अधिकरणरत्नमाला

[[अधिकरणरत्नमाला Source: EB]]

अधिकरणरत्नमाला ।

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा ह्यृदि ॥

श्रीशेषशैलशृङ्गे तुङ्गे निगमोत्तमाङ्गे च ।
उत्सङ्गे च फणीन्द्रस्योज्ज्वलमेकं भजे तेजः ॥ 1 ॥

विरचितकर्मविचारैः मुमुक्षुभिः तत्फलेषु वैराग्यात् ।
यज्जिज्ञास्यं पुरुषैः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 2 ॥

उत्पत्तिस्थितिविलयैर्भुवनस्यैतस्य यत्कार्यैः ।
यत्प्राप्तुं शक्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥3॥

जगदेककारणं यत् सर्वज्ञत्वादिगुणगणाभरणम् ।
शास्त्रैकसमधिगम्यं तद्ब्रह्म श्रीनिवासनाम भजे॥4॥

निखिलनिगमान्तवाक्यैः पुरुषार्थतयाऽभिधीयमानत्वात् ।
यद्भवति शास्त्रवेद्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 5 ॥

ईक्षादिशेषवचनात् सच्छब्दितकारणस्य सद्विद्या ।
यदिति व्यनक्ति यत् सत् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 6॥

निरुपधिकानन्दाद्यैरानन्दमयं व्यनक्ति तद्विद्या ।
इतरव्यावृत्तैर्यत्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 7 ॥

आदित्यमण्डलान्तर्वर्तिनमुपदिश्य पुण्डरीकाक्षम् ।
विद्या व्यनक्ति तं यत्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 8 ॥

आकाशस्य वदन्ति यदेकयोग्यान् परायणत्वादीन् ।
तं गमयति श्रुतिर्यत्तब्रह्म श्रीनिवासनाम भजे ॥9॥

प्राणस्य कारणत्वं श्रुतिब्र्राुवाणा प्रसिद्धिनिर्देशात् ।
यदिति व्यनक्ति तमिमं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 10 ॥

निरतिशयदीप्तियुक्तं ज्योतिः पादोऽस्य भूतानि ।
इत्युक्त्या यद्भवति तद्ब्रह्म श्रीनिवासनाम भजे ॥11 ॥

इन्द्रप्राणपदोक्तं यदिति व्यक्तीकरोति यद्धर्मैः ।
विद्या प्रतर्दनाङ्का तद्ब्रह्म श्रीनिवासनाम भजे ॥ 12 ॥

सर्वं ब्रह्म यदुक्तं तत्तज्जत्वाद्यनूक्तिसामथ्र्यात् ।
यदिति व्यनक्ति विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥ 13 ॥

अत्तारमोदनोक्त्या सिद्धं मृत्यूपसेचनत्वोक्त्या ।
संहर्तृ यदिति गमयति तद्ब्रह्म श्रीनिवासनाम भजे ॥ 14 ॥

अक्षिपुरुषं प्रसिद्धैश्चक्षुः स्थित्यादिभिर्धर्मैः ।
यदिति व्यनक्ति विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥ 15 ॥

अन्तर्यामितयोक्तं युगपत्सर्वस्य नियमनप्रमुखैः ।
यदिति व्यनक्ति विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥ 16 ॥

यद्भूतयोनिरक्षरमुक्तं यज्ज्ञापकैर्धर्मैः ।
विद्या स्फुटयति तद्यत् तद्ब्रह्म श्रीनिवासनाम भजे ॥17 ॥

वैश्वानरात्मविद्या द्युप्रभृतीनां तदङ्गताकथनात् ।
यदिति व्यनक्ति तमिमं तद्ब्रह्म श्रीनिवासनाम भजे ॥18 ॥

द्युपृथिव्याद्याधारं कथयन्त्यमृतस्य सेतुमात्मानम् ।
यदिति व्यनक्ति विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥19 ॥

प्राणपदोक्ताज्जीवादर्थान्तरमवगमय्य भूमानम् ।
यदिति व्यनक्ति विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥20 ॥

अक्षरमस्थूलमनण्वित्याद्युक्तं प्रशासितृत्वाद्यैः ।
यदिति व्यनक्ति विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥21 ॥

मुक्तेक्ष्यमाणपुरुषं श्लोकोक्त्या सूरिदृश्यमानतया ।
यदिति व्यनक्ति विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥ 22 ॥

अपहतपाप्मत्वाद्यैर्यद्धर्मैर्यदिति दहरमाकाशम् ।
विवृणोति दहरविद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥23 ॥

अङ्गुष्ठमात्रपुरुषं मनुष्यह्मदयस्थमीशितृत्वाद्यैः ।
यदिति व्यनक्ति विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥24 ॥

