कर्मतिरोहितरूपो भवत्ययं यदुपसंपत्त्या ।
आविर्भवत्स्वरूपः तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 180 ॥
28 ॥ संपद्याविर्भावाधिकरणम् ॥ 1 ॥ पूर्वस्मिन् पादे अर्चिरादिना प्रस्थितस्य ब्रह्मविदः आतिवाहिकेनामानवेन ‘‘आदित्यवर्णं तमसः परस्तात्’’ ‘‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’’ इत्यादिषु उक्तलोकविशेषे अपराजितायतने हिरण्मयदिव्यपर्यङ्के निरतिशयज्योतिर्मयवासुदेवाख्यदिव्यमङ्गलविग्रहविशिष्टतयाऽवस्थितस्य ‘‘तदा विद्वान् नामरूपात् विमुक्तः परात् परं पुरुषमुपैति दिव्यं’’ इत्यादिषु मुक्तप्राप्यतयोपदिष्टस्य श्रीनिवासनाम्नो ब्रह्ममः" प्रापणमुक्तम् । इदानीं चतुर्थपादेन उक्तपरब्रह्मप्राप्त्यनन्तरभाविमुक्तैश्वर्यं निरूप्यते ॥ संपद्याविर्भावः स्वेन शब्दात् ॥ 4-4-1 ॥ [मुक्तः प्रतिज्ञानात् ॥ 2 ॥ आत्मा प्रकरणात् ॥ 3 ॥] संपद्य-परं ज्योतिः प्राप्य, ‘‘अभिनिष्पद्यत’’ इच्युच्यमाना अभिनिष्पत्तिः स्वरूपस्य आविर्भावरूपा, ‘‘स्वेन’’ इति रूपस्य विशेषणात्तश्राऽवगमदिति सुत्रार्थः । कर्मतिरोहितरूपो भवत्ययं यदुपसंपत्त्या । आविर्भवत्स्वरूपः तद्ब्रह्म श्रीनीवासनाम भजे ॥ 182 ॥ कर्मभिः- पुण्यपापरूपैः, तिरोहितं-अप्रकाणितं, आच्छादितामिति यावत; अकार्यकारितया कृतमित्यर्थः । स्वरूपं-अपहतपाप्मत्वादिगुणाष्टकरूपस्वधर्मो यस्य तथाविधः अयं-जीवः संसारी चेतनः, यस्य-श्रीनिवासस्य परमपदे श्रीवैकुण्ठनगरे परवासुदेवरूपेणावस्थितस्य उपसंपत्त्या-प्राप्त्या, आर्विभवत्-निवृत्ततिरोधानं, स्वरूपं-पूर्वोक्तगुणाष्टकं यस्य तथाभूतो भवति तद्ब्रह्म इति पूर्ववत् ॥ अयं भावः- संसारदशायामस्य चेतनस्य स्वाभाविकं यदपहतपाप्मत्वादिगुणाष्टकं कर्मभिस्तिरोहितमभूत, तत् प्रकृतिमण्डलोत्तीर्णे श्रीवैकुण्ठाख्ये लोकविशेषे निरतिशयज्योतिर्मयपरवासुदेवाख्यदिव्यमङ्गलविग्रहविशिष्टतया अवस्थितस्य श्रीनिवासस्य प्राप्त्या निवृत्तकर्मतिरोधानं" भवतीति ‘‘परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते’’ इति श्रुतौ ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्यनेनोच्यत इति ॥ पूर्वपक्षः । ‘‘अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत’’ इति छान्दोग्ये प्रजापतिविद्याप्रकरणे परब्रह्मप्राप्त्यनन्तरभावितयोच्यमाना प्रत्यगात्मनः स्वरूपेणाभिनिष्पत्तिः न तदीयस्वरूपविर्भावरूपा, प्रत्यगात्मनः स्वरूपस्य सुषुप्तिदशायां सुखदुःखसंबन्धविरहेण भोग्यत्वाभावस्य ‘‘नाहमत्र भोग्यं पश्यामि’’ इति इन्द्रिवचनेन सिद्धतया मुक्तिदशायां तथाविधस्वरूपाविर्भावस्य प्रतिपादने मोक्षशास्त्रस्य पुरुषार्थावबोधित्वाभावप्रसङ्गात; अपि तु अपुर्वेण केनचित् आकारेण संबन्ध एव ‘‘अभिनि,्पद्यते’’ इत्यन्नोच्यते । न चैवं तदानिमुत्पद्यमानस्य रूपस्य ‘स्वेन’ इति विशेषणवैयर्थ्यं, अपूर्वतया उत्पद्यमानस्य रूपस्य स्वीयताया अवक्तव्यत्वात् इति वाच्यम्; तदानीमुत्पद्यमानस्य रूपस्य वस्तुतः" स्वीयत्वात् तदभिधानपरतया तदुपपत्तेरिति ॥ सिद्धान्तः । परब्रह्मप्राप्त्या प्रत्यगात्मनः अपूर्वस्य कस्यचिदाकारस्य उत्पत्त्यभ्युपगमे रूपस्य स्वीयत्वविशेषणवैयर्थ्यप्रसङ्गः; वस्तुस्थितिकथनतत्परत्वे तु विशेषणस्यानुप युक्ततैव स्यात् । अतः संसारदशायां तिरोहितस्य प्रजापतिविद्योपक्रमे ‘‘अपहतपाप्मा विजरोविमृत्युः’’ इत्यादिनाऽभिहितस्य प्रत्यगात्मनः स्वाभाविकस्य अपहतपाप्मत्वादिगुणाष्टकस्य परब्रह्मप्राप्त्या तिरोधाननिवृत्तिरूपाविर्भाव एव तत्र ‘‘स्वेन रूपेणाभिनिष्पद्यते’’ इत्यनेन विवक्षितः । तदेतत् प्रजापतिविद्योपक्रभे ‘‘अपहतपाप्मा विजरो विमृत्युः’’ इत्यादिना अपहतपाप्मत्वादिविशिष्टप्रत्यगात्मस्वरूपमुपक्षिप्य तत्स्वरूपजिज्ञासयोपसेदुषे इन्द्राय तदुपदेशप्रवृत्तेन प्रजापतिना ‘‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’’ इति पुनः पुनः एतच्छब्देन तमेव गुणाष्टकविशिष्टं प्रत्यगात्मानं परामृश्य, अन्ते ‘‘एष संप्रसादोऽस्माच्छरीरात् समुत्थाय’’ इत्यादिना एतच्छव्दपरामृष्टस्य तस्यैव गुशाष्टकविशिष्टस्य परब्रह्मप्राप्त्या स्वेन रूपेणाभिनिष्पत्त्यभिधानात्, अभिनिष्पद्यमानस्य रूपस्य पूर्वमेव सिद्धतासिद्ध्याऽवगम्यते । प्रत्यगात्मनः कर्मकृततिरोधानेन तदीयज्ञानसङ्कोचं, तिरोधायककर्मनिवृत्त्या ज्ञानविकासे परब्रह्मगुणानुभवजनितानन्दानुभवप्राप्तिं" चामिदधता तदुत्तरवाक्यसन्दर्भेण प्रत्यगात्मस्वरूपविर्भावस्य पुरुषार्थत्वं श्रुत्यैव स्पष्टीकृतम् । तत्र हि ‘‘स यथा प्रयोग्य आचरणे युक्तः एवमेवायमस्मिन् शरीरे प्राणो युक्तः’’ इत्यादिना प्रत्यगात्मसंबन्धिज्ञानस्य कर्मकृतशरीरसंबन्धदशायां इन्द्रियाधीनप्रसरणरूपसङ्कोचमुक्त्वा, ‘‘स वा एव एतेन दिव्येन चक्षुषा णनसैतान् कामान् पश्यन् रमते, य एते ब्रह्मलोके’’ इत्यनेन कर्मकृतशरीरसंबन्धनिवृत्तिदशायां कर्मकृतज्ञानसङ्कोचनिवृत्त्या विकसितज्ञानेन परब्रह्मणः सर्वकल्याणगुणानुभवजनितानन्दप्राप्तिरभिधीयते । सः-कर्मकृतशरीरसंबन्धेन सङ्कुचितज्ञानः, एषः-ब्रह्मप्राप्त्या आविर्भूतस्वरूपः आत्मा, दिव्येन चक्षुषा, मनसा - निरतिशयविकासदशापन्नज्ञानेन, कामान् पश्यन्, ब्रह्मणि ये कामाः- कल्याणगुणाः, तान् पश्यन् रमते इति हि तदर्थः । संसारदशायां कर्मणा सङ्कुचितस्य स्वाभाविकस्य जीवात्मज्ञानस्य कर्मविगमे निरतिशयविकासापत्तिरेव, नोत्पत्तिः इत्ययमर्थः ‘‘यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । यथोदपानकरणात् क्रियते न जलाम्बरं ॥ सदेव नीयते व्यक्तिमसतः" संभवः कुतः । तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ’’ इति शौनकवचनेन स्पष्टीकृतः" । नारायणानुवाके ‘‘नारायण परो ज्योतिरात्मा नारायणः परः’’ ईत्यनेन श्रुतिषु परज्योतिःशब्दनिर्दिष्टस्य नारायणत्वभिधानात्; प्रजापतिविद्यायां" ‘‘परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः’’ इत्यत्र परज्योतिःशब्दनिर्दिष्टं ‘‘अपहतपाप्मा ह्येष विरजो ब्रह्मलोक’’ इत्यत्र एतच्छब्देन परामृश्य तस्यापहतपाप्मत्वमभिधाय अपहतपाप्मताया ‘हि’शब्देन प्रसिद्धताद्योतनात् प्रसिद्धेश्च, सुबालोपनिषदि ‘‘अपहतपाप्मा दिव्यो देव एको नारायणः’’ इति नारायण एव सत्तवाच्च अस्मिन् पद्यो यदुपसंपच्या आविर्भवत्स्वरूपः इत्युक्तम् ॥ 151 ॥ इति संपद्याविर्भावाधिकरणम् ॥ 1 ॥
बन्धककर्मविमुक्तः पुरुषोऽयं यत्-विशेषणत्वेन ।
अनुभवति स्वात्मानं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 181 ॥
29 ॥ अविभावेन दृष्टत्वाधिकरणम् ॥ 2 ॥ परब्रह्मोपसंपत्त्या आविर्भूतस्वरूपस्य परब्रह्मानुभवप्रकारमाह- अविभागेन दृष्टत्वात् ॥ 4-4-4 ॥ मुक्तः स्वात्मानं अविभागेन-विभागः-पृथक्स्तितिः, तदभावोऽविभागः, अवृथक्सिद्धिरिति यावत; तेन- परब्रह्मापृथक्सिद्धत्वेन अनुभवतीत्यर्थः" । तत्र हेतुमाह दृष्टत्वात् इति । यथावस्थितस्वात्मस्वरूपस्य साक्षाकृतत्वादिति सूत्रार्थः ॥ बन्धककर्मविमुक्तः पुरुषोऽयं यद्विशेषणत्वेन । अनुभवति स्वात्मानं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 183 ॥ बन्धकैः- ज्ञानसङ्कोचकरैः कर्मभिः विमुक्तः-निरतिशयविकासापन्नज्ञानवान् इत्यर्थः; अयं पुरुषो-मुक्तात्मा, स्वात्मानं-स्वस्वरूपं, यद्विशेषण त्वेन-यस्य श्रीनिवासस्य अपृथक्सिद्धप्रकारत्वेन, तदधीनसत्तास्थितिप्रवृत्तिकत्वेनेति यावत; अनुभवाति, तद्ब्रह्म इति पूर्ववत् ॥ पूर्वपक्षः । ‘‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’’ इति श्रुतौ ‘पुत्रेण सह ओदनं भुङ्क्ते’ इतिवत् मुक्तात्मनो भोगे ब्रह्मसाहित्यं" प्रतिपाद्यते । तथा ‘‘निरञ्जनः परमं साम्यमुपैति’’ इति मुक्तौ ब्रह्मणा परमासाम्यापत्तिश्च प्रतीयते । श्रीगीतासु ‘‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रकयो न व्यथन्ति च ’’ इति साधर्म्यप्राप्तिश्च स्मर्यते । अतोऽत्र प्रतिपादितयोः" साहित्यसाम्ययोः प्रत्यगात्मस्वरूपस्य परमात्मस्वरूपात् विभक्तत्व एवोपपत्तेः, प्रत्यगात्मा मुक्तौ स्वात्मानं परमात्मनो विभक्तमेवानुभवति । प्रत्यगात्मपरमात्मनोः शरीरात्मभावेन प्रकारप्रकरिभावश्रुतिस्तु संसारदशाविषया; मुक्तिदशायां तयोः साम्यस्य तत्र पारम्यस्य च प्रतिपादनेन प्रकारप्रकारिभावश्रुतेः संसारदशाविषयकतया व्यवस्थापितत्वादिति ॥ सिद्धान्तः । ‘‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’’ इति श्रुतिः ‘क्षीरेण सह ओदनं भुङ्क्तं’ इतिवत् भोम्यसाहित्यपरा, ‘‘ब्रह्मविदाप्नोति परं’’ इत्यत्र प्रकृतब्रह्मप्राप्तिकारविवरणाय प्रवृत्तत्वात्; न तु भोक्तृसाहित्यपरा । ततश्च ब्रह्म तद्गुणाश्चानुभवतीति श्रुत्यर्थः" । ततश्च ब्रह्मापेक्षया गुणानां भोम्यतातिशयः श्रुत्या विवक्षितः । उदाहृतपरमसाम्यश्रुतिस्तु मुक्तिदशायां परब्रह्मानुभवे परब्रह्मणा सह परमसाम्यप्राप्तिपरा । ततश्च उक्तश्रुतिद्वयासिद्धसाम्यसाहित्ययोः ‘‘य आत्मनि तिष्ठन् आत्मनोऽन्तरो, यमात्मा न वेद, यस्यात्मा शरीरं, यमात्मानमन्तरो यमयति, स त आत्माऽन्तरो, यमात्मा न वेद, यस्यात्मा शरीरं, यमात्मानमन्तरो यमयति, स त आत्माऽन्तर्याम्यमृत’’ इत्यादिश्रुतिप्रतिपन्नस्य जीवात्मपरमात्मनोः शरीरात्मभावरूपप्रकारप्रकारिभावस्य च विहोधाभावेन तद्वोधकशास्त्रयोर्बाध्यबाधकभावाभावेन मुक्तिदशायामप्युदाहृतश्रुतिसिद्धस्य तयोः प्रकारप्रकारिभावस्य दुरपह्नवतया मुक्तः स्वात्मानं ‘अहं ब्रह्मास्मि’ इति ब्रह्मशरीरतया तत्प्रकारत्वेनैवानुभवतीति ॥ अस्मिन् सूत्रे ‘अविभागेन’ इत्याविभागपदं न जीवपरयोः स्वरूपैक्यपरम्, तथा सति पूर्वापरसूत्रविरोधप्रसङ्गात् । पूर्वसूत्रे हि परब्रह्मप्राप्त्या जीवस्य स्वरूपाविर्भावः सूत्रितः । ततश्च ब्रह्मणः प्राप्यतायाः प्रत्यगात्मनः प्राप्तृतायाश्च सूत्रितत्वेन ‘‘कर्मकर्तृव्यपदेशाच्च’’ इति सर्वत्र प्रसिद्ध्यधिकरणसूत्रोक्तन्यायेन तयोर्भेदः त्रकारैः विवक्षित इति सिद्धम् ॥ एवं ‘‘सङ्कल्पादेव तच्छ्रुतेः’’ इत्युतरसूत्रे मुक्तस्य स्वसङ्गल्पात् पित्रादिसृष्टिप्रतिपादनात् तदसङ्गतिप्रसङ्गः । निर्विशेषचिन्मात्रब्रह्मणैक्यापन्नस्य सङ्कल्पसृष्ट्यापरासंभवात् । जगद्व्यापारवर्जाधिकस्णे मुक्तस्य जगद्व्यापाराभावप्रतिपादनात्; ईश्वरस्य सृष्ट्यादिजगद्व्यापारप्रतिपादनाच्च तयोर्भेदस्य सूत्रकारैः विवक्षितत्वसिद्धेश्च । एवं परज्योतिरुपसंपत्त्या स्वरूपाविर्भावस्य निर्विशेषचिन्मात्रब्रह्मैक्यापत्तिरूपत्वे प्रजापतिविद्यायां परंज्योतिरुपसन्नस्य ‘‘स तत्र पर्येति जक्षत् क्रीडन् रममाणः’’ इत्यादिना जक्षणक्रीडादेर्व्यापारस्य ‘‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयते’’ इति सङ्कल्पमात्रेण सृष्ट्यादिव्यापारस्याभिधानासङ्गतिप्रसङ्गः । जक्षणविहरणाद्यभिधानस्य विद्यास्तुतिरूपत्वाङ्गीकारे सूत्रकारणां ‘‘सङ्कल्पादेव तच्छ्रुतेः’’ इति तद्विचारासङ्गतिप्रसङ्गः । स्तुतिमात्ररूपत्वे तत्र श्रुतितात्पर्यविरहेण तस्याविचारणीयत्वात् इत्यादिकं बहु बक्तव्यमस्ति । विस्तरभयादुपरम्यते । तत्सर्वमस्मत्कृतव्याससिद्धान्तमार्ताण्डे द्रष्टव्यम् ॥ 152 ॥ इति अविभागेन दृष्टत्वाधिकरणम् ॥ 2 ॥
