सर्वेन्द्रियाणि जन्तोर्मरणदशायां यदीयसङ्कल्पात् ।
संयुज्यन्ते मनसा तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 164 ॥

12 ॥ वागधिकरणम् ॥ 1 ॥ पूर्वस्मिन् पादे अनादिकालादारभ्य संसारकारागृहे निगलितस्य संप्रति मुमुक्षोरनुष्ठितस्वोपासनस्य ब्रह्मविदस्स्वोपासनप्रसन्नेन श्रीनिवासेन क्रियमाणं पापपुण्यरूपयोरयः कनकश्रृंखलयोश्चेदनरूपं विद्याफलं दर्शितम् । इदानीं विदुषो मुमुर्षोर्भगवता मुक्तिस्थानभूतस्वलोकप्रापणाय तल्लोकप्राप्त्यनुगुणमार्गोपक्रमभूतनाडीप्रवेशनरूपं विद्याफलं प्रतिपादयितुं द्वितीयः पाद आरभ्यते ॥ प्रथमं देहादुत्क्रान्तिप्रकारो निरूप्यते - वाङ्मनसि दर्शनाच्छब्दाच्च ॥ 4-2-1 ॥ [अत एव सर्वाण्यनु ॥ 1 ॥] वाक्-म्रियमाणस्य जन्तोर्वागिन्द्रियं, मनासि, संपद्यते इति शेषः । संयुज्यत इति तदर्थः । तत्र प्रमाणमाह दर्शनाच्छब्दाच्च इति । वागिन्द्रिय उपरतव्यापारे मनसः प्रवृत्तव्यापारत्वदर्शनात्, ‘‘वाङ्मनसि संपद्यते’’ इति श्रुतेश्च इति सूत्रार्थः । वागिन्द्रियमुपरतव्यापारमनुपरतव्यापारेण मनसा संयुज्यत इति भावः ॥ सर्वेन्द्रियाणि जन्तोर्मरणदशायां यदीयसङ्कल्पात् । संयुज्यन्ते मनसा तद््ब्रह्म श्रीनिवासनाम भजे ॥ 166 ॥ स्पष्टोऽर्थः ॥ पूर्वपक्षः । छान्दोग्य ‘‘अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते, मनः प्राणे, प्राणस्तेजसि, तेजः परस्यां देवतायां’’ इति श्रूयते । अत्र ‘वाङ्मनसि संपद्यते’ इत्यत्र वागिन्द्रियस्य मनसि लयो न प्रतिपाद्यते, वागिन्द्रियस्य मनः- कार्यत्वाभावात; किन्तु वाग्व्यापारस्य स्वकारणे मनसि लयःप्रतिपाद्यते इति ॥ सिद्धान्तः । वाग्व्यापारं प्रत्यपि मनस उपादानकारणत्वाभावात् तत्र लयासंभवेन ‘संपद्यत’इत्यस्य’संयुज्यते’ इत्यत्र लक्षणामाश्रित्य वाग्व्यापारो मनसा संयुज्यत इत्यर्थः पूर्वपक्षिणा वक्तव्यः । ततश्च वाक्पदस्य संपद्यत इत्यस्य चोभयोर्लक्षणाकल्पनाप्रसङ्गः । अतो वाक्पदं" वागिन्द्रियपरमेव । ततश्च वागिन्द्रियमुपरतव्यापारं सन्मनसा संयुज्यत इत्येव श्रुत्यर्थः । अत एव प्रश्नोपनिषदि ‘‘तस्मादुपशान्ततेजाः" पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैर्यच्छित्तस्तेनैष प्राणमायाति’’ इति श्रुतौ सर्वेषामिन्द्रियाणां मनसि संपत्त्युक्तिरुपपद्यते, संपत्तेर्लयरूपत्वे सर्वेषामिन्द्रियाणां मनसि लयानुपपत्तेरिति ॥ अत्र ‘‘प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतः’’ इति श्वेताश्वतरोपनिषदि भगवतः श्रीनिवासस्य संसारबन्धतन्मोक्षहेतुत्वप्रतिपादनात् बन्धमोङन्तर्गतस्य सर्वस्य तत्सङ्कल्पसिद्धत्वमभिप्रेत्य अस्मिन् पद्यै यदीयसङ्कल्पात् मनसा संयुज्यन्ते इत्युक्तम् । एवमुत्तरत्रापि द्रष्टव्यम् ॥ 135 ॥ इति वागधिकरणम् ॥ 1 ॥

सर्वेन्द्रियसंयुक्तं मनस्तु सङ्कल्पतो यस्य ।
प्राणेन भवति युक्तं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 165 ॥