दुःखत्रयाभिभूतैरात्यन्तिकतन्निवृत्तिकामनया ।
देवैरपि यदुपास्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 25 ॥

वसुरुद्रादिपदस्थैर्भूयस्तत्प्राप्तिकामनावद्भिः ।
स्वावस्थं यदुपास्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 26 ॥

शुश्रूषुं प्रति गुरुणा शूद्रेत्यामन्त्रणस्य दृष्टस्य ।
शोचननिमित्तकतया शूद्रेष्वधिकारगमकताविरहात् ॥ 27 ॥

।शूद्रस्यापि मुमुक्षोर्वेदाध्ययनादिरहिततया ।
नाधिकृतिर्यदुपास्तौ तद्ब्रह्म श्रीनिवासनाम भजे ॥ 28 ॥

आकाशस्य वदन्ती श्रुतिरन्या नामरूपकर्तृत्वम् ।
यदिति व्यनक्ति तमिमं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 29 ॥

योगिवशीकरणीयेष्विन्द्रियपूर्वेषु यस्य मुख्यत्वम् ।
अभिधत्ते कठवल्ली तद्ब्रह्म श्रीनिवासनाम भजे ॥ 30 ॥

यत्कार्यत्वं प्रकृतेः प्रजाः सृजन्त्या अजाश्रुतिब्र्राूते ।
शखान्तरैककण्ठात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 31 ॥

पञ्चजनशब्दितानामाकाशस्येन्द्रियाणां च ।
यदधीना स्थितिरुक्ता तद्ब्रह्म श्रीनिवासनाम भजे ॥ 32 ॥

सर्वज्ञत्वादिपुरुषं यदेव वियदादिकारणत्वेन ।
श्रुतयो वदन्ति सर्वाः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 33 ॥

यस्यैतत्कर्मेति श्रुतिरक्षादिप्रमाणसिद्धस्य ।
ब्राूते यत्कार्यत्वं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 34 ॥

द्रष्टव्य इति य उक्तस्तस्यामृतहेतुताद्युक्त्या ।
स यदिति गमयति विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥ 35 ॥

यस्यैकस्य ज्ञानात् ज्ञातमिदं भवति सर्वमित्युक्त्या ।
गमयति यदुपादानं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 36 ॥

तैस्तैः शिवादिशब्दैरभिहितमपि वस्तु यद्धर्मैः ।
गमयन्ति यदिति विद्याः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 37 ॥

मन्वाद्याप्तबहुस्मृत्युपबृंहितवेदमौलिसिद्धतया ।
यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 38 ॥

।द्रव्यैक्यमेव नियतं प्रकृतिविकृत्योर्न साजात्यम् ।
चिदचिच्छरीरकस्य ब्रह्मण एवात्र हेतुकार्यत्वात् ॥ 39 ॥

अन्तर्यामिब्रााहृणसिद्धत्वाद्देहदेहिभावस्य ।
अपृथक्सिद्धे जगति ब्रह्म प्रति देहलक्ष्मसत्वाच्च ॥ 40 ॥

देहगतावस्थानां देहिन्यात्मन्यनन्वयाच्चापि ।
यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 41 ॥

कणभक्षादिमतानामन्योन्यं व्याहतत्वेन ।
यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 42 ॥

कर्मकृतभोक्तृतया अकर्मवश्ये प्रसक्त्यभावेन ।
यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 43 ॥

श्रुतिभिरुपपादितत्वात् प्रकृतिविकृत्योरभेदस्य ।
यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥44॥

तत्वमसीत्यादीनामन्यपरत्वाज्जगत्रुाष्टुः ।
सृज्यस्य च जीवस्य स्वरूपभेदस्य दुष्प्रकम्पतया ॥ 45 ॥

जीवाहितकरणेऽपि स्वाहितकरणसङ्गविरहेण ।
यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 46॥

असहकृतक्षीरादेर्दध्याद्यारंभदर्शनाल्लोके ।
सहकारिनियमविरहात् शक्तिमतां तेषु तेषु कार्येषु ॥47॥

सहकारमन्तरैवं जगदारंभस्य संभवात् प्रकृते ।
यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 48 ॥

धर्मिग्राहकमानात् यद्वस्तु यथैव सिद्ध्यति तथैव ।
तत्स्वीकार्यं सर्वैः ब्रह्मैकं निष्कलं च बहु भवति ॥ 49 ॥

।इत्यागमसिद्धेऽर्थे लौकिकचोद्यस्य निरवकाशत्वात् ।
यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥50 ॥

लीलाप्रवृत्तसृष्टावसंभवान्निष्प्रयोजनत्वस्य ।
यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 51 ॥

प्राज्ञानधिष्ठितानां दार्वादीनां अचेतनानां न ।
दृष्टः कार्यारंभः तस्मादचितः प्रधानस्य ॥ 52 ॥