अपहतपाप्मत्वाद्यैः आविर्भवति स्वयंप्रकाशोऽयम् ।
यत्संपत्त्या जीवः तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 182 ॥
30 ॥ ब्राह्माधिकरणम् ॥ 3 ॥ ‘‘संपद्याऽऽविर्भावः स्वेन शब्दात्’’ इति सूत्रे परंज्योतिरुपसंपन्नस्य स्वरूपाविर्भाव उक्तः। तत्स्वरूपमिदानीं विचार्यते ॥ ब्राह्मेण जैमिनिरूपन्यासादिभ्यः ॥ 4-4-5 ॥ परं ज्योतिरुपसंपन्नः, ब्राह्मेण-परब्रह्मसंबन्धिना अपहतपाप्मत्वादिसत्यसङ्कल्पत्वान्तगुणाष्टकेन आविर्भवति; गुणाष्टकविशिष्टः" सन् आविर्भवतीत्यर्थः । उक्तगुणाष्टकमाविर्भवतीति यावत् । तत्र प्रमाणमाह उपन्यासादिभ्यः इतिः प्रजापतिविद्याप्रकरणे ‘‘य आत्मा अपहतपाप्मा’’ इति उपन्यासात् । आदिपदेन ‘‘स तत्र पर्येति जक्षत् क्रीडन् रममाणः’’ इत्याद्युपन्यासो गृह्यते ॥ अयं भावः- प्रजापतिविद्यायां ‘‘य आत्मा अपहतपाप्मा’’ इत्यादि, ‘‘सत्यसङ्कल्प’’ इत्यन्तेन प्रत्यगात्मनो दहरविद्याप्रकरणे परब्रह्मसंबन्धितया श्रुतापहतपाप्मत्वादिगुणाष्टकविशिष्टताभिधानात् अपहतपाप्मत्वादिगुणाष्टकमेव अस्य स्वाभाविकधर्म इत्यवगम्यते, न तु ज्ञानस्वरूपत्वम् । एवं अस्मिन्नेव प्रकरणो ‘‘स्वेन रूपेणाभिनिष्पद्यते’’ इत्युक्त्वा ‘‘स तत्र पर्येति जक्षत् क्रीडन् रममाणः’’ इत्यादिना सत्यसङ्कल्पत्वकार्यभूतजक्षणक्रीडादेरभिधानादपि सत्यसङ्कल्पत्वमस्य स्वाभाविकधर्म इत्यवसीयते । तत उक्तैर्हेतुभिः प्रत्यगात्मनः संसारदशायां तिरोहितमपहतपाप्मत्वादिगुणाष्टकं मुक्तिदशायामाविर्भवतीति जैमिनेर्मतमिति ॥ अत्रैव मतान्तरमाह- चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ 4-4-6 ॥ परंज्योतिरुपसंपन्नः चितितन्मात्रेण- चैतन्यमात्रस्वरूपेण अविर्भवति; चैतन्यमात्रं स्वरूपमाविर्भवतीत्यर्थः । तत्र हेतुमाह तदात्मकत्वात् इति । ‘‘स यथा सैन्धवघनः’’ इत्यादिश्रुत्या चैतन्यमात्रस्वरूपत्वावगमात् इत्यौडुलोमिराचार्यो मन्यत इति सूत्रार्थः ॥ अयं भावः- बृहदारण्यके ‘‘स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव, एवं वाऽरे अयमात्माऽनन्तरोऽबाह्यः प्रज्ञानघन एव, विज्ञानघन एव’’ इत्यत्र प्रत्यगात्मनः स्वरूपाभिधानप्रकरणे बहिरत्नश्च कार्त्स्न्येन विज्ञानघनत्वावधारणात् अवधारणस्य च धर्मान्तरव्यवच्छेदार्थत्वाच्छैतन्यमात्रस्वरूपत्वमात्मनोऽवगम्यते । अतो निर्धर्मकं चैतन्यमात्रमेव आत्मनः स्वरूपम् । ‘‘अपहतपाप्मा’’ इत्यादिश्रुतिस्तु आत्मनो न भावरूपधर्मान्तरप्रतिपादनपरा, ‘‘अपहतपाप्मा’’ इत्यादिना, ‘‘अपिपास’’ इत्यन्तेन विकारजरामरणशोकक्षुत्पिपासानामभावस्य, ‘सत्यकाम’पदेन अनित्यसुखाभावस्य, ‘‘सत्यसङ्कल्प’’ इत्यनेन उपेक्षाराहित्यस्य च प्रतिपादनेन अभावस्याधिकरणस्वरूपत्वेन तदविरोधोपपत्तेः । ज्ञानास्य ज्ञनाश्रयत्वायोगेनापि ज्ञानस्वरूपस्यात्मनो न ज्ञानादिधर्मान्तराश्रयत्वसंभवः । अतः प्राक संसारदशायां तिरोहितं चैतन्यसात्रं स्वरूपं मुक्तिदशायामाविर्भवति इत्यौडुलोमेर्मतम् । इदानीं भगवान् बादरायणः स्वसिद्धान्तमाह- एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॥ 4-4-7 ॥ एवमपि-चैतन्यस्वरूपत्वेऽपि, उपन्यासात्- ‘‘यआत्मा अपहतपाप्मा’’ इत्यादिना गुणाष्टकवत्त्वोपदेशात्, पूर्वस्य-गुणाष्टकस्य, भावात्-सद्भावावश्यंभावात्, अविरोधं-चैतन्यस्वरूपत्वगुणाष्टकवत्वयोर्विरोधाभावं भगवान् बादरायणो मन्यत इति सूत्रार्थः ॥ अपहतपाप्मत्वाद्यैः आविर्भवति स्वयंप्रकाशोऽयं । यत्संपत्त्या जीवः तद्ब्रहम श्रीनिवासनाम भजे ॥ 184 ॥ स्पष्टोऽर्थः ॥ अयं भावः- ‘‘स यथा सैन्धवघनः’’ इत्यादिश्रुत्या यथा आत्मनो ज्ञानस्वरूपत्वमभिधीयते, तथा ‘‘एष आत्मा अपहतपाप्मा’’ इत्यादिश्रुत्या सत्यसङ्कल्पत्वादिधर्मवत्त्वस्याप्यभिधानेन द्वयोरपि श्रुत्योः प्रमाणत्वाविशेषात् उक्तोभयश्रुतिसिद्धमात्मनो ज्ञानस्वरूपत्वं" सत्यसङ्कल्पत्वादिधर्मवत्त्वं चोभयमप्यङ्गीकार्यम् । ज्ञानस्वरूपत्वश्रुत्या ‘‘सत्यकामः सत्यसङ्कल्पः’’ इति श्रुतिबन्धाङ्गीकारे, तुल्यन्यायेन तया श्रुत्या ज्ञानस्वरूपत्वाभिधायिश्रुतेर्बाधप्रसङ्गात् । ‘‘विज्ञानघन एव’’ इत्येवकारस्तु न ज्ञातृत्वादिधर्मव्यवच्छेदपरः, अपि तु आत्मस्वरूपस्यांशे जडत्वव्यवच्छेदपरः । तदिदं तत्रत्यदृष्टान्तवाक्येनैवावगम्यते । सैन्धवघनदृष्टान्ते हि ‘‘कृत्स्नो रसघन एव’’ इत्येवकारेण लवणखण्डे चक्षुरादीन्द्रियान्तरावगतं रूपकाठिन्यदिधर्मान्तरं न व्यवच्छिद्यते । अपि तु आम्रफलादिषु प्रदेशविशेषेषु रसभेदवत् लवणखण्डे प्रदेशविशेषे लवणरसवत्त्वाभाव एव व्यवच्छिद्यते । एवमात्राप्यात्मस्वरूपे अंशे ज्ञानस्वरूपत्वाभाव एव एवकारव्यवच्छेद्यः, न तु श्रुत्यन्तरावगतं ज्ञातृत्वादिधर्मान्तरम् । ‘यत् ज्ञानं तत् ज्ञानानाश्रय’ इति व्याप्तिस्त्वसिद्धा, आत्मनो ज्ञानस्वरूपत्वज्ञानाश्रयत्वयोर्द्वयोरपि श्रुत्यैव प्रतिपादनादिति ॥ 153 ॥ इति ब्रह्माधिकरणम् ॥ 3 ॥
