तदुपासीनस्सर्वोऽप्येकेनैवार्चिरादिमार्गेण ।
प्राप्नोति यस्य लोकान् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 175 ॥

यदुपासकोऽर्चिरादौ मार्गे संवत्सरं प्राप्य ।
पश्चाद्गच्छति वायुं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 176 ॥

यदुपासकोऽर्चिरादौ तटितं प्राप्याथ वरुणमाप्नोति ।
इन्द्रमथ ब्रह्माणं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 177 ॥

यदुपासननिष्ठानां अतिवहनेष्वर्चिरादयः पुरुषाः ।
येन नियुक्ता मार्गे तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 178 ॥

पञ्चाग्निविदः पुरुषात् ब्रह्मविदश्चातिवाहिकगणः सः ।
अतिवहति यन्नियुक्तः तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 179 ॥