13 ॥ मनोऽधिकरणम् ॥ 2 ॥ तन्मनः प्राण उत्तरात् ॥ 4-2-3 ॥ तत्-वागादीन्द्रियसहितं मनः, प्राणे संपद्यते-प्राणेन संयुज्यते; ‘‘मनः प्राणे’’ इत्यनन्तरश्रुतिवाक्यादित्यर्थः ॥ सर्वेन्द्रियसंयुक्तं मनस्तु सङ्कल्पतो यस्य । प्राणेन भवति युक्तं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 167 ॥ स्पष्टोऽर्थः ॥ अत्रेयमधिकाऽऽशह्का-‘‘अन्नभयं हि सोम्य मन’’ इति मनइन्द्रियस्य पृथिवीविकृतिभूतान्नविकृतित्वाभिधानात्, ‘‘आपोमयः प्राण’’ इति मनइन्द्रियस्य पृथिवीविकृतिभूतान्नविकृतित्वाभिधानात्, ‘‘आपोमयः प्राण’’ इति प्राणस्य अब्विकृतित्वाभिधानाच्च मनसः परपरया स्वोपादानभूतपृथिवीद्वारा प्राणोपादानभूतास्वप्सु लयसंभवात् ‘मनः प्राणे संपद्यत’ इत्यत्र मनइन्द्रियस्य प्राणे लय एव प्रतिपाद्यते इति ॥ परिहारस्तु- ‘‘अन्नमयं हि सोम्य मनः आपोमयः प्राणः’’ इत्यत्र मनसः अन्नेन, प्राणस्य अद्भिश्च कार्यक्षमतापादनरूपमाप्यायनमात्रमुच्यते । न तु प्रकृतिविकृतिभावः, मनसोऽहङ्कारप्रकृतिकत्वात् प्राणस्याकाशप्रकृतिकत्वाच्चेति ॥ 136 ॥ इति मनोऽधिकरणम् ॥ 2 ॥

करणसहितेन मनसा युक्तः प्राणस्तु पुरुषेण ।
यत्सङ्कल्पात् श्लिष्यति तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 166 ॥

14 ॥ अध्यक्षाधिकरणम् ॥ 3 ॥ सोऽध्यक्षे तदुपगमादिभ्यः ॥ 4-2-4 ॥ सः-सर्वेन्द्रियसहितः प्राणः, अध्यक्षे-सर्वेन्द्रियाधिपे जीवे, संपद्यते जीवेन संयुज्यते । तत्र प्रमाणं तदुपगमादिभ्य इति । तदुपगमः- जीवात्मप्राप्तिः; आदिशब्देन उत्क्रान्तिः प्रतिष्ठा च गृह्यते ॥ अयं भावः- ‘‘एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति’’ इति जन्तोर्मरणकाले सर्वेषां प्राणनां जीवात्मना संयोगश्रवणात; ‘‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति, प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’’ इति जीवेन सह प्राणास्य देहादुत्क्रन्तिश्रवणात्; ‘‘कस्मिन्नुत्क्रान्ते उत्क्रान्तो भविष्यामि, कस्मिन् प्रतिष्ठिते प्रतिष्ठास्यामि’’ इति जीवेन सह देहादुत्क्रान्तेः देहे प्रतिष्ठितत्वस्य च श्रवणाच्च सर्वेन्द्रियसहितः प्राणोऽन्तकाले जीवात्मना सह संयुज्यत इति निश्चीयते इति ॥ करणसहितेन मनसा युक्तः प्राणस्तु पुरुषेण । यत्सङ्कल्पात् श्लिष्यति तद्ब्रह्म श्रीनिवासनाम भजे ॥ 168 ॥ श्लिष्यति - संयुज्यते । शिष्टं स्पष्टम् ॥ पूर्वपक्षः । पूर्ववाक्ययोर्वायो मनसश्च यथा मनसा प्राणेन च समं संयोगः प्रतिपाद्यते, एवं ‘‘प्राणस्तेजसि’’ इत्यत्रापि प्राणस्य तेजसा समं संयोगः प्रतिपाद्यते इति ॥ सिद्धान्तः । यथा यमुनाया गङ्गया समं संयुज्य समुद्रगमनेऽपि ‘यमुना समुद्रं गच्छति’ इति व्यवहारे नास्वारस्यं, एवं प्राणस्य जीवेन संयुज्य तेन समं तेजस्संयोगेऽपि ‘प्राणस्तेजसा संयुज्यत’ इति व्यवहारे स्वारस्यहानिविरहात्, उत्क्रान्तिकाले प्राणस्य जीवेन समं संयोगस्य श्रुत्यन्तरे श्रवणाच्च प्राणो जीवेन संयुज्य तेन समं तेजसा संयुज्यते इति ॥ 137 ॥ इति अध्यक्षाधिकरणम् ॥ 3 ॥

प्राणः पुरुषेण युतो भूतैस्सह यस्य सङ्कल्पात् ।
संसृष्टो भवति तदा तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 167 ॥