।कार्यारंभकतायाः साङ्ख्योक्ताया असंभवाछ्रौतम् ।
यद्धेतुत्वं सुदृढं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 53 ॥

परमाणवो निरंशा यदि योगासंभवात् तेषाम् ।
द्व्यणुकारंभो न स्यात् यदि सांशास्तेऽपि तद्वत् स्युः ॥ 54 ॥

इत्यनवस्थेत्याद्यैः वैशेषिकदर्शनस्य दुष्टत्वात् ।
यद्धेतुत्वं सुदृढं तद्ब्रह्म श्रीनिवासनाम भजे ॥55 ॥

क्षणिकपरमाणुवादे परमाणूनां प्रतिक्षणं ध्वंसात् ।
तैः समुदायासिद्धेः तदसिद्धौ देहसिद्धिविरहाच्च ॥ 56 ॥

।जगदारंभासिद्ध्या दुःस्थत्वात् बौद्धदर्शनस्यापि ।
यद्धेतुत्वं सुदृढं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 57 ॥

ज्ञानविषयाश्रयाणां उपलंभे सदृशि बाधविरहे च ।
विषयाश्रयौ निरस्य ज्ञानस्यैकस्य पारमार्थोक्त्या ॥ 58 ॥

योगाचारमतस्याप्यतिदौःस्थ्येनाप्रमाणत्वात् ।
यद्धेतुत्वं सुदृढं तद्ब्रह्म श्रीनिवासनाम भजे ॥59॥

स्वस्मिन् प्रमाणसत्वेऽसत्वे वा शून्यवादस्य ।
उन्मज्जनविरहेण स्वासिद्ध्यापादकत्वेन ॥ 60 ॥

।अत्यन्तं दुःस्थतया माध्यमिकस्य पक्षस्य ।
यद्धेतुत्वं सुदृढं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 61 ॥

द्वितीयाध्यायः।

2 2 6

तेजोऽन्धकारयोरिव परस्परविरुद्धयोरुभयोः ।
सर्वस्मिन्नपि वस्तुनि सत्वासत्वादिधर्मयोः कथनात् ॥ 62 ॥

अत्यन्तं दुःस्थतया जैनाभिमतस्य पक्षस्य ।
यद्धेतुत्वं सुदृढं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 63 ॥

52 2 2 7

पशुपतिरशेषजगतः कर्तोपादानकारणं त्रिगुणम् ।
अनुमानगम्य ईश्वर इति वेदविरुद्धकल्पनात् बहुधा ॥64 ॥

करणं यथाऽधितिष्ठति जीवः प्रकृतिं तथैवेशः ।
अधितिष्ठतीत्युपगमे सुखदुःखादेः प्रसङ्गाच्च ॥ 65 ॥

पाशुपतस्य मतस्याप्यतिदुःस्थत्वात् श्रुतिप्रमितम् ।
यद्धेतुत्वं सुदृढं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 66 ॥

53 2 2 8

व्यूहविशेषपरत्वात् जीवोत्पत्त्यादिवादिवचनस्य ।
वेदविरोधाभावात् कुत्रापि च पाञ्चरात्रतन्त्रस्य ॥ 67 ॥

अप्रामाण्याभावात् प्रमाणमूर्धन्यतन्त्रसिद्धतया ।
यद्धेतुत्वं सुदृढं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 68 ॥

।54 2 3 1

ज्ञाते ब्रह्मणि सर्वं ज्ञातं भवतीति या प्रतिज्ञोक्ता ।
उत्पत्त्यनभ्युपगमे तदनिर्वाहान्निषेधविरहाच्च ॥ 69 ॥

स्वीकर्तव्योत्पत्तिः ब्रह्मत एवेति निश्चयात् वियतः ।
यत्कार्यत्वमभग्नं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 70 ॥

55 2 3 2

स्वस्य बहुत्वोत्पत्ती संकल्प्य समस्तमसृजदिति सिद्ध्या ।
ब्रह्मैव वायुरूपात्तस्मादजनिष्ट वह्निरूपमिति ॥ 71 ॥

अर्थावगतेः सिद्धा श्रुत्यन्तरतश्च सर्वस्य ।
यत उत्पत्तिः साक्षात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 72 ॥

56 2 3 3

उत्पत्तिप्रतिषेधात् नित्यत्वोक्तेश्च जीवस्य ।
नास्त्युत्पत्तिरथापि प्रतिज्ञया प्रागुदाह्मतया ॥ 73 ॥

संकोचादिविकारिज्ञानाख्यगुणप्रणाडिकया ।
यत्कार्यत्वमभग्नं तद्ब्रह्म श्रीनिवासनाम भजे ॥74 ॥

