अपवर्गसाधनं यद्वेदनमावर्तनीयमसकृदिति ।
श्रुत्यैककण्ठ्यसिद्धं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 151 ॥
1 ॥ आवृत्त्यधिकरणम् ॥ 1 ॥ एवं तृतीयाध्यायप्रथमपादे अनादिवासनावशेन त्रिवर्गप्रवणस्य चेतनस्य विषयदोषदर्शनेन ततो निवृत्तिबुर्वकं भगवच्छ्रीनिवासप्राप्तिरूपमोक्षपुरुषार्थसाधनभूततदुपासनप्रवृत्तिसिद्ध्यौपयिकतथाविधपुरुषार्थेच्छोत्पादनाय ‘‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ठ्वा स्वर्गतिं ग्रार्थयन्ते । ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति’’ इत्यादिषु प्रसिद्धाः कर्मफलानां क्षयिप्णुत्वं, ततः पुनरावृत्तिः, स्वसमानयोगक्षेमदेवताकिङ्करतानुवृतिः इत्यादयः कर्मदोषाः" निरूपिताः ॥ द्वितीयपादे भगवच्छ्रीनिवासप्राप्तिरूपमोक्षपुरुषार्थस्यापुनरावृत्तिरूपतासिद्धये भगवतः श्रीनिवासस्य स्वोपासनद्वारा स्वात्मानं" प्राप्तानामपुनरावर्तनसङ्कल्पनिर्वहणानुगुणसत्यसङ्कल्पत्वाद्युपास्यत्वोपयुक्तानन्तकल्याणगुणसंपन्नता ‘‘अतोऽनन्तेन तथा हि लिङ्गं’’ इति सूत्रेण निरूपिता ॥ तृतीयपादे उपास्यवस्तुनो निरतिशयप्रियत्वेन तदुपासनस्य निरतिशयप्रीतिरूपतासिद्धये आनन्दत्वादितत्स्वरूपनिरूपकधर्माणां सर्वपरविद्यासूपास्यतायास्ततद्विद्याप्रकरणश्रुतततद््गुणानां" तत्तद्विद्यास्वनुसन्धेयतायाश्च निरूपणेन भक्तियोगानुष्ठानप्रकारोनिरूपितः ॥ चतुर्थपादे भक्तियोगविवृद्धिविरोधिरजस्तमोमूलकपापनिरसनाय स्वस्वाश्रमानुगुणैर्नित्यनैमित्तिककर्मभिरनभिसंहितफलैर्भगवतश्श्रीनिवासस्य समाराधनरूपः कर्मयोगः, कर्माराधितभगवत्प्रसादेन भक्तिविरोधिकर्मणां क्षयः, भक्तियोगानुष्ठानमहिम्ना ऋषभभरतादिभिरिव प्राप्तस्य स्वमाहात्म्यस्यानविष्करणं, अनापदि निषिद्धान्नभोजननिवृतिः, ध्येयस्य दिव्यमङ्गलविग्रहरूपशुभाश्रयस्य भक्तियोगानुष्ठानेतरकालेषु सर्वदा चिन्तनीयत्वं, ब्रह्मविदपचारस्य सर्वदा परित्याज्यत्वं, एवंविधभक्तियोगनिष्ठस्यार्थसिद्धा देवतान्तरकिङ्करतानिवृत्तिः, ऋणत्रयनिवृत्तिरित्यादयो निरूपिताः ॥ इदानीं मोक्षपुरुषार्थसाधनतया श्रुतिविहितस्य श्रीश्रीनिवासोपासनस्य निरतिशयब्रीतिरूपतापन्नसाक्षात्कारसमानावस्थाप्राप्तिरूपस्यापवर्गफलांकुरस्य सिद्धये तैलधारावदविच्छिन्नस्मृतिसन्ततिरूपत्वं, एवंविधसाक्षात्कारावस्थापन्नभक्तियोगनिष्ठस्य तस्मिन्नैव देहे पुण्यपापयोरश्लेषविनाशौ, इतराधिकारिदुर्लभं नाडीविशेषादुत्क्रमणं, निश्शेषकर्मसंबन्धनिवृत्तिस्थानप्राप्तिः, तत्प्राप्त्यनन्तरभाविपुनरावृत्तिरहितभोगविशेषप्राप्तिः" इत्यादेर्विद्याफलस्य निरूपणाय चतुर्थोऽध्याय आरभ्यते ॥ तत्र अपवर्गसाधनतया वेदान्तविहितस्य भगवद्वेदनस्य वेदान्तवाक्यश्रवणजन्यशाब्दानुभवजनितस्मृतिरूपस्यानवरतभावनाप्रकर्षेण साक्षात्कारत्वावस्थाप्राप्तये भगवच्चिन्तनरूपस्य स्मरणस्यामकृदावर्तनीयतानिरूपणय प्रवृत्तमिदमधिकरणम् ॥ आवृत्तिरसकृदुपदेशात् ॥ 4-1-1 ॥ [लिङ्गाच्च ॥ 1 ॥] अत्र ‘‘एवं मुक्तिफलानियमस्तदवस्थावधृतेः’’ इति दृतीयाध्यायान्तिमसूत्रे प्रस्तुतं मुक्तिफलकं वेदनं पक्षतया विवक्षितम् । ततश्चापवर्गोपायभूतं" भगवद्वेदनं असकृदावृत्तिरूपं-तैलधारावदविच्छिन्नस्मृतिसन्ततिरूपमित्यर्थः । अत्र हेतुमाह उपदेशात् इति । ‘‘ब्रह्मविदाप्नोप्ति परं’’ इत्यादौ विहितस्य वेदनस्याविच्छिन्नस्मृतिसन्ततिरूपध्यानत्वावस्थोपदेशादिति सूत्रार्थः ॥ अपवर्गसाधनं यद्वेदनामावर्तनीयमसकृदिति । श्रुत्यैककण्ठ्यसिद्धं तद्ब्रह्म श्रीनिवासानाप भजे ॥ 153 ॥ यद्वेदनं इति । यस्य श्रीनिवासस्य वेदनामित्यर्थः । शिष्टं स्पष्टम् ॥ अत्रैवं पूर्वपक्षः- यथा ‘‘ज्योतिष्टोमेन स्वर्गकामो यजेत’’ इत्यादौ स्वर्गसाधनतया विहितस्य यागादेस्सकृत्करणेनैव स्वर्गादिफलसिद्धिः, तथेहापि ‘‘ब्रह्मविदाप्नोति परं’’ इत्यादौ अपवर्गसाधनतया विहितम्य भगवच्चिन्तनरूपवेदनस्य सकृदनुष्ठानेनैवापर्गफलसिद्धिसंभवात, भगवच्चिन्तनं सकृदेव कार्यमिति ॥ सिद्धान्तस्तु वेदान्तशास्त्रेषु क्वचिद्भगवतो वेदनम्य, क्वाचिस-दुपा नस्य, क्वचिद्ध्यानस्य, क्वचित् ध्रुवास्मृतेः, क्वचित् साक्षात्कारस्य, क्वचित् भक्तेश्चापवर्गसाधनत्वं श्रूयते । ‘‘ब्रह्मविदाप्नोति परं,’’ ‘‘आत्मानमेव लोकमुपासीत,’’ ‘‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः,’’ ‘‘आहारशुद्धौ सत्त्वशुद्धिः, सत्त्वशुद्धौ ध्रुवा स्मृतिः, स्मृतिलम्भे सर्वग्रन्थीनां" विप्रमोक्षः,’’ ‘‘निचाच्य तं मृत्युमुखात् प्रमुच्यते,’’ ‘‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वां’’ इत्यादिषुप्रथमोदाहृतश्रुतौ स्मृतिरूपस्य वेदनस्य, द्वितीयश्रुतौ स्मृतिसन्ततिरूपस्योपासनस्य, तृतीयचतुर्थश्रुत्योः तैलधारावदविच्छिन्नस्मृतिसन्ततिरूपस्य ध्यानस्य, पञ्चभ्यां श्रुतौ साक्षात्करस्य, षष्ठ्यां भक्तेश्व मोङसाधनत्वं" श्रुतम् । ‘‘निचाय्य तं’’ इत्यात्र ‘‘चायृ दर्शने’’ इति धातोर्निष्पन्नत्वात् ‘निचाय्य’ इत्यास्य साक्षात्कारवाचित्वं बोद्ध्यम् । ‘‘नायमात्मा’’ इत्यादि । अयं-परमात्मा, प्रवचनेन-मननेन, मेधयाःनिधिध्यासनेन, श्रुतेनश्रवणेन, न लभ्यः । एष आत्मा यं वृणुते, तेनैव लभ्यः । एष आत्मा, स्वां तनू-स्वस्वरूपं, ,स्य, विवृणुते-प्रकाशयति इति श्रुत्यर्थः । अत्र श्रवणमनननिदिध्यासनानां परमात्मप्राप्तिहेतुत्वं" निषिद्ध्य, परमात्मना वरणीयो यस्तेनैव लभ्यत इत्युक्तम् । तेन परमात्मना वरणीयताहेतुगुणविशेषवता प्राप्य इत्युक्तं भवति । स च गुणः परमात्मनि निरतिशयप्रीतिरूपः । स्वस्मिन्निरतिशयप्रीतिमत्येव परमात्मनो निरतिशयप्रीत्युदयेन तस्य वरणीयतासंभवात् । ततश्चानेन मन्त्रेम केवलानां श्रवणमनननिदिध्यासनानां परमात्मप्राप्तिहेतुतां निषिद्ध्य, निरतिशयप्रीतिरूपतापन्नानां तेषां परमात्मप्राप्तिहेतुत्वमुक्तं" भवति । इत्थं च सति, ‘‘भक्त्या त्वनन्यया शक्यः अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप’’ इति श्रीगीतावचनेनैकार्थ्यमपि संभवति । एवं परमात्मप्राप्तिहेतुतया श्रुतानामेषां वेदनादीनां विकल्पो न संभवति, गुरुलवुविकल्पानुपपत्तेः । अतस्सामान्यविशेषन्यायेन, सामान्यवाचिनां शब्दानां समानप्रकरणश्रुतविशेषपर्यवसानमाश्रित्य विशदतमत्वरूपसाक्षात्कारत्वावस्थापन्नायास्तैलधारावदविच्छिन्नाया निरतिशयप्रीतिरूपतापन्नस्मृतिसन्ततेरेव मोक्षसाधनत्वे श्रुतेस्तात्पर्य वाच्यम् । अतस्तथाविधमेव परमात्मवेदनं मोक्षसाधनमिति ॥ यद्यपि सूत्रेणापवर्गसाधनस्य वेदनस्यासकृदावृत्तिरूपत्वमेव लभ्यते, तथाऽपि सामान्यविशेषन्यायेन सामान्यस्य वेदनास्यासकृदावृत्तिरूपतां" वदतस्सूत्रकारस्योत्तरोत्तरं ये ये विशेषाः श्रुतास्तेषु विशेषेषु पर्यवसाने तात्पर्यावगमात्, पूर्वोक्तरूपस्य वेदनस्यापवर्गसाधनत्वमेव सूत्रकृदभिप्रेतामिति बोद्ध्यम् ॥ एवमपवर्गसाधनतया वेदान्तविहितस्य वेदनस्य निरन्तरस्मृतिरूपता श्रीविष्णुपुराणे ‘‘तद्रूपप्रत्यये चैका सन्तततिश्चान्यनिस्स्पृहा । तद्ध्यानं प्रथमैप्षड््भिरङ्गैर्निष्पाद्यते नृप’’ इति वचनेनाप्यवगम्यते । तस्य-परमात्मनः, यत् रूपं-शुभाश्रयः, तस्य वेदने, अन्यनिस्सपृहा-विजातीयप्रत्ययव्यवधानरहिता, एका या सन्ततिः-अविच्छिन्नप्रवाहः, तद्ध्यानं-तच्च यमनियमादिभिप्षड्भिरङ्गैर्निष्पाद्यत इति श्लोकार्थः ॥ ‘‘ब्रह्मविदाप्नोति परं’’ इति श्रुतौ वेद्यतया श्रुतं ब्रह्म श्रीनिवासाख्यदेवताविशेष एवेत्यानन्दमयाधिकरणे निर्णीतत्वात, अस्मिन् पद्ये अपवर्गसाधनं यद्वेदनं इत्युक्तम् ॥ 124 ॥ इति आवृत्त्याधिकरणम् ॥ 1 ॥
परजीवयोरुपास्योपासकयोस्स्वरूपभेदेऽपि ।
तादात्म्यस्य विधानाच्छ्रुतिभिर्देहात्मभावस्य ॥ 152 ॥
आत्मेत्युपास्यताया विहितत्वादप्युपासित्रा ।
आत्मेति तु यदुपास्यं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 153 ॥
2 ॥ आत्मोपासनाधिकरणम् ॥ 2 ॥ पूर्वाधिकरणे परमात्मोपासनमसकृदावृत्तं कर्तव्यमित्युक्तम् । तत्रोपासनप्रकारनिर्णयार्थ प्रवृत्तमिदमधिकरणम् । आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ 4-1-3 ॥ तु शब्दोऽवधारणे । उपास्यं परमात्मानं स्वस्य आत्मेत्येव, उपगच्छन्ति-उपासते, उपासितार इति शेषः । उपास्यस्योपासकं प्रत्यात्मत्वं" शास्त्राणि, ग्राहयन्ति च-उपपादयन्ति च इति सूत्रार्थः ॥ परजीवयोरुपास्योपासकयोस्स्वरूपभेदेऽपि । तादात्म्यस्य विधानाच्छ्रुतिभिर्देहात्मभावस्य ॥ 154 ॥ आत्मेत्युपास्यताया विहितत्वादप्युपासित्रा । आत्मेति तु यदुपास्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 155 ॥ यथा देहात्मनोर्भेदेऽपि जीवात्मनो देहं प्रत्यत्मत्वात् ‘मनुप्योऽहं’ इत्याद्यनुसन्धानं, तथा जीवात्मानं प्रति परमात्मन आत्मत्वादात्मत्वेनोपासनस्य विहितत्वाच्च यच्छ्रीनिवासाख्यं ब्रह्म उपासकेन ‘अहं’ इत्युपास्यं, तद्ब्रह्मेति पूर्ववत् ॥ पूर्वपक्षः । उपास्यस्य परमात्मन उपासकाज्जीवाद्वस्तुतो भिन्नत्वात् ‘‘पृथगात्मानं प्रेरितारं च मत्वा’’ िति श्रुतौ स्वात्मपरमात्मनोर्भेदेनानुसन्धानस्य विहितत्वाच्च परमात्मा ‘अहं’ इति नोपास्य इति ॥ सिद्धान्तस्तु उपासकेन परमात्मा ‘अहं’ इत्येवोपास्यः, ‘‘अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमिति न स वेद, अकृत्स्नो ह्येष’’ इति उपास्यस्य परमात्मनः स्वस्मादन्यत्वेनोपासनस्य निन्दाश्रवणात्, स्वस्मादन्यस्यापि परमात्मनस्स्वात्मानं प्रत्यात्मत्वोपदेशेन तस्य ‘अहं’ इत्युपासनसंभवस्य शास्त्रैरुपपादितत्वाच्च । ‘‘य आत्मनि निष्ठन् आत्मनोऽन्तरो यमात्मा न वेद यस्याऽऽत्मा शरीरं" य अत्मानमन्तरो यमयति, स त आत्माऽन्तर्याम्यमृत’’ इति श्रुतौ जीवात्मपरमात्मनोश्शरीरात्मभावप्रतिपादनात् स्वस्मादन्यत्वेऽपि स्वदेहस्य तं प्रति स्वस्यात्मत्वेनं ‘मनुष्योऽहं’ ब्राह्मणोऽहं’ इत्याद्यनुसन्धानवत् स्वस्मादन्यस्यापि ब्रह्मणः स्वं प्रत्यात्मत्वेन ‘अहं ब्रह्मास्मि’ इत्यनुसन्धानं ङ्युपपादितं भवति । एवमुपासने क्रियमाणे स्वस्य परमात्मनश्च भेदेनानुसन्धानसिद्धेः ‘‘पृथगात्मानं" प्रेरितारं च मन्वा’’ इति श्रुत्यविरोधः स्वं प्रत्यत्मत्वेनोपासनात्, ‘‘अथ योऽन्यां देवतामुपास्ते’’ इत्यादिश्रुत्यविरेधश्चोपपद्यते । अत्र अन्तर्यामिब्राह्मणादौ जीवात्मानं प्रति आत्मत्वेनोपदिष्टस्यान्तर्यामिणस्सुबालोपनिषदैकार्थ्येन श्रीनिवासापरनामधेयनारायणत्वसिद्ध्या अस्मिन् बद्ये आत्मेति तु यदुपास्यं इत्युक्तम् इति ॥ 125 ॥ इति आत्मोपासनाधिकरणम् ॥ 2 ॥
यद्दृष्ट्योपास्यानां नामादीनामनात्मत्वात् ।
आत्मत्वं नोपास्यं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 154 ॥
3 ॥ प्रतीकाधिकरणम् ॥ 3 ॥ पूर्वाधिकरणे परविद्यासूपास्यस्य ब्रह्मण उपासकं प्रत्यात्मत्वादुपासित्रा स्वात्मत्वेनैव ब्रह्मोपास्यमित्युक्तम् । एवं मनःप्रभृतिप्रतीकोपासनेषु आत्मत्वेनोपासनं कार्यं न वेति शङ्गापरिहाराय प्रवृतमिदमधिकरणम् ॥ न प्रतीके न हि सः ॥ 4-9-4 ॥ [ब्रह्मदृष्टिरूत्कर्षात् ॥ 5 ॥] प्रतीके-अब्रह्मणि मनआदौ, आत्मत्वेनोपासनं न-कार्य, हि-यतः, सः-मनआदिः प्रतीकः, न-उपासितुरात्मा नेति सूत्रार्थः । ब्रह्मत्वेन ध्यानविषयाः प्रतीका इत्युच्यन्ते ॥ यद्दृष्ट्योपास्यानां नामादीनामनात्मत्वात् । आत्मत्वं नोपास्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 156 ॥ स्पष्टोऽर्थः ॥ पूर्वपक्षः । ‘‘मनो ब्रह्मेत्युपासीत,’’ ‘‘नाम ब्रह्मेत्युपासीत’’ इत्यादिश्रुतिविहितेषु उपासनेष्वपि ब्रह्मोपासनत्वाविशेषादुपास्यस्य वस्तुन आत्मत्वेनानुसन्धानं कार्यम्, ब्रह्मण उपासकं प्रत्यात्मत्वादिति ॥ सिद्धान्तस्तु-मनःप्रभृतिप्रतीकोपासनेषु मनःप्रभृतीनि ब्रह्मत्वेनोपास्यानि, न तु ब्रह्म मनस्त्वेनोपास्यम् । उत्कृष्टे राज्ञि भृत्यबुद्धेरिव उत्कृष्टे ब्रह्मणि निकृष्टमनस्त्वादिबुद्धेरभ्युदयहेतुत्वायोगात् । इत्थं च मनःप्रभृतीन्येव ब्रह्मत्वेनोपास्यानि, तेषां चोपासकं प्रत्यात्मत्वाभावान्न तेष्वात्मत्वानुसन्धानं कार्यमिति । भागवतः श्रीनिवासस्यैव जगत्कारणब्रह्मरूपताया ईक्षत्यधिकरणादिषु व्यवस्थापितत्वात्, अस्मिन् पद्ये यद्दृष्ट्योपास्यानां इत्युक्तम् ॥ 126 ॥ इति प्रतीकाधिकरणम् ॥ 3 ॥
यदुपासनसहकारिक्रत्वङ्गोद्गीथ एव तु निकृष्टे ।
आदित्यदृष्टिरुचिता तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 155 ॥