15 ॥ भूताधिकरणम् ॥ 4 ॥ भूतेषु तच्छ्रुतेः ॥ 4-2-5 ॥ [नैकस्मिन् दर्शयतो हि ॥ 6 ॥] जीवसंयुक्तः प्राणः पृथिव्यादिभूतसूक्ष्मेषु संयुज्यते, जीवस्य सर्वभूतमयत्वश्रुतेः इति सूत्रार्थः ॥ प्राणः पुरुषेण युतो भूतैस्सह यस्य सङ्कल्पात् । संसृष्टो भवति तदा तद््ब्रह्म श्रीनिवासनाम भजे ॥ 169 ॥ स्पष्टोऽर्थः ॥ पूर्वपक्षः । ‘‘प्राणस्तेजसि’’ इति प्राणस्य तेजसि संपत्तिश्रवणात्, प्राणस्य तेजोमात्रेण संसर्ग इति ॥ सिद्धान्तः । बृहदारण्यके ‘‘पृथिवीमय आपोमयस्तेजोमयः’’ इति इहामुत्र सञ्चरतो जीवस्य युगपत्सर्वभूतसंसर्गश्रवणात् भूतान्तरासंसृषृस्यैकैकभूतस्य कार्याक्षमतायास्त्रिवृत्करणश्रुतिस्मृतिसिद्धतया कार्यरंभसिद्धये भूतानां परस्परसंसर्गस्यावश्यकत्वाच्च ‘‘प्राणस्तेजसि’’ इत्यत्र तेजश्शब्दः पञ्चीकृततेजःपर एव वाच्यः । अतः सजीवः प्राणः भूतसूक्ष्मैस्सह संयुज्यते इति ॥ 138 ॥ इति भूताधिकरणम् ॥ 4 ॥

यदुपासननिष्ठानामितरेषां चेयमुत्क्रान्तिः ।
यस्येच्छया समाना तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 168 ॥