57 2 . 3 .4

न ज्ञानमात्रमात्मा नापि च विज्ञातृतैकरूपो वा ।
ज्ञानस्वरूपतायाः श्रुतिभिर्विज्ञातृतायाश्च ॥ 75 ॥

तस्य बहुशोऽभिधानादुक्तज्ञानप्रणाडिकया ।
यत्कार्यत्वमभग्नं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 76॥

58 2. 3. 5

यच्चोदितेषु कर्मस्वात्मा कर्ता तदाऽस्य च विधेश्च ।
फलवत्तायाः सिद्धेः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 77 ॥

59 2. 3. 6

लौकिकवैदिककर्मसु कर्तृत्वं प्रत्यगात्मनो यत्तत् ।
यदधीनमाह निगमः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 78 ॥

60 2. 3. 7

गोत्वादिरिव गवादेरादित्यादेः प्रभादिरिव ।
यस्यांशोऽसौ जीवः तद्ब्रह्म श्रीनिवासनाम भजे॥ 79 ॥

61-65 2. 4. 1 - 2. 4. 5

जीवोपकारकतया तत्करणानामणूनां च ।
एकादशेन्द्रियाणां प्राणस्य च वायुतोऽन्यस्य ॥ 80 ॥

करणस्याणोर्यस्मादुत्पत्तेः श्रूयमाणतया ।
यत्कार्यत्वमभग्नं तद्ब्रह्म श्रीनिवासनाम भजे ॥81 ॥

66 2. 4. 6

अग्न्यादिदेवतानां जीवानां चेन्द्रियाद्यधिष्ठानम् ।
यत्सङ्कल्पायत्तं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 82 ॥

67 2. 4. 7

मनसा सहेन्द्रियत्वं वागादीनां च चक्षुरादीनाम् ।
गीतासु येन गीतं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 83 ॥

68 2. 4. 8

तेजोजलपृथिवीनामण्डादिव्यष्टिसृष्ट¬र्थम् ।
अन्योन्यं यन्मिश्रीकरणं तत्कर्तृकर्तृकत्वेन ॥ 84 ॥

देवादिनामरूपव्याकरणं व्याहरन्निगमः ।
यत्कार्यं तत् कथयति तद्ब्रह्म श्रीनिवासनाम भजे ॥ 85 ॥

तृतीयाध्यायः।

69 3. 1. 1

पञ्चाग्निविषयविद्या संसृतिबन्धोत्थखेदविवृतिपरा ।
इष्टापूर्तादिकृतो देहाद्देहान्तरप्राप्तौ ॥ 86 ॥

गतिमाह भूतसूक्ष्मैस्संपरिरब्धस्य सेन्द्रियप्राणैः ।
यत्सङ्कल्पायत्तां तद्ब्रह्म श्रीनिवासनाम भजे ॥87॥

70 3. 1. 2

सुकृतफले भुक्ते सत्यभुक्तफलकर्मभिस्सहितः ।
यस्येच्छयाऽवरोहति तद्ब्रह्म श्रीनिवासनाम भजे ॥ 88 ॥

71 3. 1. 3

विद्याकर्मविहीनाः पापकृतो यस्य संकल्पात् ।
नरकानेव भजन्ते तद्ब्रह्म श्रीनिवासनाम भजे ॥89 ॥

72,73 3. 1. 4, 3. 1. 5

अवरोहन्गगनाद्यैस्संश्लेषं कमपि यत्कृतं प्राप्य ।
निष्क्रामत्यनतिचिरात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 90 ॥

मेघान्निष्क्रान्तस्सन्, व्रीहिभिरन्यस्य देहतां प्राप्तैः।
श्लिष्यति यत्संकल्पात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 91 ॥

74 3. 2. 1

रथवेशन्तप्रभृतीन्यत्याश्चर्याणि देहिनां स्वप्ने ।
सृजति यदचिन्त्यशक्त्या तद्ब्रह्म श्रीनिवासनाम भजे ॥ 92 ॥

75 3. 2. 2

आयस्तोऽयं जीवः करणैस्सह तूलतल्प इव ।
शेते यत्र सुषुप्तौ तद्ब्रह्म श्रीनिवासनाम भजे ॥ 93 ॥

76 3. 2. 3

यत्र शयनेन जीवस्स्वास्थ्यं समवाप्य भूयोऽपि ।
उत्तिष्ठति तल्पादिव तद्ब्रह्म श्रीनिवासनाम भजे ॥ 94 ॥

77 3. 2. 4

यत्कारितासु जाग्रत्स्वप्नसुषुप्त्याद्यवस्थासु ।
मूर्छान्याभ्यो भिन्ना तद्ब्रह्म श्रीनिवासनाम भजे ॥ 95 ॥