यत्परिचरणासक्तो मुक्तः सङ्कल्पमात्रेण ।
प्राप्नोति कामितार्थान् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 183 ॥
31 ॥ सङ्कल्पाधिकरणम् ॥ 4 ॥ पूर्वाधिकरणे मुक्तस्यापहतपाप्मत्वादिसत्यसङ्कल्पत्वान्तगुणाष्टकाविर्भावः सिद्धान्तितः । आविर्भूतस्वरूपस्य साक्षात्कृतपरमात्मशेषभावस्य सत्यसङ्कल्पत्वप्रयुक्तः परमात्मानुभवपरीवाहकैङ्कर्यप्रकार इदानीं निरूप्यते ॥ शङ्कल्पादेव तच्छ्रुतेः ॥ 4-4-8 ॥ [अत एव चानन्याधिपतिः ॥ 9 ॥] सङ्कल्पोदेव-मुक्तस्य सङ्कल्पमात्रादेव, इष्टार्थप्राप्तिः; तच्छ्रुतेः- सङ्कल्पमात्रादेवेष्टार्थप्राप्तिश्रुतेरिति सूत्रार्थः ॥ यत्परिचरणासक्तोन्मुक्तः सङ्कल्पमात्रेण । प्राप्नोति कामितार्थान् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 185 ॥ मुक्तः-कर्मबन्धान्मुक्तः यत्परिचरणेषु यस्य-परमपदे वासुदेवरुपेणावस्थितस्य, श्रीनिवासस्य, अनुभवपरीवाहभूतकैङ्कर्येषु आसक्तः" सनुउत्तरोत्तराभिवृद्धमनोरथः सन् स्वकामितार्थान्-स्वीयमनोरथविषयभूतानि कैङ्कर्योपकरणानि, सङ्कल्पमात्रेण-प्रयत्नान्तरनिरपेक्षेण सङ्कल्पेन, प्राप्नोति, तद्ब्रह्म इति पूर्ववत् ॥ अयं भावः-छान्दोग्ये ‘‘परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा’’ इति प्रजापतिविद्याप्रकरणे श्रूयते । तथा तत्रेव दहरविद्याप्रकरणे ‘‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’’ इत्यादिना पितृमात्रादेः सङ्कल्पादेव प्राप्तिः श्रूयते । तस्याः सङ्कल्पमात्रादेव पित्रादिप्राप्तेः स्त्रीभिर्यानैर्विहरणस्य च मुक्तस्य साक्षात्कृतस्वीयपरमात्मशेषभावस्य स्वभोगार्थत्वं न संभवदुक्तिकम् । स्वस्यभागवच्छेषतैकस्वरूपत्वं साङात्कृतवतो भगवदनुभवव्यतिरिक्तेषु केषुचित् व्यापारेषु प्रवृत्त्यसंभवात् । अत एव भूमविद्याप्रकरणे ‘‘आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्द’’ इति मुक्तं प्रकृत्य श्रूयते । अतः पित्रादिप्राप्तेः भगवत्प्रीत्येकोद्देशेन क्रियमाणव्यापारत्वेमेव वक्तव्यमिति । यथा च मुक्तव्यापाराणां भगवत्परिचर्यारूपत्वं" तथोपपादितं व्याससिद्धान्तमार्ताण्डे द्वितीयपरिच्छेदेऽस्माभिः । पूर्वपक्षः । लोके अमोघसङ्कल्पत्वेन प्रसिद्धानां राजादीनामप्यभीष्टार्थप्राप्तौ प्रयत्नापेक्षादर्शनात् मुक्तस्याप्यभीष्टार्थप्राप्तिः प्रयत्नसापेक्षैव । न चेश्वरस्य सङ्कल्पादेवेष्टार्थप्राप्तिवत् मुक्तस्यापि सङ्कल्पमात्रादेव तत्प्राप्तिः । ‘सङ्कल्पादेव’ इत्येवकरिण प्रयत्ननैरपेक्ष्यप्रतीतेरिति वाच्यम् । ‘‘जक्षत्क्रीडन् रममाणः’’ इत्यादिना मुक्तस्या जक्षणक्रीडादिव्यापाराणां श्रवणात् तेषां च कर्मणां बन्धकत्वेन तैः सङ्कल्पप्रतिघातसंभवात् सङ्कल्पादेवेत्यवधारणस्यायोगव्यवच्छेदपरतया सङ्कोचयितव्यत्वात् । ईश्वरस्य तु कर्मवश्यत्वाभावेन सङ्कल्पमात्रादेवेष्टार्थप्राप्त्युपपत्तेरिति ॥ सिद्धान्तः । ‘‘सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’’ इत्येवकारस्यान्ययोगव्यवच्छेदे स्वारसिकत्वात् तेन ईश्वरस्येव मुक्तस्यापि प्रयत्नान्तरमनबेक्ष्य सङ्कल्पमात्रादेवे ष्टार्थप्राप्तिरिति सिद्ध्या, तत्कृतजक्षणक्रीडनादिव्यापाराणां पुण्यपापसजातीयानामपि नेच्छविघातकत्वरुपं बन्धकत्वमित्यवगम्यते । न च तेषां बन्धककर्मत्वे प्रमाणान्तरमुपलभ्यते । अत एव छान्दोग्ये भूमविद्याप्रकरणे ‘‘स स्वराट््भवति’’ िति मुक्तस्याकर्मवश्यत्वरुपं" स्वराट्त्वं श्रूयते । तत्र हि ‘स्वराट्’ इत्यस्य ‘स्वयमेव राजा नियन्ता’ इति मुख्यार्थस्य बाधेन अन्यवश्यत्वाभावेनार्थो वक्तव्यः" । ततश्च ‘‘य आत्मानमन्तरो यमयति’’ इति परमात्मनियाम्यतया श्रुतस्य प्रत्यगात्मनोऽन्यनियाम्यत्वाभावासंभवात् । मुक्तप्रकरणच्च कर्मवश्यत्वाभावरूपमेव स्वराट्त्वं वक्तव्यम् । अपहतपाप्मत्वमपि तदनुष्ठितपुण्यपापसजातीयकर्मफलाश्लेषरुपमेव । स्वर्गप्राप्तिफलककर्मफलभूतभोगानामिव मुक्तकृतजक्षणादिव्यापारणामपि पुण्यपापरूपत्वासंभवात् ‘सङ्कल्पादेव’ इत्येवकारस्य स्वरसप्राप्तान्ययोगव्यवच्छेद एवार्थः स्वीकरणीयः" । मुक्तस्य ईश्वरस्येव प्रयत्नान्तरनिरबेक्षसङ्कल्पमात्रेणैव भगवदनुभवोपकरणभूतस्वाभीष्ठार्थप्राप्तिरिति । ‘‘परं ज्योतिरुपसंबद्य स्वेनरूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षत्क्रीडन् रममाणः’’ इत्यत्र परज्योतिश्शब्दोक्तस्य उत्तमपुरुषत्वं, ‘सतत्र पर्येति’ इति मुक्तस्य तदनुभवं चाभिधाय, ‘जक्षत्क्रीडन् रममाण’ इत्यादिना अनुभवप्रकारविवरणात्, ‘उत्तमः पुरुष’ इत्यानेन भगवतः श्रीनिवासस्य प्रत्यभिज्ञानाच्च, अस्मिन् पद्ये यत्परिचर्यासक्त इत्युक्तम् ॥ 154 ॥ इति सङ्कल्पाधिकरणम् ॥ 4 ॥
सतनुः कदाचिदतनुः भूत्वा मुक्तो यथाकामम् ।
अनुभवति यस्य लीलां तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 184 ॥