16 ॥ आसृत्युपक्रमाधिकरणम् ॥ 5 ॥ समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ 4-2-7 ॥ [तदाऽपीतेस्संसारव्यपर्देशात् ॥ 8 ॥ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ 9 ॥ नोपमर्देनातः ॥ 10 ॥ अस्यैव चोपपत्तेरूष्मा ॥ 11 ॥ प्रतिषेधादिति चेन्न शरीरात्स्पष्टो ह्येकेषाम् ॥ 12 ॥ स्मर्यते च ॥ 13 ॥] आसृत्युपक्रमात्-सृतिः-अर्चिरादिमार्गः, तस्याः उपक्रमः- मूर्धन्यनाडीप्रवेशः, आ-तस्मात् नाडीप्रवेशात् प्राक्, पूर्वप्रस्तुता उत्क्रान्तिः- देहादुत्क्रमणं, समाना-ब्रह्मविदोऽब्रह्मविदश्च तुल्या; श्रुतावुच्यमानं अमृतत्वं, अनुषोष्य-देहेन्द्रियादिसंबन्धमदग्ध्वैव; देहेन्द्रियादिसंबन्धसद्भावकार्यमेवेति यावत् । ‘उपोष्य’ इति उपपूर्वात् ‘उष दाहे’ इति धातोर्ल्यपि रूपम् ॥ अयं भावः-इयमुत्क्रान्तिः ब्रह्मविदोऽब्रह्मविदश्च नाडीप्रवेशात् प्रागविशिष्टा । ‘‘यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृता भावति अत्र ब्रह्म समश्नुते’’ इति श्रुतौ ब्रह्मविदोऽत्रैव प्राप्यतयोच्य मानममृतत्वं तु देहेन्द्रियादिसंबन्धविनाशात्प्राक् प्राप्यमाणं ब्रह्मविद्योत्पत्तेः पूर्वोत्तरयोः पापयोर्विनाशाश्लेषरूपमिति ॥ यदुपासननिष्ठानामितरेषां चेयमुत्क्रान्तिः । यस्येच्छया समाना तद्ब्रह्म श्रीनिवासनाम भजे ॥ 170 ॥ स्पष्टोऽर्थः ॥ पूर्वपक्षः । कठवल्लीषु ‘‘यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भावत्यत्र ब्रह्म समश्नुते’’ इति श्रुतौ ब्रह्मविदोऽत्रैवामुतत्वस्य ब्रह्मप्राप्तेश्चाभिधानान्न तस्योत्क्रान्तिरिति ॥ सिद्धान्तः । ‘‘शतं चैका च हृदयस्य नाड्यः तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति’’ इति कठवल्ल्यामेव तदुत्तरमन्त्रे ब्रह्मविदो मूर्धन्यनाड्या निष्कान्तस्यामृतत्वफतिपादनात्, अस्त्येवोत्क्रान्तिः । ‘‘अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते’’ इति श्रुतौ प्रतिपादितममृतत्वं तु न निश्शेषबन्धनिर्मोक्षरूपं, अपि तु ब्रह्मविद्यायाः पूर्वोत्तरयोरघयोर्विनाशाश्लेषरूपम् । तत्रोच्यमानब्रह्मप्राप्तिरपि उपासनदशायां ब्रह्मानुभवरूपा वाच्या । ‘‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये’’ इत्यादिषु ब्रह्मविदो यावद्ब्रह्मप्राप्ति देहबन्धानुवृत्तिश्रवणात् ब्रह्मप्राप्तेश्चार्चिरादिमार्गेण देशविशेषप्राप्त्यनन्तरभावितायाः ‘‘धूत्वाशरीरमकृतं" कृतात्मा ब्रह्मलोकमभिसंभवानि प्रजापतेस्सभां वेश्म प्रपद्ये’’ इत्यादिबहुशुतिसिद्धत्वात् ब्रह्मविदो देवयानेन पथा प्रस्थितस्य मार्गमध्ये चन्द्रमसा सेवादादिश्रवणेन सूक्ष्मशरीरसद्भावावगमात् विदुषो मरणात् प्राका देहे सर्वत्रोपलभ्यमानस्योष्मणो मरणदशायां" देहे क्वचिदेवोपलभ्यमानतया तेनापि तदीनीं सूक्ष्मशरीरसद्भावसिद्धेश्च । ‘यदा सर्वे प्रमुच्यन्ते’ इति मन्त्रे उच्यमानं ब्रह्मविद इहामृतत्वं न निश्शेषबन्धविनाशारूपं, अपि तु उत्तरपूर्वघयोरश्लेषविनाशरूपमेवेत्यवश्यमभ्युपेयमिति ॥ ननु बृहदारण्यके ‘‘प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययं । तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे इति तु कामयमानः’’ इत्यन्तेनाब्रह्मविदो देहादुत्क्रान्तिं लोकान्तरप्राप्तिं तस्माल्लोकात्पुनरावृतिं च प्रतिपाद्य, ‘‘अथाकामयमान’’ इति ब्रह्मविदं" प्रस्तुत्य ‘‘न तस्य प्राणा उत्कामन्ति ब्रह्मैव सन् ब्रह्माप्येति’’ इति प्राणानामुत्क्रन्तिः प्रतिषिध्यते । तथा तत्रैव पञ्चमाध्याये द्वितीयब्रह्मणे आर्तभागप्रश्नप्रकरणे ‘‘याज्ञवल्क्य इति होवाच यत्रायं पुरुषो म्रियते उदस्मान् प्राणाः क्रमन्ति आहो न ’’ इति आर्तभागप्रश्नस्य ‘‘नेति होवाच याज्ञवल्व्यः अत्रैव समवनीयन्ते स उच्छूयंत्याध्मायति, आध्मातोमृतश्शेते’’ इति याज्ञवल्व्यप्रतिवचनेन ब्रह्मविद उत्क्रान्तिं प्रतिषिद्धा । अतो ब्रह्मविदो देहादुत्क्रान्तेः प्रतिषेधात् विद्वदविदुषोः देहादुत्क्रान्तिः समानेत्युक्तिरयुक्तेति चेत; उच्यते- ‘‘न तस्य प्राणा उत्क्रामन्ति’’ इत्युदाहृतबृहदारण्यकषष्ठाध्यायश्रुतौ प्रतिषिध्यमानायाः प्राणानामुत्क्रान्तेः अपादानाकांक्षायां, अश्रुतस्य शरीरस्यापादानत्वकल्पने गौरवात् ‘तस्य’ इति प्राणसंबन्धितया श्रुतस्य ब्रह्मविद एव अपादानत्वकल्पने लाघवात्, ब्रह्मविदो जीवादेव प्राणानामुत्क्रान्तिस्तत्र प्रतिषिध्यते, न शरीरादित्येवार्थवर्णनं न्याय्यम् । किञ्च संबन्धसामान्यवाचिन्याः ‘तस्य’ इति षष्ठ्या अपादानत्वरूपसंबन्धपरतामाश्रित्य आत्मनस्सकाशात्प्रणानामुत्क्रान्तिप्रतिषेधपरत्ववर्णनमेवोचितं, न त्वश्रुताच्छरीरादुत्क्रान्तिप्रतिषेधपरत्ववर्णनम् । ब्रह्मविदां शरीरादुत्थानस्य देवयानमार्गेण लोकान्तरप्राप्तेश्च ‘‘अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंगद्य स्वेन रूपेणाभिनिष्पद्यते’’ इत्यादिबहुश्रुतिसिद्धतया त्तद्विरोधप्रसङ्गात् ॥ किञ्च माध्यन्दिनशाखायां समानप्रकरणे ‘‘अथ कामयमान’’ इति ब्रह्मविदं प्रस्तुत्य ‘‘न तस्मात् प्राणा उत्क्रामन्ति’’ इति ‘तस्य’इति काण्वशाखाश्रुतषष्ठीस्थाने ‘तस्मात्’ इति पञ्चमीश्रवणेन आत्मनस्सकाशादेव प्राणानामुत्क्रान्तिप्रतिषेधस्य स्पष्टतया विवादस्यैवानवकाशः" । दर्शितार्तभागप्रश्नप्रतिवचनं तु अविद्वद्विषयं, तत्र ब्रह्मविद्याया अप्रस्तुतत्वात् । ‘‘अप पुनर्मृत्युं जयति’’ इति अपामग्न्यन्नत्ववेदनफलप्रतिपादनपरे वाक्ये अग्निजयस्यैव ‘मृत्युं जयति’ इत्यनेन विवक्षितत्वात् ‘‘तौ होत्क्रम्य मन्त्रयांचक्राते, तौ ह यदूचतुः, कर्म हैव तदूचतुः’’ इत्यादिना, ‘‘पुण्यो वै पुण्येन भवति पापः पापेन भवति’’ इत्यन्तेनोत्तरग्रन्थेन आर्तभागप्रश्नप्रतिवचनस्य कृत्स्नस्य अविद्वद्विषयत्वावगमाच्च । अतस्तत्राविदुषः शरीरात् प्राणानामुत्क्रान्तेः असन्दिग्धतया न तद्विषयः प्रश्नः, अपि तु आत्मनः सकाशात् प्राणानामुत्क्रान्तिविषय एवः प्रतिषेधवचनमपि तद्विषयमेव । ‘‘स उच्छ्वयति’’ इत्यादिकं तु अभेदोपचारादिति नेतव्यम् ॥ ननु ‘‘न तस्य प्रामा उत्क्रामन्ति’’ इत्युदाहृतश्रुतेः जीवात्मनस्सकाशात् प्राणानामुत्क्रान्तिप्रतिषेधपरत्वाश्रयणे अप्रसक्तप्रतिषेधप्रसङ्गः । विद्वदविदुषोर्द्वयोरपि देहादुत्क्रान्त्यङ्गीकारे ‘‘अथाकामयमानः’’ इति ब्रह्मविदः पृथगारंभवैयर्थ्यप्रसङ्गश्च इति चेत; उच्यते - ब्रह्मविदः ‘‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये’’ इतिश्रुत्या देहवियोगसमनन्तरमेव ब्रह्मप्राप्तिश्रवणेन देहारंभककर्मविनाशः" सिद्धः, तद्विनाशे च सूक्ष्मशरीरस्यापि विनाशापत्त्या तत्रैवानुपदं ‘‘अणुः पन्था विततः पुराणः’’ इत्यादिना वक्ष्यमाणस्य देवायानेन पथा ब्रस्थानस्य चन्द्रमस्संवादादेश्च श्रुत्यन्तरसिद्धस्यानुपपत्तिप्रसङ्गः । विद्वदविदुषोर्द्वयोरपि देहादुत्क्रान्तेस्समानत्वेऽपि ब्रह्मविद उत्क्रान्तस्य ब्रह्मप्राप्तिरूपविशेषप्रतिपादनाय ‘‘अथाकामयमान’’ इति पृथगारंभान्न वैयर्थ्यमिति दिक् ॥ 139 ॥ इति आसृत्युपक्रमाधिकरणम् ॥ 5 ॥