78 3. 2. 5

यत्संबन्धाज्जीवे जायन्ते जाग्रदादयो दोषाः ।
तेन शरीरेण समं सत्यपि योगे न ते दोषाः ॥ 96 ॥

यस्मिन्संबध्यन्ते हेयानां प्रतिभटस्वभावतया ।
कल्याणगुणतयापि च तद्ब्रह्म श्रीनिवासनाम भजे ॥ 97 ॥

79 3. 2. 6

यस्यांशभूतमेतन्मूर्तामूर्तात्मकं विश्वम् ।
भास्वत इव प्रकाशस्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 98 ॥

80 3. 2. 7

सर्वस्मात्परमं यत् यस्मात्परमं न किञ्चिदप्यस्ति ।
गुणतः स्वरूपतो वा तद्ब्रह्म श्रीनिवासनाम भजे ॥ 99 ॥

81 3. 2. 8

कर्मभिरुपासनैश्चाशेषैराराधितं प्रसन्नं यत् ।
सकलफलप्रदमेकं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 100 ॥

82 3. 3. 1

वैश्वानरदहराद्या यद्विद्याश्चोदनाद्यभेदेन ।
शाखाद्वयेऽप्यभिन्नाः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 101 ॥

83 3. 3. 2

यदुपासनोपकृतये त्वाम्नाते प्राणदृष्टिरूपे ये ।
उद्गीथोपास्ती द्वे उद्गातरि प्राणदृष्टिरेकस्याम् ॥ 102 ॥

उद्गीथाङ्गे प्रणवे त्वितरस्यामिति च रूपभेदेन ।
विद्ये ते भिद्येते तद्ब्रह्म श्रीनिवासनाम भजे ॥ 103 ॥

84 3. 3. 3

कौषीतक्युक्तायां यदधीनप्राणविषयविद्यायाम् ।
छान्दोग्योक्तायां च श्रैष्ठ¬वतः प्राणरूपवेद्यस्य ॥ 104 ॥

श्रैष्ठ¬ोपपादनस्य च सर्वस्याप्येकरूपतया ।
विद्ये उभे अभिन्ने तद्ब्रह्म श्रीनिवासनाम भजे ॥ 105 ॥

85 3. 3. 4

परविद्यास्वखिलास्वपि चिदचिद्व्यावर्तकैर्विशिष्टं यत् ।
सत्यत्वाद्यैध्र्येयं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 106 ॥

86 3. 3..5

वाजसनेये साम्नि च यदधीनप्राणविषयविद्यायाम् ।
प्राणोपासननिष्ठैः पूर्वं परतश्च भुक्तीनाम् ॥107 ॥

आचमने विनियुक्तास्वप्स्वेव प्राणवासस्त्वम् ।
अनुसन्धेयं विहितं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 108 ॥

87 3. 3 .6

उपनिषदि वाजिनां द्विः श्रुताऽपि शाण्डिल्यविद्यैका ।
एकत्र यस्य कथयन्त्यमोघसङ्कल्पताख्यगुणम् ॥ 109 ॥

तस्यैव विततिभेदान् सर्ववशित्वप्रशासितृत्वाद्यान् ।
अन्यत्र प्राह गुणांस्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 110 ॥

88 3. 3. 7

आदित्यमण्डलस्थं त्वहरिति नाम्ना यदक्षिनिष्ठं तु ।
अहमिति नाम्नोपास्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 111 ॥

89 3. 3. 8

यद्द्युव्याप्त्यादिगुणा अल्पायतनान्यविषयविद्यासु ।
व्यवतिष्ठन्ते ध्येयास्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 112 ॥

90 3. 3. 9

ब्रह्मप्राप्तिफलैका नान्याऽतः पुरुषविद्ययोर्भेदः ।
यत्प्राप्त्यप्राप्तिभ्यां तद्ब्रह्म श्रीनिवासनाम भजे ॥ 113 ॥

91 3. 3. 10

यदुपासनाविधायकवेदाध्ययने भवन्ति विनियुक्ताः ।
मन्त्राश्शं नो मुख्यास्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 114 ॥

92 3. 3. 11

यद्विद्याफलभूतौ यौ यन्निष्ठस्य सुकृतदुष्कृतयोः ।
निश्शेषतया हानिस्तन्मित्रामित्रयोः प्रवेशश्च ॥115 ॥

द्वावेतयोद्र्वयोरपि चिन्तनमखिलासु विद्यासु ।
यच्चिन्तनवत्कार्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 116 ॥

93 3. 3. 12

यद्विद्याफलभूतो विदुषोऽखिलपुण्यपापविश्लेषः ।
देहान्निर्गमकाले तद्ब्रह्म श्रीनिवासनाम भजे ॥ 117 ॥