4 ॥ आदित्यादिमत्याधिकरणम् ॥ 4 ॥ पूर्वाधिकरणे देवताया उत्कृष्टत्वान्निकृष्टेषु मनःप्रभृतिषु उत्कृष्टदेवतात्वबुद्धिरेव कर्तव्येत्युक्तम् । तन्नोपपद्यत इत्याक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ आदित्यादिमतयश्चांग उपपत्तेः ॥ 4-9-6 ॥ क्रत्वङ्गे उद्गीथादौ आदित्यादिबुद्धय एव कर्तव्याः । तेषामादित्यादीनामेवोत्कर्षोपपत्तेरिति सूत्रार्थः ॥ यदुपासनसहकारिक्रत्वङ्गोद््गीथ एव तु निकृष्टे । आदित्यदृष्टिरुचिता तद््ब्रह्म श्रीनिवासनाम भजे ॥ 157 ॥ स्पष्टोऽर्थः ॥ पूर्वपक्षः । छान्दोग्ये ‘‘य एवासौ तपति तमुद्गीथमुपासीत’’ इत्युद्गीथोपासनं विहितम् । अत्र क्रतोः फलसाधनन्वेन तदङ्गस्योद्गीथस्य फलं प्रत्यसाधनभूतादादित्यादेरुत्कृष्टतया निकृष्टे उत्कृष्टदृष्टेर्न्याय्यत्वेन च आदित्ये उद्गीथदृष्टिरेव कर्तव्या । किञ्च ‘‘य एवासौ तपति’’ इति यच्छब्दनिर्देशात् प्रथमनिर्देशाच्च आदित्यस्योद्देश्यत्वप्रतीत्या आदित्योद्देशेन उद्गीथदृष्टेर्विधित्सितत्वावगमादपि आदित्याख्यदेवतायामुद्गीथदृष्टिरेव कर्तव्येति ॥ सिद्धान्तः । क्रतोः देवताराधनत्वेन देवताया एव प्रधानत्वादाराधितदेवताप्रसादस्यैव फलजनकत्वाच्च देवताया एवोत्कृष्टत्वेन उद्गीथे उत्कृष्टदेवतादृष्टिरेव कर्तव्या । ‘‘य एवासौ तपति’’ इति यच्छब्दनिर्देशस्वारस्यभङ्गस्तु उक्तानुपपत्त्या सह्य इति ॥ सर्वासां परविद्यानां श्रीनिवासविषयताया लिङ्गभूयस्त्वाधिकरणे निर्णीतत्वात् क्रतूनां परविद्यासहकारितायाः ‘‘सहकारित्वेन च ’’ इति सूत्रे निर्णीतवादुद्गीथोपासनस्य क्रतुफलाप्रतिबन्धरूपफलसाधनतायास्तन्निर्धारणानियमाधिकरणे व्यवर्थापनेन क्रतूनां विद्यासहकारिताप्रकारस्य विवृतत्वाच्च अस्मिन् पद्ये यद्विद्यासहकारिक्रत्वङ्गोद््गीथ इत्युक्तम् ॥ 127 ॥ इति आदित्यादिमत्यधिकरणम् ॥ 4 ॥
यदुपासनमपि नियमादासीनेनैव कर्तव्यम् ।
ऐकाग्र्यसिद्धिहेतोः तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 156 ॥
5 ॥ आसीनाधिकरणम् ॥ 5 ॥ आवृत्त्यधिकरणे ध्यानरूपस्य भगवदुपासनस्य मोक्षसाधनत्वं निर्णीतम् । तदनुष्ठाने आसननियमानपेक्षाशङ्कावारणाय प्रवृतमिदमधिकरणम् ॥ आसीनस्संभवात् ॥ 4-1-7 ॥ [ध्यानाच्च ॥ 8 ॥ अचलत्वं चापेक्ष्य ॥ 9 ॥ स्मरन्ति च ॥ 10 ॥ यत्रैकाग्रता तत्राविशेषात् ॥ 11 ॥] आसीनः- मृदुन्यासन उपविष्टस्सन्, ध्यानं कुर्यात्, उपविष्ठस्यैवैकाग्र्यचिततासंभवात् इति सूत्रार्थः ॥ यदुपासनमपि नियमादासीनेनैव कर्तव्यम् । ऐकाग्र्यसिद्धिहेतोः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 158 ॥ ऐकाग्र्यसिद्धिहेतोः- एकाग्रचित्ततासिद्ध्यर्थम् । शिष्टं स्पष्टम् ॥ पूर्वपक्षः । ध्यानानुष्ठाने उपवेशनादिनियमाश्रवणादुपविष्टस्तिष्ठन् गच्छन् शयानो वा ध्यानं कुर्यात् इति ॥ सिद्धान्तस्तु-ध्यानस्य चित्तविक्षेपाभावसापेक्षत्वात्, स्थितिगमनयोश्शरीरधारणाय प्रयत्नस्यापेक्षितत्वेन चितविक्षेपसंभवात्, शयने निद्रासंभवात, ध्येयवस्त्वितरविषयकचिन्ताव्यवधानरहितस्मृतिसन्ततेरेव ध्यानरुपत्वान्निश्चलेष्वेव वस्तुषु ध्यायतिशब्दप्रयोगेन ध्यानस्य निश्चलत्वसापेक्षत्वावगमात, ‘‘शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ॥ तत्रैकाग्रं मनः कृत्वा यताचित्तेन्द्रियक्रियः । उपविश्याऽऽसने युञ्ज्याद्योगमात्मविशुद्धये’’ इत्यादिस्मृतिषु उपविष्टस्यैव ध्यानानुष्ठानस्मरणात, चित्तस्य विषयान्तरसञ्चारराहित्यरूपैकाग्रतातिरिक्तहेतोर्ध्याने अनपेक्षितत्वाच्च यास्मिन् देशे यस्मिन् काले चितविक्षेपो न संभवति, तस्मिन् देशे तस्मिन् काले सापाश्रये आसने उपविष्टेन ध्यानं कार्यमिति ॥ सर्वासां परविद्यानां श्रीनिवासविषयकतायाः पूर्वमेवोक्तत्वात् यतुपासने इत्युक्तम् ॥ 128 ॥ इति आसीनाधिकरणम् ॥ 5 ॥
यावज्जीवं कार्यं यदुपासनमन्वहं ध्यात्रा ।
श्रुतिषु तथैव विधानात् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 157 ॥
6 ॥ आप्रयाणधिकरणम् ॥ 6 ॥ अपवर्गसाधनमिदं ब्रह्मोपासनं आमरणान्ननुवर्तनीयमिति शङ्कावारणाय प्रवृत्तमिदमधिकरणम् ॥ आप्रयाणात्तत्रापि हि दृष्टम् ॥ 4-1-12 ॥ तदिदमपवर्गसाधनं ब्रह्मोपासनं, आप्रयाणात्-मरणपर्यन्तं अनुष्ठेयं, हि-यतः, तत्रापिःआमरणादनुवर्तनीयत्वेऽपि शास्त्रं दृश्यते इति सूत्रार्थः ॥ यावज्जीवं कार्य यदुपासनमन्वहं ध्यात्रा । श्रुतिषु तथैव विधानात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 159 ॥ स्पष्टोऽर्थः ॥ पूर्वपक्षः । साक्षात्कारावस्थापन्नतैलधारावदविच्छ्न्निस्मृतिसन्ततिरूपस्य ध्यानस्य यावता कालेन निष्पत्तिः तावन्तं कालमेवोपासनं कर्तव्यमिति ॥ सिद्धान्तस्तु ‘‘स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते’’ इति श्रुतौ ब्रह्मप्राप्तिसाधनस्य तदुपासनस्य आयुस्समाप्तिपर्यन्तमनुष्ठेयताश्रवणात् ब्रह्मोपासनस्य कतिपयकालेन निष्पादनसंभवेऽपि आमरणमनुवर्तनं कार्यं, अन्यथा शास्त्रोल्लङ्गनप्रसङ्गदिति । ‘‘स खल्वेवं वर्तयन्’’ इत्युदाहृतछान्दोग्यश्रुतौ तच्छब्देन पूर्वविहितदहरविद्यादिब्रह्मविद्यानिष्ठपरामर्शात् तत्तद्ब्रह्मविद्यानां" श्रीनिवासाख्यभगवद्विषयताया निरूपितत्वात् ध्यात्रा यदुपासनमन्वहं कार्यं इत्युक्तम् ॥ 129 ॥ इति आप्रयाणाधिकरणम् ॥ 6 ॥