करणमनःप्राणैस्सह जीवेन च भूतसूक्ष्माणि ।
संपद्यन्ते यस्मिन् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 169 ॥

17 ॥ परसंपच्यधिकरणम् ॥ 6 ॥ तानि परे तथा ह्याह ॥ 4-2-14 ॥ तानि-सप्राणसेन्द्रियजीवसंसृष्टानि भूतसूक्ष्माणि, परं-गुहासूत्रोक्तयोरात्मनोरन्यतरस्मिन् परमात्मनि संपद्यन्ते-संसृज्यन्ते; तथा-‘‘तेजः परस्यां देवातायां’’ इति श्रुतिः ‘भूतसूक्ष्माणि परमात्मनि संपद्यन्ते’ इति आह हि इति सूत्रार्थः ॥ करणमनःप्राणैस्सह जीवेन च भूतसूक्ष्माणि । संपद्यन्ते यस्मिन् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 171 ॥ स्पष्टोऽर्थः ॥ पूर्वपक्षः । जीवपरिप्वक्तानां भूतसूक्ष्माणां परमात्मनि संपत्तौ प्रयोजनविरहेण परदेवताशब्दस्य यथाकर्म यथाविद्यं च गन्तव्यदेशावच्छिन्नपरमात्मपरतया तत्तदेशावच्छिन्नपरमात्मानं गच्छन्ति इति ॥ सिद्धान्तः ॥ यथा सुषुप्तौ करणायासविश्रान्त्यै परमात्मनि संपत्तिः, एवं मरणदशायां त्रिश्थूणक्षोभजनितायासविश्राल्त्यै भूतसूक्ष्मैः संपरिष्वक्तस्य जीवस्य हार्दै परमात्मनि श्रीनिवासे संपत्तिरिति ॥ अत्र ‘‘तेजः परस्यां देवतायां’’ इति सद्विद्यास्थाविषयवाक्ये परदेवतापदस्य ‘‘सेयं देवतैक्षत’’ इति पूर्वप्रकृत श्रीनिवासाख्यदेवतापरत्वात् संपद्यन्ते यस्मिन् इत्युक्तम् ॥ 140 ॥ इति परसंपत्यधिकरणम् ॥ 6 ॥

यस्मिन् मरणदशायां संपत्तिर्भूमसूक्ष्मजीवानाम् ।
सङ्गतिविशेषरूपा तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 170 ॥