94 3. 3. 13

ये चेमेऽरण्य इति श्रुतिरियमाहार्चिरादिगतिम् ।
अखिलयदुपासकानां तद्ब्रह्म श्रीनिवासनाम भजे ॥ 118 ॥

95 3. 3. 14

हेयप्रतिभटतात्मकममलत्वं यस्य सर्वविद्यासु ।
उपसंहार्यं रूपं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 119 ॥

96 3. 3. 15

उषस्तिकहोलप्रश्नप्रत्युक्त्योर्भेददर्शनेऽपि तयोः ।
सर्वान्तरत्वमेकं प्रष्टृप्रतिवक्त्रभिप्रेतम् ॥ 120 ॥

इतरद्व्यावृत्त्यर्थमिति प्रतीतेर्विवक्षिता तत्र ।
यद्विषया विद्यैका तद्ब्रह्म श्रीनिवासनाम भजे ॥ 121 ॥

97 3. 3. 16

वाजसनेये साम्नि च यद्विषये दहरविद्ये ये ।
सेतुत्वविधारणाद्यैः सैवेयमिति प्रतीयमानतया ॥ 122 ॥

“सर्वश्य वशी " त्याद्यैर्गुणाष्टकस्यात्र वेद्यतावगतम् ।
भिद्येते न मिथस्ते तद्ब्रह्म श्रीनिवासनाम भजे ॥ 123 ॥

98 3. 3. 17

उद्गीथवेदनस्याभावेपि क्रत्वनुष्ठितैः श्रवणात् ।
तद्वेदनस्य नियमाभावस्य क्रतुषु लाभेन ॥ 124 ॥

तद्वेदनसहिता वा रहिता वा तेऽखिलाः क्रतवः ।
यदुपासनाङ्गभूतास्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 125 ॥

99 3. 3. 18

दहरोपासननिष्ठैर्गुणवैशिष्ट¬स्वरूपाभ्याम् ।
यत्पृथगनुसन्धेयं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 126 ॥

100 3. 3. 19

नारायणानुवाके तत्तद्विद्यासु शिवपदाद्युक्तम् ।
यदिति निरणायि वाक्यैस्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 127 ॥

101 3. 3. 20

वाक्चिन्मनश्चिदाद्याश्चीयन्ते यत्कृते क्रतोस्तस्य ।
भवति हि यदेव फलदं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 128 ॥

102 3. 3. 21

परविद्यासूपास्यो जीवात्मा यद्विशेषणत्वेन ।
शुद्धाकार उपास्यः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 129 ॥

103 3. 3. 22

सर्वासां व्यक्तीनां उद्गीथपदेन धीस्थत्वात् ।
तत्तद्व्यक्तिविशेषैः सर्वैः संबद्ध्यमानानि ॥ 130 ॥

तदुपासनानि तद्वत् संबद्ध्यन्तेऽखिलासु शाखासु ।
यद्यजनरूपकर्मसु तद्ब्रह्म श्रीनिवासनाम भजे ॥ 131 ॥

104 3. 3. 23

वैश्वानरविद्यायां त्रैलोक्यशरीरमेव यदुपास्यम् ।
न त्वेकैकावयवं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 132 ॥

105 3. 3. 24

गुणचोदनादिभेदादानन्दमयादयो विद्याः ।
यद्विषया भिद्यन्ते तद्ब्रह्म श्रीनिवासनाम भजे ॥ 133 ॥

106 3. 3. 25

एकफलसाधनत्वात् यद्विद्यानां समस्तानाम् ।
निर्णीयते विकल्पस्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 134 ॥

107 3. 3. 26

पुरूषार्थत्वावगतेर्नोद्गीथोपासनस्य नियमोऽस्ति ।
यद्यजनरूपकर्मसु तद्ब्रह्म श्रीनिवासनाम भजे ॥ 135 ॥

108 3. 4. 1

तत्तत्कर्मोपकृतात् यदुपासनतः फलावाप्तिः ।
श्रुतिवाक्येभ्यस्सिद्धः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 136॥

109 3. 4. 2

यद्यजनरूपकर्मण्युद्गीथो रसतमत्वेन ।
श्रुत्योपास्यो विहितस्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 137 ॥

110 3. 4. 3

सद्विद्याद्यारंभेष्वाख्यानैः श्वेतकेतुमुख्यानाम् ।
यद्विद्याः स्तूयन्ते तद्ब्रह्म श्रीनिवासनाम भजे ॥ 138 ॥

111 3. 4. 4

यज्ञाद्यनधिकृता ये त्वाश्रमिणस्तेषु यद्विद्या ।
नाकाङ्क्षति यज्ञादींस्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 139 ॥