अभ्यासाद्यदुपास्तेर्दर्शनसमरूपतासिद्धौ ।
तत्पूर्वविरचितानां निश्शेषं भवति पाप्मनां नाशः ॥ 158 ॥
उत्तरकालकृतानां प्रामादिकपाप्मनामसंश्लेषः ।
यत्-विद्यामाहात्म्यात् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 159 ॥
7 ॥ तदधिगमाधिकरणम् ॥ 7 ॥ इयता ग्रन्थेन विद्यास्वरूपं निरूपितम् । इतः परं विद्याफलं निरूप्यते ॥ देद्यस्य भगवतः श्रीनिवासस्या निरतिशयानन्दरूपतया निरतिशयकल्याणगुणवत्तया च तच्चिन्तनस्य निरतिशयानन्दरूपतया अपवर्गोपायभूतस्यापि तस्य फलत्वस्यापि संभवात्, अस्मिन् फलाध्याये तच्चिन्तनमिति प्रागेव निरूपितम् ॥ तदधिगाम उत्तरपूर्वाघयोरश्लेषविनाशौ तद््व्यपदेशात् ॥ 4-1-13 ॥ ब्रह्मविद्यानिष्ठस्य तदधिगमे-साक्षात्कारावस्थापन्नब्रह्मविद्याप्राप्तौ सत्यां ब्रह्मविद्यात उत्तरपूर्वाघयोः अश्लेषाविनाशै-ब्रह्मविद्यातः" पूर्व कृतानां पापकर्मणां विनाशः, तदुत्पत्त्यनन्तरं कृतानां पापकर्मणां अश्लेषश्च भावत इत्यर्थः । तत्र प्रमाणमाह तद्व्यपदेशात् इति । श्रुतिषु तथाव्यपदेशात् इति सूत्रार्थः ॥ अभ्यासाद्यदुपास्तेर्दर्शनसमरूपतासिद्धौ । तत्पूर्वविरचितानां निश्शेषं भवति पाप्मनां नाशः ॥ 160 ॥ उत्तरकालकृतानां प्रामादिकपाप्मनामसंश्लेषः । यद्विद्यामाहात्म्यात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 161 ॥ यदुपासनस्य - श्रीनिवासोपासनस्य, अभ्यासात्-असकृदावृत्तेः विशदतमत्वरूपसाक्षात्कारत्वावस्थासिद्धौ विद्यामाहात्म्यात्-विद्यारंभात्पूर्वं" कृतानां दुष्कृतकर्मणां, नाशः-विद्यारंभोत्तरकालकृतानामबुद्धिपूर्वकपापानामसंश्लेषश्च भवतः, तद्ब्रह्म इति पूर्ववत् ॥ छान्दोग्ये उपकोसलविद्याप्रकरणे ‘‘यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लेष्यते’’ इति, तत्रैव वैश्वानरविद्याप्रकरणे ‘‘यथेषीकतूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’’ इति च तत्रैव ब्रह्मविद्याफलं श्रूयते । तत्र विद्योत्पत्त्युत्तराघाणां" अश्लेषः, तत्पूर्वकृतपापानां विनाशश्च अर्थस्वभावान्निश्चीयते ॥ तत्र पूर्वपक्षः- ‘‘नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि’’ इति ब्रब्मवैवर्ते प्रकृतिखण्डे षड्विंशेऽध्याये कर्मणां कलानुभवं" विना नाशासंभवोक्तेस्तेषां प्रायश्चित्तेन नाशसंभवेऽपि ब्रह्मविद्यायाः पापानां प्रायश्चित्तत्वे मानाभावाच्च ब्रह्मविद्याया ईदृशफलोक्तिः स्तुतिरूपा इति ॥ सिद्धान्तस्तु ब्रह्मविद्यया पूर्वकृतानां पापानां नाशस्य उत्तरकृतानां पापानामश्लेषस्य च शास्त्रेणोच्यमानत्वत्तत्रानुपपत्तिविरहाच्च ब्रह्माविद्याया अश्लेषविनाशौ संभवत एव । ‘‘नाभुक्तं क्षीयते कर्म’’ इति वचनेन कर्मणां फलजननशक्तिः फलानुभवपर्यन्तावस्थायिनी प्रतिपाद्यते; कर्मणामाशुतरविनाशित्वेन तन्नाशाभावस्य वक्तुमशक्यत्वात् । ‘‘तद्यथेषीकं’’ इत्यादिश्रुत्या तु उत्पन्नायाः कर्मणां" फलजननशक्तेः ब्रह्मविद्यया नाशः प्रतिपाद्यते । अत इदमुभयं न विरूद्व्यते । यथा ‘अग्निर्दहति’ ‘जलं तं शमयति’ इति वचनद्वयं न विरूद्व्यते, तद्वत् । एवमुत्तराघानामश्लेषश्रुत्या तेषां कर्मणां फलजननशक्त्युत्पत्तिप्रतिबन्धः कियते इति प्रतिपाद्यते । अत इदमपि न विरुद्धम् । अतो ब्रह्मविद्यायाः पूर्वोत्तरपापविनाशाश्लेषयोरुक्तरूपयोः करणसंभवात् श्रुतिषु प्रतिपादनं न विद्यास्तुतिमात्रम् । एवं ‘‘प्रायश्चितैरपैत्येनः’’ इत्यादिषु प्रायश्चितैरपि पापनाशस्मरणात् ‘‘नाभुक्तं क्षीयते कर्म’’ इति वचनं अकृतप्रायश्चित्तपापविषयं वाच्यम् । इत्थं च ‘‘प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परं’’ इति कृष्णानुस्मरणरूपब्रह्मविद्यायाः सर्वेषु प्रायाश्चित्तेषु उत्तमत्वस्मरणात् तया सर्वपापनाशो