18 ॥ अविभागाधिकरणम् ॥ 7 ॥ अविभागो वचनात् ॥ 4-2-15 ॥ उत्क्रान्तिदशायां भूतसूक्ष्मसहितस्य जीवस्य परमात्मनि संपत्तिः, अविभागः-विभागानर्हसंश्लेषपिशेषरूपा; वचनात्- ‘संपद्यते’ इत्युक्तेस्तथाऽवगम्यते इति सूत्रार्थः ॥ यस्मिन् मरणदशायां संपत्तिर्भ5मसूक्ष्मजीवानां । सङ्गतिविशेषरूपा तद्ब्रह्म श्रीनिवासनाम भजे ॥ 172 ॥ सङ्गतिः-संबन्धः । शिष्टं स्पष्टम् ॥ पूर्वपक्षः । अत्र परमात्मन उपादानकारणत्वात् भूतसूक्ष्मविशिष्टस्य जीवस्य मरणदशायां तत्र संपत्तिः कारणे लयरूपेति ॥ सिद्धान्तः । ‘‘वाङ्मनसि संपद्यते’’ इति पूर्ववाक्यादनुवृत्तस्य ‘यंपद्यत’ इत्यस्य तत्र पूर्ववाक्ये कारणलयवाचित्वासंभवेन विभागानर्हसंयोगविशेषमात्रवाचिताया आवश्यकत्वात् ‘‘तेजः परस्यां देवतायां’’ इत्यत्रानुषक्तस्य तस्यैव ‘संपद्यत’ इत्यस्यार्थान्तरवाचित्वे प्रमाणभावात् पुनरव्यक्तादिसृष्टिश्रवणे लयवाचितायाः कल्पनसंभवेऽपि, प्रकृते अव्यक्तादिसृष्ट्यश्रवणाच्च मरणदशायां भूतसूक्ष्मसहितस्य जीवस्य परमात्मनि विश्रमार्थसंयोगविशेषरूपैव संपत्तिरिति ॥ 141 ॥ इति अविभागाधिकरणम् ॥ 7 ॥

यदनुग्रहतो विद्वान् नाड्या मूर्धन्यया शताधिकया ।
निर्गच्छति स्वदेहात् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 171 ॥

19 ॥ तदोकोऽधिकरणम् ॥ 8 ॥ एवं विद्वदविदुषोस्समान उत्क्रान्तिप्रकारो निरूपितः । इदारीं विदुषो विद्याफलभूतः उत्क्रान्तौ विशेषो निरूप्यते ॥ तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकया ॥ 4-2-16 ॥ ब्रह्मवित्, विद्यासामर्थ्यात्-विद्यायाः भगवति निरतिशयप्रीतिरूपतापन्नत्वरूपात् सामर्थ्यत, विद्यायाः शेषभूता या गत्यनुस्मृतिः-अर्चिरादिमार्गचिन्तनं, तद्रूपात् योगाच्च प्रसन्नेन हार्देन-हृदयपुण्डरीकोदरवर्तिना भगवता श्रीनिवासेन, अनुगृहीतो भवति; तदनुग्रहेण तस्य ब्रह्मविदः" ओकः-स्थानभूतं यत् हृदयं, तत्, अग्रे-ऊर्ध्वभागे, ज्वलनं-विद्युत्स्फुरणसदृशस्फुरणं यस्य तत् तादृशं भवति । तेन स्फुरणेन प्रकाशितं" द्वारं नाडीप्रवेशमार्गः यस्य तादृशस्सन्, शताधिकया - शतात् अधिकया मूर्धन्यनाड्या, निष्क्रामति इति शेषः । इति सूत्रार्थः ॥ यदनुग्रहतो विद्वान् नाड्या मूर्घन्यया शताधिकया । निर्गच्छति स्वदेहात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 173 ॥ ब्रह्मवित, यस्य श्रीनिवासस्य अनुग्रहात् अकस्मिकहृदयाग्रस्फुरणापादनदुर्विवेचमूर्धन्यनाडीद्वारप्रकाशनरूपादनुग्रहात् । शिष्टं स्पष्टम् ॥ पूर्वपक्षः । नाडीनामतिसूक्ष्मतया दुर्विवेचत्वात् ‘‘शतं चैका च हदयस्य नाड्यः तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति’’ इति श्रुतेः यादृच्छिकतन्नाडीनिर्गमनानुवादरूपतयाऽप्युपपत्तेश्च विद्वान् मूर्धन्यनाड्यैव निर्गच्छति इति न नियम इति ॥ सिद्धान्तः । सूक्ष्मासु भूयसीषु नाडीषु मूर्थन्यनाड्याः पुरुषस्य स्वतो दुर्विवेचत्वेऽपि ब्रह्मविदनुष्ठितया निरतिशपप्रीतिरूपतापन्नया भक्त्या प्रत्यहं तत्कृतेन गतिचिन्तनेन च प्रसन्नस्य हृदयपुण्डरीकवर्तिनो भगवतःश्रीनिवासस्यानुग्रहेण बृहदारण्यके ‘‘तस्य हैतस्य हृदयस्य हृदयस्याग्रं प्रद्योतते, तेन प्रद्योतेनैष आत्मा निष्क्रामति’’ इति श्रुत्युक्तरीत्या ब्रह्मविदः स्थानभूतस्य हृदयस्याग्रे आकस्मिकस्फुरणस्य तेन तत्रत्यमूर्थन्यनाडीद्वारप्रकाशनस्य च जननेन ब्रह्मवित् प्रकाशि,द्वारया मूर्थन्यनाढ्यैव निष्क्रामतीति ॥ कौषीतक्युपनिषदि प्रतर्दनविद्याप्रकरणे ‘‘एष एष साधु कर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषति’’ इत्यत्र एतच्छब्दार्थत्वेन इन्द्रप्राणाधिकरणे निर्णीतस्य भगवतः श्रीनिवासस्यापवर्गप्रापणेच्छारूपायाः सर्वलोकेभ्य उन्निनीषायाः तथा साधुकर्मकारयितृत्वस्य च प्रतिपादनेन अपवर्गप्राप्तिपर्यन्तस्य सर्वस्यापि चेतनविषये कर्तव्यस्य तदिच्छामूलकत्वसिद्ध्या, एतदभिप्रायेण देहादुत्क्रान्तिसमये मूर्धन्यनाजूप्रवेशस्य हार्धानुग्रहकारितताया अस्मिन् सूत्रे सूत्रितत्वाच्च अस्मिन् पद्ये यदनुग्रह इत्युक्तम् ॥ 142 ॥ इति तदोकोधिकरणम् ॥ 8 ॥