112 3. 4. 5

यज्ञाधिकारवत्सु त्वग्न्याधानादिकान् सर्वान् ।
आकाङ्क्षति यद्विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥ 140 ॥

113 3. 4. 6

यज्ञाधिकारवत्स्वपि यद्विद्या शमदमादिसापेक्षा ।
अङ्गतया विहितत्वात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 141 ॥

114 3. 4. 7

प्राणविदोऽप्यतिशक्तेर्यन्निष्ठस्याऽपि भोजनानियमः ।
अत्यन्तापद्विषयस्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 142 ॥

115 3. 4. 8

यदुपासनाङ्गभूतं यज्ञादिकमङ्गमाश्रमस्यापि ।
भवति विनियोगभेदात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 143 ॥

116 3. 4. 9

स्वार्हैर्दानजपाद्यैरपि सिद्धेस्संभवाद्विधुरः ।
यदुपास्तावधिकुरुते तद्ब्रह्म श्रीनिवासनाम भजे ॥ 144 ॥

117 3. 4. 10

आरूढाः पतिता ये संन्यासाद्याश्रमात् तेषाम् ।
नाधिकृतिर्यदुपास्तौ तद्ब्रह्म श्रीनिवासनाम भजे ॥ 145 ॥

118 3. 4. 11

यद्विद्यासहकारिक्रत्वङ्गोद्गीथवेदनाः सर्वाः ।
ऋत्विग्भिः कर्तव्यास्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 146 ॥

119 3. 4. 12

यस्य शुभाश्रयमननं शमादिवत् यस्य चिन्तायाः ।
सहकारितया विहितं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 147 ॥

120 3. 4. 13

यद्विद्यानिष्ठस्य प्रकृष्टमाहात्म्यशालिनो विहितम् ।
महिमानाविष्करणं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 148 ॥

121 3. 4. 14

न नियतिरैश्वर्यफला यद्विद्योत्पद्यते तदैवेति ।
धर्मेष्वनुष्ठितेष्वपि तद्ब्रह्म श्रीनिवासनाम भजे ॥ 149 ॥

130 3. 4. 15

यद्विद्या प्रबलतमाप्यसति प्रतिबन्धके प्रबले ।
उत्पद्यते तदानीं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 150 ॥

चतुर्थाध्यायः।

131 4. 1. 1

अपवर्गसाधनं यद्वेदनमावर्तनीयमसकृदिति ।
श्रुत्यैककण्ठ¬सिद्धं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 151 ॥

132 4. 1. 2

परजीवयोरुपास्योपासकयोस्स्वरूपभेदेऽपि ।
तादात्म्यस्य विधानाच्छØतिभिर्देहात्मभावस्य ॥ 152 ॥

आत्मेत्युपास्यताया विहितत्वादप्युपासित्रा ।
आत्मेति तु यदुपास्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 153 ॥


133 4. 1. 3

यद्दृष्ट¬ोपास्यानां नामादीनामनात्मत्वात् ।
आत्मत्वं नोपास्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 154 ॥

134 4. 1. 4

यदुपासनसहकारिक्रत्वङ्गोद्गीथ एव तु निकृष्टे ।
आदित्यदृष्टिरुचिता तद्ब्रह्म श्रीनिवासनाम भजे ॥ 155 ॥

135 4. 1. 5

यदुपासनमपि नियमादासीनेनैव कर्तव्यम् ।
ऐकाग्र्यसिद्धिहेतोः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 156 ॥

136 4. 1. 6

यावज्जीवं कार्यं यदुपासनमन्वहं ध्यात्रा ।
श्रुतिषु तथैव विधानात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 157 ॥

137 4. 1. 7

अभ्यासाद्यदुपास्तेर्दर्शनसमरूपतासिद्धौ ।
तत्पूर्वविरचितानां निश्शेषं भवति पाप्मनां नाशः ॥ 158 ॥

उत्तरकालकृतानां प्रामादिकपाप्मनामसंश्लेषः ।
यद्विद्यामाहात्म्यात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 159 ॥

138 4. 1. 8

यद्विद्ययैव भवतः पूर्वोत्तरसुकृतसंक्षयाश्लेषौ ।
अश्लेषो देहान्ते तद्ब्रह्म श्रीनिवासनाम भजे ॥ 160 ॥

139 4. 1. 9

पूर्वकृतयोद्र्वयोरपि फलदानायाप्रवृत्तयोरेव ।
यद्विद्यया विनाशस्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 161 ॥

140 4. 1 . 10

सर्वेऽप्याश्रमधर्मा अनिच्छता चापि तत्फलं विदुषा ।
यद्विद्यार्थं कार्यास्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 162 ॥

141 4. 1. 11

यदुपासकस्य पुंसः फलदानाय प्रवृत्तकर्माणि ।
नाश्यानि तदुपभोगात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 163 ॥