युक्त एव । अन्यथा अनादिकालोपचितानामनन्तानां पापानां उत्तरोत्तरशरीरारंभकतया कदाचिदपि निश्शेषनाशासंभवेन मोक्षशास्त्रस्यानर्थक्यमेव स्यात् । अत्र कर्मणां फलजननशक्तिर्नाम परमात्मनस्तत्तत्कर्मफलप्रदानसङ्कल्परूपा, नातिरिक्ता । ‘‘तानहं" द्विषतः क्रूरान् संसरिषु नाराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु’’ इति दुष्कर्मकरणे भगवतो निग्रहसङ्कल्पस्य, ‘‘तेषां" सततयुक्तानां भजतां प्रीतिपूर्वकं । ददामि बुद्धियोगं तं येन मामुपयान्ति ते’’ इत्यादिषु सत्कर्मकरणे भगवदनुग्रहसङ्कल्पस्य च प्रतिपादनात् । ततश्च विद्योत्पत्तिपूर्वकृतानां पापकर्मणां भगवदीयफलप्रदानसङ्कल्पनिवृत्तिः, विद्योत्तरकालकृतानां दुष्कृतकर्मणां" फलप्रदानसङ्कल्पानुत्पत्तिश्च ब्रह्मविद्याया भगवतः प्रीत्यतिशयोत्पादनेन क्रियत इति न काऽप्यनुपपत्तिः ॥ ‘‘नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात्’’ इत्यादिषु ब्रह्मविद्यानिष्ठस्यापि दुष्कर्मकरणनिषेधात् पूर्वोदाहृतश्रुतौ उत्तराघाश्लेषोक्तिः, अबुद्धिपूर्वकृतोत्तरघविषया अवगन्तव्या । यद्यपि ‘‘सांपराये तर्तव्याभावात्’’ इति सूत्रे सुकृतदुष्कृतयोर्देहावसाने निश्शेषनाशः प्रतिपादितः; अस्मिन्नधिकरणे तु देहे स्थितस्यैव विदुषः दर्शनसमानाकारावस्थापन्नब्रह्मविद्याप्राप्त्यनन्तरमेव दुष्कृतनाशप्रतिपादनेन पूर्वोत्तरविरोधः प्रतीयते, तथाऽपि ब्रह्मविद्यारंभे ‘यद्ययमुपक्रान्तं ब्रह्मोपासनं समापयेत् तर्ह्यस्य दुष्कृतरूपं कर्म क्षमिष्यामि’ इति सङ्कल्पोऽस्मिन् सूत्रे विवक्षितः । देहावसाने क्षान्तमिति सङ्कल्पः सांपराये इति सूत्रे विवक्षितः । अतो न विरोधः । यद्यपि ब्रह्मविद्यायाः प्रायश्चित्तरूपतया पूर्वाघानां तया विनाशोऽस्मिन् सूत्रे विवक्षितः, ततश्च तया उत्तराघानामश्लेषवचनमनुपपन्नं नैमित्तिकस्य निमित्तोत्पत्त्यनन्तरभावित्वनियमेन तदानीमनुत्पन्नमुत्तराघं प्रति ,स्याः प्रायश्चित्तत्वासंभवात्, तथाऽपि पूर्वाघं प्रत्येव ब्रह्मविद्यायाः प्रायश्चित्तत्वं अस्मिन् सूत्रे विवक्षितम् । उत्तराघस्याश्लेषवचनं तूपासनारंभजनितप्रीत्यतिशयेन भगवतस्तत्र निग्रहसङ्कल्पानुत्पत्तिपरमेवेति नानुपपत्तिरिति द्रष्टव्यम् । अत्र ‘‘एवविदि पापं कर्म न श्रिष्यते’’ इत्यस्याः श्रुतेः" अपकोसलविद्यानिष्ठविषयकत्वात् ‘‘तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’’ इति श्रुतेः वैश्वानरविद्यानिष्ठविषयत्वात् तयोश्च विद्ययोरन्तराधिकरण वैश्वानरधिकरणयोः श्रीनिवासावरनामधेयब्रह्मविषयकत्वस्य पूर्वमेव निरूपितत्वात, अस्मिन् पद्ये अभ्यासाद्यदुपास्तेः" इत्युक्तम् ॥ 130 ॥ इति तदधिगमाधिकरणम् ॥ 7 ॥
यत्-विद्ययैव भवतः पूर्वोत्तरसुकृतसंक्षयाश्लेषौ ।
अश्लेषो देहान्ते तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 160 ॥
8 ॥ इतराधिकरणम् ॥ 8 ॥ पूर्वाधिकरणे पूर्वोत्तरयोः पापयोर्विनाशाश्लेषावुक्तौ । इदानीं पूर्वोत्तरयोः सुकृतयोर्विनाशाश्लेषौ उच्येते ॥ इतरस्याप्येवामसंश्लेषः पाते तु ॥ 4-1-14 ॥ इतरस्य-सुकृतस्य अपि विद्यारंभात्वूर्वोत्तरकालकृतस्य, एवं-पूर्वोक्तन्यायेन विनाशः, असंश्लेषश्च भवति । असंश्लेषस्तु शरीरपातात् ऊर्ध्वं भवतीति सूत्रार्थः ॥ यद्विद्ययैव भवतः पूर्वोत्तरसुकृतसंक्षयाश्लेषौ । अश्लेषो देहान्ते तद्ब्रह्म श्रीनिवासनाम भजे ॥ 162 ॥ स्पष्टोऽर्थः ॥ पूर्वपक्षः । विदुषो विद्यारंभात्पूर्वोत्तरकारकृतयोस्सुकृतयोरनिष्टफलकत्वाभावात्, ‘‘एवं विदि पापं कर्म न श्लिष्यते सर्वे पाप्मानः प्रदूयन्ते’’ इति पूर्वोदाहृतश्रुतौ पापानामेवाश्लेषविनाशप्रतिपादनाच्च, तयोः विनाशाश्लेषौ न भवत इति ॥ सिद्धान्तस्तु दुष्कृतकर्मणो मोक्षरूपविद्याफलविरोधित्वाद्धि ब्रह्मविद्यया तस्य नाशोऽश्लेषश्चोदाहृतश्रुत्योः प्रतिपाद्यते, तद्वत् सुकृतफलस्य स्वर्गादेरपि मोक्षरूपविद्याफलविरोधित्वाविशेषेण सुकृतस्यापि ब्रह्मविद्यानिष्ठं प्रति अनिष्टफलसाधनत्वात्, ‘‘न सुकृतं न दुष्कृतं, सर्वे पाप्मानोऽतो निवर्तन्ते’’ इति छन्दोग्यदहरविद्याप्रकरणस्थश्रुत्यन्तरे दुष्कृत इव सुकृतेऽप्यनिष्टफलसाधनत्वेन पाप्मशब्दप्रयोगदर्शनात् । कौषीतक्युपनिषदि ‘‘तत्सुकृतदुष्कृते धूनुते’’ इति सुकृतस्यापि ङानश्रवणाच्च पूर्वोक्तयोस्सुकृतयोरपि विद्यामाहात्म्यात् विनाशोऽश्लेषश्च यथाक्रमं भवति । परं तु विद्यानुष्ठानौपयिकशरीरधारणानुकूलवृष्ट्यन्नारोग्यादिफलसाधनानां" सुकृतकर्मणां देहपातानन्तरमसंश्लेषो भवतीति ॥ पद्ये यद्विद्यया इत्युक्तेस्तात्पर्यं पूर्वश्लोके उक्तम् ॥ 131 ॥ इति उत्तराधिकरणम् ॥ 8 ॥