आदित्यस्य स रश्मीन् अनुसृत्यैव प्रतिष्ठते देहात् ।
यदुनुग्रहेण विद्वान् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 172 ॥

20 ॥ रश्मयधिकरणम् ॥ 9 ॥ मूर्धन्यनाड्या निष्क्रान्तो ब्रह्मवित् आदित्यरश्मीन् अनुसृत्यैव गच्छतीति सूत्रार्थः ॥ आदित्यस्य स रश्मीन् अनुसृत्यैव प्रतिष्ठते देहात् । यदनुग्रहेण विद्वान् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 174 ॥ सः-मूर्धन्यनाड्या निष्क्रान्तः । शिष्टं स्पष्टम् ॥ पूर्वपक्षः । निशिमृतस्य ब्रह्मविदः आदित्यरश्म्यनुसारेण गत्यसंभवात् ब्रह्मवित् आदित्यरश्मीननुसृत्यैव गच्छतीति नायं नियमः । छान्दोग्ये ‘‘अथैतैरेव रश्मिभिरूर्ध्वमाक्रमते’’ इति श्रुतिस्तु यादृच्छिकादित्यरश्म्यनुसरणानुवादः इति ॥ सिद्धान्तः । ‘‘एतैरेव रश्मिभिः’’ इति श्रुतौ अवधारणसामर्थ्यात्, आदित्यरश्मीन् अनुसृत्यैव विद्वान् गच्छति । रात्रावपि निदाघादौ सूर्यकिरणौष्ण्योपलंभेन सूक्ष्माणामादित्यकिरणानां सद्भावावगमात्, हेमन्तादौ हिमाभिभवेन सूक्ष्मकिरणौष्ण्यानुपलंभोपपत्तेश्च निशि मृतस्यापि सूर्यरश्म्यनुसारेण गतौ विरोधाभावात्, यदनुग्रहेण विद्वान् इत्यस्य पूर्वोक्त एवाभिप्रायः ॥ 143 ॥ इति रश्म्यधिकरणम् ॥ 9 ॥

यदुपासको निशायां म्रियमाणोऽप्यखिलकर्मणां नाशात् ।
यत् प्राप्नोत्यविलंबात् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 173 ॥

21 ॥ निशाधिकरणम् ॥ 10 ॥ निशि नेति चेन्न संबन्धस्य यावद्देहभावित्वात् दर्शयति च ॥ 4-2-18 ॥ निशि मृतस्य ब्रह्मविदो ब्रह्मप्राप्तिः न संभवति इति चेत्, तत् न; संबन्धस्य-कर्मसंबन्धस्य चरमदेहावसानपर्यन्तावस्थायित्वात् । ‘‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये’’ इति श्रुतिः चरमदेहान्ते ब्रह्मप्राप्तिं दर्शयति च इति सूत्रार्थः ॥ यदुपासको निशायां म्रियमाणोऽप्यखिलकर्मणां नाशात् । यत्प्राप्नोत्यविलंबात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 175 ॥ स्पष्टोऽर्थः ॥ पूर्वपक्षः । निशि मृतस्य ब्रह्मविद आदित्यरश्म्यनुसारेण गमनसंभवेऽपि ‘‘दिवा च शुक्लपक्षश्च उत्तरायणमेव च । मुमूर्षतां प्रशस्तनि विपरीतं" तु गर्हितं’’ इति निशि मरणस्य गर्हितत्वस्मरणेन, गर्हितत्वस्याधमगतिहेतुतयैव वाच्यत्वात्, निशि मृतस्य परमामुरुषार्थरूपब्रह्मप्राप्तिर्न संभवतीति ॥ सिद्धान्तः । ब्रह्मविदो ब्रह्मविद्यारंभात् पूर्वकर्मणां, अनारब्धकार्याणां विद्यामाहात्म्यादेव नष्टत्वात्, उत्तरेषां चाश्लेपात्, आरब्धफलानां" कर्मणां भोगेन नष्टत्वात् ब्रह्मप्राप्तौ विलम्बहेत्वभावात् ‘‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये’’ इति श्रुतौ ब्रह्मविदश्चरमदेहावसाने ब्रह्मप्राप्तिप्रतिपादनाच्च निशि मृतस्यापि ब्रह्मविदो ब्रह्मप्राप्तिरस्त्येव । निशि मरणस्य कर्हितत्वस्मृतिस्तु अविद्वद्विषयेति ॥ 144 ॥ इति निशाधिकरणम् ॥ 10 ॥