142 4. 2. 1

सर्वेन्द्रियाणि जन्तोर्मरणदशायां यदीयसङ्कल्पात् ।
संयुज्यन्ते मनसा तद्ब्रह्म श्रीनिवासनाम भजे ॥ 164 ॥

143 4. 2. 2

सर्वेन्द्रियसंयुक्तं मनस्तु सङ्कल्पतो यस्य ।
प्राणेन भवति युक्तं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 165 ॥

144 4. 2. 3

करणसहितेन मनसा युक्तः प्राणस्तु पुरुषेण ।
यत्सङ्कल्पात् श्लिष्यति तद्ब्रह्म श्रीनिवासनाम भजे ॥ 166 ॥

145 4. 2. 4

प्राणः पुरुषेण युतो भूतैस्सह यस्य सङ्कल्पात् ।
संसृष्टो भवति तदा तद्ब्रह्म श्रीनिवासनाम भजे ॥ 167 ॥

146 4. 2. 5

यदुपासननिष्ठानामितरेषां चेयमुत्क्रान्तिः ।
यस्येच्छया समाना तद्ब्रह्म श्रीनिवासनाम भजे ॥ 168 ॥

147 4. 2. 6

करणमनःप्राणैस्सह जीवेन च भूतसूक्ष्माणि ।
संपद्यन्ते यस्मिन् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 169 ॥

148 4. 2. 7

यस्मिन् मरणदशायां संपत्तिर्भूमसूक्ष्मजीवानाम् ।
सङ्गतिविशेषरूपा तद्ब्रह्म श्रीनिवासनाम भजे ॥ 170 ॥

149 4. 2. 8

यदनुग्रहतो विद्वान् नाड¬ा मूर्धन्यया शताधिकया ।
निर्गच्छति स्वदेहात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 171 ॥

150 4. 2. 9

आदित्यस्य स रश्मीन् अनुसृत्यैव प्रतिष्ठते देहात् ।
यदुनुग्रहेण विद्वान् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 172 ॥

151 4. 2. 10

यदुपासको निशायां म्रियमाणोऽप्यखिलकर्मणां नाशात् ।
यत्प्राप्नोत्यविलंबात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 173 ॥

152 4. 2. 11

यद्विद्यामनुतिष्ठन् म्रियमाणो दक्षिणेऽप्ययने ।
ब्रह्म प्राप्नोति परं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 174 ॥

153 4. 3. 1

तदुपासीनस्सर्वोऽप्येकेनैवार्चिरादिमार्गेण ।
प्राप्नोति यस्य लोकान् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 175 ॥

154 4. 3. 2

यदुपासकोऽर्चिरादौ मार्गे संवत्सरं प्राप्य ।
पश्चाद्गच्छति वायुं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 176 ॥

155 4. 3. 3

यदुपासकोऽर्चिरादौ तटितं प्राप्याथ वरुणमाप्नोति ।
इन्द्रमथ ब्रह्माणं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 177 ॥

156 4. 3. 4

यदुपासननिष्ठानां अतिवहनेष्वर्चिरादयः पुरुषाः ।
येन नियुक्ता मार्गे तद्ब्रह्म श्रीनिवासनाम भजे ॥ 178 ॥

157 4. 3. 5

पञ्चाग्निविदः पुरुषात् ब्रह्मविदश्चातिवाहिकगणः सः ।
अतिवहति यन्नियुक्तः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 179 ॥

158 4. 4. 1

कर्मतिरोहितरूपो भवत्ययं यदुपसंपत्त्या ।
आविर्भवत्स्वरूपः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 180 ॥

159 4. 4. 2

बन्धककर्मविमुक्तः पुरुषोऽयं यद्विशेषणत्वेन ।
अनुभवति स्वात्मानं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 181 ॥

160 4. 4. 3

अपहतपाप्मत्वाद्यैः आविर्भवति स्वयंप्रकाशोऽयम् ।
यत्संपत्त्या जीवः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 182 ॥

161 4. 4. 4

यत्परिचरणासक्तो मुक्तः सङ्कल्पमात्रेण ।
प्राप्नोति कामितार्थान् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 183 ॥

162 4. 4. 5

सतनुः कदाचिदतनुः भूत्वा मुक्तो यथाकामम् ।
अनुभवति यस्य लीलां तद्ब्रह्म श्रीनिवासनाम भजे ॥ 184 ॥

163 4. 4. 6

मुक्तः स भोगमात्रे परमं साम्यं प्रयाति येन समम् ।
विच्छेदकथारहितं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 185 ॥

अधिकरणरत्नमाला ग्रथिता श्रीदेशिकार्येण ।

उल्लासमावहन्ती जयतु श्रीश्रीनिवासह्मदयेऽसौ ॥