पूर्वकृतयोर्द्वयोरपि फलदानायाप्रवृत्तयोरेव ।
यत्-विद्यया विनाशस्तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 161 ॥
9 ॥ अनारब्धकार्याधिकरणम् ॥ 9 ॥ पूर्वाधिकरणे ब्रह्मविद्योत्पत्तेः पूर्वकृतयोः सुकृतदुष्कृतयोर्नाश उक्तः । तत्र विशेषाश्रवणात् सर्वेषां नाश इति शङ्कावारणाय प्रवृत्तमिदमधिकरणम् ॥ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ 4-1-15 ॥ पूर्वे - विद्यारंभात् पूर्वे सुकृतदुष्कृते, अनारब्धकार्ये एव - फलदानाप्रवृत्त एव नश्यतः; प्रलदानप्रवृत्तकर्मणां नाशस्य अवधिश्रवणात् इति सूत्रार्थः ॥ पूर्वकृतयोर्द्वयोरपि फलदानायाप्रवृत्तयोरेव । यद्विद्यया विनाशस्तद््ब्रह्म श्रीनिवासनाम भजे ॥ 163 ॥ द्वयोः इति । सुकृतदुष्कृतयोरित्यर्थः ॥ पूर्वपक्षः । ‘‘एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’’ इति श्रुतौ सर्वेषामेव सुकृतानां दुष्कृतानां च नाशश्रवणात्, विद्यारंभसमये तत्पूर्वकृतानां" सर्वेषामेव कर्मणां नाशः । न चैवं सर्वकर्मविनाशे विदुषो देहारंभककर्मणां विनष्टत्वात् देहस्थित्यनुपपत्तिरिति शङ्क्यम् । कुलालकर्तृकचक्रभ्रमणानुकूलव्यापारोपरमेऽपि संस्कारवशात् कतिपयकालं चक्रभ्रमणानुवृत्तिवत् प्रकृतेऽपि देहानुवृत्त्युपपत्तेरिति ॥ सिद्धान्तः । ‘‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये’’ इति छान्दोग्यसद्विद्याप्रकरणश्रुतौ विदुषः कर्मविनाशस्य देहपातावाधिविलम्बश्रवणेन फलदानाय प्रवृत्तकर्मणामादेहपातमनुवृत्त्रिलाभात्, कर्मणां नाशे तत्संस्कारस्याप्रमाणिकत्वाच्च, फलदानप्रवृत्तेतरकर्मणामेव ब्रह्मविद्यारंभसमये नाश इति । यावत् न विमाक्ष्येयावेद्दहान्न मुक्तो भवति, तस्य-विदुषः, तावदेव चिरं-ब्रह्मप्राप्तौ तावानेव विलम्बः । अथ-देहमोक्षानन्तरं, संपत्स्ये-ब्रह्म प्राप्नोति इति श्रुत्यर्थः । ‘विमोक्ष्ये’ ‘संपत्स्ये’ इत्युभयत्र पुरुषव्यत्ययश्छन्दसः । अत्रापि यद्विद्यया इत्युक्तेस्तात्पर्यं पूर्ववत् ॥ 132 ॥ इति अनारब्धकार्याधिकरणम् ॥ 9 ॥
सर्वेऽप्याश्रमधर्मा अनिच्छता चापि तत्फलं विदुषा ।
यत्-विद्यार्थं कार्यास्तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 162 ॥
10 ॥ अग्निहोत्राद्यधिकरणम् ॥ 10 ॥ पूर्वाधिकरणे ब्रह्मविद्योत्तरकृतसुकृतकर्मणामश्लेषस्योक्ततया सुकृतफला निच्छायां तस्याननुष्ठेयत्वशङ्कावारणाय प्रवृत्तमिदमधिकरणम् ॥ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ 4-1-16 ॥ [अतोऽन्यापि ह्येकेषामुभयोः ॥ 17 ॥ यदेव विद्ययेति हि ॥ 18 ॥] अत्र तुशब्दः नित्यनैमित्तिकेतरसुकृतकर्मवैलक्षण्यद्योतकः । ततश्च नित्यं नैमित्तिकं च अग्निहोत्रादि आश्रमकर्म, तत्कार्यायैव-विद्योत्पत्तिरूपकार्यार्थमेवानुष्ठेयम्; यज्ञादीनां नित्यनैमित्तिककर्मणां विद्यार्थतायाः श्रुतौ दर्शनात् इति सूत्रार्थः ॥ सर्वेऽप्याश्रमधर्मा अनिच्छता चापि तत्फलं विदुषा । यद्विद्यार्थ कार्यास्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 164 ॥ स्पष्टोऽर्थः ॥ पूर्वपक्षः । पुण्यफलस्य विद्ययाऽश्लेषे अग्निहोत्रादिसुकृतकर्मणास्तत्फलमनिच्छतोनुष्ठानवैयर्थ्यात्तन्नानुष्ठेयमिति ॥ सिद्धान्तः । ‘‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’’ इति श्रुतौ यज्ञाद्याश्रमधर्माणां विद्योत्पत्त्यर्थतया तदङ्गत्वश्रवणेन तत्परित्यागे विद्योत्पत्तिरेव न सिद्ध्येत् । विद्या हि यावज्जीवमहरहरावर्तनीयेति ‘‘स खल्वेवं वर्तयन्यावदायुषं’’ इति श्रुतिसिद्धम् । विद्याया अहरहरावृत्तिश्च विद्योत्पत्तिप्रतिबन्धकनिरासेन विना न संभवति । प्रतिबन्धकनिरासश्च नित्यनैमित्तिककर्मभिरारधितभगवदनुग्रहैकसाध्यः । अतो नित्यनैमित्तिककर्मणां परित्यागे प्रतिबन्धकनिरासासिद्ध्या विद्याया अहरहरावृतिसिद्ध्यसंभवात् अग्निहोत्रादिकं नित्यनैमित्तिकं कर्म तत्फलमनिच्छताऽपि