यत्-विद्यामनुतिष्ठन् म्रियमाणो दक्षिणेऽप्ययने ।
ब्रह्म प्राप्नोति परं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 174 ॥

22 ॥ दक्षिणायनाधिकरणम् ॥ 11 ॥ अतश्चायनेऽपि दक्षिणे ॥ 4-2-19 ॥ [योगिनः प्रति स्मर्येते स्मार्ते चैते ॥ 20 ॥] अतः- ब्रह्मविदश्चरमदेहावसाने निखिलकर्मणां नष्टत्वेन ब्रह्मप्राप्तौ विल्मबहेत्वभावादेव दक्षिणायने मृतस्यापि ब्रह्मविदो ब्रह्माप्राप्तिरस्त्येवेति सूत्रार्थः ॥ यद्विद्यामनुतिष्ठन् म्रियमाणो दक्षिणेऽप्ययने । ब्रह्म प्राप्नोति परं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 176 ॥ इति श्रीकौशिककुलातिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य कलाप्रपूर्णस्य श्रीदेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालायां" चतुर्थाध्यायस्य द्वितीयः पादः ॥ स्पष्टोऽर्थः ॥ पूर्वपक्षः । तैत्तिरीयोपनिषदि ‘‘अथ यो दक्षिणे प्रमीयते, पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छति’’ इति दक्षिणायनमृतस्य ब्रह्मविदोऽपि चन्द्रप्राप्तिश्रवणात् चन्द्रं प्राप्तस्य ‘‘अथैतमेवाध्वानं पुनर्निवर्तन्ते’’ इति पञ्चाग्निविद्याश्रुतौ पुनरावृत्तिश्रवणात्, भीष्मादीनां ब्रह्मविद्यानिष्ठानां देहत्यगाय उतरायणप्रतीक्षास्मरणात् ‘‘यत्र कारे त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ’‘इत्युपक्रम्य, ‘‘अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणं । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ धूमो रात्रिस्यथा कृष्णः षण्मसा दक्षिणायनं । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ शुक्लकृष्णो गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृतिमन्ययाऽऽवर्तते पुनः’’ इति श्रीभगवद्गीतासु योगिनो मुमूर्षून् प्रति पुनरावृत्त्यपुनरावृत्तिहेतुभूतकालविधिप्रकरणे दक्षिणायनमरणस्य पुनरावृत्तिहेतुत्वस्मरणाच्च दक्षिणायनमृतस्य ब्रह्मप्राप्तिर्न संभवतीति ॥ सिद्धान्तः । दक्षिणायनमृतस्य ब्रह्मविदः प्रागुक्तरीत्या ब्रह्मप्राप्तौ विलम्बहेत्वभावात् ब्रह्मप्राप्तिरस्त्येव । तैत्तिरीयोपनिषदि दक्षिणायनमृतस्य ब्रह्मविदः चन्द्रप्राप्तिविधानं तु ‘‘तस्माद्ब्रह्मणो महिमानमाप्नोति’’ इति तत्रैवोत्तरत्र ब्रह्मप्राप्त्यभिधानेन ब्रह्म प्राप्नुवातो विश्रमस्थानप्रतिपादनपरम् । भीष्मादीनामुत्तरायणप्रतीक्षणं तु स्वच्छन्दमरणानां तेषां धर्मप्रवर्तनाधिकृतानां उत्तरायणमरणप्राशस्त्यज्ञापनार्थम् । भगवद्गीतासु ‘‘यत्र काले त्वनावृत्तिं’’ इत्यादिवचनं तु न मुमूर्षून् प्रति पुनरावृत्त्यपुनरावृत्तिहेतुभूतकालविशेषप्रतिपादनपरं; अपि तु भक्तियोगनिष्ठैः प्रत्यहं चिन्तनीयदेवयानपितृयानरूपमार्गद्वयज्ञापनपरम् । तत्र मुमुङुभिर्देवयानगतिः, ऐश्वर्यादिफलान्तरर्थिभिः" भक्तिनिष्ठैः पितृयानगतिश्वन्तनीयत्वेन विधीयते । ‘‘नैते सृती पार्थ जानन् योगी मुह्यति कश्चन’’ इत्युपसंहारेण ‘‘अग्निर्ज्योतिरहः" शुक्लः,’’ ‘‘धूमो रात्रिस्तथा कृष्णः’’ इत्यनयोस्तत्तदधिकारिगन्तव्यमार्गविशेषपरत्वावगमेन कालविशेषविधिपरत्वाभावात् ‘‘यत्र काले त्वनावृत्तिं’’ इत्यत्र कालपदमपि तत्तन्मार्गस्थकालभिमान्यातिवाहिकदेवताविशेषपरं, न तु कालपरं इति न तद्विरोधः । 145 ॥ इति दक्षिणायनाधिकरणम् ॥ 11 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य कलाप्रपूर्णस्य श्रीदेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालाप्रकाशे चतुर्थाध्यायस्य द्वितीयः पादः ।