32 ॥ अभावाधिकरणम् ॥ 5 ॥ पूर्वाधिकरणे मुक्तस्य सङ्कल्पमात्रात् भगवत्परिचरणोपयुक्तपित्रादिमृष्टिरुक्ता; इदानीं मुक्तस्य सङ्कल्पेविसेषो निरूप्यते ॥ तत्र बादरिमतमाह- अभावं बादरिराह ह्येवम् ॥ 4-4-10 ॥ सिद्धान्तसूत्रे ‘‘तन्वभावे सन्ध्यवदुपपत्तेः,’’ ‘‘भावे जाग्रद्वत’’ इति बक्ष्यमाणत्वात्, अस्मिन् सूत्रे अनन्तरसूत्रे च अभावभावशब्दौ शरीराभावतत्सद्भावपरौ इति निश्चीयते । अतः एवं सूत्रार्थः- मुक्तस्य शरीराभावं बादरीः आचार्यो मन्यते । तत्र हेतुः आह ह्येवं" । एवं-मुक्तमशरीरं श्रुतिः आह हि इति ॥ अयं भावः- छान्दोग्ये प्रजापतिविद्याप्रकरणे ‘‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’’ इति शरीरसंबन्धे सुखदुःखयोरवर्जनीयतां शरीरसंबन्धाभावे सुखदुःखयोरभावं च प्रतिपाद्य, ‘‘अस्माच्छरीरात् समुत्थाय परं" ज्योतिरुपसंपद्य’’ इत्यादेना मुक्तिदशायां शरीरादुत्थानाभिधानात् मुक्तस्य शरीरं नास्तीति ज्ञायत इति ॥ अत्र जैमिनेर्मतमाह- भावं जैमिनिर्विकल्पामननात् ॥ 4-4-11 ॥ मुक्तस्य शरीरसद्भावं जैमिनिः आचार्यो मन्यते । तत्र हेतुः विकल्पामननात इति । विविधः कल्पो विकल्पः, विविधत्वमित्यर्थः; तस्य आमननात्-श्रवणादिति सूत्रार्थः ॥ अयं भावः- छान्दोग्ये भूमविद्याप्रकरणे ‘‘स एकधा भवति त्रिधा भवति’’ इत्यादिना मुक्तस्य त्रिधाभवनादिकं श्रूयते । तच्च आत्मस्वरूपन्य छेद नाद्यसंभवात् शरीरद्वारकमेव त्रिधाभवनं वक्तव्यमिति तया श्रुत्या मुक्तस्य शरीरसद्भावसिद्धेः सशरीर एव मुक्तः । अशरीरत्वश्रुतिस्तु सुखदुःखहेतुभूतशरीराभावपरेति । तदेवं मुक्तोऽशरीर एवेत्येकं मतं, सशरीर एवेत्यपरं मतमिति मतद्वयं दर्शितम् । अत्र भगवान् बादरायणः स्वमतमाह- द्वादशाहवदुभयविधं बादरायणोऽतः ॥ 4-4-12 ॥ [तन्वभावे सन्ध्यवदुपपत्तेः ॥ 13 ॥ भावे जाग्रद्वत् ॥ 14 ॥ प्रदीपवदावेशस्तथा हि दर्शयति ॥ 15 ॥ स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ 16 ॥] अतः-सङ्कल्पात्, मुक्तं, उभयविधं-सशरीरमशरीरं च भगवान् बादरायणो मन्यते; तत्र दृष्टान्तः द्वादशाहवत् इति । यथा द्वादशाहाख्यः" क्रतुः सङ्कल्पभेदेन उभयविधो भवति, तद्वत् इति सूत्रार्थः ॥ सतनुः कदाचिदतनुः भूत्वा मुक्तो यथाकामम् । अनुभवति यस्य लीलां तद्ब्रह्म श्रीनिवासनाम भजे ॥ 186 ॥ स्पष्टोऽर्थः ॥ अयं भावः- यथा द्वादशाहः क्रतुः एकयजमानसङ्कल्पे अहीननामा भवति, बहुयजमानसङ्कल्पे सत्रनामा भवति, तथा ‘‘स यदि पितृलोककामो भवति’’ इति मुक्तकर्तृकसृष्टेरैच्छिकत्वश्रवणात् यदा मुक्तः ‘सशरीरः सयां’ इति सङ्कल्पयति तदा सशरीरो भूत्वा भगवन्तमनुभवति, यदा तु ‘अशरीरःस्यां’ इति सङ्कल्पयति तदा अशरीर एव भूत्वा भगवन्तमनुभवतीति शरीरवत्त्वस्य न नियमः । यथा शरीरवत्तवे अनियमः, तथा- शरीरसृष्टावप्यनियमः" । यदा ईश्वरो मुक्तस्य शरीरं सङ्कल्पयति, तदा ईश्वरसृष्टशरीरेणैव मुक्तो भगवल्लीलामनुभवति । यथा स्वप्नावस्थो जीवः, ‘‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः, तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते’’ इत्यादिश्रुतिसिद्धेश्वरसृष्टशरीरेणैव सुखदुःखभोगमनुभवति तद्वत् । अयं च स्वप्नदृष्टान्त ईश्वरसृष्टशरीरेण भागमात्रे, न तु सुखदुःखभोगऽपि, मुक्तस्य दुःखानुभवाभावश्रवणात् । यदा तु ‘मुक्तः" सङ्कल्पेन सृजतु’ इति ईश्वर इच्छति, तदा मुक्तः सङ्कल्पद्वारा ईश्वरसृष्टशरीरेण भगवल्लीलामनुभवति । यथा जाग्रदवस्थो जीवः जीवव्यापारद्वारा ईश्वरसृष्टेन शरीरेण भोगमनुभवति, तद्वत । ईश्वरो हि लीलाप्रवृत्तः सन् वसुदेवादीन् पितॄन् सङ्कल्प्य स्वयं मनुष्यधर्मा सन् यथा लीलारसमनुभवति, तथा स्वलीलायै मुक्तानामपि पित्रादीन् सृजति; मुक्ताश्च ईश्वरसृष्टैः तै पित्रादिभिः पित्रादिमन्तो भूत्वा मनुष्यधर्माणो भगवदनुभवलीलान्तर्गतं रसमनुभवन्ति । कदाचिन्मुक्ताः ईश्वराभिप्रायमनुसृत्य स्वयमेव स्वसङ्कल्पेन स्वस्य पित्रादीन् सृष्ठ्वा मनुष्यधर्माणो भूत्वा भगवदनुभवान्तर्गतं स्वलीलारसं भुञ्जते । भगवदभिप्रायानुरोधेन कृतायाः पिभादिसृष्टेः भगवति निरतिशयप्रीतिकारितत्वान्न भगवतः" प्रियतमत्ववैकल्यम्; न वा मुक्तानां भोगान्तरपरता । एवं नित्यविभूतावपि ‘‘स तत्र पर्येति जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा’’ इत्यत्र मुक्तव्यापारतया श्रुतानां स्त्रीभिः विहरणादीनां बन्धकत्वाभावस्य ‘‘अत एव चानन्याधिपतिः’’ इति सूत्रोक्तत्वात् भगवदभिप्रायानुरोधेन तैः कृतत्वसंभवाच्च कामपुरुषर्थस्य तत्र सत्त्वेऽपि न विरोधः इति केचित् ॥ वस्तुतस्तु ‘‘आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्द’’ इत्यादिना मुक्तस्य परमात्मानुभवानन्तर्गतविषयानुबवाभावप्रतिपादनात् स्त्यादिभिर्विहरणदीनां" ताभिःसमं भगवस्त्युद्देशेन भगवता गुरतो नर्तकात्यादिरुपकैङ्कर्यरुपत्व संभवात् भगवच्छेषतैकरसत्वरूपम्वथात्म्यविदः स्त्यादिविषयगमनाया एवासंभवात; उत्तरत्र अनावृत्तिसूत्रश्रीभाष्ये ‘‘अनवधिकातिशयानन्दं ब्रह्मनुभवतोऽन्यापेक्षातदर्थारंभाद्यसंभवात्’’ इति भाषितत्वाच्च न तत्र स्वर्गादाविव कामपुरुषार्थानुभवः ॥ नन्वेवं मुक्तस्यानेकशरीरपरिग्रहाभ्युपगमे अणोस्तस्य युगपदनेकशरीरसंबन्धासंभवेन युगपदनेकेषां शरीराणां प्रवर्तनानुपपत्तिरिति चेदुच्यते-एकस्मिन् प्रदेशे स्थितस्य प्रतीपस्य यथा प्रभया अनेकदेशव्याप्तिः, एवमणोरपि मुक्तस्य प्रभास्थानीयेन निवृत्ततिरोधानतया निरतिशयविकासवता स्वधर्मभूतज्ञानेन युगपदनेकशरीरेषु प्राप्त्या तत्प्रवर्तनसंभवात् । अस्यार्थस्य ‘‘लाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्स विज्ञेयः स चानन्त्याय कल्प्यते’’ इति श्रुतिसिद्धत्वाच्च नानुपपत्तिः । अत्र ह्यणोर्जीवस्य मुक्तिदशायामुच्यमानमानन्त्यं" न स्वरूपेण, निर्विकारत्वेन श्रुतस्यास्य स्वरूपपरिणामासंभवात्, अपि तु ज्ञानद्वारैवेति बक्तव्यमिति ॥ नन्वेवमपि ‘‘प्राज्ञेनाऽऽत्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं’’ इति बृहदारण्यके श्रुत्या परं ब्रह्म प्राप्तस्य ब्रह्मभयन्तरविषयज्ञानाभावोक्त्या कथं मुक्तस्य ज्ञानेन युगपदनेकशरीरव्याप्तिरिति तु न शङ्कनीयं-उदहृतश्रुतेः सुषुप्तिमरणान्यतरविषयकत्वेन मुक्तविषयकत्वाभावात् । सुषुप्तस्य मुतस्म च ब्रह्मप्राप्तिः तद्यशायां ज्ञानाभावश्च श्रुतः । छान्दोग्ये प्रजापतिविद्याप्रकरणे (line missing) एवेमानि भूतानि विनाशमेवापीतो भवति’’ इति तद्दशायां ज्ञानाभाव उक्तः । तस्यामेव दशायां छान्दोम्ये सद्विद्याप्रकरणे ‘‘सता सोम्य तदा संपन्नो भवति’’ (3 lines missing) इत्यस्य ज्ञानाभावपरत्वात् । अतः ‘‘प्राज्ञेनाऽऽत्मना संपरिप्वक्त’’ इति श्रुतिः सुषुप्तिमरणयोरन्यतरविषया; ‘‘सर्व ह पश्यः पश्यति सर्वमाप्नोति सर्वशः’’ इत्यादिश्रुतिषु मुक्तस्य सार्वज्ञ्यश्रवणात् । पश्यः-ब्रह्मसाक्षात्कर्ता, सर्व वस्तु, पश्यति-साक्षात्करोतीति तदर्थः । तदेवं मुक्तस्य युगपदनेकशरीरपरिग्रहेऽपि ज्ञानद्वारा तानि सर्वाणि शरीराणि व्याप्य तत्प्रवर्तनसंभवात् नानुपपत्तिरिति ॥ 155 ॥ इति अभावाधिकरणम् ॥ 5 ॥
मुक्तः स भोगमात्रे परमं साम्यं प्रयाति येन समम् ।
विच्छेदकथारहितं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 185 ॥
अधिकरणरत्नमाला ग्रथिता श्रीदेशिकार्येण ।
उल्लासमावहन्ती जयतु श्रीश्रीनिवासहृदयेऽसौ ॥
32 ॥ चजद्व्यापारवर्जाधिकरणम् ॥ 6 ॥ पूर्वाधिकरणे मुक्तस्य सङ्कल्पमात्रेण परमपुरुषानुभवान्तर्गतशरीरादिसृष्टिरुक्ता; इदानीं तस्य सत्यमङ्कल्पत्वेऽपि जगत्स्रष्टृत्वं नास्तीति निरूप्यते ॥ जगद््व्यापरवर्जं प्रकरणादसन्निहितत्वाच्च ॥ 4-4-17 ॥ [प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ 18 ॥ विकारावर्ति च तथा हि स्थितिमाह ॥ 19 ॥ दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ 20 ॥ भोगमात्रसाम्यलिङ्गाच्च ॥ 21 ॥ अनावृतिः शब्दादनावृतिः शब्दात ॥ 22 ॥] मुक्तस्येश्वर्य, जगद्व्यापारवर्ज-जगद्व्यापारः- जगन्नियमनं, तद्वर्जंतद्रहितमित्यर्थः । तत्र हेतुमाह प्रकरणादसन्निहितत्वाच्च इति । परं ब्रह्म (3 lines missing) विच्छेदकथारहितं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 187 ॥ अत्र भोगमात्रे इति ‘मात्र’शब्देन मुक्तस्य जगद्व्यापारे ब्रह्मम साम्यं व्यवच्छिद्यते । शिष्टं स्पष्टम् ॥ आधिकरणरत्नमाला ग्रथिता श्रीदेशिकार्येण । उल्लासमावहन्ती जयतु श्रीश्रीनिवासहृदयेऽसौ ॥ 188 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य कलाप्रपूर्णस्य श्रीवेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालायां" चतुर्थाध्यायस्य चतुर्थः पादः ॥ ॥ श्रीशारीरकाधिकरणरत्नमाला समाप्ता ॥ श्रीः" पूर्वपक्षः । ‘‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिं । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’’ इति मुक्तस्य परब्रह्मणा साम्यं श्रूयते; तथा ‘‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’’ इत्यादिना तस्य सत्यसङ्कल्पत्वं" च श्रूयते । तदिदमुभ्यं मुक्तस्य जगन्नियन्तृत्वरूपं जगदीश्वरत्वं विना नोपपद्यते; मुक्तस्येश्वरत्वाभावे ब्रह्मणा समं साम्ये पारम्यभङ्गप्रसङ्गात्, सङ्कल्पप्रतिघाते सत्यसङ्कल्पत्वभङ्गप्रसङ्गाच्च । अतो मुक्तस्यापि परब्रह्मम िव जगन्नियन्तृत्वरूपमीश्वरत्वमवश्यमभ्युपगन्तव्यम् । अत एव मुक्तं प्रकृत्य ‘‘स स्वराट् भवति, तस्य सर्वेषु लोकेषु कामचारो भवति’’, ‘‘इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्’’ इत्यादिषु तस्य सर्वलोकसञ्चारकामान्नित्वकामरूपत्वादिकं श्रुतमुपपद्यते । सर्वलोकसञ्चारस्य तन्नियमनमन्तरा प्रयोजनान्तरानुपलब्ध्या तन्नियमानार्थत्वावगमात्, कामान्नित्वादिना लोकानां तदधीनत्वावगतेश्च ॥ न च मुक्तस्य सर्वलोकसञ्चारस्य तत्र तत्र भोगार्थतयोपपत्तेर्न तन्नियमनार्थत्वं कल्पनीयमिति वाच्यम्, विकारस्पदतया हेयभूतानां" लोकानां तदन्तर्गतपदार्थानां च भोग्यत्वासंभवात् । न च लोकानां तदन्तर्वर्तिनां च हेयत्वेन भोग्यत्वासंभवेऽपि स्वस्वामिभूतपरब्रह्मविभूतित्वेन भोग्यताबुद्धिसंभवात् परब्रह्म विभूतिभूतलोकानां तद्विभूतित्वेनानुभवाय ततल्लोकसञ्चारोपपत्तिरिति वाच्य; ‘‘स स्वराट् भवति’’ इति मुक्तस्याधिपत्यन्तरशून्यत्वप्रतिपादनेन तंप्रति ब्रह्मणो मुक्तिदशायां शेषित्वाभावप्रतीतेरिति ॥ सिद्धान्तः । ‘‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तीति, तद्विजिज्ञासस्व, तत् ब्रह्मेति’’ इति जगतः सृष्ट्यादिरूपनियन्तृत्वस्य ब्रह्मलक्षणत्वाभिधानात् तस्य परब्रह्मासाधारणत्वं प्रतीयते, असाधारणधर्मस्यैव लक्षणत्वाभिधानात् तस्य परब्रह्मासाधारणत्वं प्रतीयते, असाधारणधर्मस्यैव लक्षणत्वात् । अतः परब्रह्मासाधारणतया श्रुतं जगन्नियन्तृत्वरूपं जगदीश्वरत्वं मुक्तस्य न संभवति; संभवे परब्रह्मासाधारण्यभङ्गप्रङ्गात् । एवं ‘‘भीषाऽस्माद्वातः पवते भीषोदेवि सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः’’, ‘‘एतस्य वा अक्षरहस्य प्रशासने गर्गिसूर्याचन्द्रमसौ विधृतौ तिष्ठतः । एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय’’ ‘‘यः" पृथिव्यां तिष्ठन्’’ इत्यारभ्य, ‘‘यःपृथिवीमन्तरो यमयति’’ इत्यादिषु सर्वस्य जगतः तत्तत्कार्येषु प्रवर्तनरूपं तत्तन्नियन्तृत्वं" परब्रह्मण एव श्रूयते । एवं ‘‘एकः शास्ता न द्वितीयोऽस्ति शास्ता’’ इति परमात्मव्यतिरिक्तस्य जगन्नियन्तृत्वं निषिद्ध्यते । एवं ‘‘मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरं । हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते ॥ विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत’’ इत्यादिस्मृतिष्वपि परमात्मन एव जगन्नियन्तृत्वमासाधारणमभिधीयते । अतो जगन्नियमनस्य भगवदसाधारणत्वावगमात्, मुक्तस्य न जगन्नियन्तृत्वरूपजगदीश्वरत्वं" संभवति ॥ मुक्तस्य परब्रह्मणा परमसाम्यश्रुतिस्तु अन्यथासिद्धतया न तस्येश्वरसाधनक्षमा । तथा हि ‘‘तदा विद्वान् पुण्यपापे विधूय निरञ्जनः" परमं साम्यमुपैति’’ इत्यत्र केन कस्मिन्नंशे साम्यमिति जिज्ञासायां, ‘‘विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’’ इत्युक्तिभङ्ग्या विद्यानिर्वर्त्यं यत्पुण्यपापविधूननं तन्निर्वर्त्यफले साम्यमिति प्रतीयते । विद्या च ब्रह्मानुभवप्रतिबन्धकं यत्पुण्यपापरूप तत्प्रायश्चित्त्रूपा । तथा च निर्वर्त्यमानपुण्यपापरूपकर्मविधूनननिर्वर्त्यं फलं ब्रह्मानुभव एव । पुण्यपापरूपकर्मणां" तत्प्रतिबन्धकत्वं च ‘‘तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्दन्ति अनृतेन हि प्रत्यूढाः’’ इत्यादिश्रुतिसिद्धम् । अहरहर्गच्छन्त्योऽपि इमाः प्रजा एतं ब्रह्मलोकंपरब्रह्म, न विन्दन्ति-न प्राप्नुवन्ति, न जानन्तीति यावत् । हि-यतः, अनृतेनपुण्यपापरूपकर्मणा प्रत्यूढाः-प्रतीपं नीताः, प्रतिरुद्धज्ञाना इति तदर्थः । ततश्च ब्रह्मानुभवप्रतिबन्धकपुण्यपापरूपकर्मणां प्रायश्चित्तरूपया ब्रह्मविद्याया विनाशे, कर्मभिः प्रतिबद्धं यत् ब्रह्मानुभवरूपं फलं तत्प्राप्तेरेव प्रतिबन्धकनिवृत्तिफलवौचित्यात् ब्रह्मानुभवरूपतथाविधफलांश एव साम्यमत्र विवक्षितमिति । परस्य ब्रह्मणः पूर्वार्धे प्रस्तुततया तेनैव साम्यमिति च निश्चीयते । ब्रह्मानुभवरूपसाम्ये पारम्यं" च अनुभूयमाने ब्रह्मणि तद््गुणेषु तद्विभूतिषु च एकदेशस्याप्यपरित्यागेन सर्वविषयकत्वरूपमिति सर्वकल्याणगुणविभूतिविशिष्टब्रह्मानुभवे साम्यमिति लभ्यते । इदमेव च साम्यं ‘‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति स वा एष एतेन दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके’’ इत्यादिष्वभिधीयते । एवं मुक्तस्य परिपूर्णब्रह्मानुभवसिद्धौ तद्रूपानन्दसाम्यमप्यनयैव श्रुत्या सिद्धम् । एतेन मुक्तौ जीवब्रह्मणोः परमसाम्यश्रुत्या भेदनिरासं वदन्तो निरस्ताः । ‘‘ब्रह्मवित् ब्रह्मैव भवति’’ इत्यादिश्रुतिरपि उक्तश्रुति सिद्धात्यन्तसाम्यविषयैव ॥ तदेवं मुक्तौ परमसाम्यश्रुतेरुक्तरीत्या अन्यथासिद्धतया न तया मुक्तस्येश्वरत्वसिद्धिः । नापि ‘‘इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्’’ इत्यादिसर्वलोकसञ्चारश्रुतिभिस्तस्य जगन्नियन्तृत्वसिद्धिः । तत्र हि ‘‘एतमानन्दमयमात्मानमुपसंक्रम्य’’ इत्युपक्रमात् ‘आनन्दमयं" परमात्मानमनुसृत्य सञ्चरन्’ इत्यर्थलाभात् ‘‘येन येन धाता गच्झति तेन तेन सहैव गच्छति’’ इति श्रुत्यन्तरसिद्धा स्वविभूतिभूतलोकेषु सञ्चरतो भगवतोऽनुयात्रा मुक्तस्य प्रतिपाद्यते । ‘कामान्नी’ इति तदीयकल्याणगुणानुभवः; ‘कामरूपी’ इति भगवदनुयात्रानुगुणास्वेच्छाधीनदिव्यरूपवत्त्वं" च प्रतिपाद्यते, न तु जगन्नियमनार्थसञ्चारः । अयं चार्थः ‘‘कामरूप्यनुसञ्चरन्’’ ‘‘एतत्साम गायन्नास्ते हा वु हा वु हावु’’ इत्युत्तरवाक्यैर्निश्चीयते । तत्र हि भगवदनुयात्रायां भगवद्गुणलीलादिगान्तदनुसन्धानजनितहर्षप्रकर्षकृतनर्तनादिकं प्रतिपाद्यते । एतद्वाक्यस्यार्थश्च अस्मत्कृतव्याससिद्धान्तमार्ताण्डे नित्यविभूतिवैभवे च स्पष्टीकृतः तत्रैव द्रष्टव्यः । विकारास्पदतया हेयभूतानामपि लोकानां स्वस्वामिभूतभगवद्विभूतित्वेनानुभवे न काऽप्यनुपपत्तिः । प्रत्युत स्वामिविभूतित्वेनानुभवः प्रीत्यतिशयमेव जनयति । मुक्तो हि निर्धूतनिखिलविकारमनन्तकल्याणगुणास्पदं" सविभूतिकं ब्रह्मानुभवन् तद्विभूतितया सर्वानपि लोकाननुभवति । अतो न तदनुभवस्य सांसारिकानुभवतुल्यताप्रसङ्गः; न वा तदनुभवरूपमुक्तिफलस्यानित्यताप्रसङ्गः । मुक्तविषया ‘‘स्वराट्’’ इति श्रुतिर्मुक्तिदशायां न भगवच्छेषत्वनिवृत्तिपरा । ‘‘स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट्’’ इति सामानाधिकरण्येन मुक्तस्यापि भगवन्तं प्रति शरीरत्वाभिधानात् ॥ पूर्वत्र ‘‘यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः’’ इति भगवतः सर्वत्राऽऽत्मतया व्याप्तिमभिधाय तन्निबन्धनसामानाधिकरण्यभिधानप्रकरणे ‘‘स ब्रह्म स शिवः’’ इति ब्रह्मशिवादीनामिव ‘‘सोऽक्षरः परमः स्वराट्’’ इति ‘स्वराट्’शब्देन ‘‘सस्वराट् भवति’’ इति स्वराट्शब्दनिर्दिष्टं मुक्तं प्रत्यभिज्ञाप्य तस्यापि भगवन्नियाम्यतापर्यवसिततच्छरीरत्वभिधानात् ‘‘स स्वराट्’’ इति स्वराट्छब्दः कर्मवश्यत्वाभावपरः इति प्रागेवोक्तम् । तदेवमुदाहृतेन ‘‘सोऽक्षरः परमः स्वराट्’’ इति सामानाधिकरण्येन ‘‘य आत्मनि तिष्ठन् आत्मनोऽन्तरो यमात्मा न वेद यस्याऽऽत्मा शरीरं य आत्मानमन्तरो यमयति’’, ‘‘एष ह्येवानन्दयाति’’ इत्यादिश्रुतिभिर्मुक्तस्य सत्तास्थितिप्रवृत्तीनां भगवदायतत्वसिद्धेः, स्वाभाविकस्यापि सत्यसङ्कल्पत्वस्य कर्मभिस्तिरोहितस्य परमात्मानुग्रहेणाऽऽविर्भावश्रवणाच्च मुक्तैश्वर्य सर्वमपि भगवदिच्छायत्तमिति तस्य परमपुरुषासाधारणजगन्नियमनरूपमैश्वर्यमिति ॥ नन्वेवं मुक्तस्येश्वरपरतन्त्रत्वे कदाचिदीश्वरस्य परमापदान्निवर्तनसङ्कल्पान्मुक्तस्य पुनरावृत्तिः स्यात् ततश्च मोक्षपुरुषार्थस्यानित्याता न स्यादिति चेत्, मैवं-अनन्यथासिद्धश्रुत्येकसमधिगम्यस्यार्थस्य यथाश्रुति प्रतिपत्तव्यतया ‘‘स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते’’, बृहदारण्यके ‘‘तत्पुरुषो मानस एत्य ब्रह्मलोकान् गमयति; तेषु ब्रह्मलोकेषु पराः परावन्तो वसन्ति, तेषां न पुनरावृत्तिः’’ इत्यादिषु श्रुतिषु भगवत्परतन्त्राणामेव सतां मुक्तिस्थानभूतं भगवल्लोकविशेषं प्राप्तानां पुनरावृत्तिनिषेधेन उक्तशङ्काया एवायुक्तत्वात् । अत्र हि द्वितीयश्रुतौ ‘‘परावन्तो वसन्ति’’ इत्यत्र ‘परावन्त’ इत्यास्य ‘परवन्त’ इत्यार्थः, परतन्त्रा इति यावत् । दीर्घश्छान्दसः" । अम्र ‘न पुनरावृत्तिः’ इति पुनरावृत्तिः प्रतिषिध्यते । प्रतिषेधश्च प्रसक्तिपूर्वकः; प्रसक्तिश्च तल्लोकस्वामिनो भगवतः तल्लोकं प्राप्तानां स्वपरतन्त्राणां निवर्तनेच्छया वा पारतन्त्र्यस्य दुःखात्मकत्वात् परतन्त्राणां पुनः प्रतिनिवृत्तीच्छया वा स्यात् । ततश्चानेन प्रतिषेधेन भगवतस्तन्निवर्तनेच्छायाः, मुक्तानां ततः प्रतिनिवृत्तीच्छायाश्चानुदयः सिद्धः । तेन तल्लोकाधिपतेर्भगवतः" तन्निवर्तनेच्छाहेतुभूतरागद्वेषमदमात्सर्यनिर्दयत्वादिनिखिलदोषास्पृष्टत्वं, आश्रितवात्सल्यादिकल्याणपुष्कलत्वं च स्वाभाविकं सिद्धम् । अत एव हि ‘‘समस्तहेयरहितं विष्ण्वाख्यं परमं पदं । क्लमन्द्रीभयक्रोधकामादिभिरसंयुतः ॥ परः पराणां सकला न यत्र क्लेशादयः" सन्ति परावरेशे । समस्तकल्याणगुणात्मकोऽसौ’’ इत्यादिषु भगवतो निरस्तनिखिलदोषत्वं कल्याणगुणाकरत्वं चाभिधीयते । अत्र प्रथमश्लोके ‘विष्ण्वाख्यं परमं पदं’ इत्यत्र ‘पद्यत इति पदं’ इति व्युत्पत्त्या पदशब्दः परमात्मस्वरूपपरः । तल्लोकं प्राप्तानां भगवत्परतन्त्राणां" ततः पुनः प्रतिनिवृत्तीच्छाप्रसक्तप्रतिनिवृत्तिप्रतिषेधेन भगवत्पारतन्त्र्यस्य निरतिशयपुरुषार्थत्वेन दुःखानात्मकत्वं तल्लोकाधिपतेर्भगवतो निरस्तनिखिलदोषतया कल्याणगुणैकतानतया च तदनुभवस्य निस्सीमनिरतिशयानन्दहेतुत्वं तस्य क्षणमात्रविच्छेदे तदसहिष्णुतापादकत्वं, भगवदनुभवव्यतिरिक्तविषये अमृतमास्वादयतः आरनाले दृष्टिप्रसराभाववत् सर्वविधेच्छानुत्पादश्च इत्यादयोऽर्थात् सिद्धाः । तथा पारतन्त्र्यस्य संसारदशायां" दुःखहेतुताया दर्शनेन मुक्तिदशायां तदनुदयेन च तद्दशायां पारतन्त्र्यजिहासाहेतुभूतरजस्तमोगुणास्पृष्टत्वं, तल्लोकवर्तिनां तल्लोकस्य च ‘‘तमसः परस्तात्’’ ‘‘क्षयन्तमस्य रजसः पराके’’ इत्यादिश्रुत्यन्तरसिद्धम् सत्त्वरजस्तमोरूपगुणत्रयात्मकत्रिगुणद्रव्यविलक्षणद्रव्यरूपत्वं" ‘‘तेषु लोकेषु पराः परावन्तो वसन्ति’’ इति वर्तमाननिर्देशेन ‘‘न पुनरावृत्तिः’’ इति पुनरावृत्तिनिषेधेन च तल्लोकस्यनित्यत्वं" च सिद्धम् ॥ तदेवमुदाहृतश्रुत्या भगवतो लोकविशेषः, तस्य बहुत्वं तेषां भगवदसाधारण्यं, अप्राकृतत्वं, नित्यत्वं, अर्चिरादिमार्गेण तल्लोकं प्राप्तानां भगवदनुभवजनितनिस्सीमनिरतिशयानन्दयोगः, क्षणमात्रतद्विश्लोषासहत्वं, तिरोधाननिवृत्त्या साक्षात्कृतस्वपरयाथात्म्यस्य मुक्तस्य भगवति परतन्त्र्यस्य निरतिशयपुरुषार्थताध्यवसायः, भगवतो मुक्तानां वा इच्छया ततः प्रतिनिवृत्त्यभावः, इत्यादयो बहवोऽर्थाः" सिद्धाः । तदिदं सर्वमभिसन्धायैव भागवता सूत्रकृता ‘‘अनावृतिः शब्दात्’’ इति सूत्रितमिति सर्वं समञ्जसम् ॥ 156 ॥ इति जगद्व्यापारवर्जाधिकरणम् ॥ 6 ॥ निस्सीमज्ञानसंपद्वितरणचणया वात्स्यगोपालसुरेः" दृष्ट्या श्रीरङ्गरामानुजमुनिचरणाभोजयोः सेवया च । भावं निर्धार्य निर्धारितनिगमशिरस्स्तोमतात्पर्यभूमेः" मीमांसायास्तमत्र व्यवृणुत भगवत्प्रीतये देशिकार्यः ॥ ग्रन्थोऽयं द्रमिडेषु लब्धजनुषा श्रीवेङ्कटाद्रेस्तटोपान्ते सद्गुणवारिधेस्तनुभुवा गोपालविद्वन्मणेः । श्रीमद्देशिकसूरिणा विरचितः सद्देशिकानुग्रहात् शालीवाहशके ग्रहाघुगवसुग्लोभिर्मिते (1859) वत्सरे ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य कलाप्रपूर्णस्य श्रीवेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालाप्रकाशे चतुर्थाध्यायस्य चतुर्थः पादः ॥ चतुर्थाध्यायः समाप्तः ॥ ॥ समाप्तोऽयं ग्रन्थः ॥ ॥ श्रीपद्मावतीसमेत श्रीनिवासपरब्रह्मणे नमः ॥