति केचित् वदन्ति । अत्र निबन्धे तादृशीः काश्चित् युक्तीरनूद्य भाष्यटीकयोर्युक्तार्थत्वं सङ्क्षेपेण प्रतिपादयामः ।