अहरहरनुष्ठेयमेव । नन्वेवं विदुषो नित्यनैमित्तिकसुकृतकर्मणामग्निहोत्रादीनां विद्योत्पादनेन दत्तफलवात् विद्योत्पत्तेः पूर्वकृतानां सुकृतकर्मणां" स्वर्गादिफलभोगेन नष्टत्वात् भुक्ताव शिष्टानां सुकृतानां फलदानाय प्रवृत्तत्वादवशिष्यमाणसुकृतासंभवात् ‘‘तस्य पुत्रादायमुपयन्ति सुहृदस्साधुकृत्यां’’ इति श्रुतेर्विषयो दुर्लभः । ततश्च विद्योत्पत्तेः पूर्व कृतानां पश्चात् बुद्धिपूर्वकृतानां च अदत्तफलानां" पापकर्मणां सत्त्वेन ‘‘द्विषन्तः पापकृत्यां’’ इत्यस्य विषयसंभवेऽपि ‘‘सुहृदस्साधुकृत्यां’’ इति श्रुतेर्निर्विषयत्वमेव स्यात् इति चेत्; उच्यते-विद्योत्पत्तेः पूर्व पश्चाच्च कृतेषु वृष्ट्य न्नादिहेतुभूतेषु पुण्यकर्मस्वनारब्धफलानां प्रबलकर्मप्रतिबद्धफलानां" च केषांचित् संभवेन ‘‘सुहृदस्साधुकृत्यां’’ इत्यादिश्रुतेस्तद्विषयकत्वोपपत्तिः । सूच्यते हि ‘‘यदेव विद्याया करोति तदेव दीर्यवत्तरं" भवति’’ इति उद्गीथविद्याया क्रियमाणस्य कर्मणः प्रबलकर्मभिः प्रतिबन्धाभाववचनेन उद्गीथोपासनरहितकर्मणः प्रबलकर्मभिः फलप्रतिबन्धसंभवः" । यद्यपि ‘‘सहकारित्वेन च’’ इति सूत्रं नित्यनैमित्तिक कर्मणां विद्यार्थत्वेनानुष्ठेयत्वं व्यवस्थापितमेव, तथाऽपि यज्ञादीनां" नित्यनैमित्तिककर्मणां विद्यङ्गत्वे आश्रमाङ्गत्वे जाङ्गीक्रियमाणे नित्यानित्यसंयोगशङ्कापरिहाराय ‘सहकारित्वेन’ इति सूत्रं प्रवृत्तम् । इह तु सुकृतकर्मणां फलाश्लेषाभ्युपगमे फलनिच्छायां नित्यनैमित्तिकसुकृतकर्मणां अनुष्ठेयतानियमो न स्यादिति शङ्कावारणाय ‘‘अग्निहोत्रादि तु’’ इति सूत्रं प्रवृत्तमित्यपौनरुक्त्यं द्रष्टव्यम् । यद्विद्यार्थ कार्या इत्यस्य तात्पर्य पूर्ववत् इति ॥ 133 ॥ इति अग्निहोत्राद्यधिकरणम् ॥ 10 ॥
यदुपासकस्य पुंसः फलदानाय प्रवृत्तकर्माणि ।
नाश्यानि तदुपभोगात् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 163 ॥
11 ॥ इतरक्षपणाधिकरणम् ॥ 11 ॥ अनारब्धकार्ययोः पुण्यपापयोः विद्यया विनाशः पूर्वमुक्तः । आरब्धकार्ययोर्विनाशे विशेषप्रतिपादनाय प्रवृत्तमिदमधिकरणम् ॥ भोगेन त्वितरे क्षपयित्वाऽथ संपद्यते ॥ 4-1-19 ॥ तुशब्दः पक्षव्यावर्तकः । इतरे-फलदानाय प्रवृत्ते पुण्यपापे, भोगेन फलानुभवेन, क्षपयित्वा-विनाश्य, अथ-अनन्तरं, ब्रह्म संबद्यते-ब्रह्म प्राप्नोतीति सूत्रार्थः ॥ यदुपासकस्य पुंसः फलदानाय प्रवृत्तकर्माणि । नाश्यानि तदुपभोगात् तद््ब्रह्म श्रीनिवासनाम भजे ॥ 165 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वचस्य कलाप्रपूर्मस्य श्रीदेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालायां" चतुर्थाध्ययायस्य प्रथमः पादः ॥ स्पष्टोऽर्थः ॥ पूर्वपक्षः । ‘‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये’’ इति श्रुतौ विदुषो ब्रह्मप्राप्तौ देहपातावधि विलम्बश्रवणात् आरब्धफलयोरपि पुण्यपापयोर्विद्यायोनिशरीरावसान एव नाश इति ॥ सिद्धान्तः । फलदानप्रवृत्तयोः पुण्यपापयोः फलानुभवमन्तरा नाशासंभवेन कर्मणां चैकशरीरेणैव फलभोग इति नियमाभावेन येन शरीरेण फलभोगसमाप्तिः तच्छ्रीरावसाने सुकृतदुष्कृतयोर्नाशः । ‘‘तस्य तावदेव चिरं’’ इति श्रुतिरपि कर्मविमोक्षाभिप्रायेति ॥ अस्मिन्पादे ब्रह्मविद्यानिष्ठस्य देहेऽवस्थानदशायां विद्यामाहात्म्यकृतं फलं निरूपितम् । तच्च विद्यारंभात्वूर्वमनादिकालादारभ्य कृतत्वेनानन्तयोः फलदानायाप्रवृत्तयोस्सुकृतदुष्कृतयोः अग्निकणेन तूलराशेरिव निश्शेषविनाशः । विद्यारंभात्परं कृतस्य प्रामादिकस्य दुष्कृतकर्मणः फलाश्लेषः । नष्टस्य तदीयपुण्यराणेः तत्सुहृत्सु संक्रमः, पापराशेः तस्मिन् द्विषत्सु संक्रम इत्येवं रूपं ईदृशी विद्येति विद्यामाहात्म्यं चिन्तितम् । अत्र विदुषः सुकृतदुष्कृतयोर्नाशो नाम ‘अनयोः फलमस्मै न दास्यामि’ इति भगवतस्सङ्कल्पः" । सुहृत्सु दुष्कृत्सु च संक्रमो नाम ‘ब्लह्मविदः पुण्यफलं तसुहृदे, पापफलं तस्मिन् द्वेषवते च दास्यामि’ इति भगवतस्सङ्कल्प इति बोद्ध्यम् ॥ 134 ॥ इति इतरक्षपणाधिकरणम् ॥ 11 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य कलाप्रपूर्णस्य श्रीदेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालाप्रकाशे चतुर्थाध्यायस्य प्रथमः पादः ॥